धूर्तविटसंवादः-भाणः

[[धूर्तविटसंवादः-भाणः Source: EB]]

[

** श्रीः**

** ईश्वरदत्तप्रणीतः**

** धूर्तविटसंवादः**

(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
% सू - विद्यया ख्यापिता ख्यातिः सज्जनाराधनं धनम्।
तेषां प्रीत्या भवेद्धर्म इत्यस्माकमुपक्रमः॥ %
तस्मादार्यजनप्रीत्यर्थँ किञ्चिन्नाटकमारभामहे। आर्यै सधनजनप्रीतिवर्धनकरायामधनानां यौवनोत्पीडितमन्दभाग्यानां शोकवर्धनकरायां कुमुदकुवलयकल्हारकमलनिचुलकेतकीककुभकन्दलीषण्डमण्झतायामस्यां प्रावृषि हृदयप्रीतिजननं किञ्चिद् गीतं गीयताम्। अयं खलु तावत्कालः -
जलधरनीलालेपः तटित्समालभनविह्वलद्गात्रः
विकसितकुटजनिवसनो विटो यथा भाति घनसमयः॥
(निष्क्रान्तः)
स्थापना।

(ततः प्रविशति विटः)
विटः - साध्वभिहितमेतत् -
% श्रीमद्वेश्ममृदङ्गवाद्यकुशला धाराः सृजन्त्यम्बुदाः
कुद्धत्रीभ्रुकुटीतरङ्गकुटिला विद्युल्लता द्योतते।
गढालिङ्गनहेतवः प्रचलिताः शीताः पयोदानिलाः
कामः कामिमनस्सु मुञ्चति दृढानाकर्णपूर्णानिषून्॥ %
अपि च,
% ते दग्धाः प्रवसन्ति ये समदना नायान्ति वा प्रोषिता
मुग्धास्तेऽननुयन्ति ये न कुपिताः कुप्यन्ति वात्यायतम्।
धन्यास्ते खलु ये प्रियावशगता येषां प्रिया वा वशे
कालः कामयतीव मेघपटहैरेवं जगद्धोषणाम्॥ %
अहो तु खलु जलदकालस्य ललितजनमनोग्राहिणी बहुवृत्तान्तता। संप्रति हि- सजलजलदावरूद्धदिनकरकराः सोपस्न्नेहाभूमिभागाः बहुदिवससदृशवृतान्ततया सौकुंमार्यमिवोपगता दिवसाः। कुटजगन्धावर्तितमधुकराणि प्रवृत्तनृत्तबर्हिणानि शीताम्बुवन्ति विहारक्षमाण्यरण्यानि। प्रचलितेन्द्रगोपका नवहरिततृणाङुकुराः सालक्तकयुवतिचरणविन्यासयोग्या वनभूमयः। कलुषसलिलवाहिन्योऽविभावनीयतीर्थाः शठा नार्यो दुरवगाहा नद्यः अपि च,
% कदम्बगन्धमादाय वनान्तरविनिः सृतः।
आयाति धाराशिशिरः सप्राभृत इवानिलः॥ %
तद्रमणीयोऽयं कालः। न चास्मिन्नौत्सुक्यं न भवति। कुतः -
% भ्रान्तपवनेषु संप्रति सुखिनोऽपि कदम्बवासितवनेषु।
औत्सुक्यं वहति मनो जलधरमलिनेषु दिवसेषु॥ %
तत्र द्विविधमौत्सुक्यं भवति- कारणादकारणाच्च। तत्र कारणोद्भूतस्यौत्सुक्यस्य शक्या प्रतिक्रिया कर्तुम्। यत्त्वकारणादुत्पद्यते तत् कुम्भदासीकृतकरुदितमिव दुश्चिकित्सं भवति। वयञ्चकानिचिदिमान्यहानि दुर्दिनदोषादल्पपदप्रचारत्वाच्च भृशतरमुन्मनसः संवृत्ताः। कुटुम्बिन्याश्च नः कण्ठमाधुरयैण तेनाप्यायितमनसोऽप्यपयानमेव बहुमन्यामहे। (विलोक्य)
दिष्ट्येदानीँ सुदिनं संवृत्तम्। निवृत्तसङ्गीतभृदङ्गसन्निभाः प्रशान्तरवा मेघाः। दुर्दिनदोषचकितः प्रासादशिखरमारुह्य पक्षौ वितत्य विरौति गृहमयूरः। सन्दष्टोपवीणावियुक्तविरलतन्त्री शीतवातवेपितेव कामिनीँ बालातपमासेवते वीणा। निष्ठीवन्तीव विमलमुक्तादामसन्निभान् प्रणालीमुखैस्तोयावशेषान् हर्म्यस्थलानि। दुर्दिनदोषान्निष्प्रभाः संप्रमृज्यन्ते दर्पणाः। अपि च -
% प्रवरगृहनिरोधस्वेदालसा यान्ति वातायनान्यङ्गना
जलदसमयदोषगाढार्पणा हेमकाञ्ची पुनर्योज्यते।
उपवनगमनाय सञ्चार्यते वारमुख्यो जनः कामिभिः
तरुणतृणसखेपु लाक्षारसः पात्यते पादपद्मेष्वनङ्गवहः॥ %
तत् क्वनु खल्विदमौत्सुक्यं विनोदयेयम्। किं नु द्यूतसभायामाहोस्वित् वेशवाटे।(विचार्य) नमोऽस्तु द्यूताय। एकशाटिकामात्रावशिष्टो हि नः परिच्छदः। अक्षाश्च नामानभिजातेश्वरा इव न सर्वकालसुमुखा भवन्ति। ततो वेशमेव यास्यामः। तत्र हि-

