[[अपराजितम् Source: EB]]
[
॥ अपराजितम् ॥
(यवनिकायाः बहिः आगत्य ध्वनियन्त्रं हस्ते गृहीत्वा)
व्यवस्थापकः – सहृगय रसिकेभ्यः स्वागतं व्याहरामि । (इति किञ्चिन्नामित शरीरपूर्वकायः) अयि भोः रसिकप्रेक्षकाः अद्य वयं अपराजितं नाम नाटकं प्रदर्शयितुम् अतीव उत्सुकास्मः । एतन्नाटकं हिन्दु बौद्ध जैन धर्माणां कलासङ्गमभूतं अजन्ता एल्लोरा सौन्दर्यसङ्गममुपद्दिश्य कृतम् । अस्य नाटकस्य नाम अपराजितं किमर्थं कृतम् ? इत्यस्य प्रश्नस्य एतत् प्रत्युत्तरं भवति, यत् इदं कलास्थानं जगति न केनापि कलाखण्डेन उत स्थानेन पराजितमभूत्, तस्मात् इदं अपराजितम् अभूत् इति । अस्य नाटकस्य कविः पण्डित परीक्षित् शर्मा । अयं गीर्वाणान्ध्रभाषाप्रवीणः । अनेन संस्कृतभाषायां महती काव्य सृष्टिः कृता । अस्मिन् नाटके अजन्ता एल्लोरामुद्दिश्य जनानाम् अनुमेयम् अपिच तेषां विभिन्न अभिप्रायानुद्दिश्य अस्मिन् नाटके कविः सम्भाषणारूपेण चित्रणां नाटकीयतां चक्रे । तत्र भवन्तः श्रद्धया निश्शब्दं नाटकं पश्यन्तु इति आशास्महे । नमस्ते । (इति अन्तःगच्छति)
(यवनिका अपसार्यते)
(रङ्गमञ्चे द्वौ टेबुलौ वर्तेते तयोः उपरि श्वेतवस्त्राच्छादनं दृश्यते । तत्र टेबुलोपरि चहपानार्थ चषकाः सासराः एकं बृहत् झरीपात्रं च विद्यन्ते । ततः प्रविशति अभिनय दर्पणे)
अभिनयः – दर्पणे अद्य गृहे सर्वव्यवस्था समीचीनतया सुष्टु शोभायमाना कर्तव्या अस्ति । (इति सर्व परिकराणि सुसज्जति)
दर्पणा – को विशेषः ।
अभिनयः – अद्य अतिथयः आगच्छन्ति अस्मद् गेहम् ।
दर्पणा – तस्मात् स्वच्छता अद्यैव कर्तव्या किम् ?
अभिनयः – स्वच्छता सर्वदा कर्तव्या न तु अद्य केवलम् ।
दर्पणा – के ते अतिथयः । (इति सा एक वस्त्रखण्ठेन सर्वं स्वच्छति)
अभिनयः – दर्पणे अद्य चहपानार्थं संस्कारयुताः विद्वांसः अस्मद्गेहम् आयान्ति ।
दर्पणा – के ते ।
अभिनयः – ते विदेशेषु वसन्तः भारतीयाः ।
दर्पणा – तेषां चहापानेन किं प्रयोजनम् ?
अभिनयः – किं दातव्यम् । (इति हसति)
दर्पणा – तेषां पातुं वशिका, मदिरा, बीर इत्यादिकमपेक्ष्यते । तेषां चहपानेन नोपयोगः ।
अभिनयः – ते अस्मात् गृहम् आयान्ति । अस्माभिः यत् पीयते तदेव दातव्यं विद्यते । नत्वन्यत् ।
दर्पणा – किं दातव्यम् ? कथय त्वमेव ।
अभिनयः – चहांवा उत काफींवा ।
दर्पणा – ते यत् खादन्ति, पिबन्ति तत् दाने अतिथ्यं भवति ।
अभिनयः – तथा नहि ।
दर्पणा – तर्हि कथम् ।
अभिनयः – वयं यत् ददामः तत् तैः गृहीतव्यम् । ते भारतीयाः एव ।
दर्पणा – ते विदेशेषु निवसन्ति बहुकालात् । तस्मात ते विदेशीयाः एव ।
अभिनयः – ते सर्वे अत्रैव बाल्ये भारतवर्षे उषित्वा विद्यामभ्यस्तवन्तः आसन् ।
दर्पणा – विदेशनिवासिनाम् अखाद्यं न विद्यते जगति ।
अभिनयः – तथा मा वद । तेभ्यः यत् रोचते तत् ते खादन्ति । वयं व्यक्तिगत इच्चानुसारं न किमपि कर्तुं क्षमाः । भिन्नरुचिर्हि लो ।
दर्पणा – आगन्त्रूणां नामधेयं किम् । ते कथं भूताः ।
अभिनयः – ते परिणीताः । दम्पती द्वयं समागच्छति ।
दर्पणा – दम्पत्योः नाम यथाक्रमं कथय ।
अभिनयः – शशिः चन्द्रिका च ।
दर्पणा – तौ दम्पती ?
अभिनयः – हां तौ दम्पती ।
दर्पणा – अपिच ।
अभिनयः – अरुणः छाया च ।
दर्पणा – तौ दम्पती ?
