परिचयः
- कर्ता राजारमज-शङ्करः।
- अत्र कवेः प्रेक्षाप्रकाशकाणाञ् चानुमत्या प्रस्तूयते।
प्रस्तावना
यन्-मार्गण-कुसुम-
रजः-सङ्ग-पिशङ्गी तनुः पुरारातेः ।
भस्मोद्-धूलन-भङ्ग्या
निगूह्यते स स्मरो जीयात् ॥१॥(५)
(नान्द्यन्ते)
सूत्रधारः -
क्वचिद् भृङ्गीगीतं पिक-विरुतम् अन्यत्र मधुरं
कुतश्चिल् लोलाक्षी-लुलित-मणि-काञ्ची-कलकलः ।
वसन्ते निश्शेषं भुवनम् अभितः पान्थ-कटुना
यथा कन्दर्पस्य स्फुटति जय-शब्देन भरितम् ॥२॥(५)
(क्षणमालोच्य)
अथवा मुधैव क्रियन्ते पूर्व-सिद्धा ईदृश्यो वर्णनाः ।
सिद्धा वर्णन-सामग्री
कापि वार-वधूर् इव ।
सर्वेषाम् उपभोगाय
स्वामित्वाय न कस्यचित् ॥३॥(५)
तच् चर्वितचर्वणे कीदृशी स्वोपज्ञता? प्राय एतदेव मनसि कृत्वा परिषद् एषा माम् आदिष्टवती यथा - “अनन्यपूर्वः कोऽपि भाणः प्रस्तूयताम्” इति ।
पश्चात् तदर्थम् इतस्ततो विचिन्वता मया - दानवानां मध्ये प्रह्लाद इव(५) - दुष्कवीनां मध्ये कोऽपि कल्याण-पुरवासी शङ्कर इति सत्कविर् आसादितः । प्रार्थितश् च - “अनन्यपूर्वः कोऽपि भाणो विधीयताम्” इति ।
सोऽपि “शिरोधार्यम् आर्य-गणेशस्य वचनम्” इति चिन्तयन् कतिपयेषु दिवसेष्व् एव निपुणप्राघुणकम् इति भाणम् एकम् अरचयत् । तदनु च मह्यम् अदात् । तम् एव भाणम् अधुना प्रयोक्तुम् इच्छामि ।
(आकर्ण्य) कथमसौ द्वारोद्घाटनशब्द इव श्रूयते? आः ज्ञातम् ।
सन्ततम् अजात-शत्रुश् चित्र-कथा-लेखकाग्रणीर् एषः ।
कलह-दवानल-मेघो बहिर् एति गृहेभ्य आर्यशेखरकः ॥४॥
तद्यावदहमपि गच्छामि ।
(इति निष्क्रान्तः)
(इति प्रस्तावना)
विटप्रवेशः
(ततः प्रविशति विटः)
विटः - अहो रमणीयता अस्य प्रदेशस्य-
इदम् इह कल्याण-पुरं
परितो विभ्राजमान-सौध-कुलम् ।
कर्णाट-देश-वनिता-
विलास-मय-मदन-बाण-तूणीरम् ॥५॥(५)
अद्य खल्व् अहं प्रातर् उदित-प्राय(य्) एव भास्वति, निलीयमानेषु नक्षत्रेषु, तमसि शनैः शनैर् अपसरति, क्वापि क्वापि च श्रूयमाणेषु कलरवेषु पक्षिणाम् अनङ्ग-क्रीडाऽऽयासम् अतिवाह्य, निद्रासुखम् अनुभवन्, सहसैव दूरवाणी-जन्मना(!) शब्देनोत्थापितः ।
उत्थितः सन् निद्रावशान् नेत्रे उन्मीलयितुम् अप्यशक्नुवानः(वन्?) “किम् इदम्” इति चिन्तयन् पारे-दूरवाणि स्थितेन(!) प्रिय-वयस्येन मिलिन्दकेन सोत्कण्ठमेवमुक्तो यथा -
“वयस्य शेखरक, महत् कष्टम् अधुना संवृत्तम् । यद् गते ऽहनि पान-गोष्ठ्याम् आपीयाऽऽपीय मदिराम् आघूर्णमान-नयनेन पदे पदे च स्खलता कार्याकार्य-विवेक-शून्येन मया तत्रैव स्थिता आर्य-कुमारकेण सह सम्भाषमाणा प्रिया चित्रलेखा पश्यत्स्व् एव महा-जनेषु, हस्ताव् आकृष्य, बलवद् आत्मानम् उपनीता, चुम्बिता च । साप्य् अनेन साहसेन क्षणम् उत्कम्पमान-स्तनी स्पन्दमनाधर-पल्लवा नेत्राञ्चल-निःस्यन्दमान-सलिल-बिन्दुः किम् अप्य् अनुक्त्वैव स्थानात् तस्मान् निर्गतवती । अद्य पुनरस्या जन्मदिवसोत्सवः । सा च त्वयि दर्शितप्रभूतादरा । तन्मे मित्रमसि चेत्तथा कुरु यथा सा मयि पुनरुद्गतभावा जायते” इति । धिगविवेकं प्रियवयस्यस्य । अथवा -
नरस्य कस्य वा लोके मदिरावशवर्तिनः ।
सच्चरित्राम्बरं सद्यो जायते न परिश्लथम् ॥६॥
अथ वयस्यरक्षणार्थमुपायान्तराणि चिन्तयन्तं मामचिरमेव चित्रलेखाया मन्दिराच्चेटो रामदासः समागत्याब्रवीत् “आर्यशेखरक, अज्जुका चित्रलेखा भवतश्चरणयोः सप्रणयं प्रणम्यैवं विज्ञापयति - आर्यशेखरक, विदितमेव भवता यदधुना मम जन्मदिवसोत्सवः । स च भवादृशामुपस्थित्यैव शोभते ।