% कान्तान्यर्धानिरीक्षितानि मधुरा हासोपदंशाः कथाः
पीनश्रोणिनिरुद्धशेषमतुलस्पर्शं तदर्धासनम्।
स्न्नेहव्यक्तिकरान् करव्यतिकरास्ताँस्ताँश्चँ रम्यान् गुणान्
वेश्याभ्यः प्रणयात्दृतेऽपि लभते ज्ञातोपचारो जनः॥ %
(निरीक्ष्य) संव्रियतां द्वारम्। किमाह भवती -" वल्मीकमिव बुहुद्वारं ते गृहम्"इति। यद्यप्यन्योऽस्ति नगरघटृकानां प्रवेशाय मार्गः तथापि तैरन्यगृहपरिचयाद् द्वार एव लक्ष्यं गृह्यते। अपि च अलमुत्तरोत्तरेण।हा ध्वस्तोऽस्मि। (परिक्तम्य) स्थाने खलु कुसुमपुरस्थानन्यनागरसदृशी नगरमित्यविशेषग्रहिणी पृथिव्यास्थिता कीर्तिः। बहूनि खल्वस्य पुरस्य गृहाण्युच्छ्रायवन्ति। पण्यसमुदायाज्जनबाहुल्याच्च ताँस्ताँश्च समृद्धिविशेषान् दृष्ट्वा विस्मयते जनः। तत्र को विस्मयः ? सन्ति ह्यन्यान्यपि समृद्धिमन्ति पुराणि। येत्वस्य निः साधारणा गुणास्तान् वक्ष्यामः। तथा हि-
% दातारः सुलभाः कला बहुमता दाक्षिण्यभोग्याः स्त्रियो
नोन्मत्ता धनिनो न मत्सरयुता विद्यविनीता नराः।
सर्वः शिष्टकथः परस्परगुणग्राही कृतज्ञो जनः
शक्यं भो नगरे सुरैरपि दिवं सन्त्यज्य लब्धुं सुखम्॥ %
(परिक्रम्य)
अये श्रोष्ठिपुत्तः कृष्णिलकः खल्वसौ वेशप्रसङ्गात् सफलीकृतयौवनोऽस्मद्विधजनप्रणयभाजनीभूतः कुटुम्बात्ययभीरु पित्रा प्रयत्ना द्रक्ष्यमाणः कथमपि वेशं गत्वा प्रियोपभुक्तशोभिना वपुषा द्रुततरमित एवाभिवर्तते। अवश्यमभिनन्दयितव्यः। उपगमिष्यामस्तावदेनम्। (उपगम्य) भोः कृष्णिलक एवमेव सफलीकृतयौवनो भवतु भवान्। ननु खलु माधवसेनाया गृहादागम्यते ? किं ब्रवीषि -“कथं विज्ञातवान्” इति। किमत्र विज्ञेयम्। सदृशसंयोगी हि भगवान् मदनः। न चाहं भवव्द्यापारान्निवृत्तः। अथवा अविरतसुरतृष्णां कामिनीमुत्सृज्य क्वसि प्रस्थितः ? किमाह भवान्- “एतत्त्विदानीँ कथं विज्ञातवान् " इति। एतदपि नातिसूक्ष्मम्। कुतः-
%हस्ते ते परिमृज्य(ष्ट) साश्रुवदनं (ने) नेत्राञ्जनं लक्ष्यते
केशान्तो विषमश्च पादपतनादद्याप्ययं तिष्ठति।
व्यक्तं तत्र मनो निधाय भवता मुक्ता शरीरेण सा
मार्गँ पोत इवानिलप्रतिहतः कृच्छ्रात् तथा गाहसे॥ %
किं ब्रवीषि-“तातं तावदवलोकयिष्यामि " इति। कथमनेनैव वेषेण ? अवस्कन्दं दास्यति। किं ब्रवीषि -“यदीदृशीमवस्थां तातो मे पश्येत् जीवितपरित्यागमपि कुर्यात् " इति। अनवरतसूरततृष्णां कामिनीँ त्याजयता किं तेन न कृतम्। पिता नाम खलु सयौवनस्य पुरुषस्य मूर्तिमान् शिरोरोगः। न च किल भोः पितृमता शक्यं परस्परामर्षविवर्द्धितपणरागस्य सधिक्षेपवचनालङ्कृतस्य तेजस्विपुरुषनिकषोपलस्य द्यूतस्य दर्शनमात्रमप्युपलब्धुम्। न च किल शक्यं समुपचितोत्पलखण्डकानां सहकारतैलोद्गतचन्द्रकाणां कामिनीनिः श्वासविक्षोमिततरङ्गाणां प्रनृत्तबर्हिणाकाराणां वारुणीचषकाणां गन्धमात्रमपि विज्ञातुम्। न च किल शक्यं द्विधाभूतगोष्ठीजनेषु वयस्यार्धासनोपविष्टगणिकाजनेषु कामिनीसान्निध्या दमीमांसितपणेष्वासक्तमण्डलेषु पक्षियुद्धेषु प्राश्निकत्वमपि कर्तुम। न च किल शक्यं वातायनाभोगविनिष्पतितपीनपयोधराभिः ससंश्रमोद्धूतललिताग्रहस्ताभिः पौरवधूभिः सबहुमानमवेक्ष्यमाणस्य मदरभसस्य गजपतेः पन्थान मनुसर्तुम्। नच किल शक्यं अर्धौरुकपरिहितेनाकृष्टखड्गमात्रसहायेनाकृपणां वृत्तिमाकांक्षता मित्रार्थै बन्धनच्छेदोद्यतेन प्रज्वालितोल्कापिड्‌गलासु वीररात्रिषु नरपतिमार्गमवगहितुम्। नच किल शक्यं प्रत्युपकारचिन्तोपहतचित्तेन सन्निवृत्तश्लाघादोषेण प्रत्युपकारपीङितेन मित्रार्थँ सर्वस्वत्यागं कुर्तुम्। सर्वँ चैतत्सह्यम्। यत्तु दासी (स्याः) पुत्त्ताः पितरः स्वयमप्यननुभूतयौवना इव धनकुप्यार्थै वेशवधूभ्यः पुत्रान् धारयन्ति अत्र मे गृहीतपरशोर्जामदग्न्यस्य रामस्य क्षत्रियवधोद्यतस्येव लोकमपैतृकं कर्तुँ मतिर्जायते। अथवा यौवनमतिलंधितं नु कुवृद्धैः। नचैतद्विजानन्ति तपस्विनः -यथा विकचकमलान्तर्गतसलिलसुरभिरमृतरससदृशास्वादो मृतमपि पुरुषं संजीवयेद्वेश्यामुखरस इति। अपि च -

