[[पार्वतीपरिणयम् Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
विज्ञप्तिः।
अस्य नाटकस्य प्रणेता महाकविर्बाणभट्टः ख्रिस्तवर्षीय सप्तमशतकपूर्वार्धसमुद्भूतस्य कान्यकुब्जाधिपतेर्हर्षवर्धनस्य सभामलंचकार। बाणभट्टकृतिषु कादम्बरीपूर्वभागः, हर्षचरितम्, चण्डीशतकम्, पार्वतीपरिणयं चेति प्रबन्धचतुष्टयमेव संप्रत्युपलभ्यते। निरुक्तप्रबन्धचतुष्टयाल्लभ्यं बाणभट्टचरितं समासेनात्र संगृह्यते। तथाहि— कश्मीरेषु वात्स्यायनवंशेऽस्य संभूतिः। अस्य पिता चित्रभानुः। माता राजदेवी। सा चास्य बाल्य एव पञ्चत्वं प्राप। चतुर्दशवर्षदेशीये च बाणे पितापि दिवं जगाम। बभूवुरस्य विविधकलाकुशला बहवो वयस्या इति। कृतश्चानेन हर्षचरितप्रस्तावे श्रीमद्व्यास-सुबन्धु-भट्टारहरिचन्द्र-सातवाहनप्रवरसेन-भास-कालिदास-आढ्यराजम-हाकवीनां, श्री-महाभारतबृहत्कथाप्रबन्धयोश्च सप्रशंसमुल्लेखः।
‘श्लोकबद्धा कादम्बरी मुकुटताडितकनाटकं च बाणभट्टेन प्रणीतमित्यपि ज्ञातम्। किं त्वेतद्ग्रन्थद्वयं नाद्याप्युपलब्धम्।’ इति काव्यमालायां प्रकाशितस्य चण्डीशतकस्य टिप्पण्यां कृतानेकप्राचीनकाव्योद्धारैर्महामहोपाध्यायैः पण्डितश्रीदुर्गाप्रसादैश्चोक्तम्। कादम्बर्या उत्तरभागस्तु बाणभट्टतनयेन भूषणभट्टेन पूरित इति प्रसिद्धमेव।
केचिदाधुनिका बाणभट्टविरचितान्यग्रन्थेभ्यः पार्वतीपरिणयनाटकस्य रीतिवैलक्षण्यं पश्यन्तः नेयं बाणभट्टकृतिरिति तर्कयन्ति। तत्तु बलवत्प्रमाणाभावाच्चिन्त्यमेव सुधीभिरिति विज्ञापयति।
मङ्गेशशर्मा।
॥श्रीः॥
महाकविश्रीबाणभट्टप्रणीतं
पार्वतीपरिणयम्।
<MISSING_FIG href="../books_images/U-IMG-1730384796Capture_2-removebg-preview.png"/>
प्रथमोऽङ्कः।
आदौप्रेमकषायिताहरमुखव्यापारलोला शनै-
** र्वीराभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः।**
पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला
** पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु नः॥१॥**
अपि च
संपदमतरललभ्यामनन्यसामान्यबहलदर्पनिधेः।
पुष्णातु चित्तयोनेरघटितघटनापटीयसी विभ्रुता॥२॥
(नान्द्यन्ते)
** सूत्रधारः**—(सप्रणयमञ्जलिं बद्ध्वा।)
ब्रह्मस्तम्बकुटुम्बस्ययोगक्षेमविधायिनौ।
आनन्दविग्रहौ भूत्यै भूयास्तामादिदम्पती॥३॥
(इति पुष्पाञ्जलिं विकीर्य नेपथ्याभिमुखमवलोक्य।) आर्ये इतस्तावत्।
(प्रविश्य।)
** नटी**— ^(१)अज्ज, इअह्मि।[]1
** सूत्रधारः**— आर्ये, अद्य खलु किमप्यभिनवं पार्वतीपरिणयं नाम रूपकं द्रष्टुमभिलषति परिषदेषा।
** नटी**— ^(२)अज्ज, तं उण अहिणअं कस्स कइणो किदी हुविस्सदि।
___________________________________________________________________________
१.आर्य, इयमस्मि।
२.आर्य, तत्पुनः कस्य कवेः कृतिर्भविष्यति।
** सूत्रधारः—**
अस्ति कविसार्वभौमो वत्सान्वयजलधिसंभवोबाणः।
नृत्यति यद्रसनायां वेधोमुखलासिका वाणी ॥४॥
तद्विरचितेन विचित्रसंविधानेन वस्तुनानेन सामाजिकानुपस्थास्यामहे।
** नटी**—^(१)अज्ज, अण्णएसु नाडएसुवट्टन्तेसु कहं तहिं जेव्व तत्तहोदो अहिलासो।
सूत्रधारः—
संविधानस्यसामग्र्यंरसानां परिपुष्टता।
संदर्भसौकुमार्येच सभ्यानां रञ्जने क्षमम् ॥५॥
तत एवाहं गुणग्राहितया तत्र प्रवृत्तः।
** नटी**— ^(२)जइ एवं, जुज्जइ।
** सूत्रधारः**— (नटींनिर्वर्ण्य ) आर्ये, पार्वतीपरिणयप्रसङ्गेऽपि किं निमित्तं भवती विमनायमानेव विलोक्यते।
** नटी**— ^(३)अज्ज, इमिणा परिणअप्पसङ्गेण अह्माणं वि वच्छाए बालचन्डिआए अणुरूववरलाहमहूसवो कहं भविस्सदित्ति णिरन्दरं चिन्दाउलं होइ मे हिअअम्।
** सूत्रधारः—**अलं विषादेन।
विधिरेव कन्यकानामभिमतवरयोजनार्थमुद्युङ्क्ते।
अयमिहमहतीदयितोमुनिरिव गिरिराजकन्यायाः॥६॥
इति प्रस्तावना।
______________
___________________________________________________________________________
१.आर्य, अन्येषु नाटकेषु वर्तमानेषु कथं तत्रैव तत्रभवतोऽभिलाषः।
२. यद्येवं युज्यते।
३.आर्य, अनेन परिणयप्रसङ्गेनास्माकमपि वत्साया बालचन्द्रिकाया अनुरूपवरलाभमहोत्सवः कथं भविष्यतीति निरन्तरं चिन्ताकुलं भवति मे हृदयम्।
(ततः प्रविशत्याकाशमार्गेण नारदः।)
** नारदः**— हन्त, जन्मनः प्रभृति न जहाति नूनमस्मानियममरकार्यघटनाकुतूहलिता। यतः।
दक्षाल्लब्धसमुद्भवा तदनु तं त्यक्त्वा पतिद्रोहिणं।
** जाता संप्रति शैलराजसदने गौरीति दाक्षायणी।**
एनां योजयितुं हरेण हिमवत्सानौ तपस्तन्वता
कार्यंभावि समाकलय्य मरुतामद्य प्रवर्तामहे॥७॥
(किंचिदन्तरमवतीर्यावलोक्य च।)परिवहनाम्नः पवनस्य पन्थानं प्राप्तवानस्मि। तथा हि।
आरादञ्जलिपेयमत्र विकसन्मन्दारपुष्पोत्थितं
सौरभ्यं पवनोपनीतमभितो धावन्त्यमी षट्पदाः।
तन्त्रीमण्डलमार्द्रयन्ति कणिका मन्दाकिनीपाथसा-
मप्यन्तःकरणंच मे सुमहतीमालम्बते निर्वृतिम्॥८॥
(सरभसावतरणं नाटयित्वा। अधोऽवलोक्य।)अये, मध्यमलोकस्यनेदीयांसंप्रदेशमनु-प्राप्तोऽस्मि। यतः।
उद्यद्भिः शिखरैरमी कतिचन व्यज्यन्त एवाचला
वैमल्यादनुमीयते च सरितां स्त्रोतस्विनी संततिः।
सूच्यन्ते परिमण्डलेन तरवो नीलाम्बुदश्रीमुषो
मन्दं मन्दमुपैति लोचनपथग्राह्यां दशां मेदिनी॥९॥
(पुनर्विलोक्य साश्चर्यम्।)
गिरिवरतटिनीगुल्मैर्दर्शनपदवीं क्रमादुपारूढैः।
अवरोहति मयि रभसाद्भूरियमारोहतीवगगनतलम्॥१०॥
मुहूर्तमात्रादवतीर्णोऽस्मि हिमवदुपकण्ठभूमिम्।(किंचिदन्तरमवतीर्यावलोक्य च।)अयं हि शैलराजः
उत्सारयन्निव विभाति नभोऽवकाशं
शृङ्गैर्विहारभवनैरिव तुङ्गतायाः।
आभोगवद्भिरमृतांशुकरावदातै-
राक्रामतीव कटकैर्हरिदन्तराणि॥११॥
अतिरिच्यते खल्वयमसाधारणेन भुवनधुरंधरेण भूम्नामन्दरगन्धमादनप्रभृतिभ्यो महामहीधरेभ्यः। यतः।
त्रिभुवनगुरुणा गुणातिरागा-
त्कमलभुवा कलिताधिपत्यलक्ष्मीः।
अविरतमनुशास्ति देवतात्मा
सकलमिदं कुलशैलचक्रबालम्॥१२॥
तदहमधुना किन्नरीगीतनिष्पन्दकृष्णसारेण चमरीजालबालविक्षेपविरचितालीकचन्द्रोदयविलासेन कस्तूरीपरिमलोपहतगगनागमनखेदेन शैलेयगन्धिना कटकवर्त्मना प्रस्तुतवस्तुसाधनाय प्रविशामि यावदोषधिप्रस्थम्।(तथा कृत्वा पुरोऽवलोक्य।)इदं तदोषधिप्रस्थं
विपुलकनकशृङ्गोपान्तविश्रान्तमेघं
सुरतरुवरवाटीशोभमानोपकण्ठम्।
मणिभवनमहोभिः सृज्यमानेन्द्रचापं
मदयति मम चेतो मन्दिरं विस्मयानाम्॥१३॥
(पुरप्रवेशमभिनीयाग्रतो दृष्टिं दत्त्वा।)इदमभ्रंलिहगोपुरशिखरावलीढनक्षत्रपथं हैमवतमायतनम्(प्रवेशं नाटयन्। आकाशे।)भोः कञ्चुकिन्, कुत्र वर्तते कुलाचलचक्रवर्ती। किं ब्रवीषि— ‘देव्या मेनया सार्धं किमपि मन्त्रयन्नभ्यन्तरमण्डपमधिवसति’ इति। तर्हि साधीयानवसरः कार्यनिवेदनस्य।(इति परिक्रामति।)
(ततः प्रविशति हिमवान्मेनापरिवृतःपरिजनश्च।)
**हिमवान्—**देवि, कन्यापितृत्वं खलु गृहमेधिनामधिकतरं दुःखमावहति। अस्मत्कुलालंकरणमियं च गौरी परिणययोग्यां दशां प्रतिपद्यते। तथा हि।
आभोगशालि कुचकुड्मलमायताक्ष्या
वक्षोऽवकाशमभिवाञ्छति संनिरोद्धुम्।
अप्यस्ति नास्तिवचसांविषयेऽवलग्ने
तन्वी समुल्लसति काचन रोमरेषा॥१४॥
** मेना—**^(१)जहा अज्जउत्तो आणवेदि, तहा विवाहमङ्गलजोग्गा संवृत्ता।
** हिमवान्**— देवि, अन्यदपि श्रूयताम्।
कुचयुगलं परिणद्धं यथा यथा वृद्धिमेति तन्वङ्ग्याः।
वरचिन्ताहृतमनसस्तथा तथा कार्श्यमेति मे गात्रम्॥१५॥
** मेना—**^(२)मह वि रत्तिंदिअं भाइदे अस्सिं ज्जेव अत्थे णिहिअहिअआए किंलक्खीअदि।
** हिमवान्**—(पुरोऽवलोक्य।)देवि, वीणाविहारी मुनिरित एवाभिवर्तते। तदर्ध्यमानीयताम्।
** मेना—**^(३)जहा आणवेदि अज्जउत्तो।
** हिमवान्—**(उत्थाय साञ्जलिबन्धम्।)भगवन्, अभिवादये।
** नारदः—**अभ्युदयपरम्परावाप्तिरस्तु।
(हिमवानासनमुपनीयार्ध्यंसमर्पयति।)
(नारदः प्रतिगृह्णाति।)