येषामुत्क्रमितुं परस्परमपिच्छायालवो न क्षम-
स्तानि स्वैरमुडूनि भान्तु शतशस्तैः किं निशायाः फलम् ।
श्लाघ्यः शीतकरश्चकोरवनितापीतावशिष्टैः करै-
र्येनाकाशमधिष्ठितेन सहसा तस्यास्तमो भिद्यते ॥७॥
तद्भवत आगमनं प्रतीक्षिष्ये” इति । सापि नूनमन्तः शोचिति, किन्तु सौशील्यवशान्न व्यक्तमभिधत्ते । हन्त स्तवनीयासि चित्रलेखे । या -
चित्राभिनेत्रीषु तथाविधासु
विभासि शीलं परिपालयन्ती ।
कुलक्रमेणाधिगतं विवेकं
मध्ये बकीनामिव राजहंसी ॥८॥
किं पुनरधुना कर्तव्यम्? भवतु, जानामि । न युक्तं मया रिक्तहस्तेन चित्रलेखां द्रष्टुम् । तत्कौसुमापणिकान्मणिकण्ठतः कुसुमस्तबकं क्रीत्वा गमिष्यामि ।
(परिक्रम्य, अवलोक्य च)
अहो, अयमेष निजापणद्वारि स्थितः प्रियवयस्यो बर्बरकः । यस्तु जात्या नापितो महाजनेष्वात्मानं केशप्रसाधक इति परिचाययति । धन्यः खल्वेष धान्त्रः -
केशप्रसाधनविधानशतान्यधीत्य
चित्रोद्यमे च विपुलामधिगम्य कीर्तिम् ।
यो नित्यमेव लभते सुरतैकलभ्यं
सीमन्तिनीजनकचग्रहणाधिकारम् ॥९॥
अयं पुनरित एव दत्तदृष्टिर्मन्दस्मितस्नपिताधरः सकर्त्तरीकं दक्षिणं पाणिमुद्यम्य मामभिनन्दति । तदेनमनभिभाष्य न गन्तव्यम् । (प्रकाशं) भो वयस्य बर्बरक, अपि वर्धसे स्वकर्मणि? अथवा-
पृथुरिव क्षितिमण्डलरक्षणे
मघवसूनुरिवेषुविमोचने ।
दशशतांशुरिवाम्बरलङ्घने
त्वमिव नापितकर्मणि कोऽपरः ॥१०॥
(आकर्ण्य) किं ब्रवीषि-“आर्य, नाहं नापितः किन्तु केशप्रसाधकः” इति । (स्वगतं) हन्त कुपितो बर्बरकः । भवतु, सान्त्वयाम्येनम् । (प्रकाशं)
नाम्ना किं भवतु वयस्य कर्मणस्ते
भाग्यात्तु त्वमसि शरीरिणां पुरोगः ।
सस्नेहं शिरसिजमर्पयन्ति यस्मै
निश्शङ्कं हृदयमिव प्रियाय नार्यः ॥११॥
(निरूप्य स्वगतं) कथं मद्वचनाल्लज्जत इवैषः । (आकर्ण्य) किं ब्रवीषि “न किमप्यगोचर-मार्यस्य” इति । वयस्य गृह्यतामियमाशीः-
तैलैस्ते भृङ्गराजादिभिरलिरुचिरो वर्धतां केशपाशः
स्त्रीणां प्रौढामभिख्यामपि सुरधनुषः कृत्रिमैरेतु वर्णैः ।
द्रव्यैश्च त्वद्विसृष्टैर्बहलपरिमलोद्गारिभिर्लाल्यमानः
कामक्रीडागृहीतः सुरभयतु करौ नागराणामजस्रम् ॥१२॥
अहं तावत्साधयामीदानीम् ।
(परिक्रम्यावलोक्य च)
हन्त! एषोऽत्र वयस्यस्त्रैचक्रिको राजानकः-
क्षितिमरुणयन्नग्रे वीटीरसैर्गलितैर्मुखा-
द्विरचितभयः पुंसां मार्गे च काहलभाङ्कृतैः ।
(साश्चर्यं) कलयति न मां पार्श्वे यान्तं बतैष कुतः?
(सवितर्कं) - अथवा
स्वरथमुकुरोन्मीलत्पान्थाङ्गनाप्रहितेक्षणः ॥१३॥
अहमेवैनमभिभाषिष्ये । (सहस्ततालं) भो वयस्य राजानक, स्थीयतां मुहूर्तम् । (निरूप्य) अयमेष मद्वचनमाकर्ण्य मध्येमार्गमेव नियन्त्रितवाहनः सविलक्षस्मितो नखाग्रेण शिर उल्लिखंस्तिष्ठति राजानकः । (आकर्ण्य) किं ब्रवीषि - “यात्रिकान्वेषणतत्परेण मया निकटस्थोऽपि न लक्षित आर्यः । तदनवधानं मे क्षम्यताम्” इति । वयस्य, न हि स्नेहः क्षमा- वचनमपेक्षते । भवतु । कथ्यतामिदानीं पुनः का वार्ता? (आकर्ण्य) किं ब्रवीषि - “आर्य, श्रुतं मया यद्गते दिवसे मधुपानोन्मत्तेन मिलिन्दकेन महाजनानां पुरस्तादार्या चित्रलेखा बलवदाकृष्टा चुम्बिता च । तदनु सापि तस्मै साहसाय निजामसम्मतिं सूचयन्ती सामर्षतया चपेटाहतिं दातुकामात्तस्माद्दग्धमिलिन्दकान्मध्ये प्रविशता कथञ्चिदार्यकुमारकेण रक्षिता स्वमन्दिरं च नीता” इति । (स्वगतं) हन्त! क्षुतं सन्निपातयति जनः । अयं पुनः परमार्थमुक्तमपि नाङ्गीकरिष्यति राजानकः । यः -