% काञ्चीतूर्यमसक्तपीनजघनं विस्त्रंभदत्ताधरं
श्वासोत्कंपितनर्तितस्तनतटं भ्रूभेदजिह्मेक्षणम्
सीत्कारानुविषक्तरोमपुलकं कालेन कोपाञ्चितं
वेश्यानां क इहास्ति भो मदवशादाज्ञारतं विस्मरेत्॥ %
किं ब्रवीषि- “अन्यच्च कष्टं भावाय निवेदयामि” इति। किं तत्। किं ब्रवीषे-“तातः किल मां दारकर्माणि नियुङक्त” इति। धिङमा मस्तु। मातावद्भो ईदृशं कष्टम्। ईदृशमपि नाम मया श्रोतव्यम्। शक्यं किलोर्ध्वहस्तेनाक्तन्दितुं वेश्यामहापथमुत्सृज्य कुलवधूकुमार्गैण यास्यतीति। पश्यतु भवान् -
% जात्यन्धां सुरतेषु दीनवदना मन्तर्मुखाभाषिणीँ
हृष्टस्यापि जनस्य शोकजननीँ लज्जापटेनावृताम्।
निर्व्याजं स्वयमप्यदृष्टजधनां स्त्रीरूपबद्धां पशुं
कर्तव्यं खलु नैव भोः कुलवधूकारां प्रवेष्टुं मनः। %
किं ब्रवीषि -“एष एव मे निश्चः” इति। यद्येषभवतो निश्चयः प्रीता स्मः। सदृशमस्मत्संसर्गस्य। गच्छ। इदानीँ गृहमेवागम्य पुनरपि त्वां संज्ञामुपलंभयामि। (परिक्रम्‌य) अयं हि ता वदत्याकीर्णजनतया प्रकीर्णवीचीवलय इव सलिलनिधिः सुभीमदर्शनोऽसुखोऽवगाहितुं कुसुमपुरराजमार्गः इह हि -
% यो मां पश्यति सत्वरोऽपि न कथां छित्वा प्रयात्यन्यतः
संबाधेऽपि ददाति चान्तरमसौ सर्वः प्रहृष्टो जनः।
कश्चिन्नातिचिरं विलम्बयति मां कार्यात्ययाशङ्कया
लोकज्ञैः पुरुषैरहो पुरवरस्याप्तं यशो ल्क्ष्यते॥ %
(परिक्रम्य) अये विटमतिरिव वेशगामिनीयं रथ्या। इतो यास्यामः। मया हि

