स्वप्न-वासवदत्तम्

(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः - उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥१॥
एवमार्यमिश्रान् विज्ञापयामि ।
अये ! किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते ।
अङ्ग पश्यामि ॥
(नेपथ्ये) उस्सरह उस्सरह अय्या ! उस्सरह ।
सूत्रधारः - भवतु, विज्ञातम् ।
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥२॥
(निष्क्रान्तः) स्थापना ।
(प्रविश्य)
भटौ - उस्सरह उस्सरह अय्या ! उस्सरह ।
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेशधारिणी वासवदत्ता च) ।
यौगन्धरायणः - (कर्णं दत्वा) कथमिहाप्युत्सार्यते ।
कुतः, धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर् मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥३॥
वासवदत्ता - अय्य ! को एसो उस्सारेदि ।
यौगन्धरायणः - भवति ! यो धर्मादात्मानमुत्सारयति ।
वासवदत्ता - अय्य ! ण हि एव्वं वत्तुकामा, अहं वि णाम उस्सारैदव्वा होमि त्ति ॥
यौगन्धरायणः - भवति ।
एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते ॥
वासवदत्ता - अय्य ! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो ॥
यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्र भवत्या ।
नात्र चिन्ता कार्या ।
कुतः, पूर्वं त्वयाप्यभिमतं गतमेवमासी - च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्त्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥४॥
भटौ - उस्सरह अय्या ! उस्सरह ! (ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः - सम्भषक ! न खलु नखलूत्सारणा कार्या ।
पश्य, परिहरतु भवान् नृपापवादं न परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥५॥
उभौ - अय्य ! तह ! (निष्क्रान्तौ)
यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् ।
वत्से ! उपसर्पावस्तावदेनम् ॥
वासवदत्ता - अय्य ! तह ।
यौगन्धरायणः - (उपसृत्य) भोः ! किङ्कृतेयमुत्सारणा ।
काञ्चुकीयः - भोस्तपस्विन् ! यौगन्धरायणः - (आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः ।
अपरिचयात्तु न श्लिष्यते मे मनसि ।
काञ्चुकीयः - भोः ! श्रूयताम् ।
एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम ।
सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति ।
तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः ।
तद्भवन्तः - तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया नृपसुता नहि धर्मपीडा - मिच्छेत्तपस्विषु कुलव्रतमेतदस्याः ॥६॥
यौगन्धरायणः - (स्वगतम्) एवम् ।
एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।
ततः, प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥७॥
वासवदत्ता - (स्वगतम्) राअदारिअत्ति सुणिअ भैणिआसिनेहो वि मे एत्थ सम्पज्जै ।
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी - एदु एदु भट्टिदारिआ, इदं अस्समपदं, पविसदु ।
(ततः प्रविशत्युपविष्टा तापसी)
तापसी - साअदं राअदारिआए ।
वासवदत्ता - (स्वगतम्) इअं सा राअदारिआ ।
अभिजणाणुरूवं खु से रूवं ।
पद्मावती - अय्ये ! वन्दामि ।
तापसी - चिरं जीव ।
पविस जादे ! पविस ।
तवोवणाणि णाम अदिहिजणस्स सअगेहं ।
पद्मावती - भोदु भोदु ।
अय्ये ! विस्सत्थह्मि ।
इमिणा बहुमाणवअणेण अणुग्गहिदह्मि ।
वासवदत्ता - (स्वगतम्) ण हि रूवं एव्व, वाआ वि खु से महुरा ।
तापसी - भद्दे ! इमं दाव भद्दमुहस्य भैणिअं कोच्चि राआ ण वरेदि ।
चेटी - अत्थि राआ पज्जोदो णाम उज्जैणीए ।
सो दारअस्स कारणादो दूदसम्पादं करेदि ।
वासवदत्ता - (आत्मगतम्) भोदु भोदु ।
एसा अ अत्तणीआ दाणिं संवुत्ता ।
तापसी - अर्हा खु इअं आइदी इमस्स बहुमाणस्स ।
उभआणि राऔलाणि महत्तराणि त्ति सुणीअदि ॥
पद्मावती - अय्य ! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं ।
अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि त्ति ॥
काञ्चुकीयः - यदभिप्रेतं भवत्या ।
भो भो आश्रमवासिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः ।
इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्रयते ।
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया यद्यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥८॥
यौगन्धरायणः - हन्त दृष्ट उपायः ।
(प्रकाशम्) भोः ! अहमर्थी ।
पद्मावती - दिट्ठिआ सहलं मे तवोवणाभिगमणं ।
तापसी - सन्तुठ्ठतपस्सिजणं इदं अस्समपदं ।
आअन्तुएण इमिणा होदव्वं ।
काञ्चुकीयः - भोः ! किं क्रियताम् ।
यौगन्धरायणः - इयं मे स्वसा ।
प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानान् ।
कुतः, कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रै - र्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥९॥
वासवदत्ता - (आत्मगतम्) हं ।
इह मं णिक्खिविदुकामो अय्ययोगन्धरायणो ।
होदु, अविआरिअ कमं ण करिस्सदि ।
काञ्चुकीयः - भवति ! महती खल्वस्य व्यपाश्रयणा ।
कथं प्रतिजानीमः ।
कुतः, सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः ।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥१०॥
पद्मावती - अय्य ! पढमं उग्घोसिअ को किं इच्छदि त्ति अजुत्तं दाणिं वियारिदुं ।
जं एसो भणादि, तं अणुचिठ्ठदु अय्यो ।
काञ्चुकीयः - अनुरूपमेतद् भवत्याभिहितम् ।
चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी ।
तापसी - चिरं जीवदु भद्दे ! ।
काञ्चुकीयः - भवति ! तथा ।
(उपगम्य) भोः ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या ।
यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या ।
वत्से ! उपसर्पात्रभवतीम् ।
वासवदत्ता - (आत्मगतम्) का गई ।
एसा गच्छामि मन्दभाआ ।
पद्मावती - भोदु भोदु ।
अत्तणीआ दाणिं संवुत्ता ।
तापसी - जा ईदिसी से आइदी, इयं वि राअदारिअ त्ति तक्केमि ।
चेटी - सुठ्ठु अय्या भणादि ।
अहं वि अणुहूदसुहत्ति पेक्खामि ।
यौगन्धरायणः - (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य ।
यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति ।
ततः प्रतिष्ठिते स्वामिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति ।
कुतः, पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यै ः प्रथमं प्रदिष्टा ।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या - न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥११॥
(ततः प्रविशति ब्रह्मचारी)
ब्रह्मचारी - (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः ।
दृढमस्मि परिश्रान्तः ।
अथ कस्मिन् प्रदेशे विश्रमिष्ये ।