अवीक्ष्य दिवसोदये लिखितचित्रलेखाकृतिं
पटं कमपि तल्पतो न हि कदाचिदुत्तिष्ठति ।
स्वतस्त्रिदशमन्दिरं च विरचय्य तस्याः कृते
समर्चयति तत्र तत्प्रतिकृतिं प्रसूनैर्नवैः ॥१४॥
अपि च
रुधिरेण निजेन चित्रलेखा-
स्तुतिपत्राणि विलिख्य निर्विशङ्कम् ।
अभिनन्दकपङ्क्तिपावनत्वं
भजते चित्रगृहेषु यो द्विजन्मा ॥१५॥
(प्रकाशं) वयस्य तत्कथय त्वयास्मिन्विषये किं करिष्यते? (आकर्ण्य) किं ब्रवीषि - “आदौ चित्रलेखायै निवेद्य पश्चात्तत्करिष्यते यत्सावशेषजीवितो मिलिन्दकः स्मरिष्यति” इति । (स्वगतं) हन्त! किङ्कर्तव्यतामूढोऽयं यत्किमपि स्वस्मै रोचते तत्सर्वं करिष्यति । तन्ममाप्यत्र नोचितो विलम्बः । (प्रकाशं) वयस्य स्वस्त्यस्तु ते । अहमपि तावदिदानीं साधयामि ।
(परिक्रम्यावलोक्य च)
आः कथमेषा पुरत एवागच्छति प्रियायाः शशिकलाया जननी विष्णुदासी । (निरूप्य)
या विभूषणशतोज्ज्वलाकृतिः
स्वर्णकारविपणीव जङ्गमा ।
स्थूलताप्रणयिनः स्ववर्ष्मणो
लुम्पतीव तनुशब्दवाच्यताम् ॥१६॥
अपि च -
प्रदीप्तानलसङ्गिन्या यया प्रलयवात्यया ।
नीयन्ते लयमुत्तुङ्गाः शैला मोदकराशयः ॥१७॥
एषोऽपरोऽस्याः -
या नायात्येव काले सह निजसुतया चित्रनिर्माणभूमिं
ब्रूते दोषान्नटेषु प्रथयति कलहं सूचिपातेऽपि जाते ।
यस्या अत्येति कोपो रुज इव भिषजः पञ्चकर्मप्रयोगा-
न्निर्मातुश्चाटुवादाञ्जलिपुटघटनादानयाच्ञाप्रणामान् ॥१८॥
(प्रकाशं) भवति, अभिवादये । (आकर्ण्य) किं ब्रूते भवती - “इदानीमेव शशिकलां पानागारं प्रापय्य ततो निवर्तमानाया मे दिष्ट्या दृष्टिगोचरतामार्यो गतः” इति । (स्वगतं) नून-मस्याश्चित्रलेखावृत्तान्तमाकर्ण्य सन्त्रस्तायाः सर्वथा रक्षणीया सञ्जाता शशिकला । अथवा कुत्र खलु स्वतन्त्राः समातृका अभिनेत्र्यः?
द्रष्टव्यं भोक्तव्यं गन्तव्यं भाषितव्यमभिनेत्रीणाम् ।
निश्चिन्वते जनन्यः स्वार्थपरा जीवितव्यमप्यन्ते ॥१९॥
(आकर्ण्य) किं ब्रूते भवती - “आर्य, शशिकलेति मम बहिश्चराः प्राणाः । सा च मया भवति न्यास इव समर्पिता । तन्नटमकरसमाकुले चित्रोद्यमसागरे पतितां भवानेव तामवतु” इति । भवति, मा बिभ्यतु ।
तां प्राणैरपि रक्षामि
(आकर्ण्य) किं ब्रूते भवती - “तथापि यदि” इति । (स्वगतं) हन्त!
कथमत्रापि संशयः? ।
(सवितर्कं) अथवा -
कन्यानां विषये व्यग्रा दुर्विश्वासा हि मातरः ॥२०॥
(प्रकाशं) भवति! शङ्करशेखर इव शेखरके निहिता ध्रुवमकुतोभया शशिकला । तदलं चिन्तया । अहमपि तावदिदानीं साधयामि ।
(परिक्रम्यावलोक्य च)
आः कथमेषोऽत्र चित्रोद्यमस्थानां परमाचार्यः कुलगुरुश्चित्रलेखायाः श्रीकारद्वयशेखरित-नामधेयः प्रेमानन्दमहाराजः । यः -
नयत्येकेन सूत्रेण जीविकातन्त्रमात्मनः ।
शुद्धाद्वैतं सभामध्ये द्वैतं शयनवेश्मनि ॥२१॥
अपि च -
कैश्चिन्निष्कारणोद्यत्प्रहसितरुदितैः कैश्चिदुर्व्यां पतद्भिः
कैश्चिद्भ्रान्त्याकुलाक्षैः स्तुतिमुखरमुखैः कैश्चिदन्यैर्नटद्भिः ।
अन्योन्याश्लेषलीलाप्रणयिभिरपरैर्मौनशीलैश्च कैश्चि-
द्भूताविष्टैरिवासौ भवति परिजनैः सन्ततं बद्धपार्श्वः ॥२२॥
अयमेष चतुश्चक्रयानान्तरुपविष्टो मामालोक्य गवाक्षमुद्घाटयन्नियन्तारं करसंज्ञया वाह-मवस्थापयितुमादिशति । तदेनमुपसर्पामि । (तथा नाटयन् प्रकाशं) भगवन्, अभिवादये । (आकर्ण्य) किं भवान्ब्रूते - “आर्य शेखरक, चिरं जीव ।
त्रिपुरमधिशयाना शूलिनी सिंहयाना
सुरवरमहिता ह्रींमातृकावर्णरूपा ।
जनयतु भवतः श्रीशङ्कराश्लिष्टमूर्तिः
श्रियमनवधिसारामत्र चान्यत्र चण्डी ॥२३॥ इति” ।