** हिमवान्**–(सहर्षमञ्जलिं बद्ध्वा।)
स्वायत्तसिद्धाखिलकामनानां तत्त्वे परस्मिन्परिनिष्ठितानाम्।
भवादृशामागमनोत्सवोऽयं न लभ्यते नूनमहोऽल्पपुण्यैः॥१६॥
** नारदः—**निःस्पृहैरपि मादृशैस्त्वादृशाः सर्वाश्रमोपकारिणो गृहमेधिनः पुरुषा द्रष्टव्या एव।
** हिमवान्—**यदभिहितं भगवता, तदनुग्राह्येषु।
** नारदः—**किमनुग्राहकस्यानुग्राह्यतायां वितर्कः। किं च तीर्थरूपोभवानस्माभिरभिगन्तव्य एव। यतः।
_____________________________________________________________
१.यथार्यपुत्र आज्ञापयति, तथा विवाहमङ्गलयोग्या संवृत्ता।
२.ममापि रात्रिंदिवं भाविते ऽस्मिन्नेवार्थे निहितहृदयायाः किं लक्ष्यते।
३. यथाज्ञापयत्यार्यपुत्रः।
शिरसि निपतिता पुरा पुरारेरथ शिखरे तव यत्ततोऽवतीर्णा।
अमरसरिदशेषलोकमान्यात्रिभुवनपावनतामुपैतितेन॥१७॥
** हिमवान्—**किमेवमतिभूमिमारोप्यते भगवता निदेशवर्ती परिजनः।
** नारदः—**
अप्रतिमरूपलक्ष्म्यौगङ्गा गौरी च कन्यके भवतः।
** हिमवान्—**एवमेतत्।
** नारदः—**
पूर्वा तयोः पुरस्तादनुरूपं रमणमम्बुधिं प्राप्ता॥१८॥
** हिमवान्—** अस्त्येतत्।
** नारदः—** द्वितीयायास्तु ते दुहितुः को नाम वरोऽभिमतस्तत्रभवता।
** हिमवान्**— भगवन्, इममेवार्थं विचिन्तयतो मे मनसि महाननुतापः।
** नारदः—**
न नागलोके न मनुष्यलोकेन देवलोकेऽपि समो वरोऽस्याः।
एषां प्रभुर्यस्तनयां त्वदीयांस एव देवः परिणेतुमीष्टे॥१९॥
** हिमवान्—** तमपि भगवानेव निवेदयितुंप्रगल्भते।
** नारदः—** (आत्मगतम्)अस्येदानीं सामान्यवचनैरेव चन्द्रचूडामणिर्निगूहितव्यः।(प्रकाशम्।)मया किलप्रणिधानचक्षुषा दृष्टोऽयमर्थः। यथा विश्वाधिकं कमपि वरमियं ते दुहिता प्रपत्स्यते। न पुनरिममिति विशेषेण।
** हिमवान्—** विश्वाधिक इत्येतावता कृतार्थोऽस्मि।
** नारदः—–**
पुण्येन केनापि किलावतीर्णापुरातनी शक्तिरियं सुता ते।
इमामसाधारणरूपलक्ष्मींन लोकसामान्यसुतां प्रतीयाः॥२०॥
ततश्च भवता दुहितेयं न यस्मै कस्मैचित्प्रदित्सितव्या।
** हिमवान्—** नाहं भवदाज्ञां लङ्घयामि।
** नारदः—**अभ्युदयस्य निमित्तमन्यदपि किंचिदुपदिश्यते। यथा।
अष्टाभिरेव तनुभिर्भुवनं दधान-
** स्तेजस्त्रयेण महता विहितेक्षणश्रीः।**
अन्येषु सत्स्वपि य ईश्वरशब्दवाच्यः
** सोऽयंतपस्यतितटे तव चन्द्रमौलिः॥२१॥**
** हिमवान्—**अस्त्येतत्।
** नारदः—** ततो भवानन्तिकमागतमिन्दुशेखरं सपर्यया कयाचिदुपतिष्ठताम्।
** हिमवान्—**भगवन्, अभिधेहि का वा सपर्या।
** नारदः—**अनुरूपसखीजनपरिवृतां दुहितरमिमां गौरीं समित्कुशदूर्वाद्युपहरन्ती परिचर चन्द्रशेखरमिति प्रेषयतु भवान्।
** हिमवान्—**तथा करिष्यामि।
** नारदः—**(आत्मगतम्।)उपक्षिप्तं बीजम्। कर्तव्यं च सामान्यवृत्त्या निवेदितम्। तद्यथागतं गमिष्यामि।(प्रकाशम्।)हिमवन्, यदुक्तमस्माभिस्तदनुष्ठीयताम्।(इत्याकाशमार्गेण निष्क्रान्तः।)
** हिमवान्—**(विलोक्य)
दिवापि देहप्रभया दर्शयन्दिक्षु चन्द्रिकाम्।
द्वितीय इवचन्द्रोऽयमारोहति दिवं मुनिः॥२२॥
(मेनां प्रति।)देवि, श्रुतं खलु त्वया महामुनेर्वचनम्।
** मेना—**^(१)सुदं मए विस्साहिओ पुरिसो णाहो त्ति।
** हिमवान्—**(स्वगतम्।)विश्वाधिकशब्दोपक्षेपेण कर्तव्योपदेशेन च दुहितुरस्याश्चन्द्रशेखर एव वर इति सूचितम्।(प्रकाशम्।)देवि, नारदोपदिष्टामिन्दुमौलिसपर्यांविरचयितुं दुहितरं नियोक्तुमुद्युञ्ज्महे।
(इति निष्क्रान्ताः सर्वे।)
इति प्रथमोऽङ्कः।
_____________________________________________________________
१.श्रुतं मया विश्वाधिकः पुरुषो नाथ इति।
द्वितीयोऽङ्कः।
(ततः प्रविशति वनदेवता वासन्तिका।)
** वासन्तिका—**^(१)आणत्तहि णन्दीस्सरेण जहा वासन्दिए, णिअमाट्ठिदस्सणीललोहिदस्स पूआपुप्फाइंणन्दणवणादो आणेहित्ति। ता जहा आदिट्ठंणन्दीस्सरेण तहा आआसमग्गेण गदुअ सोरहवासिददिसामुहाइंकप्पद्दुमकुसुमाइंणन्दणवणादो अवचेदुं गमिस्सम्। (इति तथा करोति।)
(ततः प्रविशति रम्भा।)
** रम्भा—** ^(२)तारआसुरबन्दिग्गहणसज्झसपरिसङ्किदो अच्छराजणो महामेरुगुहाणिलीणो आसि। अहं उण कुबेरणन्दणं णलकूबरं खणं विहाय जीविदं धारेदुं ण पारेमि। तदो तं एव्व अहिसरामि। (इत्यवतरति।)
** वासन्तिका—**(रम्भां दृष्ट्वा।)^(३)अए, पिहसही रम्भा आअच्छइ। ता उपसप्पामि णं। (इति तथा करोति।)
** रम्भा—**^(४)अए, हिमवक्कडअणिवासिणी वणदेवदा वासन्दिआ। भद्दं पिअसहीए।
________________________________________________________
१. आज्ञप्तास्मि नन्दीश्वरेण यथा वासन्तिके, नियमस्थितस्य नीललोहितस्य पूजापुष्पाणि नन्दनवनादानयेति। तद्यथादिष्टं नन्दीश्वरेण तथाकाशमार्गेण गत्वा सौरभवासितदिशामुखानि कल्पद्रुमकुसुमानि नन्दनवनादवचेतुं गमिष्यामि।
२. तारकासुरबन्दिग्रहणसाध्वसपरिशङ्कितोऽप्सरोजनो महामेरुगुहानिलीन आसीत्। अहं पुनः कुबेरनन्दनं नलकूबरं क्षणं विहाय जीवितं धारयितुं न पारयामि। ततस्तमेवाभिसरामि।
३.अये, प्रियसखी रम्भागच्छति। तदुपसर्पाम्येनाम्।
४.अये, हिमवत्कटकनिवासिनी वनदेवता वासन्तिका। भद्रं प्रियसख्याः।
** वासन्तिका—**^(१)पिअसहि, किं एत्थ आअदे।
** रम्भा—** २तारआसुरबन्दिग्गहसज्झससङ्किदो अच्छराजणो महामेरुगुहाणिलीणो वट्ठइ।
** वासन्तिका**— ^(३)सच्चं सो तारिसो दुट्ठसीलो।
** रम्भा—**^(४)कुबेरणन्दणं खणं अदिट्ठिअ ण सक्कुणोमि जीविदं धारेदुंत्ति पिअसही सुट्ठदरं जाणादि।
** वासन्तिका—** ^(५)पढमंजाणामि, प्पसिद्धो क्खु तुह्माणं अण्णोण्णाणुराओ।
** रम्भा—** ^(६)तदो अहं आसण्णा एत्थ मअणकोअण्डणिरन्दराणिस्सरन्तसरणिअरजज्जरिद-हिअआअहिसरामि वञ्चिअ सहीजणाणं णलकूबरम्।
** वासन्तिका—** ^(७)जुज्जइ तारिसस्स अणुराअस्स ईरिसो व्यावारो।
** रम्भा—**^(८)तुमं उण कहिं गच्छसि।
** वासन्तिका—**^(९)णिज्झादणिजस्सरूवस्स लोअणमेत्तबाडबस्स।
_____________________________________________________________
१.प्रियसखि, किमत्रागतम्।
२. तारकासुरबन्दिग्रहसाध्वसशङ्कितोऽप्सरोजनो महामेरुगुहानिलीनो वर्तते।
३. सत्यं स तादृशो दुष्टशीलः।
४. कुबेरनन्दनं क्षणमदृष्ट्वा न शक्नोमि जीवितुं धारयितुमिति प्रियसखी सुष्ठुतरं जानाति।
५. प्रथमं जानामि प्रसिद्धः खलु युवयोरन्योन्यानुरागः।
६.ततोऽहमासन्नात्र मदनकोदण्डनिरन्तरनिःसरच्छरनिकरजर्जरितहृदयाभिसरामि वञ्चयित्वा सखीजनान्नलकूबरम्।
७.युज्यते तादृशस्यानुरागस्येदृशो व्यापारः
८.त्वं पुनः कुत्र गच्छसि।
९.नित्यानन्दनिज स्वरूपस्य लोचनमात्रवाडवस्य भगवतो नीललोहितस्य पूजापुष्पाणि नन्दनवनादानेतुमाज्ञप्तास्मि नन्दीश्वरेण ।
भअवदस्स णीललोहिदम्स पूआपुप्फाइंणन्दणवणादो आणेदुं आणत्तह्मिणन्दीस्सरेण।
** रम्भा—**^(१)पिअसहि, अस्थि अहिणवो तत्थ वुत्तन्तो?
** वासन्तिका—** ^(२)अण्णो कोवि णत्थि। पिदुणो णिदेसेण सवरिजणा पव्वई दिअसे दिसे आगदुअमहादेवं आराधेइ।
** रम्भा—** ^(३)किं आराघणस्स फलम्।
** वासन्तिका—** ^(४)परमेस्सरप्पसादो।
** रम्भा—** ^(५)जुज्जइ। गच्छ तुमं पत्थुदं कज्जं कादुम्। अहं विजहासंकप्पिदं कादुं गमिस्सम्।
(इति निष्क्रान्ते।)
विष्कम्भकः।
(ततः प्रविशति विविक्तस्थानमधिवसन्महेन्द्रः।)
** महेन्द्रः—** (मण्डपद्वारं विलोक्य।) कः कोऽत्र भोः।
** देवनन्दी—** (प्रविश्य।) स्वामिन्, अयमस्मि।
** महेन्द्रः—** महत्कार्यं विचारणीयमस्ति। अतोबृहस्पतिमन्तरेण नान्यः प्रवेशनीयः।
** देवनन्दी—** तथा। (इति निष्क्रान्तः।)
(ततः प्रविशति बृहस्पतिः।)
** बृहस्पतिः—**(पुरोऽवलोक्य।)अयमिह महेन्द्रो विविक्तस्थानमण्डपे वर्तते। एष खलु।
_____________________________________________________________
१.प्रियसखि, अस्त्यभिनवस्तत्र वृत्तान्तः?