(परिक्रम्य) भवतु, दृष्टम् ।
अभितस्तपोवनेन भवितव्यम् ।
तथाहि - विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः ।
भूयिष्टं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो निःसन्दिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ॥१२॥
यावत् प्रविशामि ।
(प्रविश्य) अये आश्रमविरुद्धः खल्वेष जनः ।
(अन्यतो विलोक्य) अथवा तपस्विजोऽप्यत्र ।
निर्दोषमुपसर्पणम् ।
अये स्त्रीजनः ।
काञ्चुकीयः - स्वैरं स्वैरं प्रविशतु भवान् ।
सर्वजनसाधारणमाश्रमपदं नाम ।
वासवदत्ता - हम् ।
पद्मावती - अम्मो परपुरुसदंसणं परिहरदि अय्या ।
भोदु, सुपरिवालणीओ खु मण्णासो ।
काञ्चुकीयः - भोः ! पूर्वं प्रविष्टाः स्मः ।
प्रतिगृह्यतामतिथिसत्कारः ।
ब्रह्मचारी - (आचम्य) भवतु भवतु ।
निवृत्तपरिश्रमोऽस्मि ।
यौगन्धरायणः - भोः ! कुत आगम्यते, क्व गन्तव्यम्, क्वाधिष्ठानमार्यस्य ।
ब्रह्मचारी - भोः ! श्रयताम् ।
राजगृहतोऽस्मि ।
श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि ।
वासवदत्ता - (आत्मगतम्) हा लावणअं णाम ।
लावाणअसङ्कित्तणेण पुणो णवीकिदो विअ मे सन्दावो ।
यौगन्धरायणः - अथ परिसमाप्ता विद्या ।
ब्रह्मचारी - न खलु तावत् ।
यौगन्धरायणः - यद्यनवसिता विद्या, किमागमनप्रयोजनम् ।
ब्रह्मचारी - तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।
यौगन्धरायणः - कथमिव ।
ब्रह्मचारी - तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः - श्रूयते तत्रभवानुदयनः ।
किं सः ।
ब्रह्मचारी - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढमभिप्रेता किल ।
यौगन्धरायणः - भवितव्यम् ।
ततस्ततः ।
ब्रह्मचारी - ततस्तस्मिन् मृगयानिष्कान्ते राजनि ग्रामदाहेन सा दग्धा ।
वासवदत्ता - (आत्मगतम्) अलिअं अलिअं खु एदं ।
जीवामि मन्दभाआ ।
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः ।
यौगन्धरायणः - सत्यं पतित इति ! ततस्ततः ।
ब्रह्मचारी - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसन्तापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः ।
वासवदत्ता - (आत्मगतम्) जाणामि जाणामि अय्यौत्तस्स मै साणुक्कोसत्तणं ।
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परिष्वज्य राजा मोहमुपगतः ।
सर्वे - हा ।
वासवदत्ता - (स्वगतम्) सकामो दाणिं अय्यजोअन्धराअणो होदु ।
चेटी - भट्टिदारिए ! रोदिदि खु इअं अय्या ।
पद्मावती - साणुक्कोसाए होदव्वं ।
यौगन्धरायणः - अथ किमथ किम् ।
प्रकृत्या सानुकोशा मे भगिनी ।
ततस्ततः ।
ब्रह्मचारी - ततः शनैः शनैः प्रतिलब्धसञ्ज्ञः संवृत्तः ।
पद्मावती - दिठ्ठिआ धरै ।
मोहं गदो त्ति सुणिअ सुण्णं विअ मे हिअअं ।
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते ! हा अवन्तिराजपुत्रि ! हा प्रिये ! हा प्रियशिष्ये ! इति किमपि किमपि बहु प्रलपितवान् ।
किं बहुना - नैवेदानीं तादृशाश्चक्रवाका नैवाप्यन्ये स्त्रीर्विशेषैर्वियुक्ताः ।
धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धाप्यदग्धा ॥१३॥
यौगन्धरायणः - अथ भोः ! तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवानमात्यः ॥
ब्रह्मचारी - अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम् ।
स हि, अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन् ॥
दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं ।
नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥१४॥
वासवदत्ता - (स्वगतम्) दिठ्ठिआ सुणिक्खित्तो दाणिं अय्यौत्तो ।
यौगन्धरायणः - (आत्मगतम्) अहो महद्भारमुद्वहति रुमण्वान् ।
कुतः - सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥१५॥
(प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा ।
ब्रह्मचारी - तदिदानीं न जाने ।
इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह शयितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् ।
ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृत्तः स ग्रामः ।
ततोऽहमपि निर्गतोऽस्मि ।
तापसी - सो खु गुणवन्तो णाम राआ, जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि ।
चेटी - भट्टिदारिए ! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि ।
पद्मावती - (आत्मगतम्) मम हिअएण एव्व सह मन्तिदं ।
ब्रह्मचारी - आपृच्छामि भवन्तौ ।
गच्छामस्तावत् ।
उभौ - गम्यतामर्थसिद्धये ।
ब्रह्मचारी - तथास्तु ।
(निष्क्रान्तः)
यौगन्धरायणः - साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि ।
काञ्चुकीयः - तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल ।
पद्मावती - अय्यस्स भैणिआ अय्येण विना उक्कण्ठिस्सदि ।
यौगन्धरायणः - साधुजनहस्तगतैषा नोत्कण्ठिष्यति ।
(काञ्चुकीयमवलोक्य) गच्छामस्तावत् ।
काञ्चुकीयः - गच्छतु भवान् पुनर्दर्शनाय ।
यौगन्धरायणः - तथास्तु ।
(निष्क्रान्तः)
काञ्चुकीयः - समय इदानीमभ्यन्तरं प्रवेष्टुम् ।
पद्मावती - अय्ये ! वन्दामि ।
तापसी - जादे ! तव सदिसं भत्तारं लभेहि ।
वासवदत्ता - अय्ये ! वन्दामि दाव अहं ।
तापसी - तुवं पि ऐरेण भत्तारं समासादेहि ।
वासवदत्ता - अणुग्गहीदह्मि ।
काञ्चुकीयः - तदागम्यताप् ।
इत इतो भवति ! ।
सम्प्रति हि - खगा वासोपेताः सलिलमवगाढो मुनिजनः प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् ।
परिभ्रष्टो दूराद् रविरपि च सङ्क्षिप्तकिरणो रथं व्यावर्त्यासौ प्रविशति शनैरस्तशिखरम् ॥१६॥
(निष्क्रान्ताः सर्वे)
(ततः प्रविशति चेटी)
चेटी - कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ पदुमा वदी ।
किं भणासि, एसा भट्टिदारिआ माहवीलदामण्डवस्स पस्सदो कन्दुएण कीलदित्ति ।
जाव भट्टिदारिअं उवसप्पामि ।
(परिक्रम्यावलोक्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूलिएण वाआमसञ्जादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणी अदंसणेण मुहेण कन्दुएण कीलन्दी इदो एव्व आअच्छदि ।
जाव उवसप्पिस्सं ।
(निष्क्रान्ता) प्रवेशकः ।

  • (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह)
    वासवदत्ता - हला ! एसो दे कन्दुओ ।
    पद्मावती - अय्ये ! भोदु दाणिं एत्तअं ।
    वासवदत्ता - हला ! अदिचि कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता ।
    चेटी - कीलदु कीलदु दाव भट्टिदारिआ ।
    णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ कालो ।
    पद्मावती - अय्ये ! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि ।
    वासवदत्ता - णहि णहि ।
    हला ! अधिअं अज्ज सोहदि ।
    अभिदो विअ दे अज्ज वरमुहं पेक्खामि ।