% कृता इह कलहो हृतेह वेश्या
चकितमिह द्रुतमीक्षणं निमील्य।
इति वयसि नवे यदत्र भुक्तं
तदनु विचिन्त्य समुत्सुको व्रजामि॥ %
(परिक्तम्य) हन्त! लब्धाः प्रणाः। एष वेशमेवास्मि प्रविष्टः। (स्पर्शँ रूपयित्वा)
% निषेव्य संलोलितमूर्धजानि
वेश्यामुखान्तर्धनिरीक्षितानि।
आयाति माल्यासवगन्धविद्धो
वेशस्य निश्वास इवैष वायुः॥ %
अहो तु खलु कैलासशिखराकारप्राकार(साद) शिखरस्य वेशवधूस्तनटोपमर्द्यमानगवाक्षस्य सञ्चारितागरुधूपदुर्दिनस्य पुष्पोपहारप्रहसितगृहोपद्वारस्य प्रणादिकाञ्चीतूर्यौत्कण्ठकामिजनस्य नूपुरस्वनगद्गदभाषिणः कामकर्मान्तभूतस्य वेशस्य परा लक्षमीः। इह हि -समुद्यतकटाक्षप्रहरणाः स्फुटहसितोन्मीलितदशनपङ्क्तयो निभृत भ्रूलतानुवृत्तवचनविन्यासाः पीनपयोधरत्वादनवस्थितलधुप्रावरणा विभ्रमादप्रावारणाश्च विभ्रमविलसितललितचपलगतयःकामविजयपताका इव इतस्ततः सञ्चरन्ति गणिकापरिचारिकाः। नित्यस्मितालंकृतमुखानामविस्मयविस्मिताक्षीणां स्न्निग्धसुकुमारकुटिलतनुदीर्धकृष्णकेशीनां श्रोणीचक्तोद्वहनमन्दपरिक्तमाणां मत्तद्विरदपरिभावगामिनीनां सुरतप्रपाणामिव तत्र तत्र विचरन्तीनामनिभृतमधुरचेष्टितानां गणिकादारिकणां दृश्यन्ते विलासनिधयो रूपविशेषाः। अपि च, अनवरतमृदङ्गनिस्वनाः संभ्रान्तपारावतमिथुना गर्जन्तीव प्रासादमालाः। आज्ञाप्यमानशिल्पिजनानि संभ्रान्तप्रेष्यवर्गलुलुतपुष्पोपहाराणि स्पर्धन्त इवान्योन्यं भवनद्वाराणि। रतियुद्धश्रमापहारीणि संयोज्यन्ते गन्धतैलनि। पीनस्तनतटविसर्पिणः पिष्यन्ते वर्णकाः। मनस्विनीजनहृदयसुकुमारा आदीयन्ते माल्याभियोगाः प्रियावचनमिव श्रोत्रावधानकरं श्रूयते वल्लकीवाद्यम्। प्रियजनाधरोपदंशप्रणयी प्रचरति शीथुः। अपि च -