भगवन्ननुगृहीतोऽस्मि । (क्षणमालोच्य) अपि ज्ञातं भवता यच्चित्रलेखा (इत्यर्धोक्ते, आकर्ण्य) किं ब्रूते भवान् - “वयं सर्वं जानीमः । अद्य प्रातरस्माभिः पूजाविधौ कृत्स्नोऽप्येष भूतार्थस्त्रिजगज्जनन्यै निवेदितः । सापि संस्कृतमाश्रित्य अस्मानेवमादिष्टवती यथा – वत्स प्रेमानन्द, मद्भक्तिपरायाश्चित्रलेखायाः केयमिदानीं व्यथा । भवतु । अधुना तावदानीयतां जम्भीरफलद्वयम् । तच्च मच्चरणपङ्कजकुङ्कुमाङ्कितं कृत्वा मन्मन्त्रबीजाक्षरैर्मन्त्रयित्वा दीयतां चित्रलेखायै । अनेन सर्वोऽपि तस्याः सङ्कल्पः सिद्ध्यति” इति । तदस्माभिरपि तथैवानुष्ठाय जन्मदिवसहेतोराशीःशतानि च विधाय चित्रलेखाया मन्दिरात्प्रतिनिवर्त्यते । इदानीं पुनरस्मद्वचनाद्भवानपि गत्वा सान्त्वयत्वेनाम्" इति । (स्वगतं) एष प्रेमानन्दस्य दूतोऽस्मि संवृत्तः । (प्रकाशं) यदाज्ञापयति भगवान् । तदहमत्रभवतोऽनुज्ञामङ्गीकृत्य साधयाम्यधुना ।
(परिक्रम्य आकर्ण्य च)
कोऽयं पुनः सपादाहतिशब्दो गानच्छलेन विजृम्भमाणः कोलाहलः? (परितोऽवलोक्य) हन्त! एष खलु चित्रलेखाया नाट्यशिक्षागुरोः शालूरिकायाः प्रासादः । तन्नामोच्चारणत-स्तामाह्वयामि । (तथा कृत्वा, निरूप्य) एषा मद्वचनमाकर्ण्य मन्दिरवातायनविन्यस्तमुखी शालूरिका सपताकेन हस्तेन स्थातुं निर्दिशति माम् ।
आङ्गिकबद्धविरोधामवाचिकामुज्झिताहार्याम् ।
सात्विकशून्यामेषा नवाभिनयपद्धतिं भजते ॥ २४॥
अपि च
स्थानकमेनां पृच्छन्नारीं
प्रत्युत्तरमधिगच्छति चारीम् ।
यद्यपि नैषा कलयति करणं
कुरुते साधु निजोदरभरणम् ॥ २५॥
अयमपरोऽस्या दोषो यल्लम्पटे भुजङ्गके प्रीतिः । (वितर्क्य) अथवा -
शङ्के प्रयोक्तुकामा रङ्गे नाट्येन कामसूत्रमियम् ।
त्यक्त्वा भरताचार्यं सुरताचार्यं गता शरणम् ॥२६॥
(अवलोक्य) एषा सन्निहिता शालूरिका । (स्वगतम्) अहं तावदधुना श्लेषमूलया व्याजस्तुत्या दुर्विदग्धामेनां प्रीणयामि । (प्रकाशम्) आर्ये! अपि त्वया सफलीक्रियते कुलक्रमाधिगता नाट्यवृत्तिः? अथवा नायमुचितः प्रश्नः । पश्य -
अशिक्षितानां भरतस्य शास्त्रे
व्याजोन्मुखीनामुदरस्य पूर्त्त्यै ।
मध्ये नटीनामधुनातनीनां
संलक्ष्यसे मे न कयानुरूपा ॥२७॥
अपि च -
छात्रेषु भूयते यन्निर्भरतनयानुरागया शश्वत् ।
तेन त्वया प्रशस्तिर्यावनसम्मेलने लब्धा ॥२८॥
(आकर्ण्य) किं ब्रवीषि - “अनुगृहीताहमनया प्रशंसया” इति । (स्वगतम्) अगृहीत-श्लेषार्थत्वादहमपि रक्षितः । (आकर्ण्य) किं ब्रवीषि - “आर्य, यत्किल नाट्यगुरुषु कीर्त्यास्मि, तत्र भागशो मे शिष्या चित्रलेखा हेतुः” इति । (स्वगतं) न भागशः प्रत्युत निश्शेषत इति कथनीयम् ।
नर्तनविद्यामुकुरः पांसुलतामेत्य गुरुभिरीदृक्षैः ।
यत्किञ्चिदुल्लसति तच्छात्रप्रतिभाविभूतिसंसर्गात् ॥ २९॥
(प्रकाशं) शालूरिके, कथ्यतां कीदृशो वर्तते चित्रलेखाया नर्तनाभ्यासः । (आकर्ण्य) किं ब्रवीषि -“आर्य, पानागारप्रसङ्गात्पूर्वं परिणीतानाम्नश्चित्रस्य कृते चित्रलेखया मिलिन्दकेन सह युगलनृत्यमभ्यस्यमानमासीत् । अद्य प्रातस्तु जन्मदिवसोत्सवार्थं दूरवाणीमुखेन मामाह्वयन्त्या तया नृत्याभ्यासविषयेषु प्रश्नेषु निरुत्तरया कथित इवात्मनो निर्वेदः । तदवसन्ने शिक्षणावधौ चित्रलेखामधुना दृष्ट्वा तामाश्वासयिष्यामि । मन्ये आर्येणापि चित्रलेखादर्शनार्थमेव गम्यते” इति । सम्यगनुमितमार्यया । तत्साधयामि पुनर्दर्शनाय ।(परिक्रम्य स्वगतम्) व्याजेन शालूतिकामुपालभ्य सानुशयोऽस्मि संवृत्तः ।