२.अन्यः कोऽपि नास्ति। पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसआगत्य महादेवमाराधयति।
३.किमाराधनस्य फलम्।
४. परमेश्वरप्रसादः।
५. युज्यते। गच्छ त्वं प्रस्तुतं कार्यं कर्तुम्। अहमपि यथासंकल्पितं कर्तुं गमिष्यामि।
कैश्चिन्नेत्रैर्दलितदनुजं वज्रमालोकमानः
** कैश्चित्पश्यन्नमरसुदृशां सस्मितान्याननानि।**
कैश्चित्सेवाविहितमनसामञ्जलिं वीक्षमाण-
** श्चित्ते चिन्तापर इव पुरो दृश्यते वासवो मे॥१॥**
तदेनमुपसर्पामि।(इति तथा करोति।)
** महेन्द्रः—**(बृहस्पतिं दृष्ट्वा।)इहोपविश्यताम्।
** बृहस्पतिः—** तथा।(इतिभद्रासनान्तिकमुपविशति।)
** देवनन्दी—**(प्रविश्य।)स्वामिन्, देवदूतो देवलो विज्ञापयति विज्ञाप्यं मे किंचिदस्तीति।
** महेन्द्रः—** तर्हि तमेकं प्रवेशय।
(ततः प्रविशति देवदूतः।)
** देवदूतः—** अयं हि स्वामी बृहस्पतिना सह किमपि मन्त्रयन्वर्तते। तदेनमुपसर्पामि।(इत्युपसृत्य।)जयतु जयतु स्वामी।
** महेन्द्रः—** देवल, किमुद्विग्नइव विलोक्यसे।
** देवदूतः—** अतिभूमिं गमितामसुरपीडां कथं स्वामिने विज्ञापयामि।
** महेन्द्रः—** मा भैषीः। कथय तेषामुद्यमम्।
** देवदूतः—** कथयामि। श्रूयताम्।
उद्धृत्यामरदीर्घिकाजलभुवामम्भोरुहाणां ततिं
** स्वैरं नन्दनपादपानभिमतानामूलमुन्मूल्य नः।**
हृत्वा वाञ्छितवस्तुदानचतुरां तामर्जुनींदुर्जनाः
(इत्यर्धोक्त विरमति।)
** महेन्द्रः—** अवशिष्टं च कथ्यताम्।
** देवदूतः—**
स्वर्गस्त्रैणकचग्रहं रचयितुं निःशङ्कमुद्युञ्जते॥२॥
** महेन्द्रः—** देवल, कुलिशसहाये मद्बाहौ जाग्रति किमेवमतिशंका क्रियते। विमृश्य।
वृत्रं बलं च नमुचिं च कथावशेषं
** कृत्वा विधाय किल पर्वतपक्षभेदम्।**
त्रैलोक्यरक्षणपटोर्मम तारकेऽस्मि-
** न्वेधो वरःकिल महानयमन्तरायः॥३॥**
तत्कतिपयैरेव दिवसैस्तत्प्रतिक्रिया भविष्यति। गच्छ त्वं समुचितनियोगकरणाय।
** देवदूतः—** तथा। (इति निष्क्रान्तः।)
** महेन्द्रः—** गुरो, किमतः परं विधातव्यम्। यथा पूर्वेद्युरेव तारकदनुजाक्रान्तिमसहमानैरस्माभिरमरपरिषदा सार्धं भगवानुपस्थितः पद्मयोनिराचष्ट। यथा सेनान्यमन्तरेण नान्येन तारको निहन्तव्यः। तदुत्पादने चायमभ्युपायः।
हैमवते कटकतटे शशाङ्कचूडामणिस्तपस्तनुते।
यत्नेन येन केनचिदस्तु प्रणयी स पार्वत्याम्॥४॥
ततस्तयोरात्मसंभवेन सेनान्या कुमारेण वो मनोरथसिद्धिर्भविष्यति।
** महेन्द्रः—** तत्कथं गिरिजा गिरिशेन परिग्राह्यते। कदा वा तदुत्पन्नः कुमारः पूरयिष्यति नो मनोरथान्।
** बृहस्पतिः—**नहीश्वराणां व्याहृतयो व्यभिचरन्ति।
** महेन्द्रः—**(सस्मरणं सहर्षं च)विरिञ्चिसमादिष्टमस्मत्कार्यमप्यङ्गीकुर्वतीव पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसे समागत्य भगवन्तमिन्दुशेखरं परिचरतीति रम्भामुखादश्रौषम्।
** बृहस्पतिः—** यद्येवं सिद्धं नः समीहितम्।
** महेन्द्रः—** किमेतावता।
मुग्धैरप्सरसां विलासहसितैर्वाक्यैर्मनोहारिभिः
** कर्णान्तस्खलितैरपाङ्गवलितैरारेचितभ्रूलतैः।**
बाहोः स्रस्तकुचोत्तरीयघटनामञ्जुक्वणत्कङ्कणै-
** र्व्यापारैरपि यो विकारपदवीं न प्रापितः संयमी॥५॥**
तस्य पुनरचिन्तनीयमनवधिकानन्दसुन्दरमनादिनिधनमनञ्जनमगुणमक्रियमात्मानमबाह्येन चक्षुषा साक्षात्कुर्वतः समुपसंहृताखिलद्वैतकल्पनाविकल्पस्य स्वतन्त्रकर्तुश्चराचरगुरोर्भगवतश्चन्द्रमौलेः कियद्वशीकरणं गौरीपरिचरणम्।
** बृहस्पतिः—** भगवन्, अन्ययुवतिसामान्यामेव तां न मन्येथाः। यतः।
आसेचनकतनुश्रीरन्तःकरणस्य किमपिसंवननम्।
सा खलु गिरिराजसुतासंमोहनमस्त्रमेवपुष्पेषोः॥६॥
** महेन्द्रः—** (सहर्षम्।) पुष्पेषोरित्युपोद्धातेन स्मारितोऽस्मि, स एव तयोर्गिरिजागिरिशयोर्घटने पटीयानिति।
** बृहस्पतिः—** (सहर्षम्।)
त्रैलोक्यशासने दक्षा तावकी मतिरूर्जिता।
शान्तिकं पौष्टिकं कर्तुं शक्ता नः केवलं मतिः॥७॥
यतो मदीयापि बुद्धिरिमां वितर्कपदवीं नावतीर्णा। तदविलम्बितमेव समाहूयतां कामः।
** महेन्द्रः—**(मण्डपद्वारं विलोक्य।)कः कोऽत्र भोः।
(प्रविश्य।)
** देवनन्दी—** स्वामिन्, अयमस्मि।
** महेन्द्रः—** देवनन्दिन्, आहूयतां झटिति कामः।
** देवनन्दी—** तथा।(इति निष्क्रान्तः।)
(ततः प्रविशति रतिवसन्ताभ्यां सह कामः।)
** कामः—(**उपसृत्य।) सर्वे ज्ञास्यामः। (इत्युपसर्पति।)
** महेन्द्रः—**(विलोक्य सहर्षम्।)
मुखरमधुपमालाचारुमौर्वीसनाथं
** त्रिभुवनजययोग्यंचापमंसे दधानः।**
मुखमुदितविलासं वीक्षमाणः प्रियायाः
** सहमधुरिह मन्दं मन्दमायाति कामः॥८॥**
(कामो रतिवसन्ताभ्यां सार्धमुपसर्पति।चापगर्भेणाञ्जलिना सविलासं प्रणमति।)
** महेन्द्रः—** (आसनान्तिकं हस्तेन निर्दिशन्।) सखे काम, इहोपविश्यताम्।
(कामो रतिवसन्ताभ्यां सार्धमुपविशति।)
** बृहस्पतिः—** अये, माननीयं भवन्तं स्थाने खलु मानयति महेन्द्रः।
** कामः—**(अञ्जलिं बद्ध्वा।)
त्रैलोक्यनाथस्य तवातिशक्तेःकिमस्ति कार्यं मघवन्मयापि।
प्रकाशिताशेषदिशावकाशोदिवाकरो दीपमपेक्षते किम्॥१०॥
** बृहस्पतिः—** मा भवानेवमाचष्टाम्।
असावलोकसामान्यचापविद्याधुरंधरः।
करोतु कार्यं सकलं बाहुस्तवदिवौकसाम्॥११॥
** महेन्द्रः—** सखे काम,
चक्रेण विष्णोरपि यद्दुरापंतरस्विना वा शतकोटिना मे।
तत्साधयेत्पुष्पमयं त्वदस्त्रमहो भवानद्भुतबाहुवीर्यः॥१२॥
** कामः—**(सगर्वम्।)स्वामिन् यस्ते सापत्न्यमाचरति।
दनुजोवा मनुजो वा मुनिरपि वा मुग्धचन्द्रचूडो वा।
सुरलोकसुन्दरीणां स भवतु बद्धः कटाक्षशृङ्खलया॥१३॥
(महेन्द्रो बृहस्पतेर्मुखमवलोकयति।)
** बृहस्पतिः—** अये काम, यस्त्वया चरमोऽर्थः परिगणितश्चन्द्रचूडो वेति, स इदानीं शंकरः शैलराजकटकसीम्नि निरतिशयशीतलान्तःकरणस्तपश्चरति।
** कामः—** ततस्ततः।
** बृहस्पतिः—** तमिदानींपितुर्निदेशेन सौभाग्यमयीव सालभञ्जिका सौन्दर्यदेवतेव विग्रहिणी परिचरति।
** कामः—** ततस्ततः।
** बृहस्पतिः—** तयोश्च मेलने दिविषदां सुमहती कार्यसिद्धिः।सा च भवन्तमेव कटाक्षयति।
** कामः—**(आत्मगतम्।)अहो,अनात्मज्ञता हि पुंसामात्मनिधनमापादयति, यदहमात्मप्रशंसा-परवशः परमेश्वरमपि सामान्यवृत्त्या पर्यजीगणम्।
** वसन्तः—**(आत्मगतम्।)अन्यदुपक्रान्तमन्यदेवापतितम् \।
कार्यं सुगन्धिविशिखःस्वदमानचापः
** स्त्रीणां वशीकरणकर्मणि जागरूकः।**
क्वासौ ललाटनयनानलविस्फुलिङ्ग-
** वार्तावशेषितपुरत्रितयो महेशः॥१३॥**
** रतिः—** ^(१)अम्हो,अच्चाहिदंआपडिदं जं खण्डपरसू जेदव्वो।
** कामः—**यत्पुनः परिजनपरमाणोर्मत्तोऽपि मखभुजः कार्यमिच्छन्ति तदात्मव्ययेनापि कर्म कर्तुमुपयुज्यते।
** महेन्द्रः—**
संमोहने तव शरे संहितमात्रे गिरीन्द्रकन्यायाः।
मुखमतिमुदितविलासं विलोकयति मुग्धधृतिरीशः॥१४॥
तदीषत्करेऽस्मिन्कार्ये भवता न किंचिदपि शङ्कनीयम् ।
** कामः—**
त्यजन्यास्यामि कार्याय प्राणान्प्रियतमानपि।
यशःशरीरममलं लभन्तेह्यनुषङ्गिणः॥१५॥
तद्यथादिष्टं स्वामिना, तथा करिष्यामि।
** महेन्द्रो बृहस्पतिश्च —**(हस्तमुद्यम्य।)
अस्तुस्वस्त्ययनं तवाद्य मरुतां सत्याशिषामाशिष-
** स्त्वां रक्षन्तु यशश्च तेऽस्तुविपुलं लोकत्रये दीव्यतु।**
शौर्यं त्वद्भुजयोरिदं च भवतात्पुङ्खानुपुङ्खोदयं
किंचोद्योगमिमं समर्थयतु नः स्वच्छन्दचेष्टाविधिः॥१६॥
(कामो रतिवसन्ताभ्यां सह शङ्कमानो निष्क्रान्तः।)
** महेन्द्रः—** गुरोः विरिञ्च्यादेशादनुरूपमस्माभिरेव तावदनुष्ठितम्। कार्यसिद्धौभगवती नियतिरेव प्रभवति।
** बृहस्पतिः—** अहमपि प्रस्तुतकार्यसिद्धये कुलदेवताः प्रार्थयितुं गमिष्यामि ।
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1730472126Capture_8-removebg-preview.png"/>
तृतीयोऽङ्कः।
(ततः प्रविशति महेन्द्रो बृहस्पतिश्च।)
** महेन्द्रः—** गुरो, किं नाम कामः केनापि बाणसंधानेन खण्डपरशुं वशीकुर्यात्।आहोस्वित्संवर्तसमयदिनकरदुष्प्रेक्ष्यंमुनिमीक्षितुमशक्नुवन्निवर्तेत। अथवा कोपान्धकारिचेतसात्मानंभालनयनपावकस्य पुरोडाशतां नीयेत। कथं भविष्यतीति न जाने। (वामाक्षिस्पन्दनं सूचयित्वा साशङ्कम्।)
अदक्षिणमिदं चक्षुः स्फुरितैः शंसतीव मे।
देवकार्यविघाताय जाग्रतो वामतां विधेः॥१॥