अभिनयः – हां तौ दम्पती ।
दर्पणा – तेषां नामधेयानि भारतीय नामान्येव ।
अभिनयः – हां तेषां नामधेयानि भारतीयान्येव ।
दर्पणा – तेषां नामधेयानां अर्थः कः ।
अभिनयः – शशि इत्यस्य चन्द्रमाः इति चन्द्रिका इत्यस्य ज्योत्स्ना इति अर्थः ।
दर्पणा – इदमर्थद्वयं समीचीनं विद्यते ।
अभिनयः – अरुणः इत्यस्य सूर्यः इति । छाया इत्यस्य प्रतिबिम्बः इति ।
दर्पणा – सर्वाणि नामानि अतीव सुन्दराणि ।
अभिनयः – भारतीयसंस्कृत्यां, भारतदेशेच किं न सुन्दरं किं न मधुरं भवति । भारतीय संस्कृतिमवगाहितुं कलात्मक हृदयमत्यावश्यम् ।
दर्पणा – किं ते चीरं धरन्ति उत पेन्टुं धरन्ति ।
अभिनयः – नाहं जाने ।
दर्पणा – आधुनिकेषु दिवसेषु वेषभूषाधारणे प्रजानां न नियमः वर्तते ।
अभिनयः – तस्मात् अहं वच्मि नाहं जाने इति ।
दर्पणा – अधुना द्रक्ष्यावः ।
अभिनयः – भवती चषकादीन् अत्रैव स्थापय । उपवेष्टुं एकं वर्तुलफलकं अपिच तं परितः षट् कूर्चिकासनानि स्थापय ।
दर्पणा – वर्तुलफलक समावेशः भविष्यति किम् अद्य । (इति व्यवस्था करोति)
अभिनयः – (विहस्य) तद्वत् भविष्यति ।
दर्पणा – सर्वं व्यवस्था कृता समीचीना ।
अभिनयः – दर्पणे बहिः कवाटताडनं भवति ।
दर्पणा – (आकर्ण्य) द्वार घण्टानादमपि भवति ।
अभिनयः – हञ्जे दर्पणे भवती गत्वा कवाटमुद्घाटयतु ।
दर्पणा – अरे भवान् गत्वा द्वारमुद्घाटयतु ।
अभिनयः – स्त्रीणां स्वागतव्याहरणं सुन्दरम् आकर्षणात्मकं भवति ।
दर्पणा – हाम् अहमेव गच्छेयम् । (इति कवाटोऽद्घाटनं करोति)
(ततः प्रविशन्ति क्रमेण अतिथयः । शशिः, चन्द्रिका, अरुणः, छायाच । शशिः घण्टा पेन्टुं अन्तः षर्टुं कृत्वा कलाकार शिरोजैः पूर्णपादत्राणे बध्वा प्रविशति । चन्द्रिकापि तथैव प्रविशति । अरुणः आपादमस्तकं सूट्यां धूम्रनलिकां मुखे निक्षिप्य पीयमानः प्रविशति । छाया बाहुहीननिचोलं धृत्वा सिगरेटुं पिबन्ती प्रविशति)
दर्पणा – सुप्रभातम् अतिथिभ्यः । सुस्वागतम् । आयान्तु प्रविशन्तु अन्तः ।
सर्वे – गुड् मार्निड्ग (इति कथयन्ति)
अभिनयः – (तेषाम् अभिमुखं गत्वा) अभिवादये अतिथयः । (इति नमस्करोति)
सर्वे – (तस्य हस्तावलम्ब्य) हावु डु यु डु । (इति कथयन्ति)
अभिनयः – अत्रोपविशन्तु भवन्तः । (इति आसनानि दर्शयति)
सर्वे – वयं अनुगृहीतास्मः । (इति कुर्चीषु उपविशन्ति)
(अभिनयः दर्पणाच उपविष्टे)
अभिनयः – किं जले अपेक्षते ।
शशिः – नहि ।
दर्पणा – धूम्रवर्तिकायाः भस्मपेटिका इयं गृह्णातु । (इति भस्मपेटिकां तत्र स्थापयति)
शशिः – भोः अभिनय वः गृहम् अत्यन्तसुन्दरं कलामयम् अस्ति ।
चन्द्रिका – सत्यमेव एतत् भवनं भुवनमिव प्रतिभाति ।
अभिनयः – गृहमार्गणे परिश्रमा कृता किम् ।
शशिः – नहि । भवद्भिः दत्तसङ्केतपत्रं विद्यते खलु । अस्माभिः न कोपि परिश्रमः कृतः ।
अरुणः – भवतां गेहः राजप्रासादः इव राजते ।
छाया – (मुखात् धूम्रं विसर्जयन्ती) इदं गृहं कलाराधकानां गृहमिव प्रतिभाति ।
अभिनयः – सत्यमेव अयं गेहः कलाराधकानां गेहः ।
शशिः – भवन्तः कलाकाराः किम् ।
दर्पणा – हां वयं कलाकाराः एव ।
शशिः – अभिनयमहाभाग न प्रोक्तं भवता इतः परम् ।
अभिनयः – अनागतसन्दर्भः आसीत् ।
चन्द्रिका – अजन्ता एल्लोरा दर्शनसमये अपि भवता न प्रोक्तम् ।
दर्पणा – अजन्ता एल्लोरा दर्शनेन सर्वं इहलोकजीवनं व्यस्मरम् ।
छाया – अयि अभिनय अहम् एकं प्रश्नं त्वां प्रष्टुम् इच्छामि ।
अभिनयः – कस्ते प्रश्नः ।
छाया – अजन्ता अजन्ता इति सर्वोपि कथयति पदस्यास्य कः अर्थः ।
शशिः – छाये अजन्तापदस्य अर्थं न जानासि भवति ।
छाया – नाहं जाने । यदि त्वं जानासि तर्हि कथय ।
शशिः – न+ज=अज+अन्त= अजन्ता । ज ह्रस्वीकरणे अजन्ता इति मे प्रतिभाति ।
चन्द्रिका – अर्थः कः ।
शशिः – ज इत्यस्य जन्म न व्यतिरेकार्थकः अर्थात् जन्मरहिता ।
चन्द्रिका – पुनर्जन्म रहिता ।
शशिः – अन्तः नाशनमपि न विद्यते । तस्मात् अजन्ता ।
चन्द्रिका – अहो अद्भुतम् ते भाषणम् कथनम् च ।
अरुणः – शशिमहोदय त्वं संस्कृतपण्डितः किम् ।
शशिः – नाहं संस्कृत पण्डितः । किन्तु पञ्चमकक्ष्यातः एस.एस.सी.पर्यन्तं संस्कृतं सम्यक् अपठम् । तेन परिमितज्ञानेन अहम् एवं वच्मि ।
अभिनयः – शशिमहोदय भवान् एस. एस. सी. पर्यन्तं संस्कृतमधीतवान् अस्ति । अहो ते विद्यासम्पूर्णतां प्राप्ता ।
शशिः – (विहस्य) अभिनय मे संस्कृतविद्या वर्षाकाल विद्या । तस्यां गम्भीरता नास्ति ।
छाया – दर्पणे महोदये । मम किञ्चित् पानीयमपेक्ष्यते ।