    पद्मावती - अवेहि ।
    मा दाणिं मं ओहस ।
    वासवदत्ता - एसह्मि तुह्णीआ भभिस्सम्महासेणवहू ! ।
    पद्मावती - को एसो महासेणो णाम ।
    वासवदत्ता - अत्थि उज्जणीओ राआ पज्जोदो णाम ।
    तस्स बलपरिमाणणिव्वुत्तं णामहेअं महासेणो त्ति ।
    चेटी - भट्टिदारिआ तेण रञ्ञा सह सम्बन्धं णेच्छदि ।
    वासवदत्ता - अह केण खु दाणिं अभिलसदि ।
    चेटी - अत्थि वच्छराओ उअअणो णाम ।
    तस्स गुणाणि भट्टिदारिआ अभिलसदि ।
    वासवदत्ता - (आत्मगतम्) अय्यौत्तं भत्तारं अभिलसदि ।
    (प्रकाशम्) केण कारणेण ।
    चेटी - साणुक्कोसो त्ति ।
    वासवदत्ता - (आत्मगतम्) जाणामि जाणामि ।
    अअं वि जणो एव्वं उम्मादिदो ।
    चेटी - भट्टिदारिए ! जदि सो राआ विरूवो भवे ।
    वासवदत्ता - णहि णहि ।
    दंसणीओ एव्व ।
    पद्मावती - अय्ये ! कहं तुवं जाणासि ।
    वासवदत्ता - (आत्मगतम्) अय्यौत्तपक्खबादेण अदिक्कन्दो समुदाआरो ।
    किं दाणिं करिस्सं ।
    होदु, दिट्ठं ।
    (प्रकाशम्) हला ! एव्वं उज्जैणीओ जणो मन्तेदि ।
    पद्मावती - जुज्जै ।णखु एसो उज्जैणीदुल्लहो ।
    सव्वजणमणोभिरामं खु सोभग्गं णाम ।
    (ततः प्रविशति धात्री)
    धात्री - जेदु भट्टिदारिआ ।
    भट्टिदारिए ! दिण्णासि ।
    वासवदत्ता - अय्ये ! कस्स ।
    धात्री - वच्छराअस्स उदअनस्स ।
    वासवदत्ता - अह कुसली सो राआ ।
    धात्री - कुसली सो आअदो ।
    तस्स भट्टिदारिआ पडिच्छिदा अ ।
    वासवदत्ता - अच्चाहिदं ।
    धात्री - किं एत्थ अच्चाहिदं ।
    वासवदत्ता - ण हु किञ्चि ।
    तह णाम सन्तप्पिअ उदासीणो होदि त्ति ॥
    धात्री - अय्ये ! आअमप्पहाणाणि सुलहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति ।
    वासवदत्ता - अय्ये ! सअं एव्व तेण वरिदा ।
    धात्री - णहि णहि ।
    अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरूवं पेक्खिअ सअं एव्व महाराएण दिण्णा ।
    वासवदत्ता - (आत्मगतम्) एव्वं अणवरद्धो दाणिं एत्थ अय्यौत्तो ।
    (प्रविश्यापरा)
    चेटी - तुवरदु तुवरदु दाव अय्या ।
    अज्ज एव्व किल सोभणं णक्खत्तं ।
    अज्ज एव्व कोदुअमङ्गलं कादव्वं त्ति अह्माणं भट्टिणी भणादि ।
    वासवदत्ता - (आत्मगतम्) जह जह तुरवदि, तह तह अन्धीकरेदि मे हिअअं ।
    धात्री - एदु एदु भट्टिदारिआ ।
    (निष्क्रान्ताः सर्वे)
    (ततः प्रविशति विचिन्तयन्ती वासवदत्ता)
    वासवदत्ता - विवाहामोदसङ्कुले अन्तेउरचौस्साले परित्तजिअ पदुमावदिं इह आअदह्मि पमदवणं ।
    जाव दाणिं भाअधेअणिव्वुत्तं दुःखं विणोदेमि ।
    (परिक्रम्य) अहो अच्चाहिदं ।
    अय्यौत्तो वि णाम परकेरओ संवुत्तो ।
    जाव उवविसामि ।
    (उपविश्य) धञ्ञा खु चक्कवाअवहू, जा अण्णोण्णविरहिदा ण जीवै ।
    ण खु अहं पाणाणि परित्तजामि ।
    अय्यौत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ ।
    (ततः प्रविशति पुष्पाणि गृहीत्वा चेटी)
    चेटी - कहिण्णुखु गदा अय्या आवन्तिआ ।
    परिक्रम्यावलोक्य) अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचन्दलेहा विअ अमण्डिदमद्दअं वेसं धारअन्दी पिअङ्गुलिलापट्टए उवविट्ठा ।
    जाव उपसप्पामि ।
    (उपसृत्य) अय्ये ! आवन्तिए ! को कालो, तुमं अण्णेसामि ।
    वासवदत्ता - किण्णिमित्तं ।
    चेटी - अह्माअं भट्टिणी भणादि - महाकुलप्पसूदा सिणिद्धा णिउणा त्ति ।
    इमं दाव कोदुअमालिअं गुह्मदु अय्या ।
    वासवदत्ता - अह कस्स किल गुह्मिदव्वं ।
    चेटी - अह्माअं भट्टिदारिआए ।
    वासवदत्ता - (आत्मगतम्) एदं पि मए कत्तच्वं आसी ।
    अहो अकरुणा खु इस्सरा ।
    चेटी - अय्ये ! मा दाणिं अञ्ञं चिन्तिअ ।
    एसो जामादुओ मणिभूमीए ह्णाअदि ।
    सिग्घं दाव गुह्मदु अय्या ।
    वासवदत्ता - (आत्मगतम्) ण सक्कुणोमि अण्णं चिन्तेदुं ।
    (प्रकाशम्) हला ! किं दिठ्ठो जामादुओ ।
    चेटी - आम, दिठ्ठो भट्टिदारिआए सिगं हेण अह्माअं कोदूहलेण अ ।
    वासवदत्ता - कीदिसो जामादुओ ।
    चेटी - अय्ये ! भणामि दाव, ण ईरिसो दिट्टपुरुवो ।
    वासवदत्ता - हला ! भणाहि भणाहि, किं दंसणीओ ।
    चेटी - सक्कं भणिदुं सरचावहीणो कामदेवो त्ति ।
    वासवदत्ता - होदु एत्तअं ।
    चेटी - किण्णिमित्तं वारेसि ।
    वासवदत्ता - अजुत्तं परपुरुससङ्कित्तणं सोदुं ।
    चेटी - तेण हि गुह्मदु अय्या सिग्घं ।
    वासवदत्ता - इअं गुह्मामि ।
    आणेहि दाव ।
    चेटी - गह्णदु अय्या ।
    वासवदत्ता - (वर्जयित्वा विलोक्य) इमं दाव ओसहं किं णाम ।
    चेटी - अविहवाकरणं णाम ।
    वासवदत्ता - (आत्मगतम्) इदं बहुसो गुह्मिदव्वं मम अ पदुमावदीए अ ।
    (प्रकाशम्) इमं दाव ओसहं किं णाम ।
    चेटी - सवत्तिमद्दणं णाम ।
    वासवदत्ता - इदं ण गुह्मिदव्वं ।
    चेटी - कीस ।
    वासवदत्ता - उवरदा तस्स भय्या, तं णिप्पओअणं त्ति ।
    (प्रविश्यापरा)
    चेटी - तुवरदु तुवरदु अय्या ।
    एसो जामादुओ अविहवाहि अब्भन्तरचौस्सालं पवेसीअदि ।
    वासवदत्ता - ऐ ! वदामि, गह्ण एदं ।
    चेटी - सोहणं ।
    अय्ये ! गच्छामि दाव अहं ।
    (उभे निष्क्रान्ते)
    वासवदत्ता - गदा एसा ।
    अहो अच्चाहिदं ।
    अय्यौत्तो वि णाम परकेरओ संवुत्तो ।
    अविदा सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं लभामि ।
    (निष्क्रान्ता)
    (ततः प्रविशति विदूषकः)
    विदूषकः - (सहर्षम्) भो ! दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलरमणिज्जो कालो दिट्ठो ।
    भो ! को णाम एदं जाणादि - तादिसे वयं अण्त्थसलिलावत्ते पक्खित्ता उण उम्मज्जिस्सामो त्ति ।
    इदाणिं पासादेसु वसीअदि, अन्देउरदिग्घिआसु ह्णाईअदि, पकिदिमौरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि ।
    एक्को खु महन्तो दोसो, मम आहारो सुट्ठ ण परिणमदि ।
    सुप्पच्छदणाए सय्याए णिद्दं ण लभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि ।
    भो ! सुहं णामअपरिभूदं अकलवत्तं च ।
    (ततः प्रविशति चेटी)
    चेटी - कहिण्णुखु गदो अय्यवसन्तओ ।
    (परिक्रम्यावलोक्य) अह्मो एसो अय्यवसन्तओ ।
    (उपगम्य) अय्य ! वसन्तअ ! को कालो, तुमं अण्णेसामि ।
    विदूषकः - (दृष्ट्वा) किण्णिमित्तं भद्दे ! मं अण्णेससि ।
    चेटी - अह्माणं भट्टिणी भणादि - अवि ह्णादो जामादुओ त्ति ।
    विदूषकः - किण्णिमित्तं भोदि ! पुच्छदि ?
    चेटी - किमण्णं ।
    सुमणवण्णअं आणेमि त्ति ।
    विदूषकः - ह्णादो तत्तभवं ।
    सव्व आणेदु भोदी वज्जिअ भोअणं ।
    चेटी - किण्णिमित्तं वारेसि भोअणं ?