** बृहस्पतिः—** प्रतिहतममङ्गलम्। भगवन्, अनेन निमित्तेन ज्ञाप्यते वृत्तान्तज्ञेन केनचिदागन्तव्यमिति।
(ततः प्रविशति नारदः।)
** नारदः—** मघवदादेशेन स्थाण्वाश्रमं गत्वा तत्रत्यमुदन्तं विज्ञाय समागतोऽस्मि। तदेनमुपसृत्य निवेदयिष्यामि तत्रत्यमखिलमुदन्तम्। (इति परिक्रामति।)
** महेन्द्रः—**(अञ्जलीं बद्ध्वाविलोक्य।)अयमेव महतीवल्लभो मुनिरुपसर्पति। तदासनमुपनीयताम्।
(बृहस्पतिरासनमुपनयति।)
(नारदः उपविशति।)
** महेन्द्रः—**(अञ्जलिं बद्ध्वा।)भगवन्, कथय भद्रमभद्रं वा दिविषदामभिलषितम्।
** नारदः—**सर्वमादितः प्रभृति कथयामि। श्रूयताम्।
** महेन्द्रः—**अवहितोऽस्मि।
** नारदः—**तथा देवकार्याय प्रस्थितं कंदर्पंतिरस्करिण्या विद्यया छन्नस्तत्रत्यवृत्तान्तजिज्ञासयाहं त्वन्निदेशादन्वचरम्।
** महेन्द्रः—**ततस्ततः।
** नारदः—**तत्र स्थाण्वाश्रमसमीपमासाद्य कामो वसन्तमभिहितवान्।
** महेन्द्रः—**कथमिति।
** नारदः**— सखे, त्वयास्मिन्हिमवदुपकण्ठकानने विजृम्भितव्यमिति।
** महेन्द्रः—**स किं कृतवान्।
** नारदः—**
वाचालयन्नथ कुलानि वनप्रियाणा-
** मङ्कूरयन्मलयमारुतकन्दलानि।**
सख्युः प्रसूनविशिखस्य भुजावलेपं
** संवर्धयन्मधुरजृम्भत काननेषु॥२॥**
** महेन्द्रः—**ततस्ततः।
** नारदः—**
दत्तं प्रियाभिर्बहुमानपूर्वमास्वाद्य चूतासवमन्यपुष्टाः।
आमोदिभिः पञ्चमरागभेदैःप्राबोधयन्पञ्चशरावलेपम्॥३॥
** महेन्द्रः—**ततस्ततः।
** नारदः—**
आधूय चन्दनतरूनुत्तमनद्यास्तरङ्गमालिङ्ग्य।
आदाय कमलसौरभमङ्कुरितो मलयशैलपवमानः॥४॥
** महेन्द्रः—**ततस्ततः।
** नारदः—**
आदाय चापमधिरोपितषट्पदज्यं
** तस्मिन्हिमाचलमुपेयुषि पञ्चबाणे।**
वेलातिलङ्घि किमपि प्रणयातिरेका-
** द्वन्द्वानि लौल्यमभजन्त विमोहितानि॥५॥**
** महेन्द्रः—**ततस्ततः।
** नारदः—**
चूताः कोरकिता विनापिसुदृशां हस्ताम्बुजामर्शना
** त्तत्पादाम्बुजताडनैरपि विना कङ्केलयः पुष्पिताः।**
तत्सङ्गीतकमन्तरेण हसिता रम्याः प्रियालद्रुमा
** मुक्त्वा तद्वदनासवं मुकुलिता गन्धोत्तराः केसराः॥५॥**
** महेन्द्रः—**ततस्ततः।
** नारदः—** किं बहुना।
तस्मिन्वने निवसतामनुकलमुल्लङ्घ्यधैर्यमर्यादाम्।
अबलासु निर्ममानामासीदनुरागसिन्धुरुद्वेलः॥७॥
** महेन्द्रः—** एवं सकलजनविकारकारिणि तम्मिन्प्रवृत्ते किं कृतवान्कामः।
** नारदः—** स कामो रत्या वसन्तेन चान्वीयमानो महति देवदारुखण्डमण्डपे तरक्षुचर्मवर्मितायामहिमशिलावेदिकायामासीनमन्तर्मुखनिहितचित्तवृत्तिमभ्यन्तरपवननिरोधनिश्चलाननं नासाग्रनिहितपक्ष्माण्यक्षीणि धारयन्तमपरमिव निस्तरङ्गमम्बुधिं तमिन्दुशेखरमपश्यत्।
** महेन्द्रः—** ततस्ततः।
** नारदः—** ततो भगवानपि नीललोहितः प्रतीचाविलोचनेन प्रत्यञ्चमात्मानमपरोक्षीकृत्य शिथिलितपर्यङ्कबन्धः प्रणिधानाद्व्यरंसीत्।
** महेन्द्रः—** ततस्ततः।
** नारदः—**स कामस्तद्दर्शनेन करतलविधृतकार्मुकः कर्तव्यमपरमजानन्क्षणमालिखित इव भयादतिष्ठत्।
** महेन्द्रः—** ततस्ततः।
** नारदः—**
अत्रान्तरे हरमुपासितुमभ्ययासी-
** द्वासन्तिकप्रसवकल्पितमण्डनश्रीः।**
शृङ्गारवीरतपसामधिदेवतेव
** साकं सखीभिरवनीधरराजकन्या॥८॥**
** महेन्द्रः—** ततस्ततः।
** नारदः—** ततः स कामो लब्धावलम्ब इव समाश्वस्य दृष्टिप्रदीपपरिहारेण पाश्चात्यभागमाश्रित्य समयं प्रतीक्ष्य स्थितवान्।
** महेन्द्रः—** ततस्ततः।
** नारदः—** पार्वती च सुखोपविष्टमष्टमूर्तिमष्टाङ्गस्पृष्टभूमिरवन्दिष्टः।
** महेन्द्रः—** ततस्ततः।
** नारदः—** अनुरूपरमणमासादयेति तामाशिषावर्धयदर्धचन्द्रमौलिः।
** महेन्द्रः—**ततस्ततः।
** नारदः—** ततः क्षणे तस्मिन्नयमेवावसर इति स कामः कार्मुकेसमधत्त संमोहनं बाणम्।
** महेन्द्रः—** ततस्ततः।
** नारदः**—
तदनु युगपदीशः पार्वतीवक्त्रपद्मे
** स्मितविकसितगण्डे प्राहिणोल्लोचनानि।**
** महेन्द्रः—**ततस्ततः।
** नारदः—**
पुलकिततनुरन्तर्भावमावेदयन्ती
** दरमुदितमुखेन्दुः सा च सव्रीडमस्थात्॥९॥**
** महेन्द्रः—**ततस्ततः।
** नारदः—**ततो भगवानन्तःकरणविक्रियां तपोबलेन संयम्य तत्कारणाय विष्वग्विलोचनानि व्यापारितवान्।
** महेन्द्रः—**ततस्ततः।
** नारदः—**
आरादपश्यदधिसंहितमोहनास्त्रं
** कर्णावतंसपदकल्पितकार्मुकज्यम्।**
आकुञ्चितैकपदमञ्चितपूर्वकायं
** लक्ष्यीकृतात्मवपुषं मदनं महेशः॥१०॥**
** महेन्द्रः—**(सभयम्।)अवशिष्टं च कथ्यताम्।
** नारदः—**तदनु प्रकुपितस्य शूलिनो भाललोचनादुदजृम्भज्ज्वालावलीजटालो ग्रासलालस इव कालानलो वह्निः।
** महेन्द्रः—**(सनिर्वेदम्।)किमतः परं निवेद्यते।
** नारदः—** तेन पुरारेर्नयनानलेन मदनः पुरोडाशतांनीतः।
(महोन्द्रो मूर्च्छति।)
(नारदः समाश्वासयति।)
** महेन्द्रः—**(आश्वस्य।)हा भुवनरमणीय पुष्पबाण सकलजनानन्दन, पुरंदरस्यार्थे त्यक्तजीवितोऽसि।
** बृहस्पतिः—** भगवन् मा विषीद। भवितव्यता हि बलवती। तदास्ताम्।
** महेन्द्रः—** रतिः किं कृतवती।
** नारदः—** रतिरपि मोहं प्राप्ता।
** महेन्द्रः—** किं कृतवान्वसन्तः।
** नारदः—**मोहं प्राप्तः सखा वसन्तोऽपि।
** महेन्द्रः—**मूर्च्छितौरतिवसन्तौ किमन्वतिष्ठताम्।
** नारदः—** प्रथमाश्वास्यतेन मधुना कथंचित्संज्ञां लम्भिता रतिरपिपुनःपरुषपवनकीर्यमाणपांसुपटलं भसितमयंपुरुषाकृति पत्युरङ्गमालिङ्ग्य-
गुरुतरशोकोपहता कुररीव प्रियवियोगमापन्ना।
आक्रन्ददार्तनादं बाष्पस्नपितोन्नतस्तनी बाला॥११॥
** महेन्द्रः—**ततस्ततः।
** नारदः—**तदनु हा नाथेति बहु विलपन्तीं रतिमाश्वासयदाकाशवाणी। यथा—
मुञ्च शोकमिहकामवल्लभेलङ्घ्यते जगति केन कल्पना।
उद्भविष्यति पुनश्च ते पतिःपार्वतीपरिणये पिनाकिनः॥१२॥
इति।
** महेन्द्रः—**(समाश्वस्य सहर्षमिव।)
भग्नो मनोरथो मे पुनरङ्कुरितुं किलायमुद्युङ्क्ते।
दावाग्निलीढशेषस्तरुरिव धाराधरेण संसिक्तः॥१३॥
** बृहस्पतिः—** मघवन्, सत्यैव वैहायसी वाणी। सर्वथा कामः पुनरुद्भविष्यति।
** महेन्द्रः—** ततस्ततः।
** नारदः—** कथंचित्प्रत्याश्वस्ता रतिर्नीता सा समा दुःखेन मधुना निजं भवनम्।
** महेन्द्रः—** कामं कथावशेषं कृत्वा कालकण्ठः किमकरोत्।
** नारदः—** स्त्रीसंनिकर्षपरिजिहीर्षया सह भूतगणेन भूतपतिरन्तर्धानमकरोत्।
** महेन्द्रः—**किं कृतवती पार्वती।
** नारदः—**
आगत्य दोर्भ्यामादाय मूर्च्छामुकुलितेक्षणा।
नीता नितान्तवात्सल्याद्गौरी हिमवता गृहम्॥१४॥
** महेन्द्रः—**भगवन्नारद, श्रुतं श्रोतव्यम्। किमतः परं प्रतिपद्यसे।
** नारदः—**पुनरिमं वृत्तान्तं सत्यलोकवर्तिने चतुर्मुखाय निवेदयितुं गमिष्यामि।(इति निष्क्रान्तः।)
(ततः प्रविशति रम्भा)
** रम्भा—**^(१)कुबेरभवणादो णिवट्टमाणाए ओसहिप्पत्थणअरे जो मए आकाण्णिदो वुत्तन्तो तं सामिणे विण्णवेमि। (इति परिक्रामति।)
** महेन्द्रः—**(विलोक्य।)
सञ्चारिणीव वल्ली विद्युल्लतिकेव चापलोन्मुक्ता।
मोहनकलेव मूर्ताकास्विदियं कमलपत्राक्षी॥१५॥
(निरूप्य।)रम्भा खल्वियम्।
** रम्भा—**(उपसृत्य।)^(२)जेदु जेदु भट्टा।
** महेन्द्रः—**रम्भे कुत आगम्यते भवत्या।
** रम्भा—**^(३)कुबेरभवणादो।
** महेन्द्रः—** किमस्ति तत्रापूर्वो वृत्तान्तः।
** रम्भा—** ^(४)णीललोहिदस्स णिडिलग्गिकालजालेणकहावसेसिदो कामो त्ति सव्वो भणइ। अण्णच्चकिं वि ओसहिप्पत्थणअरे।
** महेन्द्रः—** किं तदन्यत्।
** रम्भा—** ^(५)मम्महदाहेण भग्गमणोरहा पव्वई परमेस्सरं जेव्ब पइंअहिलसन्दी कठिणेहिं तवच्चरणेहिं अत्तणो अहिलासं पूरिदुं इस्सदि त्ति।
** महेन्द्रः—** किमुक्तमस्मिन्नर्थेमातापितृभ्याम्।
** रम्भा—** ^(६)मेणआदेवीए एव्वं भणिदम्।
_______________________________________________________
१.कुबेरभवनान्निवर्तमानयौषधिप्रस्थनगरे यो मया आकर्णितो वृत्तान्तस्तं स्वामिने विज्ञापयामि।
२. जयतु जयतु भर्ता।
३. कुबेरभवनात्।
४.नीललोहितस्य निटिलाग्निकीलजालेन कथावशेषितः काम इति सर्वो भणति। अन्यञ्च किमप्योषधिप्रस्थनगरे।
५.मन्मथदाहेन भग्नमनोरथा पार्वती परमेश्वरमेव पतिमभिलषन्ती कठिनैस्तपश्चरणैरात्मनोऽभिलाषं पूरयितुमिच्छतीति।
६.मेनका देव्या एवं भणितम् ।
** महेन्द्रः—** किमिति।
** रम्भा—**
^(१)परुसो तवोविसेसो तुह उण अग्गं सिरीससुउमारम्।
विवसिदमेदं कहिणं पव्वइ ता दुक्करं त्ति पडिभाइ॥१६॥.