नर्तयसि जठरपूर्त्यै त्वं यदि शालूरिके नटीं लोकगताम् ।
अतिलौकिकीं पुनरहं सरस्वतीमावयोस्तदहमधमः ॥३०॥
(अवलोक्य) अहो! अयमिह चित्रोद्यमसाहसाचार्यो मल्लाग्रणीरक्षयकुमारः ।
य एष -
स्कन्धालम्बिशिरोरुहस्तिलकवानत्यन्तरक्तेक्षणो
वज्रोत्तंसविराजितश्रुतियुगो भ्रूभीषणः श्मश्रुलः ।
तैलाभ्यञ्जनभासमानकरणो व्यायामवेश्माङ्गणे
तिष्ठन्पान्थजनैः प्रियासहचरैः सासूयमालोक्यते ॥३१॥
किञ्च -
यः केरलीयखुरलीविधिषु प्रवीणः
प्राचीनचीनकदनक्रमकोविदो यः ।
चारीभिरम्बरधरातलगोचराभि-
श्चित्रेषु यश्च रसमद्भुतमातनोति ॥३२॥
मिलिन्दकस्य प्रियवयस्योऽयमार्यकुमारकाय द्रुह्यति । तच्चित्रलेखाप्रसङ्गेन नूनमस्य सन्तापकारिणा भवितव्यम् । भवतु, पृच्छामि । (प्रकाशं) भो वयस्य, अपि कुशलम्? (आकर्ण्य) किं ब्रवीषि - “आर्य शेखरक, किं कथ्यतां? कुशलमिति चित्रलेखाप्रसङ्गाद्यावदविद्यमानमिव मे सञ्जातम् । न जाने प्रियवयस्यो मिलिन्दकः कथमेषु क्षणेषु जीवतीति । मम पुनरेषा प्रतिज्ञा यत्तस्य कुमारहतकस्य यावन्न सञ्चूर्णयाम्यस्थीनि तावन्निद्रायै नात्मा दीयते” इति? (सवितर्कमात्मगतं) हन्त! अपाय इति चित्रोद्यमस्य नामान्तरम् । यत्र -
पक्षपातिभिरीदृक्षैः स्वजातिकलहोन्मुखैः ।
क्रीडाकुक्कुटवल्लोकैस्तन्यते जनरञ्जनम् ॥३३॥
(निरूप्य) इयं पुनर्लगुडप्रहारसन्तर्जितपौरजना प्रकृतिजडा शिष्यसन्ततिरक्षयकुमारस्य । या कुमारकं प्रहर्त्तुकामा केवलमस्य भ्रूसञ्ज्ञां प्रतिपालयन्ती कथञ्चित्तूष्णीमास्ते। अयमक्षय-कुमारोऽपि न वेत्ति प्रेम्णो रीतिम् । यः -
युक्तेषु चाटुषु करोति निजप्रशंसा-
मालिङ्गनेषु तनुते श्वसितोपरोधम् ।
(क्षणमालोच्य) किं भूयसा भवति यत्सुरतात्ययेषु
चण्डानिलप्रमथिता वसुधेव शय्या ॥३४॥
तदनेन सह विवाद इति भस्मन्याहुतिः । (प्रकाशं) वयस्य, भद्रमस्तु ते । अहं ताव-त्साधयाम्यधुना ।
(परिक्रम्य अवलोक्य)
प्रकामोत्तालाभिर्मुखरितहरिद्गीतिभिर्यावनीभि-
स्तडिद्दीपालोकैस्तरलतरलैः किञ्च दुष्प्रेक्षमन्तः ।
इदं नानादेशोपनतमदिरासौरभाहूतभृङ्गं
पुरः पानागारं प्रणयिमिथुनस्वैरलीलनुकूलम् ॥३५॥
तत् प्रविशामि । (निरूप्य)
अग्रे परस्परकटीनिहितैकहस्तौ
हस्तान्तरेण च गृहीतपरस्परांसौ ।
माध्वीकपानमदमन्थरपादपातौ
कामं प्रनृत्यत इमौ यवनौ युवानौ ॥३६॥
अपि चान्यत्र -
किमपि निगदन्नस्पष्टार्थं मदारुणलोचनः
शिथिलवसनो हस्तप्रान्तस्खलन्मधुभाजनः ।
त्रिचतुरपदन्यासायाद्वणिङ्निपतत्यसौ
क्वचन च सुराध्यक्षादेशाज्जनैरपनीयते ॥३७॥
अत्र हि क्वापि शौण्डिक्यो मे यवनभाषया स्वागतमुदाहरन्ति, क्वापि च हिरण्यकादयः पुराणसुहृदो द्यूतक्रीडायै निमन्त्रयन्ति माम्। अयमपरः प्रियवयस्यो मधुकरकः प्रसारितबाहु-रुत्तिष्ठति मामालिङ्गितुम् । इयमपि मद्दर्शनोन्मुखी प्रिया शशिकला कारणान्तराणि विभाव्य सखीभ्यः कथञ्चिदात्मानं मोचयति । (अवलोक्य, साश्चर्यम्) अहो ! कथं मद्दर्शनादकाण्ड एव सौरिकं विजयमाल्यकमभितो जातः कोऽपि जनसम्मर्दः । भवतु, पृच्छामि । (प्रकाशं) वयस्य, विजयमाल्यक, किङ्कृतोऽयं सम्भ्रमः? (आकर्ण्य) किं ब्रवीषि -“आर्य शेखरक, जानात्येव भवान् यत्किमप्यत्र गतेऽहनि संवृत्तम् । तत्सौरिकगणेन मिलिन्दकस्य बहिष्कारे कृता मतिः । न ह्येवंविधानि दण्डानि भवादृशो महाजनमपहाय निश्चीयन्ते । तदत्र भवतः क आशयः?” इति । (स्वगतं) हन्त! हतोऽसि मिलिन्दक, यत्तादृगारब्धमीदृक्परिणमति ।
चित्रोद्यमद्विरदगण्डमदाम्बुलेखा