    विदूषकः - अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुतो ।
    चेटी - ईदिसो एव्व होहि ।
    विदूषकः - गच्छदु भोदी ।
    जाव अहं वि तत्तहोदो सआसं गच्छामि ॥
    (निष्क्रान्तौ) प्रवेशकः ।
    स्वप्नवासवदत्ते ।
    (ततः प्रविशति सपरिवारा पद्मावती आवन्तिकावेषधारिणी वासवदत्ता च)
    चेटी - किण्णिमित्तं भट्टिदारिआ पमदवणं आअदा ?
    पद्मावती - हला ! ताणि दाव सेहालिआगुह्मआणि पेक्खामि कुसुमिदाणि वा ण वेत्ति ॥
    चेटी - भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवालन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं ।
    पद्मावती - हला ! जदि एव्वं, किं दाणिं विलम्बेसि ?
    चेटी - तेण हि इमस्सिं सिलावट्टए मुहुत्तअं उपविसदु भट्टिदारिआ ।
    जाव अहं वि कुसुमावचअं करेमि ।
    पद्मावती - अय्ये ! किं एत्थ उपविसामो ?
    वासवदत्ता - एव्वं होदु ।
    (उभे उपविशतः)
    चेटी - (तथा कृत्वा) पेक्खदु पेक्खदु भट्टिदारिआ अद्धमणसिलावट्टएहिं विअ सेहालिआकुसुमेहि पूरिअं मे अज्जलिं ।
    पद्मावती - (दृष्ट्वा) अहो विइत्तदा कुसुमाणं ।
    पेक्खदु पेक्खदु अय्या ।
    वासवदत्ता - अहो दस्सणीअदा कुसुमाणं ।
    चेटी - भट्टिदारिए ! किं भूयो अवैणुस्सं ।
    पद्मावती - हला ! मा मा भूयो अवैणिअ ।
    वासवदत्ता - हला ! किण्णिमित्तं वारेसि ।
    पद्मावती - अय्यौत्तो इह आअच्छिअ इमं कुसुमसमिद्धिं पेक्खिअ सम्माणिदा भवेअं ।
    वासवदत्ता - हला ! पिओ दे भत्ता ।
    पद्मावती - अय्ये ! ण आणामि, अय्यौत्तेण विरहिदा उक्कण्ठिदो होमि ।
    वासवदत्ता - (आत्मगतम्) दुक्खरं खु अहं करमि, इअं वि णाम एव्वं मन्तेदि ।
    चेटी - अभिजादं खु भट्टिदारिआए मन्तिदं - पिओ मे भत्तत्ति ।
    पद्मावती - एक्को खु मे सन्देहो ।
    वासवदत्ता - किं किं ।
    पद्मावती - जह मम अय्यौत्तो, तह एव्व अय्याए वासवदत्ताए त्ति ।
    वासवदत्ता - अदो वि अहिअं ।
    पद्मावती - कहं तुवं जाणासि ?
    वासवदत्ता - (आत्मगतम्) हं, अय्यौत्तपक्खवादेण अदिक्कन्दो समुदाआरो ।
    एव्वं दाव भणिस्सं ।
    (प्रकाशम्) जै अप्पो सिणेहो, सा सजणं ण परित्तजदि ।
    पद्मावती - होदव्वं ।
    चेटी - भट्टिदारिए ! साहु भट्टारं भणाहि - अहं पि वीणं सिक्खिस्सामि त्ति ।
    पद्मावती - उत्तो मए अय्यौत्तो ।
    वासवदत्ता - तदो किं भणिदं ।
    पद्मावती - अभणिअ किञ्चि दिग्घं णिस्ससिअ तुह्णीओ संवुत्तो ।
    वासवदत्ता - तदो तुवं किं विअ तक्केसि ।
    पद्मावती - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति ।
    वासवदत्ता - (आत्मगतम्) धञ्ञा खु हि, जदि एव्वं सच्चं भवे ।
    (ततः प्रविशति राजा विदूषकश्च)
    विदूषकः - ही ही ।
    पचिअपडिअबन्धुजीवकुसुमविरलवादरमणिज्जं पमदवनं ।
    इदो दाव भवं ।
    राजा - वयस्य ! वसन्तक ! अयमयमागच्छामि ।
    कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः ।
    तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पच्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥१॥
    विदूषकः - कहिं णु खु गदा तत्तहोदी पदुमावदी, लदामण्डवं गदा भवे, उदाहो असणकुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिलअं णाम सिलापट्टअं गदा भवे, आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव आलिहिदमिअपक्खिसङ्कुलं दारुपव्वदअं गदा भवे ।
    (ऊर्ध्वमालोक्य) ही ही सरअकालणिम्मले अन्तरिक्खे पसादिअबलदेवबाहुदंसणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं ।
    राजा - वयस्य ! पश्याम्येनाम् ।
    राजा - वयस्य ! पश्याम्येनाम्, ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
    निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥२॥
    चेटी - पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमालापण्डररमणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं ।
    अम्मो भट्टा ।
    पद्मावती - हे अय्यौत्तो ।
    अय्ये ! तव कारणादो अय्यौत्तदंसणं परिहरामि ।
    वा इमं दाव माहवीलदामण्वं पविसामो ।
    वासवदत्ता - एव्वं होदु ।
    (तथा कुर्वन्ति)
    विदूषकः - तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे ।
    राजा - कथं भवान् जानाति ।
    विदूषकः - इमाणि अवैदकुसुमाणि सेफालिआगुच्छआणि पेक्खदु दाव भवं ।
    राजा - अहो विचित्रता कुसुमस्य वसन्तक ! ।
    वासवदत्ता - (आत्मगतम्) वसन्तअसङ्कित्तणेण अहं पुण जाणामि उज्जैणीए वत्ताम त्ति ।
    राजा - वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे ।
    विदूषकः - भो ! तह ।
    (उपविश्योत्थाय) ही ही सरअकालतिक्खो दुस्सहो आदवो ।
    ता इमं दाव माहवीमण्डवं पविसामो ।
    राजा - बाढम् ।
    गच्छाग्रतः ।
    विदूषकः - एव्वं होदु ।
    (उभौ परिक्रामतः)
    पद्मावती - सव्वं आउलं कत्तुकामो अय्यवसन्तओ ।
    किं दाणिं करेह्म ।
    चेटी - भट्टिदारिए ! एदं महुअरपरिणिलीणं ओलम्बलदं ओधूय भट्टारं वारैस्सं ।
    पद्मावती - एव्वं करेहि ।
    (चेटी तथा करोति)
    विदूषकः - अविहा अविहा, चिट्ठदु चिट्ठदु दाव भवं ।
    राजा - किमर्थम् ।
    विदूषकः - दासीएपुत्तेहि महुअरेहि पीडिदो ह्मि ।
    राजा - मा मा भवानेवम् ।
    मधुकरसन्त्रासः परिहार्थः ।
    पश्य, मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगृढाः ।
    पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥३॥
    तस्मादिहैवावसिष्यावहे ।
    विदूषकः - एव्वं होदु ।
    (उभावुपविशतः)
    चेटी - भट्टिदारिए ! रुद्धा खु ह्म वयं ।
    पद्मावती - दिट्ठिआ उवविट्ठो अय्यौत्तो ॥
    वासवदत्ता - (आत्मगतम्) दिट्ठिआ पकिदित्थसरीरा अय्यौत्तो ।
    चेटी - भट्टिदारिए ! सस्सुपादा खु अय्याए दिठ्ठी ।
    वासवदत्ता - एसा खु महुअराणं अविणआदो कासकुसुमरणुणा पडिदेण सोदआ मे दिठ्ठी ।
    पद्मावती - जुज्जै ।
    विदूषकः - भो ! सुण्णं खु इदं पमदवणं ।
    पुच्छिदव्वं किञ्चि अत्थि ।
    पुच्छामि भवन्तं ।
    राजा - छन्दतः ।
    विदूषकः - का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पदुमावदी वा ।
    राजा - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति ।
    पद्मावती - हला ! जादिसे सङ्कडे निक्खित्तो अय्यौत्तो ।
    वासवदत्ता - (आत्मगतम्)अहं अ मन्दभाआ ।
    विदूषकः - सेरं सेरं भणादु भवं ।
    एक्का उवरदा, अवरा असण्णिहिदा ।
    राजा - वयस्य ! न खलु न खलु ब्रूयाम् ।
    भवांस्तु मुखरः ।
    पद्मावती - एत्तएण भणिदं अय्यौत्तेण ।
    विदूषकः - भो ! सच्चेण सवामि, तस्स वि ण आचक्खिस्सं ।
    एसा सन्दठ्ठा मे जीहा ।
    राजा - नोत्सहे सखे ! वक्तुम् ।
    पद्मावती - अहो इमस्स पुरोभा दा ।
    एत्तिएण हिअअं ण जाणादि ।
    विदूषकः - किं ण भणादि मम ।
    अणाचक्खिअ इमादो सिलावट्टआदो ण सक्कं एक्कपदं वि गमिदुं ।
    एसो रुद्धो अत्तभवं ।
    राजा - किं बलात्कारेण ।
    विदूषकः - आम, बलक्कारेण ।
    राजा - तेन हि पश्यामस्तावत् ।
    विदूषकः - पसीददु पसीददु भवं ।
    वअस्सभावेण साविदो सि, जै सच्चं ण भणासि ।
    राजा - का गतिः ।
    श्रूयताम् ।
    पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः ।
    वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥४॥
    वासवदत्ता - (आत्मगतम्) भोदु भोदु ।
    दिण्णं वेदणं इमस्स परिखेदस्स ।
    अहो अञ्ञादवासं पि एत्थ बहुगुणं सम्पज्जै ।
    चेटी - भट्टिदारिए ! अदक्खिञ्जो खु भट्टा ।
    पद्मावती - हला ।
    मा मा एव्वं ।
    सदख्खिञ्जो एव्व अय्यौत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि ।
    वासवदत्ता - भद्दे ! अभिजणस्स सदिसं मन्तिदं ।
    राजा - उक्तं मया ।
    भवानिदानीं कथयतु ।
    का भवतः प्रिया तदा वासवदत्ता, इदानीं पद्मावती वा ।
    पद्मावती - अय्यौत्तो पि वसन्तओ संवुत्तो ।
    विदूषकः - किं मे विप्पलविदेण ।
    उभओ वि तत्तहोदीओ मे बहुमदाओ ।
    राजा - वैधेय ।
    मामेवं बलाच्छुत्वा किमिदानीं नाभिभाषसे ।
    विदूषकः - किं मं पि बलक्कारेण ।
    राजा - अथकिं, बलात्कारेण ।
    विदूषकः - तेण हि ण सक्कं सोदुं ।
    राजा - प्रसीदतु प्रसीदतु महाब्राह्मणः ।
    स्वैरं स्वैरमभिधीयताम् ।
    विदूषकः - इदाणिं सुणादु भवं ।
    तत्तहोदी वासवदत्ता मे बहुमदा ।
    तत्तहोदी पदुमावदी तरुणी दस्सणीआ अकोवणा अणहङ्कारा महुरवाआ सदक्खिञ्ञा ।
    अअं च अवरो महन्तो गुणो, सिणिद्धेण भोअणेण मं पच्चुग्गच्छै वासवदत्ता - कहिं णु खु गदो अय्यवसन्तओ त्ति ।
    वासवदत्ता - भोदु भोदु, वसन्तअ ! सुमरेहि दाणिं एदं ।
    राजा - भवतु भवतु वसन्तक ! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै ।
    विदूषकः - अविहा वासवदत्ता ।
    कहिं वासवदत्ता ।
    चिरा खु उवरदा वासवदत्ता ।
    राजा - (सविषादम्) एवम् ।
    उपरता वासवदत्ता ।
    अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया ।
    ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥५॥
    पद्मावती - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ ।
    वासवदत्ता - (आत्मगतम्) भोदु भोदु, विस्सत्थह्मि ।
    अहो पिअं णाम, ईदिसं वअणं अप्पच्चक्खं सुणीअदि ।
    विदूषकः - धारेदु धारेदु भवं ।
    अणदिक्कमणीओ हि विही ।
    ईदिसं दाणि एदं ।
    राजा - वयस्य ! न जानाति भवानवस्थाम् ।
    कुतः, दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
    यात्रा त्वेषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥६॥
    विदूषकः - अस्सुपादकिलिण्णं खु तत्तहोदो मुहं ।
    जाव मुहोदअं आणेमि ।
    (निष्क्रान्तः)
    पद्मावती - अय्ये ! बप्फाउलपडन्तरिदं अय्यौत्तस्स मुहं ।
    जाव णिक्ककह्म ।
    वासवदत्ता - एव्वं होदु ।
    अहव चिठ्ठ तुवं ।
    उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं ।
    अहं एव्व गमिस्सं ।
    चेटी - सुट्ठु अय्या भणादि ।
    उवसप्पदु दाव भट्टिदारिआ ।
    पद्मावती - किण्णुखु पविसामि ।
    वासवदत्ता - हला ! पविस ।
    (इत्युक्त्वा निष्क्रान्ता)
    (प्रविश्य)
    विदूषकः - (नलिणीपत्रेण जलं गृहीत्वा) एसा तत्तहोदी पदुमावदी ।
    पद्मावती - अय्य ! वसन्तअ ! किं एदं ।
    विदूषकः - एदं इदं ।
    इदं एदं ।
    पद्मावती - भणादु भणादु अय्यो भणादु ।
    विदूषकः - भोदि ! वादणीदेण कासकुसुमरेणुण अक्खिणिपडिदेण सस्सुपादं खु तत्तहोदो मुहं ।
    ता गरह्णादु होद्ॐ इदं मुहोदअं ।
    पद्मावती - (आत्मगतम्) अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्व होदि ।
    (उपेत्य) जेदु अय्यौत्तो ।
    इदं मुहोदअं ।
    राजा - अये पद्मावती ।
    (अपवार्य) वसन्तक ! किमिदम् ।
    विदूषकः - (कर्णे) एव्वं विअ ।
    राजा - साधु वसन्तक ! साधु ।
    (आचम्य) पद्मावति ! आस्यताम् ।
    पद्मावती - जं अय्यौत्तो आणवेदि ।
    (उपविशति)
    राजा - पद्मावति ! शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! ।
    काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥७॥
    (आत्मगतम्) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
    कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥८॥
    विदूषकः - उइदं तत्तहोदो मअधराअस्स अवरह्णकाले भवन्तं अग्गदो करिअ सुहिज्जणदंसणं ।
    सक्कारो हि णाम सक्कारेण पडिच्छिदो पीदिं उप्पादेदि ।
    ता उट्टेदु दाव भवं ।
    राजा - बाढम् ।
    प्रथमः कल्पः ।
    (उत्थाय) गुणानां वा विशालानं सत्काराणां च नित्यशः ।
    कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥९॥
    (निष्क्रान्ताः सर्वे)
    (ततः प्रविशति पद्मिनिका)
    पद्मिनिका - महुआरिए ! महुआरिए ! आअछ्ह दाव सिग्घं ।
    (प्रविश्य)
    मधुकरिका - हला ! इअह्मि ।
    किं करीअदु ।
    पद्मिनिका - हला ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति ।
    मधुकरिका - हद्धि ।
    पद्मिनिका - हला ! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि ।
    केवलं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि ।
    तदो सअं एव्व आगमिस्सदि ।
    मधुकरिका - हला ! किं सा करिस्सदि ।
    पद्मिनिका - सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि ।
    मधुकरिका - जुज्जै ।
    कहिं सअणीयं रैदं भट्टिदारिआए ।
    पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा ।
    गच्छ दाणि तुवं ।
    अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि ।
    मधुकरिका - एव्वं होदु ।
    (निष्क्रान्ता)
    पद्मिनिका - कहिं दाणिं अय्यवसन्तअं पेक्खामि ।
    (ततः प्रविशति विदूषकः)
    विदूषकः - अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदी वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्सअच्चन्तसुहावहे मङ्गलोसवे मदणग्गिदाहो अहिअदरं वड्ढै ।
    (पद्मिनिकां विलोक्य) अयि पदुमिणिआ ।
    पदुमिणिए ! कि इह वत्तदि ।
    पद्मिनिका - अय्य ! वसन्तअ ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति ।
    विदूषकः - भोदि ! सच्चं, ण जाणामि ।
    पद्मिनिका - तेण हि भट्टिणो णिवेदेहि णं ।
    जाव अहं वि सीसाणुलेवणं तुवारेमि ।
    विदूषकः - कहि सअणीअं रैदं पदुमावदीए ।
    पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा ।
    विदूषकः - गच्छदु भोदी ।
    जाव अहं वि तत्तहोदो णिवेदैस्से ।
    (निष्क्रान्तौ) (प्रवेशकः)
    (ततः प्रविशति राजा)
    राजा - श्लाघ्यामवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनरागतदारभारः ।
    लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहतामिव चिन्तयामि ॥१॥
    (प्रविश्य)
    विदूषकः - तुवरदु तुवरदु दाव भवं ।
    राजा - किमर्थम् ।
    विदूषकः - तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा ।
    राजा - कैवमाह ।
    विदूषकः - पदुमिनिआए कहिदं ।
    राजा - भोः ! कष्टं, रूपश्रिया समुदितां गुणतश्च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः ।
    पूर्वामिघातसरुजोऽप्यनुभूतदुःखः पद्मावतीमपि तथैव समर्थयामि ॥२॥
    अथ कस्मिन् प्रदेशे वर्तते पद्मावती ।
    विदूषकः - समुद्दगिहके किल सेज्जात्थिण्णा ।
    राजा - तेन हि तस्य मार्गमादेशय ।
    विदूषकः - एदु एदु भवं ।
    (उभौ पारक्रामतः)
    विदूषकः - इदं समुद्दगिहकं ।
    पविसदु भवं ।
    राजा - पूर्वं प्रविश ।
    विदूषकः - भो ! तह ।