% नेत्नैरर्धनिमीलितैः स्ततटैः सव्याजसन्दर्शितैः
हासैर्व्रौलविभूषितैः श्रुतिसुखैरल्पाक्षरैर्भाषितैः।
मन्दैर्निश्वसितैः स्वभावधुर्गीर्तैश्चतालन्वितैः
नित्याकृष्टशरासनं मनसिजं कुर्वन्ति वेश्याङ्गनाः॥ %
(परिक्तम्य) अये इयं खलु तावद्यौवनमदानवेक्षितस्तनप्रावारणा पेलवांशुककृतपरिधाना जघनाभरणकृतनीँवीँ विभ्रमावमुक्तैककर्णपाशेन वित्रस्तहरिणच़ञ्चलाक्षेण निभुक्तपिण्ङि डितोष्ठेन मुनीनामपि मनः कंपनसमर्थेन सुलभहसितेन मुखेन मदनसेनायाः परिचारिका वारुणिका नाम वामहस्ताङ्गुलिसंदंशेन कर्णोत्पलं कलयन्ती किञ्चिदुद्यतैकभ्रूलता मा मवेक्ष्य प्रहस्यातिक्रामति। अस्या हि -
% रोमाञ्चं दर्शयता कपोलदेशे विशालजघनायाः।
कर्णौत्पलेन कृत इव निरक्षरं चुम्बनोद्घातः॥ %
का शक्तिरनभिभाष्यातिक्तमितुम्। अभिभाषिष्ये तावदेनाम्। वासु वारुणिके निगृह्यता मात्मा। कथमस्मद्वचनं स्खलीकृत्य गच्छत्येव। सुन्दीर अनने स्खलीकरणेन प्रीताः स्मः। कथं प्रहस्यस्थिता (उपेत्य) कृतमञ्जलिना। पृच्छामस्तावत्किञ्चित् केनास्य शरत्कमलरजः पुञ्चपिञ्चरस्य गगनतलोन्मुखस्येव चक्तवाकमिथुनस्य स्तनयुगलस्य ते प्रथमावतारः सुखमुपभुज्यते ? कथं “ही” इत्येकाक्षरमुक्तवा सव्रीलमवेक्ष्य मां व्रजति तूर्णमनवसितार्धभाषिणी। तत्खलु कामस्य सर्वस्वं (परिक्तम्य)
अये बन्धुमतिका खल्वेषा स्वगृहद्वारकोष्ठगता पार्श्वोपविष्टयाचतरिकया प्रदीयमानप्रतिवचना भ्रूलतासञ्चारितचिकुरां सायह्ननलिनसुकुमारां दृष्टिँ कृत्वा स्वयमेव मेखलां संयोजयति। अहो ! यौवनानुरूपो व्यापारः। अहो ! सुकुमारं कर्मानुष्ठितम्। अहो ! ललितोऽभिनिवेशः। अहो ! कार्कश्यं प्रकाशयते यत्नः। अहो ! दर्पाद्रशनादाम संयोजयन्त्या किमिवानया नोक्तं भवति। अवश्यमस्याविहारकालचतुरता पूजयितव्या। इदमुपगम्यते।(उपेत्य) वासु कर्मसिद्धिरस्तु ते। भवति कृतमासनेन। पृच्छामस्तावत्किञ्चित् -