या तु प्रिया तव मिलिन्दक चित्रलेखा ।
तां पातुमात्तरभसो यदभूस्ततोऽसि
त्वं सौरिकश्रवणतालनिरासयोग्यः ॥३८॥
(प्रकाशं) वयस्य, ननु वेत्सि यन्मिलिन्दकस्य चारित्र्यमितःपूर्वमस्पृष्टकलङ्कमासीत् । किञ्च सौरिकगणोऽपि स्मरतु मिलिन्दकेन पुरा कृतमुपकारशतम् । यद्यसौ दण्ड्यते, न हि तेन चित्रलेखापि तुष्यति । स हि तस्या बहिश्चराः प्राणाः । चित्रलेखायाः क्रोधस्तु परा हानिः सौरिकगणस्यैव । तन्मिलिन्दकस्य क्षन्तव्योऽयं प्रथमापराध इति मेऽभिप्रायः । (आकर्ण्य) किं ब्रवीषि - “सौरिकगणेन सम्यग्गृहीतमार्यस्य मतम्” । इति तेन हि साधयाम्यहम् ।
(परिक्रम्य अवलोक्य)
(साश्चर्यम्) अहो! मार्गोपनतैर्वयस्यगणैः सह सम्भाषमाण एव मयि कथमस्ताचल-शिखरात्पतितो भगवानम्भोजिनीवल्लभः । अपि च -
अग्रे कैरवपारवश्यपिशुनः सूर्यास्तपर्याकुल-
व्योमश्रीनयनोदबिन्दुरुदितः प्राचीमुखे चन्द्रमाः ।
येन प्लावयता पुरारिनयनज्वालास्तुषारैः करै-
रुन्मीलत्यधुनापि पुष्पधनुषः साम्राज्यमव्याहतम् ॥३९॥
अत्र पुनः -
स्वस्थानालोक्य शिशून्नीडनिवृत्ता दिनात्यये विहगाः ।
यच्छन्ति मार्गतरवे कलघोषमिषेण धन्यवादशतम् ॥४०॥
किञ्च -
निमज्जयन्नेष जगत्समस्तं
किमन्धकारो यमुनाप्रवाहः ।
तन्मध्यभाजः किमु कालियस्य
मार्गप्रदीपा मणयः फणानाम् ॥४१॥
(सवितर्कं) चलच्चित्रायते खलु निशीथसमयः ।
सकलो नायक एष कोऽपि शशभृत्तस्य प्रभा नायिका
तिमिरौघः प्रतिनायकः प्रतिनवस्तारागणस्तादृशः ।
कृतहासस्तु विदूषकः कुमुदिनीग्रामश्च निर्मापको
विधिरत्र (साश्चर्यं) प्रतिभान्वितः क्व स कथाकारो निलीय स्थितः ॥४२॥
(सविषादं) हन्त! नीरसः खलु नगरवासः । यत्र -
धूमश्रेण्या वियति वहनोद्गीर्णया व्याप्यमाने
प्रायः पूर्णाकृतिरपि शशी दृश्यते यत्नतोऽसौ ।
दृष्टो हर्म्यावलिभिरचिराच्छाद्यते प्रोन्नताभि-
स्ता निस्तीर्य स्पृशति चपलादीपजालेषु दैन्यम् ॥४३॥
(सविलक्षस्मितम्) अपि च -
शुष्का निष्कुसुमा द्रुमा रतिपतिं निश्शस्त्रमातन्वते
वातः किञ्च कदर्थ्यते मलयजो वाहोत्थया धूम्यया ।
भूम्ना काकरवस्य कोकिलकुहूशब्दोऽपि नाकर्ण्यते
तत्कल्याणपुरे स्थितिर्विरहिणां मन्ये महानुत्सवः ॥४४॥
इदमपरमप्यस्ति
संलक्ष्यते स्म नगरी या रमणीया पुरा दिनारम्भे ।
कालक्रमेण जाता दुर्जनमैत्रीव सा विरसा ॥४५॥
(निरूप्य) क एष इदानीमभिमुखमागच्छन्मामालोक्य सहसैव निजयानमवस्थापयति? (आलोक्य साश्चर्यं) हन्त! वार्ताहरोऽयं माथुरकः -
योऽहर्निशं भ्रमति लब्धुमना द्विचक्रे
चित्रोद्यमस्य सरसा विरसाश्च वार्ताः ।
यस्माद्विमर्शकुटिलान्नटराजवर्जं
त्रस्यन्ति च त्रिषु जगत्सु नटाः समस्ताः ॥४६॥
अपि च -
भाग्ये परेषां भवतु प्रमाणं ब्रह्मणो लिपिः ।
नटानां भाग्यमस्यैव लेखनीमनुवर्तते ॥४७॥
किञ्च -
अस्यच्छायाग्राहकयन्त्रे सति निजगृहेऽपि नटमिथुनानाम् ।
दूरे सुरतस्य कथा दुर्लभ एकान्तवासोऽपि ॥४८॥
अधुना प्रातरेव पत्रिकाविषयीकृतोऽमुना चित्रलेखाप्रसङ्गः । अस्य करपतितो न जाने भाविदिवसेषु कानि रूपान्तराणि ग्रहीष्यति सः । (प्रकाशं) भो वयस्य, रहस्यकुमुद-कुड्मलोद्घाटनपूर्णचन्द्र, गगनप्रसूनमालाकार, दुर्व्याख्यामल्लिनाथ, नटचातक-जीवनाधारजीमूत, कोऽयमाकस्मिकस्ते दर्शनानुग्रहः? (आकर्ण्य) किं ब्रवीषि? “आर्य, ननु भवतो दर्शनमस्मादृशामेवानुग्रहः” इति । (स्वगतं) शङ्कनीयोऽयमस्य स्तवनोपक्रमः ।
कुतः -
निन्दाशीलो यदि स्तौति विश्वासः कस्य जायते ।
कपी रिरक्षिषुर्वाटीमिति कापि विडम्बना ॥४९॥