    (प्रविश्य) अविहा चिट्ठदु चिट्ठदु दाव भवं ।
    राजा - किमर्थम् ।
    विदूषकः - एसो खु दीवप्पभाविसूइदरूवो वसुधातले परिवत्तमाणो, अअं काओदरो ।
    राजा - (प्रविश्यावलोक्य सस्मितम्, अहो सर्पव्यक्तिर्वैधेयस्य) ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख ! सर्पम् ।
    मन्दानिलेन निशि या परिवर्तमाना किञ्चित् करोति भुजगस्य निचेष्टितानि ॥३॥
    विदूषकः - (निरूप्य) सुट्ठु भवं भणादि ।
    ण हु अअं काओअरो ।
    (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे ।
    राजा - वयस्य ! अनागतया भवितव्यम् ।
    विदूषकः - कहं भवं जाणादि ।
    राजा - किमत्र ज्ञेयम् ।
    पश्य, शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि शिरोपधानममलं शीर्षाभिघातौषधैः ।
    रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥४॥
    विदूषकः - तेण हि इमस्सिं सय्याए मुहुत्तअं उवविसिअ तत्तहोदिं पडिवालेदु भवं ।
    राजा - बाढम् ।
    (उपविश्य) वयस्य ! निद्रा मां बाधते ।
    कथ्यतां काचित् कथा ।
    विदूषकः - अहं कहैस्सं ।
    ह्ॐ त्ति करेदु अत्तभवं ।
    राजा - बाढम् ।
    विदूषकः - अत्थि णअरी उज्जैणी णाम ।
    तहिं अहिअरमणीआणि उदअह्णाणाणि वत्तन्ति किल ।
    राजा - कथमुज्जयिनी नाम ।
    विदूषकः - जै अणभिप्पेदा एसा कहा, अण्णं कहैस्सं ।
    राजा - वयस्य ! न खलु नाभिप्रेतैषा कथा ।
    किन्तु - स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः ।
    बाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहान्ममैवोरसि पातयन्त्याः ॥५॥
    अपिच - बहुशोऽप्युपदेशेषु यया मामीक्षमाणया ।
    हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥६॥
    विदूषकः - भोदु, अण्णं कहैस्सं ।
    अत्थि णअरं बह्मदत्तं णाम ।
    तहिं किल राआ कम्पिल्लो णाम ।
    राजा - किमिति किमिति ।
    विदूषकः - (पुनस्तदेव पठति)
    राजा - मूर्ख ! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम् ।
    विदूषकः - कि राआ बह्मदतो, णअरं कम्पिल्लं ।
    राजा - एवमेतत् ।
    विदूषकः - तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओठ्ठगअं करिस्सं ।
    राआ बह्मदत्तो, णअरं कम्पिल्लं ।
    (इति बहुशस्तदेव पठित्वा) इदाणिं सुणोदु भवं ।
    अयि सुत्तो अत्तभवं ।
    अदिसीदला इअं वेला ।
    अत्तणो पावरअं गह्णिअ आअमिस्सं ।
    (निष्क्रान्तः)
    (ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च)
    चेटी - एदु एदु अय्या ।
    दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा ।
    वासवदत्ता - हद्धि, कहिं सअणीअं रैदं पदुमावदीए ।
    चेटी - समुद्दगिहके किल सेज्जात्थिण्णा ।
    वासवदत्ता - तेण हि अग्गदो याहि ।
    (उभे परिक्रामतः)
    चेटी - इदं समुद्दगिहिकं ।
    पविसदु अय्या ।
    जाव अहं वि सीसाणुलेवणं तुवारेमि ।
    (निष्क्रान्ता)
    वासवदत्ता - अहो अकरुणा खु इस्सरा मे ।
    विरहपय्युस्सुअस्स अय्यौत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा ।
    जाव पविसामि ।
    (प्रविश्यावलोक्य) अहो परिजणस्स पमादो ।
    अस्सत्थं पदुमावदिं केवलं दीवसहाअं करिअ परित्तजदि ।
    इअं पदुमावदी ओसुत्ता ।
    जाव उवविसामि ।
    अहवा अञ्ञासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि ।
    ता इमस्सिं सय्याए उवविसामि ।
    (उपविश्य) किं णु हु एदाए सह उवविसन्तीए अज्ज पहलादिदं विअ मे हिअअं ।
    दिट्ठिआ अविच्छिण्णसुहणिस्सासा ।
    णिव्वुतरोआए होदव्वं ।
    अहव एअदेससंविभाअदाए सअणीअस्स सूएदि मं आलिङ्गेहिति ।
    जाव सैस्सं ।
    (शयनं नाटयति)
    राजा - (स्वप्नायते) हा वासवदत्ते !।
    वासवदत्ता - (सहसोत्थाय) हं अय्यौत्तो, ण हु पदुमाबदी ।
    किं णु खु दिठ्ठह्मि ।
    महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिप्फलो संवुत्तो ।
    राजा - हा अवन्तिराजपुत्रि !।
    वासवदत्ता - दिट्ठिआ सिविणाअदि खु अय्यौत्तो ।
    ण एत्थ कोच्चि जणो ।
    जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं च तोसेमि ।
    राजा - हा प्रिये ! हा प्रियशिष्ये ! देहि मे प्रतिवचनम् ।
    वासवदत्ता - आलवामि भट्टा ! आलवामि ।
    राजा - किं कुपितासि ।
    वासवदत्ता - णहि ण हि, दुक्खिदह्मि ।
    राजा - यद्य कुपिता, किमर्थं नालङ्कृतासि ।
    वासवदत्ता - इदो वरं किं ।
    राजा - किं विरचिकां स्मरसि ।
    वासवदत्ता - (सरोषम्) आ अवेहि, इहावि विरचिआ ।
    राजा - तेन हि विरचिकार्थं भवतीं प्रसादयामि ।
    (हस्तौ प्रसारयति)
    वासवदत्ता - चिरं ठिदह्मि ।
    को वि मं पेक्खे ।
    ता गमिस्सं ।
    अहव, सय्यापलम्बिअं अय्यौत्तस्स हत्थं सअणीए आरोविअ गमिस्सं ।
    (तथा कृत्वा निष्क्रान्ता)
    राजा - (सहसोत्थाय) वासवदत्ते ! तिष्ठ तिष्ठ ।
    हा धिक् ।
    निष्क्रामन् सम्भ्रमेणाहं द्वारपक्षेण ताडितः ।
    ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥७॥
    (प्रविश्य)
    विदूषकः - ऐ पडिबुद्धो अत्तभवं ।
    राजा - वयस्य ! प्रियमावेदये, धरते खलु वासवदत्ता ।
    विदूषकः - अविहा वासवदत्ता ।
    कहिं वासवदत्ता ।
    चिरा खु उवरदा वासवदत्ता ।
    राजा - वयस्य ! मा मैवं, शय्यायामवसुप्तं मां बोधयित्वा सखे ! गता ।
    दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥८॥
    विदूषकः - अविहा असम्भावणीअं एदं ण ।
    आ उदअह्णाणसङ्कित्तणेण तत्तहोदि चिन्तअन्तेण सा सिविणे दिट्ठा भवे ।
    राजा - एवं, मया स्वप्नो दृष्टः ।
    यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् ।
    अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ॥९॥
    विदूषकः - भो ! वअस्स ! एदस्सिं णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि ।
    सा तुए दिट्ठा भवे ।
    राजा - न न, स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् ।
    चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥१०॥
    अपिच वयस्य ! पश्य पश्य, योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः ।
    स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥११॥
    विदूषकः - मा दाणिं भवं अणत्थं चिन्तिअ ।
    एदु एदु भवं ।
    चौस्सालं पविसामो ।
    (प्रविश्य)
    काञ्चुकीयः - जयत्वार्यपुत्रः ।
    अस्माकं महाराजो दर्शको भवन्तमाह - एष खलु भवतोऽमात्यो रुमण्वान् महता बलसमुदयेनोपयातः खल्वारुणिमभिघातयितुम् ।
    तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि सन्नद्धानि ।
    तदुत्तिष्ठतु भवान् ।
    अपिच, भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णी यापि भवत्प्रयाणसमये तस्या विधानं कृतम् ।
    यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥१२॥
    राजा - (उत्थाय) बाढम् ।
    अयमिदानीम्, उपेत्य नागेन्द्रतुरङ्गकीर्णे तमारुणिं दारुणकर्मदक्षम् ।
    विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि ॥१३॥
    (निष्क्रान्ताः सर्वे ।
    (ततः प्रविशति काञ्चुकीयः)
    काञ्चुकीयः - क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।
    (प्रविश्य) प्रतीहारी - अय्य ! अहं विजआ ।
    किं करीअदु ।