दर्पणा – ददामि । (इति झरीपात्रात् पानीयं किरति)
छाया – (पीत्वा) प्रसादन कक्ष्या कुत्र विद्यते दर्शय दर्पणे ।
दर्पणा – महाभागे एहि मया सार्थम् । (इति उत्तिष्ठति)
छाया – हाम् । (इत्युथाय गच्छति तयासाकम्)
अभिनयः – शशिमहोदय भवतः संस्कृताभ्यासमुद्दिश्य अजन्ता दर्शनवेलायां न प्रोक्तम् ।
शशिः – भवन्तमिव अहमपि अजन्ता दर्शनेन आश्चर्यचकितः भूत्वा सर्वमपि जगत् व्यस्मरम् ।
अरुणः – जगति प्रायेण सर्वेषां कलाराधकानां समागमः अजन्ता एल्लोरायामेव भवति । एतत् कलाराधकानां सङ्गमस्थानं भवति ।
दर्पणा – अस्माकं सर्वेषां समागमः अजन्तायां सञ्जातः । अजन्ता समागमः मित्रसमागमाय हेतुः भवति ।
अभिनयः – अजन्ता एल्लोरासम्बन्धेन विना अस्मत् समागमस्य सम्भवः न भवत्येव अद्य ।
अरुणः – अजन्ता शब्दस्योत्पत्तिः साधु इति मे भावना ।
अभिनयः – अनेके नैक मार्गेषु व्युत्पत्तिं कथयन्ति ।
शशिः – किं ते अभिप्रायः । (इति अभिनयं पश्यति)
अभिनयः – ममाभिप्रायस्तु सुदीर्घः भवति । अधुना वक्तुं समयः अन्यः भवति । चहां शीतलतां प्राप्नोति प्रथमतः चहपानं कुर्वन्तु । दर्पणे चहां वितरतु भवती ।
दर्पणा – अवश्यं कुर्याम् । (इति चहां सर्वेषां वितरति)
(सर्वे चहा पिबन्ति पिण्टकं खादन्ति)
शशिः – (क्रमुकचूर्णभरिणीं स्वकञ्चुकस्थानात् नीत्वा क्रमुकं खादति, सर्वेषामपि वितरति । सर्वे गृहीत्वा खादन्ति)
चन्द्रिका – अयि भोः अभिनय भवान् अजन्तामुद्दिश्य भवदीय व्युत्पत्तिं कथयत।
छाया – अयि भोः अभिनय भवान् संस्कृतं जानाति ।
अभिनयः – जानामि किञ्चित् ।
दर्पणा – किञ्चित् नहि बहु जानन्ति ।
शशिः – भवान् एम्. ए. परीक्षायाम् उत्तीर्णः अस्ति ।
दर्पणा – अयं पण्डितः ।
छाया – किम् ? पण्डितः ?
अरुणः – पण्डिताः संस्कृतं सम्यक् जानन्ति ।
चन्द्रिका – एते एम् ए. नहि किम् ?
दर्पणा – एते एम्. ए.अपि अकुर्वन् ।
चन्द्रिका – संस्कृत एम्. ए. किम् ?
दर्पणा – हां संस्कृत एम्. ए. अपिच भाषाशास्त्रे अपि एम्. ए. अकुर्वन् ।
छाया – अहो एम्. ए. द्वयम् ।
अरुणः – अभिनये गाने च निष्णाताः इति मे मतिः ।
चन्द्रिका – तत् कथम् अनुमीयते भवता ।
शशिः – अस्य रूपमेव तस्य पाण्डित्यं महिमानं च घोषयति ।
छाया –वयं भवन्तमुद्दिश्य सविस्तरं ज्ञातुम् उत्सुकास्मः ।
शशिः – अयि भोः अभिनय भवतां सम्पूर्णपरिचयः ।
अभिनयः – दर्पणे ते पृच्छन्ति प्रत्युत्तरं देहि ।
दर्पणा – एते अभिनये सङ्गीतेच लालसाः संस्कृतपण्डिताः । एते भारतीय परम्पराम् अभिलषन्ति । एते सर्वदा गृहं कलामयं कर्तुं इच्छन्ति । एते कविवराः ।
शशिः – अभिनयः इत्यनेन नाम्ना केवलं अनुमीयते अयम् एकः उत्तमकलाभिमानी इति ।
अरुणः – अद्य अत्रैव आकण्ठं पर्वभोजनं करिष्यामः यतः अयम् उत्तमकलाभिमानी इति ।
छाया – अवश्यम् अत्रैव भोक्ष्यामः । (सर्वे हसन्ति)
चन्द्रिका – अभिनयमहोदय अजन्तां वयं सर्वे द्रष्टुं गताः । अजन्ता व्युत्पत्तिमुद्दिश्य को भवताम् अभिप्रायः ।
अभिनयः – अजन्ता इत्यस्य पदस्य अर्थः एवमिति मे मतिः ।
शशिः – कथयन्तु अस्मान्, प्रकाशितवतः कुर्वन्तु ।
अभिनयः – चिन्त धातुः विद्यते । सः धातुः चुरादि गणीयः । तस्मात् धातोः नामवाचकरूपः चिन्ता भवति । न + चिन्ता = अचिन्ता अर्थात् अत्र निवसतां जनानां लौकिक चिन्ता न भवति ।
छाया – अजन्ता किम् ।
अभिनयः – अचिन्ता अपभ्रंशरूपेण जाता अजन्ता । यत् शशिना प्रतिपादितं तदपि सत्यमेव । इयं व्युत्पत्तिः । चिन्त धातोः समुत्पन्ना इति मे मतिः ।
शशिः – भवद्भिः सम्यक् प्रतिपादितं यतः जगति यत् दृश्यं तन्नश्यं भवति तस्मात् मम व्युत्पत्तिः असाधुरिति मे प्रतिभाति । अयि भोः भवताम् अभिप्रायः कः अजन्ता सौन्दर्यमुद्दिश्य ।
चन्द्रिका – भवान् पण्डितः कलाकारः कविश्च । यदि भवान् वक्तुं न समर्थः अन्यः कः कथयितुं समर्थः भवति ।
अभिनयः – अजन्ता कुड्यचित्रं सौन्दर्याणाम् आयतनम् । मानवस्य चित्रकलायाः पराकाष्टास्थानम् इदम् । अजन्ता सुन्दरी सदृशाः जगति स्त्रियः न विद्यन्ते । एतत् सर्वं चित्रितमपि सहजसौन्दर्य शोभितमिवाभाति । मे अजन्ता चिक्रकलापेक्ष्या एल्लोका शिल्पकला अतीव रोचते ।
शशिः – अहम् एल्लोरामुद्दिश्य प्रष्टुम् उद्युक्तः अभवम् । किन्तु अजन्तामुद्दिश्य कथनानन्तरं तं प्रश्नं प्रष्टुं निश्चितोस्मि । किन्तु प्रसङ्गवशात् भवानेव वक्तुं प्रयतते ।