(निरूप्य) अयमत्र धूमवर्तिकां मुखे निधाय तदग्रं प्रज्वालयति । तन्मन्ये नचिरमेव मुखादस्य निर्गमिष्यति प्रचुरधूमावर्तपरम्परानुसारी प्रश्नानलः । (आकर्ण्य) - किं ब्रवीषि - “इदानीमेव श्रुतं मया यदार्येणाद्य सौरिकगणे विश्वासमुत्पाद्य दण्डान्मोचितः प्रियवयस्यो मिलिन्दकः । अपि तथ्य एष उदन्तः?” इति । (स्वगतम्) - एषा खलु रथ्यायां धर्मसभा सञ्जाता । (साशङ्कं)
जन्मान्तरेभ्योऽपि निगूढमन्ता-
रहस्यमुद्घाटयितुं समर्थैः ।
प्रश्नैः पटीयानिव कार्मणज्ञो
वार्ताहरः साध्वसमातनोति ॥५०॥
(प्रकाशं) वयस्य, यन्मया कृतमद्य तत्सौरिकगणस्य हितायैव । अपि च यन्मिलिन्दको रक्षितस्तत्र सुहृद्धर्मो हेतुर्न पुनर्दोषपक्षपातः । (आकर्ण्य) किं ब्रवीषि - “श्रूयते यत्पाना-गारप्रसङ्गादनन्तरं चित्रलेखामिलिन्दकयोः स्नेहो भग्न इति । नूनमार्योऽत्र जानात्यधिकम्” । (स्वगतम्) एष हि वार्ताहराणां रहस्यभेदनोपायः । (प्रकाशं) जानास्येव माथुरक यद्विपदि किल परीक्ष्यते स्नेहः । पश्य -
अपि दुर्विषहेण रंहसा
विपदोघस्य विभिद्यते न यत् ।
प्रणयाकृतिरन्तरङ्गयोः
स हि सेतुः प्रलयेऽपि निश्चलः ॥५१॥
(आकर्ण्य) किं ब्रवीषि - “सम्यङ्निरूपितमार्येण प्रेम्णस्तत्त्वम्” इति । वयस्य, तेन हि साध-याम्यहम् । (परिक्रम्य, अवलोक्य) कथमासन्नैव सञ्जाता कुसुमविक्रेतुर्मणिकण्ठस्य विपणी ।
एषा पुष्पप्रभेदैरनिशमधिगतैर्यावनीभ्यो वनीभ्यो
नानावर्णस्य खण्डैरिव हरिधनुषो निःसरोजैः सरोजैः । [स-रोजैः = with roses]
वाचामिन्द्रावरोधश्रुतिविहितसुधामाधुरीणां धुरीणां
मालामाक्रष्टुमीष्टे सुरतरुकुसुमस्तोमलीनामलीनाम् ॥५२॥
(निरूप्य, सस्मितं)
स्थूला पतिष्यति हि जन्मदिने स्रगेषा
कस्यापि राज्यसचिवापसदस्य कण्ठे ।
यस्मान्मदेन महता ध्रियमाणमुच्चै-
स्तस्योत्तमाङ्गमपि यास्यति नम्रभावम् ॥५३॥
(सविषादं) हन्त, दयनीयानि खल्विमानि कुसुमानि । कुतः -
कालक्रमेण रमणीजनकेशभारे
कार्श्यं प्रयाति सितपक्ष इवान्धकारे ।
सम्पद्यते सुमनसामधुना तु वासो
हस्तेषु केवलमहो जडदेवलानाम् ॥५४॥
(निरूप्य) - अयमेष चलच्चित्रावलोकनरसिको द्राविडः कुसुमविक्रेता मणिकण्ठः । यस्य वदनोदराज्जातलज्जेव निष्क्रामति विवर्णा कर्णाटभारती । (प्रकाशं) भो वयस्य मणिकण्ठ, निरन्तरफलोदया खलु ते कुसुमवृत्तिः । तद्दर्शय मे कानिचन कुसुमानि यान्युपहारीकृत्य सन्तोषयामि चित्रलेखाम् । (आकर्ण्य) किं ब्रवीषि - “इत आस्यतामार्येण यावदहमपि कुसुमानि दर्शयामि” । (तथा कृत्वा, आकर्ण्य) किं ब्रवीषि - “आर्य, इमाः पुरस्तादरुणधवल-पाटलपीतवर्णा रोचिष्मत्यः (Roses) । इमानि पुनरनुद्भिन्नमुकुलान्युष्णीषकुसुमानि (Tulip ) नूतनोऽयमसिपुष्पगुच्छः (Gladiolus) । एतानि च वेशयुवतिहृदयानीव नैकरागाणि देहलिकाकुसुमानि (Dahlia) । इयमपरा प्रभातकीर्तिः (Morning Glory) | अन्यत्र नानाविध-कुसुमकर्बुरिताः पुष्पबाणतूणायमाना एते कृत्रिमस्तबकाः । एतेषु यदात्मने रोचते तदार्यो गृह्णातु” इति । मणिकण्ठ, कथं गृह्णात्विति, न पुनर्यथारीति क्रीणात्विति ? (निरूप्य स्वगतं) कथं मद्वचनेन सविलक्षस्मितोऽयमीषल्लक्ष्यमाणरदनस्तिष्ठति? (आकर्ण्य) किं ब्रवीषि - “नन्वार्येणैव कथितं यदमूनि कुसुमानि चित्रलेखायै उपहारीक्रियन्ते । तदत्र वाणिज्यमिति सशुल्को नरकप्रवेशः । अपि च न प्रतिदिनं मदीयानि कुसुमानि तादृशनटीरत्नकरस्पर्शसौभाग्यं लभन्ते” इति । (सानन्दं) साधु मणिकण्ठ साधु!