    काञ्चुकीयः - भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय - एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च, प्रतीहारमुपस्थिताविति ।
    प्रतीहारी - अय्य ! अदेसकालो पडिहारस्स ।
    काञ्चुकीयः - कथमदेशकालो नाम ।
    प्रतीहारी - सुणादु अय्यो ।
    अज्ज भट्टिणो सुय्यामुहप्पासादगदेण केण वि वीणा वादिदा ।
    तं च सुणिअ भट्टिणा भणिअं घोसवदीए सद्दो विअ सुणीअदि त्ति ।
    काञ्चुकीयः - ततस्ततः ।
    प्रतीहारी - तदो तहिं गच्छिअ पुच्छिदो - कदो इमाए वीणाए आगमो त्ति ।
    तेण भणिअं - अह्मेहिं णम्मदातीरे कुय्यगुम्मलग्गा दिट्ठा ।
    जै प्पओणं इमाए, उवणीअदु भट्ठिणोत्ति तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा ।
    तदो मोहप्पच्चागदेण बप्फपय्याउलेण मुहेण भट्टिणा भणिअं - दिट्ठासि घोसवदि ! सा हु ण दिस्सदि त्ति ।
    अय्य ! ईदिसो अणवसरो कहं णिवेदेमि ।
    काञ्चुकीयः - भवति ! निवेद्यताम् ।
    इदमपि तदाश्रयमेव ।
    प्रतीहारी - अय्य ! इअं णिवेदेमि ।
    एसो भट्टा सुय्यामुहप्पासादादो ओदरै ।
    ता इह एव्व णिवेदैस्सं ।
    काञ्चुकीयः - भवति ! तथा ।
    (उभौ निष्क्रान्तौ) मिश्रविष्कम्भकः ।
    (ततः प्रविशति राजा विदूषकश्च)
    राजा - श्रुतिसुखनिनदे ! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ।
    विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ॥१॥
    अपि च, अस्निग्धासि घोषवति ! या तपस्विन्या न मरसि, श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तरसुखान्युपगूहितानि ।
    उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥२॥
    विदूषकः - अलं दाणि भवं अदिमत्तं सन्तप्पिअ ।
    राजा - वयस्य ! मा मैवं, चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः ।
    तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥३॥
    वसन्तक ! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय ।
    विदूषकः - जं भवं आणवेदि ।
    (वीणां गृहीत्वा निष्क्रान्तः)
    (प्रविश्य)
    प्रतीहारी - जेदु भट्टा ।
    एसो खु महासेणस्स सआसादो रम्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवट्ठिदा ।
    राजा - तेन हि पद्मावती तावदाहूयताम् ।
    प्रतीहारी - जं भट्टा आणवेदि ।
    (निष्क्रान्ता)
    राजा - किन्तु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः ।
    (ततः प्रविशति पद्मावती प्रतीहारी च)
    प्रतीहारी - एदु एदु भट्टिदारिआ ।
    पद्मावती - जेदु अय्यौतो ।
    राजा - पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रोषितार्था वसुन्धरा नाम वासवदत्ताधात्री च, प्रतिहारमुपस्थिताविति ।
    पद्मावती - अय्यौत्त ! पिअं मे ञादिकुलस्स कुसलवुत्तन्तं सोदुं ।
    राजा - अनुरूपमेतद भवत्याभिहितं - वासवदत्तास्वजनो मे स्वजन इति ।
    पद्मावति ! आरयताम् ।
    किमिदानीं नास्यते ।
    पद्मावती - अय्यौत्त ! किं मए सह उवविट्ठो एदं जणं पेक्खिस्ससि ? ।
    राजा - कोऽत्र दोषः ? ।
    पद्मावती - अय्यौत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि ।
    राजा - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति ।
    तस्मादास्यताम् ।
    पद्मावती - जं अय्यौत्तो आणवेदि ।
    (उपविश्य) अय्यौत्त ! तादो वा अम्बा वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता ।
    राजा - पद्मावति ! एवमेतत् ।
    किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्षिता सा ।
    भाग्यैश्चलैर्महदवाप्तगुणोपघातः पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥४॥
    पद्मावती - ण किं सक्कं रक्खिदुं पत्तकाले ।
    प्रतीहारी - एसो कञ्वुईओ धत्ती अ पडिहारं उवट्ठिदा ।
    राजा - शीघ्रं प्रवेश्यताम् ।
    प्रतीहारी - जं भट्टा आणवेदि ।
    (निष्क्रान्ता)
    (ततः प्रविशति काञ्चुकीयो धात्री प्रतीहारी च)
    काञ्चुकीयः - भोः ! सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानिधनं विषादः ।
    किं नाम दैव ! भवता न कृतं यदि स्याद् राज्यं परैरपहृतं कुशलं च देव्याः ॥५॥
    प्रतीहारी - एसो भट्टा, उवसप्पदु अय्यो ।
    काञ्चुकीयः - (उपेत्य) जयत्वार्यपुत्रः ।
    धात्री - जेदु भट्टा ।
    राजा - (सबहुमानम्) आर्य ! पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः ।
    अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥६॥
    काञ्चुकीयः - अथकिम् ।
    कुशली महासेनः ।
    इहापि सर्वगतं कुशलं पृच्छति ।
    राजा - (आसनादुत्थाय) किमाज्ञापयति महासेनः ।
    काञ्चुकीयः - सदृशमेतद् वैदेहीपुत्रस्य ।
    नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः ।
    राजा - यदाज्ञापयति महासेनः ।
    (उपविशति)
    काञ्चुकीयः - दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीतमिति ।
    कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते ।
    प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥७॥
    राजा - आर्य ! सर्वमेतन्महासेनस्य प्रभावः ।
    कुतः, अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो मया न च रक्षिता ।
    निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥८॥
    काञ्चुकीयः - एष महासेनस्य सन्देशः ।
    देव्याः सन्देशमिहात्रभवती कथयिष्यति ।
    राजा - हा अम्ब ! षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता ।
    मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥९॥
    धात्री - अरोआ भठ्ठिणी भट्टारं सव्वगदं कुसलं पुच्छदि ।
    राजा - सर्वगतं कुशलमिति ।
    अम्ब ! ईदृशं कुशलम् ।
    धात्री - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं ।
    काञ्चुकीयः - धारयत्वार्यपुत्रः ।
    उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण ।
    अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति ।
    एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥१०॥
    राजा - आर्य ! मा मैवं, महासेनस्य दुहिता शिष्या देवी च मे प्रिया ।
    कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥११॥
    धात्री - आह भट्टिणी - उवरदा वासवदत्ता ।
    मम वा महासेणस्स वा जादिसा गोवालअपालआ, तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअत्ति ।
    एदण्णिमित्तं उज्जैणिं आणीदो ।
    अणग्गिसक्खिअं वीणववदेसेण दिण्णा ।
    अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व गदो ।
    अहअ अह्मेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफलआप आलिहिअ विवाहो णिव्वुत्तो ! एसा चित्तफलआ तव सआसं पेसिदा ।
    एदं पेक्खिअ णिव्वुदो होहि ।
    राजा - अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या ।
    वाक्यमेतत् प्रियतरं राज्यल भशतादपि ।
    अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥१२॥
    पद्मावती - अय्यौत्त ! चित्तगदं गुरुअणं पेक्खिअ अभिबादेदुं इच्छामि ।
    धात्री - पेक्खदु पेक्खदु भट्टिदारिआ ।
    (चित्रफलकां दर्शयति)
    पद्मावती - (दृष्ट्वा आत्मगतम्) हं अदिसदिसी खु इअं अय्याए आवतिआए ।
    (प्रकाशम्) अय्यौत्त ! सदिसी खु इअं अय्याए ?