अभिनयः – एल्लोरा शिल्पकलायाः आयतनम् । जगति शिलासु शिल्पाः न कुत्रापि एल्लोराम् अतिक्रामन्ति सौन्दर्ये ।
चन्द्रिका – एल्लोरायाः अर्थः कः ।
अभिनयः – वेरूलु ग्रामसकाशे विद्यते, तस्मात् सः प्रदेशः वेरूलप्रदेशः । तत्र द्वादश ज्योतिर्लिङ्गेषु एकः विख्यातः वैद्यनाथनामकः शिवालयः वर्तते । वेरूल शब्दः इल्वलपुरशब्दात् प्रादुरभूत् कालक्रमेण एल्लोरा अभूत् इति केषाञ्चन मतम् ।
अरुणः – तत्र अनेकधर्माणां भूर्तिकलाः सन्दृश्यन्ते । तासां कलानां माहात्म्यं सविस्तरं कथय ।
अभिनयः – तत्र धर्मत्रयाणाम् अमरसौन्दर्यसङ्गमः जातः ।
छाया – के ते धर्माः ।
अभिनयः – हिन्दुधर्मः । बौद्धधर्मः । जैनधर्मश्च ।
अरुणः – ते कथं विभक्ताः आसन् ।
अभिनयः – मध्ये हैन्दवधर्मशिल्पकलाः राजन्ते । तस्य धर्मस्य उभयतः बौद्धधर्मशिल्पखण्डाः जैनधर्मशिल्पखण्डाश्च राजन्ते ।
शशिः – हिन्दुधर्मकलाखण्डस्य आयतनस्य नाम किम् ।
अभिनयः – आयतनस्य नाम कैलासदेवालयः इति । स देवालयः एकस्मिन् महाशिलाखण्डे तक्षितः । तत्र सर्वे शिल्पाः नृत्यन्ति, गायन्ति, हसन्ति, विलपन्ति, विचारयन्ति च । सर्वोऽपि देवालयः कलायतनं भाति ।
चन्द्रिका – कथम् अस्मदीय पूर्वजाः तं देवालयम् अतक्षन् ।
अभिनयः –केवलं सत्वेन ते पूर्वजाः अकुर्वन् । पूर्वजानां शक्तीनाम् अवधयः न आसन् । ते कथं क्षपासु अन्धकारबन्धुरकाननेषु, वर्षासु,आतपेषु शीतवातेषु, निर्जनारण्येषु अद्रिषु कैः साधनैः कथं कतिवत्सराणि अतक्षन् न कोपि जानाति ।
अरुणः – अधुना विज्ञानशास्त्रं प्रगतिरूपं भेजे । अधुना तादृशं कर्तुं सुकरं भवति ।
अभिनयः – अधुनापि सुकरं न भवति । यदि सुकरं भवति तर्हि तादृशशिल्पसृष्टिं कर्तुम् अशक्ताः भवन्ति । सः युगः अन्यः । तेषाम् अभिरुचिः अन्या । सा अपरा सृष्टिः । इयं शिल्पकला इयं कुड्यचित्रावलिः अपिच सर्वभारतीयकला अपराजिता भाति ।
छाया – आधुनिकाः न करिष्यन्ति । आधुनिकाः कलां न जानन्ति ।
अभिनयः – केवलम् आधुनिकाः विडम्बनां करिष्यन्ति नान्यत् । आधुनिकाः कलामुद्दिश्य न जानन्ति ।
छाया – अजन्ता चित्रकलापेक्ष्या एल्लोराशिल्पकलापेक्ष्या लोके आधुनिक वेषभूषासु विद्यमानाः सुन्दर्यः मे परं शिल्पकलाः कुड्यचित्राणीव सन्दृश्यन्ते । आधुनिकाः सुन्दर्यः परं सौन्दर्यवत्यः इति मे प्रतिभाति ।
अभिनयः – छाये त्वं सौन्दर्यमुद्दिश्य न किमपि जानासि ।
शशिः – सौन्दर्यस्य व्युत्पत्ति का ।
दर्पणा – अयि अभिनय एतावत्पर्यन्तम् अजन्ता प्रकरणमुद्दिश्य अपिच एल्लोरा प्रकरणमुद्दिश्य यत् अस्माभिः चर्चा कृता मया सा सर्वां सम्यक् लिखिता । अधुना सौन्दर्यप्रकरणं प्रारम्भिष्ये ।
अभिनयः – यत् विलिख्यते त्वयाऽधुना तत् सर्वम् एक नाटकरूपेण भाविकलाकारैः प्रयोगरूपेण प्रदर्शयितुं योग्यं भवतीति मे अभिप्रायः ।
दर्पणा – अस्मदीय भाषणं सर्वमपि नाटकरूपेण यथा प्रयोक्तुं योग्यं भवति तथा अहं लिखामि ।
छाया – सौन्दर्यस्य व्युत्पत्तिं कथयन्तु भवन्तः ।
अभिनयः –हां कथयामि सौन्दर्यव्युत्पत्तिं श्रुण्वन्तु भवन्तः । सुन्दरतायाः भावः सौन्दर्यम् ।
छाया – सौन्दर्ये प्रकाराः सन्ति किम् ।
शशिः – यदि प्रकाराः सन्ति सविस्तरं कथयतु भवान् ।
अभिनयः – चतुर्विधानि सौन्दर्याणि सन्ति ।
अरुणः – तानि सर्वाणि कथं सङ्क्रमिष्यन्ति चेतनाऽचेतनानां जगति ।
अभिनयः – सौन्दर्यं न कोऽपि क्रेष्यति । तत् आपणे न लभते । तत् जन्मतः सङ्क्रामितं भवति ।
छाया – भवान् एतत् सुन्दरम् इति कथं निर्णयिष्यति । केवलं वदनम् आकर्षणात्मकं विद्यते इति सा नारी उत सः पुरुषः सुन्दरी सुन्दरः इति कथयति किम्।
अभिनयः – सौन्दर्यम् एकत्रैव न धनी भवति तत् सर्वव्याप्तं देहे उत वस्तुनि दृश्यते । केचन सौन्दर्यं भावयितुम् अशक्ताः भवन्ति कथ्यमानाः अपि ते अवगाहितुम् असमर्थाः भवन्ति ।
अरुणः – तस्मात् कथं तैः अवगाहियिष्यते ।
अभिनयः – पश्य । अजन्ता एल्लोरा दर्शनेन कजुराहो दर्शनेन मानवः सौन्दर्यमित्यस्य पदस्य अर्थं विचारयिष्यति ।
छाया – विना च एल्लोरा अजन्ता दर्शनं मानवः सौन्दर्यं प्रति न चिन्तयिष्यति ।
अभिनयः – न चिन्तयिष्यतीति नाहं कथयामि । किन्तु कलाखण्डस्य दर्शनेन विचारहीनोऽपि पूर्णतया अवगाहनं कर्तुं प्रयतिष्यति ।
अरुणः – अयम् उत्तरः अर्थरहितः ।
अभिनयः – यूयं किमर्थम् आगतवन्तः अजन्तां द्रष्टुम् ।
अरुणः – लोकः मुक्तकण्ठम् अजन्ताम् एल्लोरामुद्दिश्य कथयति तस्मात् द्रष्टुम् आगतास्मः ।
अभिनयः – किं दृष्टानि भवता ? किं तृप्तिः सञ्जाता ?