अम्ल्यायिनो गुणगणग्रहणोचितस्य
दृष्ट्वापि ते सुमनसो महिमानमग्रे ।
मीलन्ति यन्न सहसा कुसुमान्यमूनि
व्रीडाभरेण किमु तद्यवनानुषङ्गात्? ॥५५॥
(निरूप्य) वयस्य, रोचिष्मतीनां मञ्जरीमिमामादातिमिच्छमि । कुतः -
आनन्दने द्वे प्रमदाजनस्य
रत्नेषु हीरः कुसुमेषु रोजा (Rose) |
व्यनक्ति तत्रान्तिममेव सम्य-
क्स्वाभाविकं प्रेमरसं प्रदातुः ॥५६॥
(आकर्ण्य) किं ब्रवीषि - “उपपन्नमार्येण कथितम्” इति । (स्तबकादानं नाटयति) वयस्य भद्रमस्तु भवते । अहमपीदानीं साधयामि ।
(परिक्रम्य, अवलोक्य)
इदमिह बहिर्द्वारलम्बितभीकरकुक्कुरालेख्यपटं प्रतीहारविचार्यमाणयानप्रवेशं वर्णमयविद्यु-द्दीपिकापरिकल्पितचारुतोरणं पुरस्ताच्चित्रलेखाया मन्दिरम् । तदन्तः प्रविशामि । (तथा कृत्वा, निरूप्य) अमी प्रतिद्वारमधिकृता रक्षकभटा मौलिहस्तिकया मामभिनन्दन्ति । एते विहारदीर्घिकामभितः सम्भाषणव्यग्रा गल्वर्कपाणयो नगरवणिजः । इयमत्र प्रणमति शालूरिका । अमी पुनरनेकवर्णकार्पासविरचितविलासोष्णीषबन्धाः परस्परमनुधावन्तः क्रीडानिरता बालकाः । अत्रैता विरलवसनतया व्यज्यमानावयवसौन्दर्या नटस्त्रियः । अयमपि प्रतिक्षणं प्रवर्धमानो रोहणाद्रिरपर इव रत्नप्राभृतराशिः । इदमपरत्र त्रिशङ्कुजीवितमिव सुरतानन्दवञ्चितं पञ्चमीपर्वदिनमिव प्रार्थितभुजङ्गं रङ्गप्रस्तूयमानबालकपात्रमिव कृतकचपलितं जरदभिनेत्रीकुलम् । (आकुलतां नाटयन्) कथमत्र जनसम्बाधे न दृश्यते चित्रलेखा? (निरूप्य) सा हि सखीभिरनुरुध्यमानापि पुरःस्थितं सिक्थवर्तिकामण्डितं जन्मदिवसोचितं मधुरापूपविशेषं मणिमय्या क्षुरिकया छेत्तुमनिच्छन्ती कमपि प्रतिपालयन्तीव तूष्णीमास्ते । हस्तमाधूय तदेनामाह्वयामि । (तथा कृत्वा, साश्चर्यं) कथमाह्वयत्येव मयि सहसा विकसितवदनारविन्दा इत एवागच्छति चित्रलेखा ।
आढ्याः सादरमीक्षिताः सहृदया हस्ताक्षरैस्तोषिता
बन्धौ स्वागतमीरितं गुरुजने बद्धः प्रणामाञ्जलिः ।
आयान्त्या पुरतो व्यथाविकलया प्रम्लानयेव स्रजा
सख्या तद्गुणवैभवं प्रकटितं भूयस्तरामात्मनः ॥५७॥
(प्रकाशं) सखि चित्रलेखे, चिरं वर्धस्व । (आकर्ण्य) किं ब्रवीषि - “अनुगृहीताहमार्यस्यागमनेन” इति । (स्वगतम्) अहो, अत्रापि शोकमतिवर्त्य विलसति सौशील्यमस्याः (प्रकाशम्) अयि, अनुग्रह इति भृत्यव्यवहारे प्रयुज्यते, न पुनः सख्ये । (क्षणमालोच्य) अपि मिलिन्दकः (इत्यर्धोक्ते, निरूप्य) हन्त! कथं मिलिन्दक इति वदत्येव मयि तितिक्षाकन्दमस्या द्विधा कृत्वा प्रकाशितो बाष्पाङ्कुरेणात्मा । अथवा -
कथ्यते न मुधा लोके विश्वस्तजनसङ्गमः ।
शुचामन्तर्निगूढानां मोक्षद्वारमनर्गलम् ॥५८॥
(प्रकाशम्) आश्वसितु सखी आश्वसितु । (स्वगतम्) अयमवसरो वयस्यमुद्धर्तुम् । (प्रकाशं) चित्रलेखे, पानागारप्रसङ्गमनु प्रियवयस्यो मे नितान्तमुद्विग्नो मदिरावशेनात्मना यत्कृतं तद्बहुशो विचिन्त्य परितपति । तेनासौ त्वया क्षन्तव्यः । (आकर्ण्य) किं ब्रवीषि - “आर्य, प्रिये मानमनुबध्नत्या मया नूनमात्मैव दण्डितः ।
कृतो यः स्वजने कोपो दुःखायैव स आत्मनः ।
भानोः पराङ्मुखी भूत्वा कुतो हसतु पद्मिनी ॥५९॥
तत्प्रसङ्गस्यास्य कारणभूता क्षन्तव्या खल्वहमेव प्रियेण” इति । (सहर्षम्) उभयत्र सानुशयत्वादविलम्बसिद्ध एष प्रेम्णो जयः । अथवा -
चान्द्रीव मूर्तिः क्रमशो विकस्य
प्रीतिः स्थिता या परिणामपूर्णा ।
दैवेन तां राहुरिव प्रविष्टो
मुहूर्तमात्रं प्रभवत्यमर्षः ॥६०॥
(स्वगतम्) अहं पुनरधुना शतपत्रीस्तबकप्रदानेन पश्चात्तापकृतया व्रीडया किञ्चिदिव शिथिलितं प्रेमग्रन्थिमनयोर्द्रढयामि । (प्रकाशं) सखि, स्वीक्रियतामेष (इत्यर्धोक्ते, क्षणमालोच्य) मिलिन्दकप्रेषितो जन्मदिवसोपहारः ।
एषा पद्मदलायताक्षि यवनोद्यानश्रिया त्वत्कृते
मन्ये कापि विकासिता प्रतिनवा रोचिष्मतीमञ्जरी ।
पश्चात्तन्मकरन्दतुन्दिलतया नीतस्य निःस्पन्दतां
भृङ्गौघस्य मिषेण योजितमिह स्नेहस्वहस्ताक्षरम् ॥६१॥
(स्तबकप्रदानं नाटयति) (आकर्ण्य) किं ब्रवीषि - “दिष्ट्या सातिशयानुरागो मयि प्रियः” इति । सखि, तदुच्यतां भूयः किं ते प्रियमुपहरामि । (आकर्ण्य) किं ब्रवीषि -
“सर्वाकारनिरस्तकण्टकभरं पुष्पेषुकीर्त्यास्पदं
सान्द्रामोदमनेकपत्रघटितप्रौढानुरागोज्ज्वलम् ।
प्राप्तास्मि प्रियसङ्गमक्षणमिव स्मेरस्य रोचिष्मती-
गुच्छस्यच्छलतस्तदार्य किमितःस्यान्मे परं प्रीतये ॥६२॥” इति ।
तथापीदमस्तु भरतवाक्यम् ।
वाता वान्तु पुनः सरोजरजसां मैत्रीं ब्रुवाणाश्चिरं
बोध्यन्तामहरादिषु प्रकृतयः कादम्बनादैः पुनः ।
कन्दर्पस्य पुनर्जयोऽस्तु भुवने चूतादिभिः सायकै-
रेधन्तां पुनरेव नाट्यकवितासङ्गीतमुख्याः कलाः ॥
(इति निष्क्रान्तः)