% एषा कामिकराङ्गुलिप्रियसरवी नाभिह्रदांभः स्त्रुतिः
विद्युत्क्षौमवलाहकस्य रुचिरा कार्कश्ययोग्यारणिः।
मौर्वो कामशरासनस्य ललिता वाक् श्रोणिबिंबस्य ते
छिन्ना मानिनि मेखला रतिसुखाभ्यासाक्षमाला कथम् ?॥ %
अथवा किमत्र ज्ञेयम् -
% विस्त्रं भाच्च हृतांशुकस्य शयने प्रीत्योक्षितस्य प्रिये-
णोन्मत्त(न्मुक्त) द्विरदेँद्रमस्तकवपुर्लोलोदयालम्बिनः।
स्पर्शावाप्तकुतूहलस्य जघनस्यावल्गतस्ते ध्रुवं
तन्त्रीछेद इवाकरोद्विरसतां ताभ्राक्षि काञ्चीपथः॥ %
कथमधोमुखी स्थिता। कथं नास्ति प्रतिवचनम्। इदं गम्यते। किं ब्रवीषि -“न गन्तव्यं " इति। हन्त ! एषाऽस्मि मन्त्रावरुद्ध इव भुजंगमोऽजंगमः संवृत्तः। कथं व्रजामि। एष ध्वस्तोऽस्मि। (परिक्रम्य, कर्णं दत्वा) अये रामदासीगृहे स्त्रीप्ररुदितमिव। इह खलु बहुभिः कारणैरुपपद्यते। तत्र केन खलु कारणेनैषा रोदिति। कुतः-

% स्यात् कोपाद्रुदितस्वरः सरभसो दैन्यात्तथा शीफरो
विच्छिन्नः प्रणयाद् भयेन विरसो हर्षौदयाद् गद्गदः।
मन्ये क्तोधवशंगता प्रणयिनी ह्येषा सदैन्या तथा
प्रारम्भे रभसं विरामबहुलं मन्दं तथा रोदिति॥ %
आशङ्कते रामदासीमेव मे हृदयम्। प्रविशामस्तावत्। (प्रविष्टकेन) सैवेयम्। सैषा मां दृष्ट्वा भृशतरं प्ररुदिता।
% अस्या नेत्रान्तविभ्रष्टाः कोपसर्वस्वसंभृताः।
प्रियापराधगणनां कुर्वन्तीवाश्रुबिन्दवः॥ %
(उपेत्य) मानिनि किमिदम् -
% आपूर्याभिनवाम्बुजद्युतिहरे नेत्रे प्रयातोऽधरं
तद्भ्रष्टः कठिनौ गतः स्तनतटौ तत्राप्यलब्धास्पदः।
बाष्पस्ते तनुरोमराजिलुलितः शोकप्र संगोज्झितः।
नाभिं पूरयति प्रियाङ्गुलिमुखप्रक्षेपलीलोचिताम्। %
न खलु कृतमात्मनः सदृशं कुञ्जरकेण। किं ब्रवीषि-“एवं परयुवतिचह्नितोष्ठो मा मभिगतः,उपालभ्यमानश्च मया रोषच्छलेननिर्गतः, अद्य बहून्यहानि नावर्तत” इति। ह ह ह! अहो अपराधसंमर्दः। सर्वथा एकेनाप्यपराधकारणेन तक्ष्णिँ कुलोत्सादनकरं दण्ङमर्हति, किं पुनरेतेषां सन्निपातेन। तदेवमपि तु गते बद्धमेघयूथं कालमवेक्ष्य सहामहे दुर्जनस्यावलेपम्। संप्रति पर्थिवानामपि तावदन्योन्यबद्धवौराणां प्रतिनिवृत्ताः कलहाः। किं पुनः शिरीषकुसुमसुकुमारचित्तस्य कामिनीजनस्य। यदि ते मद्वचनं प्रमाणं भवति कालमवलोक्याद्यैव प्रियोऽभिसारयितव्यः।
% शर्वर्यामवगह्य हर्म्यशिखराल्लग्नावलंबांबुदा-
न्मार्गँ भीरु गृहप्रणालिसलिलोद्गारस्वनापूरितम्।
कान्तं प्राप्य ततः पयोदपवनैरुद्वेपितांग्या त्वया
वक्त्रोष्मापहृतोष्ठकम्पविशदं रत्यन्तरे कथ्यताम्॥ %