** महेन्द्रः—**किमुक्तं हिमवता।
** रम्भा—**^(२)अद्धि अणुमदं देण।
** महेन्द्रः—**रम्भे, साधीयांसमुदन्तमानीतवती। गच्छ त्वं समुचितनियोगकरणाय।
** रम्भा—**^(३)तहा। (इति निष्क्रान्ता।)
(नेपथ्ये)
** वैतालिकः—**
आधूय प्रणयं विवस्वति गते देशान्तरेपद्मिनी
सोढुं तस्य वियोगमक्षमतया म्लायत्सरोजानना।
संध्यावल्कलिनी द्विरेफपरिषद्रुद्राक्षमालावती
तत्प्राप्तिस्पृहयेव संप्रति तपःसक्ता समालक्ष्यते॥१७॥
** महेन्द्रः—**(आकर्ण्य।)वयमपि सन्ध्यां वन्दितुं साधयामः।
(इति निष्कान्ताः सर्वे।)
इति तृतीयोऽङ्कः।
________________________________________________
१. परुषस्तपोविशेषस्तव पुनरङ्गं शिरीषसुकुमारम्।
व्यवसितमेतत्कठिनं पार्वति तद्दुष्करमिति प्रतिभाति।
२.अस्त्यनुमतं तेन।
३. तथा
चतुर्थोऽङ्कः।
(ततः प्रविशति गृहीतमुनिविग्रहो नन्दी।)
** नन्दी—** आज्ञप्तोऽस्मि भगवता नीललोहितेन यथा— ‘नन्दिन्, मन्मथदाहेन भग्नमनोरथा पार्वती मन्निबन्धनेनभावेन महान्तं नियममनुतिष्ठन्ती गौरीशिखरनाम्नि पितुः शिखरे तपश्चरति। तपस्यन्त्याश्च तस्या व्यतीतोबहुतिथः कालः। तद्भवांस्तत्र गत्वा गृहीतमुनिवेषः कीदृशो वा तस्या नियमः, कीदृशो वाभिलाषबन्ध इति तत्सख्योर्जयाविजययोर्मुखेन विदित्वा पुनरागच्छतु’ इति। तत्प्रभोर्नियोगमनुतिष्ठामि। (इति परिक्रामन्विमृश्य।)प्रकृतिकठिनानि खलु स्त्रीणां चेतांसि। तथाहि।
एषा शिरीषसुकुमारशरीरयष्टि-
** श्चान्द्री कलेव नयनोत्सवमावहन्ती।**
संचेतुमिच्छति शिलाकठिनैः शरीरैः
** संपादितान्यपि तपांसि तपोधनानाम्॥१॥**
अपि च।
शेते या किल हंसतूलशयने निद्राति सा स्थण्डिले
** वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम्।**
या वा चन्दनपङ्कलेपशिशिरेधारागृहे वर्तते
** पञ्चानामुदितोष्मणां हुतभुजां सा मध्यमासेवते॥२॥**
(ततः प्रविशतः कुसुमावचयमाचरन्त्यौ जयाविजये।)
** जया—** ^(१)हला विजयतवच्चरणे किदमतीए गौरीए मणोरहकप्पद्दुमो कदा फलं दंसइस्सदि।
** विजया—**^(२)हला जए तहा मम्महदाहपरुसहिअओ णिक्करुण
_____________________________________________________
१.हला विजये तपश्चरणे कृतमत्या प्रियसख्या गौर्या मनोरथकल्पद्रुमः कदा फलं दर्शयिष्यति।
२.हला जये, तथा मन्मथदाहपरुषहृदयो निष्करुणतायाः प्रथमं निदर्शनभूतः परमेश्वरो यदा आर्द्रहृदयो भविष्यति तदा फलं दर्शयिष्यति।
दाए पढमंणिदंसणभूदो परमेस्सरो जदा दद्धहिअओ हुविस्सदि तदा फलं दंसइस्सदि।
(इति पुष्पावचयमाचरतः।)
** नन्दी—** इमे खलु तस्याःप्रियसख्यौ जयाविजये। यावदुपसर्पामि। (तथा करोति।)
** जया—** ^(१)हला मम पुष्पकरण्डअं पूरिदं पुप्फेहिं। तुह उण कहम्।
** विजया—** (पुष्पकरण्डकं विलोक्य) ^(२)मम उण अद्धं पूरिदं। अवसिद्धं पूरइस्सम्।(इति पुष्पकरण्डकं पुष्पैः पूरयति।)
** नन्दी—** (उपसृत्य।) भद्रं भवतीभ्याम्।
** जयाविजये—** ^(३)भअवं वन्दामो।
** नन्दी—**के युवाम्, किन्निमित्तं वा पुष्पावचयमाचरथ।
उभे— अह्मे हिमवदस्स कण्णाए गौरीए पिअसहीओ।तवच्चरणणिअमट्ठिदाए ताए देवपूआपुप्फाइंअवचिणुमो।
** नन्दी—** किंनिमित्तं वा तपस्तस्याः।
** जया—** ^(४)अणुरूवं वरं लहेअं त्ति।
** नन्दी—** कोऽसावनुरूपो वरः।
** जया—**
^(५)जं किल भणन्दि वेआ णिच्चजुवाणं पुराणपुलिसं च।
जो किल धारइ णिच्चं ईस्सरसद्दं च चन्दलेहांच॥३॥
______________________________________________
१.हला मम पुष्पकरण्डकं पूरितं पुष्पैः। तव पुनः कथम्।
२.मम पुनरर्घं पूरितम्। अवशिष्टं पूरयिष्यामि।
३.भगवन्, वन्दावहे।
४.आवां हिमवतः कन्यायाः गौर्याः प्रियसख्यौ। तपश्चरणनियमस्थितायास्तस्याः देवपूजापुष्पाण्यवचिनुवः।
५.अनुरूपं वरं लभेयमिति
६.यं किल भणन्ति वेदा नित्ययुवानं पुराणपुरुषं च।
यः किल धारयति नित्यमीश्वरशब्दं च चन्द्रलेखां च॥
एसा णो प्पिअसही तं जेव्व परमेस्सरं पइंअहिलसन्दी महिन्दप्पमुहं लोअपालं अवमण्णिअ तवच्चरणं करेइ। किं च मम्महदाहिवरइरादो पिदुणो घरं प्पविसिअ बलअं उक्कण्ठिदा आसी।
** नन्दी—** तत्कथम्, उच्यताम्।
** जया—**
^(१)पाण्डुक्खामसरीरा झडिदिणमन्तवअणसरसिरुहा।
क्खीणा पव्वइणलिणी पसुपइणोविरहग्गहेण॥४॥
** नन्दी—** ततः परं कथमासीद्वां प्रियसखी।
** जया—** ^(२)अदो वरं सुणु।
चच्चव्वापिचन्दणद्विपवणप्पस्सं ण संमण्णए
** सज्जं पल्लवकप्पिदं ण सहदेचन्दाअवं णिन्दह।**
णोवा पोम्मपलासणिम्मिअथणप्पावारमक्खम्मए
** सा णीहारसिलाअले सुणु वरं तावादुरा वट्टइ॥५॥**
** नन्दी—** एवं प्रबलमदनज्वरा सा पश्चात्किं कृतवती।
** उभे—** ३पच्छाकिंवि उवाअं अपेक्खन्ती तवच्चरणेहिं परमेस्सरं अहिमुखीकादुंपउत्ता तहा तिव्वणिअमं करेइ।
____________________________________________________
एषा नौ प्रियसखी तमेव परमेश्वरं पतिमभिलषन्ती महेन्द्रप्रमुखाल्ँलोकपालानवमान्य तपश्चरणं करोति। किं च मन्मथदाहिवैरहात्पितुर्गृहं प्रविश्य बलवदुत्कण्ठितासीत्।
१. पाण्डुक्षामशरीरा झटिति नमद्वदनसरसिरुहा।
क्षीणा पार्वतीनलिनी पशुपतेर्विरहग्रीष्मेण॥
२.अतः परं शृणु।
शश्वद्व्यावृतचन्दनाद्रिपवनस्पर्शं न संमन्यते
शय्यां पल्लवकल्पितां न सहते चन्द्रातपं निन्दति।
नो वा पद्मपलाशनिर्मिततनुप्रावारमक्षम्यते
सा नीहारशिलातले शृणु परं तापातुरा वर्तते॥
३.पश्चात्कमप्युपायमपश्यन्ती तपश्चरणैः परमेश्वरमभिमुखीकर्तुं प्रवृत्ता तथा तीव्रनियमं करोति।
** नन्दी—** तत्किमनेन संदिग्धफलेन दुर्लभवस्तुप्रार्थनानिर्बन्धेन। देवेष्वियं यं कंचिदनुरूपं वरं वृणीताम्। अयं पुनः खण्डपरशुरग्रणीरेव वीतरागाणाम्। तद्बुद्धिमुपदिशतां भवत्यौ सख्यौ।
** जया—** ^(१)भअवं, एव्वं अह्माणं प्पिअसहीए व्ववसिदं जहा परमेस्सरं एव्व पहं लहेअम्। अण्णहा अत्थ एव्व सिहरे कठिणेहिं तवच्चरणेहिं विलीणा भवेअं त्ति।
** नन्दी—**(आत्मगतम्।)श्रुतं श्रोतव्यम्। तमिमं वृत्तान्तं नीललोहिताय निवेदयामि।(प्रकाशम्)भद्रे, यथागतं गमिष्यामः। ( इति निष्क्रान्तः।)
** जया—**^(२)अम्हे वि प्पिअसहीए पूआपुप्फाइं उवहरामो।
(इति निष्क्रान्ते।)
इमि मिश्रविष्कम्भकः।
(ततः प्रविशति नैष्ठिकभूमिकावलम्बी शंकरः । )
** शंकरः—** (आत्मानं निर्वर्ण्य) पर्याप्तेयं भूमिका पार्वतीं प्रति प्रतारयितुम्। तथाहि।
अंसे कृष्णाजिनश्रीस्त्रिगुणविरचिता मेखला श्रोणिभागे
पाणावाषाढदण्डो भसितविरचितं पुण्ड्रकं भालदेशे।
दर्भैः क्लृप्तं पवित्रं श्रवसि परिणमन्मानतुङ्गी पिशङ्गी
मौलौपङ्क्तिर्जटानां जयवलयमिदं स्फाटिकं च प्रकोष्ठे॥६ ॥
(विचिन्त्य।)
यत्सा मन्मथमोहनास्त्रसमये सापत्रपा चारुणा
वक्त्रेण स्मितफुल्लगण्डफलकं व्रीडाविलोलेक्षणम्।
उन्मीलत्पुलकाङ्कुरं स्थितवती प्राप्तेव रूपान्तरं
तन्वी तत्पुनरद्य चेतसि मम प्रादुर्भवत्यञ्जसा॥७॥
________________________________________________________
१.भगवन्,एतदस्माकं प्रियसख्या व्यवसितं यथा परमेश्वरमेव पतिं लभेय। अन्यथात्रैव शिखरे कठिनैस्तपश्चरणैर्विलीना भवेयमिति।
२.आवामपि प्रियसख्याः पूजापुष्पाण्युपहरावः।
तदिदानीमेव गाढतरतरणिकिरणपरिक्लान्तामिव मेदिनीं मेघश्चातकमिवकठिनतपोविशेषतप्तामभ्युपपत्स्ये। यदैवं जयाविजयाभ्यां निवेदितो भावबन्धस्तस्या नन्दिना मह्यमर्पितस्तदैवात्मानमपाकर्तुमिवावधारयामि। (इति सविनयं परिक्रामति।)
(ततः प्रविशति जयाविजयाभ्यामन्वास्यमाना तपस्यन्ती पार्वती।)
** पार्वती—** (वामाक्षिस्पन्दनं सूचयित्वा।) ^(१)हला प्पिअसहिओ,
आणन्दवाहसिसिरं अकारणं फुरइ लोअणं वामम्।
मह मन्दभाइणीए जाअइ एअस्स अज्ज किं णु फलम्॥८॥