अरुणः – कथने कीदृशः उत्साहः, श्रवणे कीदृशः आनन्दः, वर्तते तादृशः आनन्दः दर्शने न विद्यते ।
चन्द्रिका – अरुण, तथा मा वद कतिचित् चित्राणि अतीव हृदयङ्गमानि सन्ति । कानिचन साधारणानि वर्तन्ते ।
शशिः – ममापि न किमपि आश्चर्यकारकं विद्यते ।
अभिनयः – आधुनिकाः जनाः स्वतः ते सुन्दराः न सन्ति । सौन्दर्यं न विचारयिष्यन्ति । सौन्दर्यं विलोक्यापि विचारधारां न प्रसारयन्ति । ते अतीव जीवनलोलुपाः भवन्ति ।
चन्द्रिका – आधुनिकानां विमर्शनात्मकाबुद्धिः वर्तते तस्मात् ते सर्वं सुन्दरमिति नाङ्गीकुर्वन्ति ।
अभिनयः – (विहस्य) अधुना प्रपञ्चः विज्ञानम् इति मोहान्धकारे पतित्व सर्वं विज्ञानेन बध्वा सर्वं विमर्शयन्ति तत् न योग्यम् ।
शशिः – भवान् आधुनिकान् नाङ्गीकरोति ।
अभिनयः – तथा नहि । अधुना प्रपञ्चे एकः व्याधिः प्रसृता अस्ति ।
शशिः – का व्याधिः ।
अभिनयः – आधुनिकाः प्रपञ्चे सुन्दरम् असुन्दरं मन्वते । असुन्दरं सुन्दरं मत्वा कथयन्ति । सौन्दर्यं सर्वस्य कथं भवति इति न कदापि चिन्तां कुर्वन्ति । सर्वोऽपि अनुकरण व्याधिना पीडां भजते । अनुकरणेन सौन्दर्यं कथं भवतीति न कापि उत न कोपि चिन्तयति । काकः न कुक्कुटायते न मयूरायते इति न कोपि चिन्तयति ।
शशिः – सर्वोऽपि सुन्दरः सर्वापि सुन्दरी न भवतः किम् ।
अभिनयः – नहि !
शशिः – सुन्दरतां कथं निर्धारयिष्यति भवान् ।
अभिनयः – सौन्दर्यम् एक अवयवाश्रितं न भवति । तत् सर्वत्र सर्वावयवेषु प्रसारितं व्याप्तं भविष्यति । एकमात्रदर्शनेन प्रथमदर्शनेन केवलम् आपादमस्तकं यत् आकर्षणात्मकं दृश्यते अपिच चलनेषु विभिन्नासु भङ्गिमासु आह्लादात्मकं भवति तदा तत् सौन्दर्यात्मकं भविष्यतीति रसिकानाम् अभिप्रायः ।
अरुणः – भवता प्रोक्तं सौन्दर्यं चतुर्विधं वर्तते इति तत् कथं प्रतिपादयतु ।
अभिनयः – अहं संस्कृतभाषायां सौन्दर्यमीमांसा इति पुस्तकमेकं विलिखामि । तस्मिन् ग्रन्थे मया बाह्यसौन्दर्यमुद्दिश्य एवं प्रतिपादितम् ।
(1) जन्मतः सर्वाङ्गविकासेन सङ्क्रामितम् ।
(2) पोषण व्यायाम संवर्धितम् ।
(3) स्नानविलेपनाहार्यादि प्रभासितम् ।
(4) विडम्बना वर्धितम् ।
चन्द्रिका – यदि भवताम् आलोचनानुसारं पश्येम सुन्दरपुरुषाः सौन्दर्यवत्यः स्त्रियः अतीव विरलाः भविष्यन्ति ।
अभिनयः – सौन्दर्यं सर्वत्र न भवति ।
दर्पणा – स्त्रीणां केशसम्पत सौन्दर्यसाधनं भवति ।
अरुणः – येषां केशसम्पत् विरलं भवति तेषां सौन्दर्यं नास्तीति भवताम् अभिप्रायः किम् ।
अभिनयः – प्रपञ्चसाहित्ये शिरोजानुद्दिश्य सर्वे कवयः अधिकतरं सुन्दरं वर्णयामासुः । सौन्दर्यस्य शिरोजसम्पत् अङ्गं भवति । न कापि तन्वी शिरोजान् तृणी करिष्यति ।
अरुणः – तस्मात् ते सम्यक् केशकर्तनं विधाय शिरोजान् अलङ्कुर्वन्ति ।
अभिनयः – शिरोज कर्तनेन अलङ्कारः कथं भवति । तथा कर्तनमेव अयोग्यमिति मे अभिप्रायः । शिरोज कर्तनं नारीणां न्यूनसौन्दर्यस्य हेतुः भवति । तत् न जानन्ति मौढ्याः नार्यः ।
चन्द्रिका – बहव्यः स्त्रियः अर्धशिरोजकर्तनेन अत्यन्त सौन्दर्ययुक्ताः इव दृश्यन्ते ।
छाया – शिरोजकर्तनं सर्वेषां मण्डनं न भवति । कासाञ्चन अतीव सुन्दरं भवति यदि ते स्वतः आजन्मतः सुन्दर्यः चेत् ।
अभिनयः – तत् सत्यम् । सहज सौन्दर्यवतीनां शिरेजकर्तनं शिरोज मण्डनं सम्यक् सुन्दरं च भवति न तु सर्वासाम् ।
दर्पणा – शिरोजसम्पत् येषां विद्यते ते शतशः सौन्दर्यवर्धनकारकवेणीबन्धनानि करिष्यन्ति । शिरोज कर्तनेन एकमेव सौन्दर्यं भवति पिशाचानाम् इव ।
अरुणः – दर्पणे तथा मा वद । आङ्ग्लेयाः शिरोजकर्तनेन सुन्दर्यः भवन्ति ।
अभिनयः – आङ्ग्लेयानाम् अन्यपाश्चात्यानां तत् सम्यगेव भवति । यतः ताः सर्वाः पुरुषवेषे विडम्बमानाः धूम्रपानं कुर्वन्ति । तेषां शरीरधर्मः पुरुषाणामिव प्रतिभाति । तत् सौन्दर्यं नास्ति । भारतीयानां सौन्दर्यविषये अनेके ग्रन्थाः विलिखिताः । भारतीयानां सौन्दर्यविषये अनन्यसाधारण आलङ्कारिकपरम्परा विद्यते ।
चन्द्रिका – का सा परम्परा ।
अभिनयः – चीरधारणं, शिरोजालङ्करणं, शृङ्गारचेष्टादिककरणं इत्यादिकम् । अपि च स्त्रीणां शरीरन्तु पुरुषाणामपेक्ष्या भिन्नतया दृश्यते । तत् पाश्चात्य स्त्रीपुरुषेषु न सन्दृश्यते ।