कथमुद्गिन्नरोमाञ्चौ कपोलतलौ वचनस्य नः प्रतिग्रहं निवेदयतः। साधयामस्तावत्। (परिक्तम्य)
अये एषा खलु सा रतिसेना गर्भगृहावारोधजनितस्वेदबिन्दुसेकिनार्धान्मीलितचारुनयनविप्रोक्षितेन कपोलपार्श्वलग्नमूर्धजेन मुखेन नूनं सावशेषमदा सांप्रतमेव प्रतिबुद्धा। तथा हि गवाक्षमारुतस्यात्मानमुपनयति। रमणीयायां खल्ववस्थायां वर्तते। अभिभाषिष्ये तावदेनाम्। (अभिगम्य) वासु सुभगा भव। त्वां ह्यल्पावशेषमदां सावशेषसन्ध्यारागमिव प्रतीचीँ दृष्ट्वा दिशं प्रस्त्रस्तशरासनः कुसुमायुधोऽपि तावव्द्याकुलतां गच्छेत्। किमङ्ग पुनरन्यः।
% प्रणष्टा न व्यक्तिर्भवति वचसः सैव मृदुता
न रागो नेत्राब्जे त्यजति न च लज्जा व्यपगता।
स्मृतिः प्रत्यायाता परिहृषितमद्यापि च मुखं
मदो दोषाँ स्त्यक्तवा त्ययि परिणतस्तिष्ठति गुणैः॥ %
रतिसेने विसर्जयितुमर्हति भवती माम्। नाहं प्रारम्भस्त्वांमोक्तुमुत्सहे। कथं प्रहस्यावघाटितो गवाक्षः। हन्त ! विसृष्टाः स्मः। (परिक्रम्य) हन्त! विमनाः खल्वस्मि अतिक्रान्तः। इयं हि प्रद्युन्नदासी प्रसक्तसुरनकग्लपोलेनात्यायतनयनसञ्चारेण तिलकावभेदपिञ्जरीकृतललाटोद्देशेन विलुलितालकशोभिना लग्नमिव रतिपरिश्रममुद्वहता वदनेन जघनबिम्बांशुकान्तरदृश्यमानभिरभिनवनखक्षतराजितभिर्विमलसलिलान्तर्गताभिरिव फुल्लाशोकच्छायाभिः सुरतावमर्दमृदितमण्डना अवसितसमरशिथिलाकल्पेव नागवधूः प्रवातदीपमिव पाणिना प्रच्छाद्याधरोष्ठं अनुयातकिशोरीव पदात्पदशतं गच्छन्ती वेशमार्गमलङ्कुरुते। इष्टा नः कामिनी। परिहसिष्यामस्तावदेनां (उपेत्य) वासु किमिदं प्रियदशनपदाधिष्ठितस्य दशनवसनस्य सव्रणस्येव योधस्य श्लाघ्यं वपुश्छाद्यते। कथं प्रहसिता। हा धिक्कृत एव नः पौरोभाग्येन दोषः। अस्या हि। मन्दारम्भेणापि प्रहसितेन विकृतमेव दन्तक्षतेषु। कुतः -