** जया**— ^(२)हला पव्वइ, इत्थिआणं वामक्खिचलणं पुरिसाणं दक्खिणक्खिचलणं सुउणं त्ति पउराणि भणन्दि। तहा मम्महदाहणिक्करुणो व परमेस्सरो कस्स वि मुणिणो मुहेण तुमं अणुगिण्हिस्सदि।
** पार्वती—**^(३)सच्चं होदु प्पिअमहीए वअणम्।
** विजया—** ^(४)सच्चं भणिदं सहीए जआए।
** शंकरः—** (पार्वतींदृष्ट्वा।)
क्वेदं तपः कठोरं क्वेदं सुकुमारमङ्गमबलायाः।
दिवसः कुत्र घनोष्मा कुत्र कला कमलकोमला चान्द्री॥९॥
अहो महत्तपःक्लेशमनुभवति मामुद्दिश्य मञ्जुभाषिणी।
___________________________________________________
१.हला प्रियसख्यौ
आनन्दबाष्पशिशिरमकारणं स्फुरति लोचनं वामम्।
मम मन्दभागिन्या जायते एतस्याद्य किं नु फलम्॥
२.सखि पार्वति, स्त्रीणां वामाक्षिचलनं पुरुषाणां दक्षिणाक्षिचलनं सुगुणमिति पौराणिका भणन्ति। तथा मन्मथदाहनिष्करुणोऽपि परमेश्वरः कस्यापि मुनेर्मुखेन त्वामनुग्रहीष्यति।
३.सत्यं भवतु प्रियसख्या वचनम्।
४.सत्यं भणितं सख्या जयया।
** जया—(**विलोक्य।) ^(१)हला पव्वइ, गहिअतणू विअ पुडमस्समो जुवा कोवि महापुरिसो इदोमुहो आअच्छइ।
** पार्वती—** ^(२)आअदाणं अदिहिणं तुम्हेहिं अच्चणा कादव्वा। अहं उण ज्जहापुव्वं णिअमं अणुचिट्ठामि।(इति मौनमवलम्बते।)
** शंकरः—** (निर्वर्ण्य)
आभाति वल्कलवती पाण्डुक्षामा मदीयविरहेण।
प्रतिपत्कलेव चान्द्री संध्याशकलेन संवीता॥१०॥
(इति समीपमुपसर्पति।)
(जयाविजये विष्टरमुपनयतः।)
(शंकरः उपविश्य मार्गखेदं नाटयति।)
(पार्वती सख्यौ विलोकयति।)
(सख्यौ वर्णिनं तालवृन्तेन वीजयतः।)
** शंकरः—**(हस्तमुद्यम्य।)गतः श्रमोऽस्माकमनन्यसामान्येन भवतीनां सौजन्येन।
** उभे—**(सविनयम्)^(३)कुदो आअच्छदि महापुरिसो।
** शंकरः—**अद्य कैलासादागम्यते।
** जया—** ^(४)जइ एव्वं अग्घं पडिगेण्हादुमहापुरिसो।
** शंकरः—** तथा(इत्यर्घ्यप्रतिग्रहं रूपयित्वा।)भद्रे, एकं प्रष्टुमभिलषामो भवत्यौ।
** जया—**^(५)पुच्छदु महापुरिसो।
** शंकरः—**कस्येयं दुहिता, के भवत्यौ, किंनिमित्तं वा कठोरे तपसि वर्तते।
_________________________________________________
१. सखि पार्वति, गृहीततनुरिव प्रथमाश्रमो युवा कोऽपि महापुरुष इतोमुख आगच्छति ।
२. आगतानामतिथीनां युवाभ्यामर्चना कर्तव्या । अहं पुनर्यथापूर्वं नियममनुतिष्ठामि ।
३. कुत आगच्छति महापुरुषः ।
४. यद्येवमर्घ्यं प्रतिगृह्णातु महापुरुषः ।
५. पृच्छतु महापुरुषः ।
** जया—**^(१)एसा णो प्पिअसही हिमवदम्स कण्णआ पव्वईणामहेआ। अम्हे वि से पिअसहीओ जआविजए। अणुरूववरलाहणिमित्तं अस्से तवच्चरणम्।
** शंकरः—**
जन्मान्ववाये प्रथमस्य धातुःपिता गरीयान्गिरिसार्वभौमः।
वपुर्मनोहारि वचश्च रम्यंपदं च लोकादतिलोकमस्याः॥११॥
तत्किमनया प्रार्थनीयो वरस्त्रिलोक्याम्।
** जया—**^(२)अत्थिको वि महापुरिसो।
** शंकरः—**कोऽसावात्मसौभाग्यविशेषदुर्विदग्धः कठिनहृदयः।
** जया—**^(३)महापुरिस, सुणाहि दाव। (जं किल भणन्ति वेआ ’ इत्यादि पठित्वा।) तं एव्व परमेस्सरं अहिलसन्दी णो प्पिअसही तवोणिअमं अनुचिट्ठइ।
** शंकरः—**(पार्वतीं प्रति)भद्रे, अपि सत्यमेतत्।
** पार्वती—**(मौनमुन्मुच्य।)^(४)महापुरिस, जहा आअक्खिदं सहीहिंतहामे मणोरहो।
** शंकरः—**(आत्मगतम्)इदानीमात्मनिन्दनैरपि अविचालि चित्तमस्याः परीक्षिष्ये। (प्रकाशं।सहस्ततालं प्रहस्य।)
आलेपो भसितं विभूषणमहिर्वासः पितॄणां वने
** वेतालाः परिचारकाः प्रतिदिनं वृत्तिश्च भिक्षामयी।**
इत्थं यस्य शुभेतराणि चरितान्याख्यान्ति सर्वे जना-
** स्तस्मिन्मौग्ध्यवशान्मतिस्तव रुचिं बध्नाति किं ब्रूमहे॥१२॥**
_____________________________________________________
१.एषा नौ प्रियसखी हिमवतः कन्यका पार्वतीनामधेया। आवामप्यस्याः प्रियसख्यौ जयाविजये। अनुरूपवरलाभनिमित्तं चास्यास्तपश्चरणम्।
२.अस्ति कोऽपि महापुरुषः।
३.महापुरुष, शृणु तावत्। तमेव परमेश्वरमभिलषन्ती नौ प्रियसखी तपोनियममनुतिष्ठति।
४.महापुरुष, यथाख्यातं सखीभ्यां तथा मे मनोरथः।
अन्यच्च।
जगत्त्रयीलोचनबालचन्द्रिकाकुलस्य रत्नं भवती क्वभूभृतः।
क्वकृत्तिवासाः पितृकानने वसन्नमङ्गलाचाररतिस्त्रिलोचनः॥१३॥
** पार्वती**—(कर्णौपिधाय।)^(१)सन्तं पावं, सन्तं पावम्।
** शंकरः—**यद्येवं ते दृढतरो मनसि निश्चयस्तर्हि।
विधुंतुदं चान्द्रमसी यदि कामयते कला।
वरं वृणीताद्भवती संप्रत्येव पिनाकिनम्॥१४॥
** पार्वती—**(मुखवैवर्ण्येरूपयित्वा।)
^(२)जं कुव्वन्ति खु णिअमा सअला अवि मउलिणा णमक्कारम्।
तं गिरिसं निन्दन्तो किं णु तुह जिहा ण होइ णिब्भिण्णा॥१५॥
हला सहि, महापुरिसणिन्दाकालिणं ण तारिसं पावं जारिसं सुणंदाणम्। एस उण बह्मणो ईस्सरणिन्दाणिरङ्कुसमुहो ता अण्णदो सरामो। (इति विस्रंसमानवल्कलमन्यतः परावर्तते।)
** शंकरः—**(स्वरूपं प्रकाश्य।)
परिणाहि स्तनयुगलं कृशमवलग्नं क्षमेत किं गिरिजे।
तव हस्तदानचतुरस्तपसा हि कृतोऽयमस्मि दासजनः॥१६॥
(इति पार्वत्या हस्तमवलम्बते।)
(पार्वती सभयविस्मयप्रहर्षपुलकिततनुः प्रस्विन्नगण्डा प्रतिपत्तिमूढा तिष्ठति।)
** जया—**^(३)प्पिअं णो, प्पिअं णो । सण्णिहिदो परमेस्सरोअह्माणं सक्कम्मपलिणामेण।
_____________________________________________________
१.शान्तं पापम्, शान्तं पापम्।
२.यं कुर्वन्ति खलु निगमास्सकलाः अपि मौलिना नमस्कारम्।
तं गिरिशं निन्दतः किं नु तव जिह्वा न भवति निर्भिन्ना॥
हला सखि, २महापुरुषनिन्दाकारिणां न तादृशं पापं, यादृशं शृणु तावदेनम्। एष पुनर्ब्राह्मण ईश्वरनिन्दानिरङ्कुशमुखस्तदन्यतः सरामः।
३.प्रियं नः, प्रियं नः। संनिहितः परमेश्वरोऽस्माकं सत्कर्मपरिणामेन।
** शंकरः—**
आविःश्रमाम्बुकणिकामङ्गलतां गाढमङ्कुरत्पुलकाम्।
मण्डितपयोधरां तामालिङ्ग्यकृती भवाम्यहं गिरिजे॥१७॥
तदिमांगान्धर्वेण विवाहेन पाणौ कर्तुमभिलषामि।
** जया—**^(१)भअवं, अम्हाणं पत्थणा तुए कादव्वा। जहा सअलकुलाचलचक्कवट्टिणो तादस्स हिमवदस्स घरणिम्मिअविवाहकज्जे उवत्थातुं मंपडिच्छ।
** शंकरः—**(सनिर्वेदमात्मगतम्।)इतःपरं कथमिमां विहाय वर्तिष्ये। (प्रकाशम्।)भवतु। लोकयात्रा न हातव्या।
** जया—**^(२)पञ्चसदिवसब्भन्तरे जहा विवाहमङ्गलं भविस्सदि तहा करीअदु।
** शंकरः—**त्रिचतुरदिवसाभ्यन्तर इति वक्तव्यम्। तथाहि।
क्षणमपि विरहे मम प्रियायाः
** कलयति कल्पसहस्रकोटिसाम्यम्।**
कतिपयदिवसप्रयोगमेनं
** कथमिव हन्त सहिष्यते मनो मे॥१८॥**
(पाणिं मुञ्चति।)
** जया—** ^(३)अह्मेगच्छामोविवाहमङ्गलं संवादेदुम्।
** शंकरः—** तथा क्रियताम्। वयमपि सप्तर्षीन्विवाहमङ्गलाय प्रेषयितुं गमिष्यामः।
(इति निष्कान्तास्सर्वे।)
इति चतुर्थोऽङ्कः।
______________
________________________________________________________
१.भगवन्अस्माकं प्रार्थना त्वया कर्तव्या। यथा सकलकुलाचलचक्रवर्तिनस्तातस्य हिमवतो गृहनिर्मितविवाहकार्ये उपस्थातुं माप्रतीच्छ।
२.पञ्चदिवसाभ्यन्तरे यथा विवाहमङ्गलं भविष्यति तथा क्रियताम्।
३.वयं गच्छामो विवाहमङ्गलं संपादयितुम्।
पञ्चमोऽङ्कः।
(ततः प्रविशति कञ्चुकी।)
** कञ्चुकी—**आज्ञप्तोऽस्मि सकलकुलाचलचक्रवर्तिना हिमवता। यथा—‘शिलाधरः पूर्वेद्युरेव परमेश्वरप्रहिताः सारुन्धतीकाः सप्तर्षयःसमागत्य लब्धवराया वत्साया दिनमिदं विवाहमङ्गलयोग्यमकल्पयन्। तद्भवता चौषधिप्रस्थवासिनः पौराः पुरं परिष्क्रियतामिति नियोक्तव्याः’ इति। तत्प्रभोर्नियोगमनुतिष्ठामि। (इति परिक्रम्य सर्वतो विलोक्य।) भो भोः पौराः,
संनह्यन्तां विचित्राः प्रतिभवनमिह श्रेणयस्तोरणाना-
** मुन्नेष्यन्तां समन्ताद्गगनतललिहः केतनानां पताकाः।**
संसिच्यन्तां पटीरद्रवभरितजलैर्वीथयोमुक्तपुष्पाः
** संप्राप्तोऽसावुमायाः परिणयदिवसो विश्वमाङ्गल्यहेतुः॥१॥**
(आकाशे।)किं ब्रूथ,— ‘भवद्वचनात्प्रागेव सर्वमस्माभिर्द्विगुणमाचरितम्’ इति। (सर्वतो निर्वर्ण्य सहर्षम्।) अहो, अम्मदादेशात्प्रागेव प्रवृत्तमहोत्सवं नगरम्। तथाहि।