दर्पणा – तस्मादेव सकलधरातलम् अजन्ताम् आगत्य प्राचीनसंस्कृतिं ज्ञात्वा भारतीयसौन्दर्यस्य दासतां भजते । षेक्स्पियर महाकविः एकस्मिन् नाटके भारतीयस्त्रीणां सहज सौन्दर्यं चीरवेष्टने भ्राजते इति उल्लेखितवान् ।
छाया – तत् कथम् ।
अभनयः – शरीरस्य विना चीरवेष्टनम् अर्धनग्न वस्त्राच्छादनेन मण्डनं भवति तर्हि तत् मण्डनं नहि तत् जुगुप्साकारकं मण्डनं भवति । साधारणतः गोपितवस्तुषु उत्सुकता, रसिकता, अधिका प्रतिभाति । बहिः प्रकटीकृतवस्तुषु उत्सुकता न भवति किन्तु जुगुप्सा भवति । केषाञ्चन सहजसुन्दरीणां सर्वावयवपोषणेन मांसवसादि विकारेण लावण्येन शरीरधर्मः सम्यक् उत्तेजात्मकं भवति । तादृशाः स्त्रियः यत् किमपि कुर्वन्ति यत् किमपि धरन्ति तत् सर्वं सुन्दरं भवति । न तु सर्वासाम् । मूढाः जनाः तत् न पश्यन्ति अपि च न विचारयन्ति ।
शशिः – तस्मात् शिरोजालङ्करणं, चीरमण्डनम् अन्यालङ्करणानि स्त्रीणां सौन्दर्यविषये उत्तमस्थानमभजन् ।
दर्पणा – शिरोजकर्तनेन सर्वाः सौन्दर्यवत्यः न भवन्ति ।
अभिनयः – यदि शिरोजकर्तनेन सोन्दर्याधिक्यं भवेत् तर्हि निकृन्तशिरोजालङ्कृतवत्यः नार्यः सर्वाः सुन्दर्यः भवेयुः एव । किन्तु तथा न भवन्ति । भूत प्रेत पिशाचादीनां दृश्यं कल्पयन्ति ।
छाया – बालिकानां शिरोज कर्तनं सम्यक् भवति ।
दर्पणा – बालिकानामपि शिरोजकर्तनं न सौन्दर्यप्रसादनं भवति ।
अभिनयः – शिरोजकर्तनम् एक व्याधिरूपेण प्रसारिता । सौन्दर्यं वितर्कितवत्यः युवत्यः पाश्चात्यव्यामोहेन कुर्वन्ति । ताः न जानन्ति सौन्दर्यमुद्दिश्य किमपि । “किमवहि मधुराणां मण्डनं नाकृतीनाम् ।”
छाया – सोन्दर्यमुद्दिश्य कानि पुस्तकानि उत काव्यानि विद्यन्ते ।
अभिनयः – संस्कृतभाषायां सर्वमपि अलङ्कारशास्त्रं सौन्दर्यमुद्दिश्यैवास्ति । साधारणतः संस्कृतभाषायां सर्वेपि कवयः यथासन्दर्भं सौन्दर्यशास्त्रमुद्दिश्य अकथयन् । तत् सर्वमपि शास्त्रं पठित्वा विलोक्य च शिल्पिनः शिल्पकलाम् अवर्धयन् । सौन्दर्यशास्त्रं संस्कृतभाषायां परिपुष्टं परिपूर्णं विद्यते ।
दर्पणा – सर्वेपि अजन्तागुहाः एल्लोरागुहाश्च बहुकालात् प्राक् सौन्दर्यम्प्रसाराय पूर्वजैः चित्रिताः शिल्पिताश्चाभवन् । अल्पज्ञाः मूढाः पाश्चात्या व्यामोहे सम्भ्रम्यमानाः अन्धाः परम्परागत संस्कृतिम् अलङ्कारचयं च नाशयन्ति इति मे मनीषा ।
अभिनयः – हां सा एव मम मनीषाऽपि ।
छाया – शिरोज कर्तनं नारीणाम् असौदर्यस्य हेतुः इति भवतां सिद्धान्तः ।
दर्पणा – इयं सर्वेषां मनीषा न केवलम् आवयोः ।
अभिनयः – जगति सर्वं सौन्दर्ययुक्तं न भवति ।
अरुणः – (जलं झरीपात्रात् सर्वेभ्यः वितरति) अद्य सौन्दर्यमुद्दिश्य बहु विषयाः ज्ञाताः आसन् । तथैव यदि नाट्यमुद्दिश्यापि किञ्चित् ज्ञाप्यते तर्हि वयं किञ्चित् भारतीयतां ज्ञस्यामः ।
अभिनयः – नाट्यमुद्दिश्य कथयितुम् अयं समयः नहि । अनन्तरं यदा कदापि कथयेयम् ।
छाया – तथा मा वदतु भवान् । इयन्तं विषयं कथयन्तु यत् यः कोऽपि सम्बन्धः विद्यते वा नाट्यसौन्दर्ययोर्मध्ये ।
अभिनयः – द्वयोर्मध्ये बहुसम्बन्धः विद्यते । सौन्दर्यस्य यथा चतुर्विधरीतयः वर्तन्ते तद्वत् नाट्यस्यापि चतुर्विधरीतयः वर्तन्ते ।
छाया – कास्ताः । (इति धूम्नवर्तिं ज्वालामति धूम्रं पिबति नाशापुटाभ्यां धूम्रं त्यजति)
दर्पणा – (धूम्रपात्रं तस्याः पुरतः निक्षपति)
अभिनयः – कथयामि शृणु । आङ्गिक, आहार्य, वाचक, अभिनयमिति नाट्यं चतुर्विधं वर्तते ।
अभिनयः – अङ्गसम्बन्धि अर्थात् करचालन शरीराकुञ्चनमित्यादिकम् आङ्गिकं भवति । आहार्यं यथारसं वेषभूष कबरीभर धारणम् । वाचकमित्यस्य कुत्र कदा कथं विवार संवार प्रयत्नैः यधाभिनयं भाषणं कर्तव्यं तत् वाचकं भवति । अभिनयं नाम भाव प्रकटनया नवरसोन्मेषशालिन्या यदि कथावस्तु नटः अभिनयति सः अभिनयः भवति ।
चन्द्रिका – अत्र सौन्दर्यस्य आवश्यकः कथम् भवति । सर्वोपि उपरोक्त प्रकारेण चतुर्विधाभिनयं करिष्यति ।
अभिनयः – जगति सर्वे सर्वेषां नहि । कानिचन केषाञ्चन अन्ये च अपरेषां भवन्ति ।
चन्द्रिका – नाट्यसुन्दराः सुन्दर्यः केवलं करिष्यन्ति ?