    राजा - न सदृशी ।
    सैवेति मन्ये ।
    भोः ! कष्टम् ।
    अस्य स्निग्धस्थ वर्णस्य विपत्तिर्दारुणा कथम् ।
    इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥१३॥
    पद्मावती - अय्यौत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति ।
    धात्री - पेक्खदु पेक्खदु भट्टिदारिआ ।
    पद्मावती - (दृष्ट्वा) अय्यौत्तस्स पडिकिदीए सदिसदाए जाणीमि इअं अय्याए सदिसि त्ति ।
    राजा - देवि ! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि ।
    किमिदम् ।
    पद्मावती - अय्यौत्त ! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि ।
    राजा - किं वासवदत्तायाः ।
    पद्मावती - आम ।
    राजा - तेन हि शीघ्रमानीयताम् ।
    पद्मावती - अय्यौत्त ! मम कण्णाभावे केणवि ब्रह्मणेण मम भैणिअत्ति ण्णासो णिक्खित्तो ।
    पोसिदभत्तआ परपुरुसदंसणं परिहरदि ।
    ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यौत्तो ।
    राजा - यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति ।
    परस्परगता लोके दृश्यते रूपतुल्यता ॥१४॥
    (प्रविश्य)
    प्रतीहारी - जेदु भट्टा ।
    एसो उज्जैणीओ बह्मणो, भट्टिणीए हत्थे मम भैणिअ त्ति ण्णासो णिक्खित्तो, तं पडिगहिदुं पडिहारं उवट्ठिदो ।
    राजा - पद्मावती ! किन्नु स ब्राह्मणः ।
    पद्मावती - होदव्वं ।
    राजा - शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः ।
    प्रतीहारी - जं भट्टा आणवेदि ।
    (निष्क्रान्ता)
    राजा - पद्मावती ! त्वमपि तामानय ।
    पद्मावती - जं अय्यौ तो आणवेदि ।
    (निष्क्रान्ता)
    (ततः प्रविशति यौगन्धरायणः प्रतीहारी च)
    यौगन्धरायणः - भोः ! (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य ।
    सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥१५॥
    प्रतीहारी - एसो भट्टा ।
    उपसप्पदु अय्यो ।
    यौगन्धरायणः - (उपसृत्य) जयतु भवान् जयतु ।
    राजा - श्रुतपूर्व इव स्वरः ।
    भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता ।
    यौगन्धरायणः - अथ किम् ।
    राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।
    प्रतीहारी - जं भट्टा आणवेदि ।
    (निष्क्रान्ता)
    (ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च)
    पद्मावती - एदु एदु अय्या ।
    पिअं दे णिवेदेमि ।
    आवन्तिका - किं किं ।
    पद्मावती - भादा दे आअदो ।
    आवन्तिका - दिठ्ठिआ इदाणिं पि सुमरदि ।
    पद्मावती - (उपसृत्य) जेदु अय्यौत्तो ।
    एसो णासो ।
    राजा - निर्यातय पद्मावति ! ।
    साक्षिमन्न्यासो निर्यातयितव्यः ।
    इहात्रभवान् रैभ्यः अत्रभवती चाधिकरणं भविष्यतः ।
    पद्मावती - अय्य ! णीअदां दाणिं अय्या ।
    धात्री - (अवन्तिकां निर्वर्ण्य) अम्मो भट्टिदारिआ वासवदत्ता ।
    राजा - कथं महासेनपुत्री ।
    देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह ।
    यौगन्धरायणः - न खलु न खलु प्रवेष्टव्यम् ।
    मम भगिनी खल्वेषा ।
    राजा - किं भवानाह ।
    महासेनपुत्री खल्वेषा ।
    यौगन्धरायणः - भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः ।
    तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥१६॥
    राजा - भवतु, पश्यामस्तावद् रूपसादृश्यम् ।
    सङ्क्षिप्यतां यवनिका ।
    यौगन्धरायणः - जयतु स्वामी ।
    वासवदत्ता - जेदु अय्यौत्तो ।
    राजा - अये असौ यौगन्धरायणः, इयं महासेनपुत्री ।
    किन्तु सत्यमिदं स्वप्नः स भूयो दृश्यते मया ।
    अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा ॥१७॥
    यौगन्धरायणः - स्वामिन् ! देव्यपनयेन कृतापराधः खल्वहम् ।
    तत् क्षन्तुमर्हति स्वामी ।
    (इति पादयोः पतति)
    राजा - (उत्थाप्य) यौगन्धरायणो भवान् ननु ।
    मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः ।
    भवद्यत्नैः खलु वयं मज्जमानाः समुद्धताः ॥१८॥
    यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।
    पद्मावती - अम्महे अय्या खु इअं ।
    अय्ये ! सहीजणसमुदाआरेण अजाणन्तीए अदिकन्दो समुदाआरो ।
    ता सीसेण पसादेमि ।
    वासवदत्ता - (पद्मावतीमुत्थाप्य) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि ।
    अत्थिसअं णाम सरीरं अवरद्धै ।
    पद्मावती - अणुग्गहिदह्मि ।
    राजा - वयस्य ! यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।
    यौगन्धरायणः - कौशाम्बीमात्रं परिपालयामीति ।
    राजा - अथ पद्मावत्या हस्ते किं न्यासकारणम् ।
    यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।
    राजा - इदमपि रुमण्वता ज्ञातम् ।
    यौगन्धरायणः - स्वामिन् ! सर्वैरेव ज्ञातम् ।
    राजा - अहो शठः खलु रुमण्वान् ।
    यौगन्धरायणः - स्वामिन् ! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च ।
    राजा - न, न ।
    सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
    यौगन्धरायणः - यदाज्ञापयति स्वामी ।
    (भरतवाक्यम्)
    इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
    महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥१९॥
    (निष्क्रान्ताः सर्वे)