एषावन्दनमालिका विरचिता चूतप्रवालैर्नवै-
** रम्भास्तम्भपरिष्कृतेषु भवनद्वारेषु संलक्ष्यते।**
आमन्द्रध्वनयः क्वणन्ति मुरजा मूर्च्छन्ति तन्त्रीस्वराः
** शिञ्जानैर्मणिभूषणैस्तत इतोनृत्यन्ति वाराङ्गनाः॥२॥**
इतश्च।
उत्सर्पदागरवधूपपरम्पराभिः
** प्रादुर्भवत्यभिनवो जलदागमोऽयम्।**
उन्नद्धतोरणमणिप्रभया स्फुरत्या
** संजायते च शतमन्युशरासनश्रीः॥३॥**
अन्यतश्चामूः।
धवलारुणमेचकैरपाङ्गैरपिरामा रचयन्तिरङ्गवल्लीम्।
कुचयोर्युगलेन पूर्णकुम्भात्पुनरुक्तानिव कुर्वते मृगाक्ष्यः॥४॥
(सर्वतोऽवलोक्य।)
विक्षिप्तः सरभसमेषपौरलोकै-
** र्विस्फूर्जत्कनकरजःपिशङ्गदीप्तिः।**
प्रत्यग्रद्युमणिमयूखजालशोभा-
** माधत्ते दिशि दिशि कौङ्कुमः परागः॥५॥**
तदेनंप्रवर्तमानं पुरपरिष्कारं प्रभवे निवेदयामि।
(ततः प्रविशति विवाहस्थानमधिवसन्हिमवान्।)
** हिमवान्—**
पूर्वं नारदसूचनेन महता चन्द्रार्धचूडामणि-
** र्जामातेत्यभवत्पुनस्तदनु तत्संप्राप्तिराकाङ्क्षिता।**
लब्धोऽसौ तपसा मया दिनमिदं तस्याश्च वैवाहिकं
** जातो विघ्नगणानतीत्य कृतिनामद्याहमग्रेसरः॥६॥**
** शिलाधरः—**(उपसृज्य।)जयतु स्वामी।
** हिमवान्—**किं पुरपरिष्कारः प्रवर्तितो भवता।
** शिलाधरः—**स्वामिन् अस्मदीयोऽयमुत्सव इति प्रत्येकं पौराणामभिमानः। कथं परिहीयते पुरपरिष्कारः। सर्वं द्विगुणमाचरितं पौरैः।
** हिमवान्—**शिलाधरः, किं सर्वे पर्वताः पार्वतीपरिग्रहणमङ्गलं द्रष्टुमागताः।
** शिलाधरः—**स्वामिन् अवधार्यताम्।
भूपङ्केरुहकर्णिकायिततनुर्मेरुः सुराणां प्रियो
** योक्त्रीभूतभुजङ्गराजकषणस्निग्धोपलो मन्दरः।**
विन्ध्यो व्योमनि भानुमालिपदवीजङ्घालश्रृङ्गावलिः
** साकं संप्रति गन्धमादनमुखैस्त्वां द्रष्टुमभ्यागताः॥७॥**
** हिमवान्—** अथ कैलासः किं करोति।
** शिलाधरः—** स्वामिन् स खलु जामातृपक्षस्थस्तेनैव सार्धमागमिष्यति।
** हिमवान्—** युज्यते। अथ विश्वावसुप्रभृतय आगता गन्धर्वाः।
** शिलाधरः—**
आतोद्यपाणयः सर्वे गन्धर्वाः सवधूगणाः।
उपवीणयितुंप्राप्ता मानयन्नस्तवोत्सवम्॥८॥
** हिमवान्—** आगताः किंमप्सरसः सार्धममरैः।
** शिलाधरः—** श्रूयताम्।
विद्युद्वल्लीवितानव्यतिकरसुषमां व्योम्नि विस्तारन्त्यः
** कान्त्या नीलोत्पलानां श्रियमिव नयनैर्दिङ्मुखैर्दर्शयन्त्यः।**
ज्योत्स्नालक्ष्मीं दिवापि स्मितरुचिविसरैर्विष्वगुत्पादयन्त्यः
** सर्वाः स्वर्वारयोषाः समममरगणैरागताः प्रीतये नः॥९॥**
** हिमवान्—** यद्येवमन्तःपुरं गत्वा भवान्कुलवृद्धां कौशिकीं पुरस्कृत्य समागताभिरप्सरोभिर्वत्सा पार्वती सम्यगलंक्रियतामित्यभिधत्ताम्। अलंक्रियाप्रकारं च कौशिकी समागत्य मह्यमाचष्टाम्। किंचागतानां वधूनां गिरीणां च सत्कृतये तत्रभवता संविधातव्यः सकललोकवस्तुसंभारः।
** शिलाधरः—**यथादिष्टं स्वामिना तथा सर्वं संपादयिष्यामि। (इति निष्कान्तः।)
(प्रविश्य।)
** नारदः—**
प्राङ्मया यदुपक्रान्तं कार्यं गुरु दिवौकसाम्।
अन्तरायानतिक्रम्य तद्धि सिध्यति सांप्रतम्॥१०॥
(इति परिक्रम्यावलोक्य च। अयमध्यास्तेविवाहमण्डपं हिमवान्। तदेनमुपसर्पामि।(इत्युपुसर्पति।)
** हिमवान्—**(विलोक्य।)अये. नारदः।(अञ्जलिं बध्नाति।)
** नारदः—**हिमवन्,अभ्युदयः खलु तत्रभवतः।
**हिमवान्—**भवदुपक्षिप्तस्यफलमिदं बीजस्य।(इत्यासनमुपनयति।)
(नारदः उपविशति।)
(ततः प्रविशतिकौशिकी। उपविश्य पार्वत्याःपरिकर्मप्रकारंनिर्दिशति।)
** हिमवान्—**किमलंकृता वत्सा।
** कौशिकी—**भगवन्, कथयामि। श्रूयताम्।
** हिमवान्—**अवहितोऽस्मि।
** कौशिकी—**
असमग्रभूषणायास्तनुतरकौशेयवसनधारिण्याः।
आलिप्तमङ्गमखिलं तैलेन सुगन्धिना तस्याः॥११॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
मणिपीठवर्तिनींतां मङ्गलशङ्खेषु मन्द्रघोषेषु।
अम्भोभिरमरनद्याः सखीजनो विहितमज्जनां व्यतनोत्॥१२॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
मङ्गलमज्जनविशदा कर्पूरक्षोदपाण्डुरं क्षौमम्।
साऽधत्त जलदधौता द्यौरिव शरदिन्दुचन्द्रिकाद्भेदम्॥१६॥
** हिमवान्—**ततस्ततः ।
** कौशिकी—**
चरणकमलं तदीयं लाक्षाबालातपेन संवलितम्।
अध्यास्त भृङ्गमालावलिभिर्मणिखचितनूपुरव्याजात्॥१४॥.
** हिमवान्—**ततस्ततः।
** कौशिकी—**
बद्धा मणिमयकाञ्चीतस्याः परिणाहशालिनि नितम्बे।
पङ्क्तिरिव सारसानां सुरसरितः पुलिनमण्डलाभोगे॥१५॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
करतलयुगपरिणद्धेकुचकलशे कुङ्कुमारुणे तस्याः।
सिन्दूरिते करिपतेः कुम्भेनक्षत्रमालेव॥१६॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः।
सविधप्रसूनरत्नं शङ्खनिधिं दूरतरमकरोत्॥१७॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
मुक्ताताटङ्कयुगं प्रतिमुक्तंकर्णपार्श्वयोरस्थाः।
मुखममलमिवनिषेवितुमागतममृतांशुबिम्बयुगम्॥१८॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
आयामिनोस्तदक्ष्णोरञ्जनलेखाविधिं वितन्वत्याः।
पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य॥१९॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
तस्या ललाटसीमनि चन्दनपङ्केन मेनया लिखितम्।
आसीत्सितातपत्रं तिलकमनङ्गस्य दर्शितच्छायम्॥२०॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
आगुल्फलम्बमस्याः कुन्तलमन्तर्निगूढमन्दारम्।
संयम्य चतुरबन्धं सखीजनः स्तिमितनेत्रमासचिरम्॥२१॥
** हिमवान्—**ततस्ततः।
** कौशिकी—**
अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः।
अङ्गानिभूषणानां कामपि सुषमामजीजनंस्तस्याः॥२२॥
** हिमवान्—**यद्येवं तत्सम्यगलंकृता वत्सा। तद्भवत्यासंनिधिविशेषेण।
(नेपथ्ये।)
भ्राम्यन्मन्दरकन्दराहतिचलत्क्षीरोदपूरोदर-
** स्फूर्जद्वीचिपरम्पराकलकलप्राचण्डचवैतण्डिकः।**
निर्घोषैः कुलशैलगह्वरगुहारन्ध्राणि वाचालय-
** न्दिव्यः कश्चन दुन्दुभिः पटुरवः साटोपमाहन्यते॥२३॥**
(सर्वे संभ्रममाकर्णयन्ति।)
(पुनर्नेपथ्ये)
जम्भारे भव पार्श्वतः, परिसरेणायाहि लक्ष्मीपते
** वेधःस्वस्त्ययनान्यधीष्टमुनयः प्रब्रूत रौद्रीमृचम्।**
चन्द्रार्कावपि चामरे विधुनुतांछत्री भवाहीश्वर
** प्रष्ठारुद्रगणाः प्रयात पवन स्पन्दस्व मन्दोदयः॥२४॥**
** हिमवान्—**भगवन्नारद, कोऽयं देवानामिव कोलाहलः श्रूयते।
** नारदः—**सकलजगदुत्पत्तिस्थितिप्रलयहेतुरुद्घुष्यमाणमहिमा चराचरगुरुस्ते जामाता चटुल विवाहवेषमास्थाय सह देवगणैरित एवाभिवर्तते। अयं कलकलस्तत्पुरःसरनन्दिनः प्रोत्सारणायाः। तद्भवानर्घ्यपाणिः प्रत्युद्यातु भगवन्तमिन्दुशेखरम्।
(ततः प्रविशतिगृहीतविवाहवेषः शंकरो देवलोकश्च।)
** शंकरः—**(शार्ङ्गिणं प्रति।)अमरावतीमतिक्रम्य शोभते पुरमिदमोषधिप्रस्थम्।
** शार्ङ्गी—**किं परिहीयते महेन्द्रान्महीधरेन्द्रः।
(हिमवानर्घ्यपाणिरुपसर्पति।)
** शंकरः—**(अवलोक्य।)अभ्युद्गच्छति मामगाधिराजः। तद्वाहनादवरुह्य यास्यामः।(तथा करोति।)
** हिमवान्—**
आ चार्मणानामपिदूरमक्ष्णामकर्तृकाणां वचसामभूमिम्।
जामातरं लब्धुममुं गिरीशंकियन्ति पुण्यानि मया कृतानि॥२५॥
(इत्युपसर्पति।)
** शंकरः—**(विलोक्य।)
अतिगुरुचरणक्रमैर्वितन्व-
** न्नवनमितोन्नमितस्थलामिवोर्वीम्।**
विनयमुपदिशन्निवात्मभाजा-
** मयमुपसर्पति मामगाधिराजः॥२६॥**
(हिमवानर्घ्यमुपहरति।)
(शंकरः सप्रणामं प्रतिगृह्णाति।)
(हिमवान्सलज्जंमुखवनमयति।)
(जामातरं पुरस्कृत्य हरिविरिञ्चिमुखाः परिक्रामन्ति।)
** ब्रह्मा—**भगवन्, कुत्र वैवाहिकी वेदी।
** हिमवान्—**इत इतो भवन्तः।
(सर्वे उपसर्पन्ति।)