अभिनयः – केवलं सुन्दर्यः सुन्दराः अपि नाट्यं न करिष्यन्ति ।
छाया – भवदीय भावनां विशदयन्तु ।
अभिनयः – विना च सौन्दर्यं चतुर्विधाभिनयम् पराकाष्ठां न भजते ।
चन्द्रिका – नाट्यं कर्तुं सुन्दरशरीरयष्टिः अपेक्ष्यते किम् ।
अभिनयः – चञ्चलचालनगात्री सौन्दर्यमूर्तिः नाट्यं कर्तुं सक्षमा भवति । यदि सौन्दर्यं नास्ति सा नाट्यं कर्तुम् अयोग्या भवति अनर्हा भवति ।
अभिनयः – सर्वाः स्त्रियः पुरुषाः सर्वे कर्तुं न शक्ताः किम् ?
अभिनयः – सर्वाः स्त्रियः कर्तुं शक्ताः भवन्ति । किन्तु सुन्दरस्त्रीणां नृत्यं नाट्यं लास्य प्रेक्षकानां आनन्ददायकं भवति । न तु सर्वासाम् ।
छाया – तस्मात् सुन्दर्यः केवलं नाट्यशिक्षिताः भवितव्याः इति भवताम् अभिप्रायः ।
अभिनयः – हां सुन्दर्यः नाट्यशिक्षिताः भूत्वा नाट्यकलां स्वीय सौन्दर्य हावभावादिभिः दर्शयित्वा रसिकजनमनोभिरामां करिष्यन्ति । अन्याः याः सौन्दर्यहीनाः सन्ति ताः सम्यक् शिक्षणां गृहीत्वा शिक्षिकाः भूत्वा कलां सर्वव्यापिनीं कुवन्तु इति ममाभिप्रायः । विना च सौन्दर्यं, समस्सम विभक्ताङ्गं विद्युदिव स्फुरणं, शीघ्र करचालनादिकं, ताल राग भावज्ञानं, कला क्लिष्टेन अभ्यस्तापि सा सौन्दर्यहीना भवति ।
छायाः – विना सौन्दर्यं नाट्यं न भवति किम् ।
दर्पणा – सौन्दर्यहीनं नाट्यं लावण्यहीन वपुरिव भवति ।
अभिनयः – तन्नाट्यं कदापि मनमोहनं न भवति ।
अरुणः – पाश्चात्यदेशेषु सर्वेपि नाट्यं कुर्वन्ति तत् सम्यगेव भवति ।
अभिनयः – अधुना लोके सर्वोऽपि पाश्चात्यव्यामोहव्याधिना पीडितः अस्ति । सः सर्वं सर्वदा पाश्चात्य जीवनपद्धत्या तोलयित्वा पश्यति । एतादृश्यचिन्तना देशद्रोहकारी भवति । सर्वोपि देशः स्वत्वेन विराजते । किन्तु वयं भारतीयाः स्वत्वं निहाय परान् अनुकुर्मः । इयं स्थितिः पतनोन्मुखी भवति ।
अरुणः – भवन्तः किञ्चित् आवेशेन कथयन्ति सर्वमपि ।
अभिनयः – आवेशेन नहि महदाशयेन कथयामि । शृणु । पाश्चात्यानां नाट्येषु भावः नास्ति । तेषु नाट्येषु केवलं चलनचालनं भवति । तन्नाट्यं व्यायामपूर्णम् ।
अरुणः – नाट्यशास्त्रं सर्वं व्यायामपरिपूर्णं दरीदृश्यते ।
अभिनयः – अङ्गीकरोमि किन्तु व्यायामेपि भावप्रकटना कथावस्तुमाश्रित्य सर्वरससङ्कुला सामाजिकान् आनन्द पारवश्यान् करोति । तादृशी भावना रसपूर्णता तेषु नाट्येषु शून्याभाति । तत् नाट्यं कामगुणं प्रकोपयति । नाट्यमुद्दिश्य भारतीय कल्पनाः अन्याः । भारतीयानां सर्वाः कलाः शृङ्गारपूर्णभक्तिभावैः परिपूर्णाः भूत्वा शान्ते पर्यवसिताः भवन्ति । एतादृशी भावना तेषां न विद्यते । ते केवलं कामावाञ्चा अभिवृद्ध्यर्थं नाट्यं कुर्वन्ति । तत् सामूहिकम् ।
छाया – द्वयोर्नाट्योः मध्ये महदन्तरं विद्यते ।
अभिनयः – पाश्चात्यानां नाट्येषु भावः नास्ति । तेषु नाट्येषु कामुकता वर्तते । तेषां नाट्यानां सौन्दर्यप्राथान्यं नास्ति । तत्र सर्वेपि नाट्यं कर्तुं सक्षमाः भवन्ति । ते सामूहिक नाट्यं करिष्यन्ति । मम दृष्ट्या तन्नाटयं नाट्यं नहि । तच्चशास्त्रं नहि । तन्नाट्यं सर्वोऽपि करिष्यति ।
छाया – भारतीयानां कथं वर्तते ।
अभिनयः – भारतीय नाट्यं जन्मतः याः सुन्दर्यः अत्यन्त उत्साहिन्यः विद्यन्ते तासामेव नाट्यं योग्यं भवति न तु सर्वासाम् ।
छाया – तथा यदि स्यात् भारतीयानां नाट्यं सर्वेषां नोपयोग्यं भवति । सर्वेपि तस्मिन् नाट्ये निष्णाताः न भविष्यन्ति ।
अभिनयः – सर्वेणापि नाट्यनिष्णातः भवितुं शक्यते । किन्तु ते नाट्यकरणे अयोग्याः भवन्ति । यदि तादृशाः सौन्दर्यहीनाः भावनारहिताः नाट्यं करिष्यन्ति तर्हि सामाजिकेषु न कोपि रसग्राही भविष्यति । सर्वे सामाजिकाः कुड्यस्तम्भाः एव भविष्यन्ति । न केवलं भारतीयनाट्यं, किन्तु जगति सर्वे सर्वेषां न भवन्ति । सर्वोऽपि सर्वं प्राप्तुं यत्नः करणं अयोग्यं भवति ।
अरुणः – कथं तादृशनियमः विनिमयाश्च विद्यन्ते ।
अभिनयः – सर्वं जगत् नियम विनियमाधीनं वर्तते तस्मात् जगति विद्यमानेष्वपि नियम विनियमाः वर्तन्ते यतः वयं जगति वर्तामहे ।
दर्पणा – यदि त्वम् आपणं गत्वा किमपि वस्तुक्रयणे सर्वाङ्गसुन्दरं वस्तुशल्यपरीक्षां कृत्वा आनन्ददायिनं वस्तु आकर्षणात्मकं वस्तु क्रीणासि किमर्थम् ? तथैव जगति सर्वे आनन्दाकर्षणात्मक युवतीनां नाट्यमेव द्रक्ष्यन्ति आनन्दमनुभविष्यन्ति । इयं लोकपरिपाटिः । इयं कला ।
अरुणः – सोन्दर्य नाट्ययोर्मध्ये अत्यन्त सन्निहितत्वं विद्यते इति अधुना मया ज्ञातम् ।
अभिनयः – तस्मादेव अजन्ता कुड्यचित्राणि एल्लोरा शिल्पानि कजुराहो शिल्पानि अचेतनानि किन्तु सर्वरसिकानां हृदयाहलादकानि भवन्ति । यदि तानि सर्वाणि चलेयुः तर्हि तानि देवता मूर्तयः भूत्वा सर्वप्रपञ्चम् उन्मत्तं करिष्यन्ति । एतादृश सौन्दर्यं जगति । कुत्रापि विद्यते । शिरोजाकर्तनेन चित्रविचित्र वेष्टनेन अङ्गरागादीनां उपयोगेन सौन्दर्यवत्यः न भवन्ति ।
चन्द्रिका – तर्हि केन प्रकारेण सौन्दर्यवत्यः भवन्ति ।
अभिनयः – जन्मतः सङ्क्रामितसौन्दर्य नृत्य नाट्य सङ्गीत कवितादिभिः सम्मिश्रितं वपुः सुन्दरं भवति । यदि एतादृशं सौन्दर्यसम्पत् युवत्याम् उत पुरुषे वर्तते तत् सौन्दर्यं दिव्यमेव भवति ।
शशिः – तस्मात् चित्रलेखनशिल्पकवितानृत्यगायनमित्यादि ललितकला साञ्ज्ञिकम् इति कथयन्ति ।
दर्पणा – तादृशसौन्दर्य सङ्गीत कविता नाट्य शिल्पादीनाम् अभ्यसनं प्रशिक्षितत्वं च पूर्वजन्म सुकृदादेव सञ्जायेते नत्वन्यथा ।
अभिनयः – चतुष्षष्टिकलानाम् । समवायः एव नाट्यम् । नाट्ये कवितायां च सर्वकलाः सन्दृश्यन्ते ।
छाया – अन्ततः निष्कर्षः कः । का सुन्दरी भवति जगति । कथयन्तु ।
अभिनयः – जगति अजन्ता, एल्लोरा, कजुराहो इत्येतत् सौन्दर्यत्रयम् अपराजितं भवति नत्वन्यत् । सर्वमपि भारतं कलामयं भवति । भारतस्य भरतखण्डमिति नामान्तरं विद्यते । अधुना अहं नामान्तरं करोमि तत् भारतं कलाखण्डम् इति ।
अरुणः – अधुना अभिनयः स्वीयरचितगीतिकाभ्यः एकां गीतिकां श्रावयिष्यति गानरूपेण ।
छाया – वयं सर्वे श्रोतुम् उत्सुकाः स्मः गायन्तु अभिनय महोदयाः ।
अभिनयः – अधुना मया गातव्यं किम् ?
छाया – हां गातव्यम् इति सर्वेषाम् आग्रहः ।
अभिनयः – अधुना नाहं गास्यामि । मया एकदा गीतं तां गानध्वनिमुद्रिकां चालयेयम् ।
चन्द्रिका – तथैव ध्वनिमुद्रिकां चालयन्तु ।
अभिनयः – दर्पणे ध्वनिमुद्रिकां चालय ।
दर्पणा – यथाज्ञापयति भवान् । (इति अन्तः गत्वा चालयित्वा आगच्छति)
गीतम् (भैरवीरागे)
रमते कैषा वर्षा तरुणी
वर्षासिञ्चित गात्री श्यामा
मलयाशानिल ज्वालितकामा
तटिदिव पीता चञ्चल रामा ध्रु.
ग्रीष्मातप ग्लापित मानसरङ्गे
भावजवल्ली वलयित तुङ्गे
केवल मन्मथ सहचर सङ्गे
सन्तत चिन्तनकर्शित मदङ्गे 1
उद्धृत वसनात् दर्शित वर्तुलजङ्घा
वेणीबन्धन छलनात् दर्शितकक्षा
अधरस्पन्दन दर्शित चुम्बनशिक्षा
मनसिज कुडमल रूपितवक्षा 2
अम्बरगलिता चान्द्रमसीशकला
जलधरगर्जन विगलितचपला
रम्भानर्तन स्रस्ता काञ्चीमाला
रमते युवजन भावजशाला 3
(सर्वे करतालध्वनिं कुर्वन्ति)
शशिः – (उत्थाय) तत्र भवन्तो रसिकाः मित्रोत्तमाः । अद्य अभिनय दर्पणे स्वकलात्मक दृष्ट्या भावनया च अस्माकम् अजन्तामुद्दिश्य एल्लोरामुद्दिश्य सौन्दर्यं नाट्यमुद्दिश्य इष्टागोष्टिषु सविस्तरम् अवोचताम् । तस्मात् अस्मत् पक्षात् ताभ्यां धन्यवादान वितरामि ।
दर्पणा – (उत्थाय) अस्मदीय भाषणं सर्वमपि अपराजितम् इति नाटकरूपेण मम लेखिनीद्वारा परिसमाप्तम् । युष्मान् सर्वान् एतादृश सुसमय कारकान् च संश्लाख्य शुभास्ते पन्थानः सन्तु इति अहं परिसमापक वाक्यानि ब्रवीमि । ओशम् ।
(सर्वे उत्थाय एकैकशः हस्तचालनं विधाय गच्छन्ति, रमते कैषा ध्वनिमुद्रिका चलति सर्वे गानं शृण्वन्तः सरन्ति)
(यवनिका पतति)
]