** बृहस्पतिः—**हिमवन्, प्रत्यासन्नो मुहूर्तः।
(ततः प्रविशति जयाविजयाभ्यां सह पार्वती।)
** पार्वती—**^(१)अज्ज क्खु मे मणोरहकप्पद्दुमो फलं दंसेइ।
** जया—**(सस्मितम्।)^(२)हला पव्वई, एत्तिअं तुह प्पिअसहिओ वि आवंजाआ।
___________________________________________________
१.अद्य खलु मे मनोरथकल्पद्रुमः फलं दर्शयति।
२.हला पार्वति, एतावत्तव प्रियसख्यवपिआवांजाते।
** पार्वती—**(सासूयम्।) ^(१)हला विजए, किं एसा भणइ।
** विजया—** ^(२)हला पव्वइ, एसा सरसालापपेसलत्तणं दंसेइ। (इत्युपसर्पति।)
** ब्रह्मा—**(शार्ङ्गिणं प्रति।)भगवन्, सर्वे देवाः सह भूतगणैर्यथास्थानमुपविशन्तु।
(सर्वे तथा कुर्वन्ति।)
** हिमवान्—** अस्मत्पक्षाः कुलपर्वताश्च कैलासेन समं वामपार्श्वे उपविशन्तु।
(कुलपर्वताश्च तथा कुर्वन्ति।)
** शंकरः—**(पार्वतीं विलोक्य।आत्मगतम्।)
एषा विशेषरम्या विवाहवेषेण मोहनेन दृशा।
प्रतिभाति मानसे मे मदनसहस्राणि कल्पयन्तीव॥२७॥
** ब्रह्मा—** भो शंकर, वध्वा सहास्यां वेदिकायां प्राङ्मुखो वर्तेथाः।
(शंकरः पार्वत्या सहोपविशति।)
** शंकरः**—(आत्मगतम्।)
नन्दितनयनचकोरा नवनवलावण्यकौमुदीविसरा।
उत्कूलयति मनो मे जलधिंसैषा कलेव चान्द्रमसी॥२८॥
** बृहस्पतिः**—(अग्निमुपसमाधाय।) शंकर, त्वदीयेन पाणिना पार्वत्याः पाणिमवलम्बस्व।
(शंकरस्तथा करोति।)
(पार्वती पुलकोद्भेदमभिनयति।)
** शंकरः**—(आत्मगतम्।)
आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा।
अभिनववसन्तसङ्गादाविर्मुकुलेव बालचूतलता॥२९॥
______________________________________________________
१.हला विजये, किमेषा भणति।
२.हला पार्वति, एषा सरसालापपेशलत्वं दर्शयति।
** ब्रह्मा—**वधूवरौ, पावकं प्रदक्षिणांकुरुताम्।
(उभौ तथा कुरुतः।)
(पार्वती शंकरमवलोकयति।)
(शंकरः प्रत्यवलोकयति।)
(पार्वती दृष्टिं परावर्तयति।)
** शंकरः—**(आत्मगतम्।)
अवलोकनाय लोला दृष्टिरियं मृगदृशो निवृत्तिमती।
गत्वा प्रतिप्रवाहंराजति शफरी निवर्तमानेव॥३०॥
(बृहस्पतिः पार्वत्याः पाणिना जलाञ्जलिं कारयति।)
(पार्वती धूमाक्रमणेन वैक्लव्यं निरूपयति।)
** शंकरः—**(आत्मगतम्।)
प्रस्विन्नगण्डफलकच्युतपत्रलेख
** धूमाभिषङ्गगलिताञ्जनपाटलाक्षम्।**
म्लायद्वसन्तकुसुमं मुखमायताक्ष्या-
** श्चित्ते ममार्पयति कामपि रागमुद्राम्॥३१॥**
** बृहस्पतिः—**शंकर, पार्वत्याः पादकमलं पाणिभ्यामश्मानमारोपयतु भवान्।
(शंकरः स्मयमानमुखस्तूष्णीं तिष्ठति।)
** कुलपर्वताः—**(ससम्भ्रमम्।)भगवन्, प्रमाणभूतेन पुरोधसा यदुच्यते तदनुष्ठीयताम्।
** भूतगणाः—**(ससम्भ्रमम्।)कुलपर्वताः, कथमिव नियम्यते त्रिभुवननियन्ता नीललोहितः।
** ब्रह्मा—**(सस्मितमुभयान्निवार्य।) सकलजननियामिका स्वतःप्रमाणभूताश्रुतिरेवसम्यगित्थ-मभिदधाति। तद्यथोक्तमनुष्ठीयताम्।
(शंकरः संकुचिताभ्यां पाणिभ्यां पार्वत्याः पादकमलमश्मानमारोपयति। बृहस्पतिः कर्मशेषं समापयन्वधूवरौ ब्रह्माणं प्रणमयति।)
** ब्रह्मा—**(हस्तमुद्यम्य।)
सकलजगतां सवित्रोरनन्यसामान्यमस्तु वां प्रेम।
भुवनभयभङ्गदक्षो भवतु कुमारोऽपि तारकध्वंसी॥३२॥
(इत्याशिषं प्रयुङ्क्ते।)
(प्रविश्य)
** वृद्धपुरन्ध्र्यः—**
^(१)अण्णोण्णसमसरीराणं अण्णोण्णप्परूढगाढपेम्माणं।
जोण्हाणिसाअराणं तुम्हाणं होदु को वि अणुराओ॥३३॥
(इत्यार्द्राक्षतारोपणमाचरन्ति।)
** नारदः**— (उत्थाय साञ्जलिबन्धम्।) भगवन्, देवकार्यहेतोः कृतापराधं कंदर्पं पुनर्गृहीतवपुषं पदकमलसेविनं च भवाननुगृह्णातु।
** शंकरः—** यथा रोचते तथा भवतु।
(ततः प्रविशति रतिवसन्ताभ्यां सह पूर्वाकाराधिकविग्रहः कामः।)
** सर्वे—**
माधुर्यसौरभतरङ्गितचापबाणः
** सख्युः करं समवलम्ब्य शनैरनङ्गः।**
आयातिरुद्रनयनानलदग्धकायः
** पूर्वाधिकः कथमहो ललनासमेतः॥ ३४ ॥**
(सर्वे विस्मयं निरूपयन्ति।)
** हिमवान्**—(सहर्षम्।)
पुण्यैरेव पुरातनैरुपनतैर्देवेन विश्वात्मना
** पुत्री भूरिगुणावदातचरिता पाणौ गृहीता मम।**
देवानां च मनोरथः परिणतः प्राप्यानवद्यं वपु-
** र्लोकानन्दकरः स्मरोऽपि नयनातिथ्यं विधत्ते पुनः॥३५॥**
** ब्रह्मा**— किमतःपरं ते प्रियमस्ति।
** हिमवान्**— समधिगतसकलमनोरथानां नः किमतःपरं प्रार्थनीयम्। तथापीदमस्तु भरतवाक्यम्।
_____________________________________________________
१.अन्योन्यसमशरीरयोरन्योन्यप्ररूढगाढप्रेम्णोः।
ज्योत्स्नानिशाकरयोर्युवयोर्भवतु कोऽप्यनुरागः॥
पर्जन्यो वृष्टिमिष्टां प्रदिशतु जगतो भद्रसंपादयित्रीं
** शश्वत्सस्यैः प्ररूढैर्भवतु पुलकिता सर्वतो भूतधात्री।**
वर्धन्तां वीतविघ्नाः स्फुरदुपकृतयः संपदः सज्जनानां
** नित्यानन्दो महेशो निरतिशयसुखप्राप्तये कल्पतां वः॥३६॥**
[इति निष्क्रान्ताः सर्वे।
इति पञ्चमोऽङ्कः।
इति श्रीबाणकविकृतंपार्वतीपरिणयं नाटकं संपूर्णम्॥
श्लोकानुक्रमणी ।
<MISSING_FIG href="../books_images/U-IMG-1730738639Capture13.PNG"/>
| श्लोकः | **अङ्कसं | श्लोकसं.** | श्लोकः |
| अंसे कृष्ण | ४ | ६ | आविःश्रमाम्बु |
| अङ्गंभूषण | ५ | ३३ | आसेचनक |
| अण्णोण्णसम | ५ | २२ | उद्धृत्यामर |
| अतिगुरुचरण | ५ | २६ | उद्यद्भिः शिख |
| अत्रान्तरे हर | ३ | ८ | उत्सर्पदागरव |
| अदक्षिण | ३ | १ | उत्सारयन्निव |
| अप्रतिमरूप | १ | १८ | एषा चन्दन |
| अवलोकनाय | ५ | ३० | एषा विशेष |
| असमग्रभूष | ५ | ११ | एषा शिरीष |
| असावलोक | २ | १० | कमनीयता |
| अस्ति कविसार्व | १ | ४ | करतलयुग |
| अस्तु स्वस्त्यय | २ | १६ | कुचयुगुलं |
| अष्टाभिरेव | १ | २१ | कैश्चिन्नेत्रै |
| आगत्य दोर्भ्या | ३ | १४ | क्वायं सुगन्धि |
| आ गुल्फलम्ब | ५ | २१ | क्वेदं तपः |
| आ चार्मणाना | ५ | २५ | क्षणमपि |
| आणन्दवाह | ४ | ८ | गिरिवरतटिनी |
| आतोद्यपाणयः | ५ | ८ | गुरुतरशोका |
| आदाय चाप | ३ | ५ | चच्चव्वापिद |
| आदौ प्रेम | १ | १ | चक्रेण विष्णो |
| आधूय चन्दन | ३ | ४ | चरणकमलं |
| आधूय प्रणयं | ३ | १७ | चूताः कोरकिता |
| आभाति बालि | ५ | २९ | जं किल भण |
| आभाति वल्कल | ४ | १० | जं कुव्वन्ति |
| आभोगशालि | १ | १४ | जगस्त्रयीलो |
| आयामिनोस्त | ५ | १९ | जन्मान्ववाये |
| आरादञ्जलि | १ | ८ | जम्भारे भव |
| आरादपश्य | ३ | १५ | तदनु युगप |
| आलेपो भसितं | ४ | १२ | तस्मिन्वने |
| श्लोकः | **अङ्कसं. | श्लोकसं.** | श्लोकः |
| तस्या ललाट | ५ | २० | मङ्गलमज्जन |
| त्यजन्यास्यामि | २ | १५ | मणिपीठ |
| त्रिभुवनगुरुणा | १ | १२ | माधुर्यसौरभ |
| त्रैलोक्यनाथ | २ | ९ | मुक्ताताटङ्क |
| त्रैलोक्यशास | २ | ७ | |
| दक्षाल्लब्ध | १ | ७ | मुखरमधुप |
| दत्तं प्रियामि | ३ | ३ | मुग्धैरप्सरसां |
| दनुजो वा | २ | १२ | मुञ्च शोक |
| दिवापि देह | १ | २२ | यत्सा मन्मथ |
| धवलारुण | ५ | ४ | वाचालयन्नथ |
| नन्दितनयन | ५ | २८ | विक्षिप्तः सर |
| न नागलोके | १ | १९ | विद्युद्वल्ली |
| परिणाहि स्तन | ४ | १६ | विधिरेव कन्य |
| परुसो तवोवि | ३ | १६ | विधुंतुदं चान्द्र |
| पर्जन्यो वृष्टि | ५ | ३६ | विपुलकनक |
| पाण्डुक्खाम | ४ | ४ | वृत्रं बलं च |
| पुण्येन केनापि | १ | २० | शेते या किल |
| पुण्यैरेव पुरातनै | ५ | ३५ | शिरसि निप |
| पूर्व नारद | ५ | ६ | संविधानस्य |
| प्रस्विन्नगण्ड | ५ | ३१ | सकलजगतां |
| प्राङ्मया यदुप | ५ | १० | संचारिणीव |
| बद्धा मणिमय | ५ | १५ | संनह्यन्तां |
| ब्रह्मस्तम्ब | २ | ३ | संमोहने तव |
| भग्नो मनोरथो | ३ | १३ | संपदमतरल |
| भूपङ्केरुह | ५ | ७ | स्वायत्तसिद्धा |
| भ्राम्यन्मन्दर | ५ | २३ | हैमवते कटक |
________________________
]
-
“आर्य, इयमस्मि।’”
↩︎