% सीत्कारोत्पतितस्तनी स्तनतटोत्क्षेपातिनिन्नोदरी
भ्रूभेदाञ्चितलोचना क्षतरुजाधूताग्रहस्तांबुजा।
यद्यन्यापि समाक्षिपेज्जनमनांस्येवं प्रहस्याङ्गना
कामिन्या हसितव्यमेव तु भवेद्दष्टाधरोष्ठे मुखे॥ %
किं ब्रवाषि -“चिरस्य खलु भावो दृश्यत” इति। अनेन दुर्दिनपातकेन गृहवन्धनेऽस्मिन्निरुद्धः कृतः। अथ भवत्या कोऽनुगृहीतः ?किमाह भवती"रामिलकस्योदवसितादागच्छामि " इति। सदृशः संयोगः स्थावरोऽस्तु। अहो ? एकेन खलु रामिलकेन भदनाग्रहारोँ हृतः। कुतः -
% सफलं तस्य कृशोदरि युवत्वमसमस्तविहसितं यस्ते।
सार्धशशाङ्कच्छायं चषकमिव मुखं समापिबति॥

वासु दुर्विहगेभ्यो रक्षितव्योऽघरः। गम्यताम्। साधयामो वयमपि। (परिक्रम्य) अये इदं तदध्वनीकभयात कुंभकर्णवदनभिवनित्यनिमीलितभवनद्वारं यत्र धूर्तद्वयं प्रतिवसति विश्वलकः सुनन्दाच। विश्वलको हि भक्षितसर्वस्वो नग्नश्रमणक इव शरीरमात्रावशिष्टः, केवलं प्रियगणिकत्वादगतकोशोपद्रवामपि सुनन्दां वायस इव ग्रामोपान्तं न मुञ्चित। सापि चात्र प्रोषितयौवना कान्तारशुष्कनदीव कस्यचिदनभिगम्या विश्वलकं किलानुवर्तते। तन्नयुक्तमेतद्द्वन्द्वमनभिभाष्यातिक्रतमितुम्। अयमाक्तन्दः क्रियते। कोऽत्र धरते ? (कर्णँ दत्वा) भोः प्रयातस्येवाश्वस्य खुरपुटनिपातध्वनिः पादोत्क्षेपसमये काष्ठपादुकाशब्दः श्रूयते। सन्निहितेनात्र विश्वलकेन भवितव्ययम्। हन्त! स एवैष विरौति। भोः किं ब्रवीषि- “क एष गर्दभव्रतमनुतिष्ठति” इति। अहं यमदूतः सुनन्दार्थमागतः। कथमस्मत्स्वरमभिज्ञाय तूष्णभिंतः। अंघो न प्रयच्छसि द्वारम्। तेन हि स्थिरीक्तियतामात्मा। एष शापाग्नि मुत्सृजामि।
% लीलोद्यतस्य कलहे नूपुरसंक्षोभनिनदमुखरस्य॥
दूरीभवतु शिरस्ते विलासिनीवामपादस्य॥ %
एतदपावृतद्वारम्। प्रविशामस्तावत्। (प्रविष्टकेन)

किमाह भवान्-“किं न दयिताःस्मो भावस्यः युक्तं नामेदृशं शापोत्सर्गँ कुर्तुँ " इति। सम्यगभिहितम्। ईदृशो हि शापो ब्रह्यलोकमपि कंपयेत्। किं पुनर्भवन्तम्। तदिदानीमस्य शापस्य प्रतीकारार्थँ प्रायश्चित्तम्। कुतः -
% विकचनवोत्पलतिलका संसंभ्रमोत्क्षेपचञ्चलतरङ्गा।
तस्यै देया मदिरा या हृदयकुटुम्बिनी भवतः॥ %

एवमुपविशामः। (उपविश्य) कृतं पाद्येन। कुसुमपुरराजमार्गौ हि निष्पङ्कतया हर्म्यतलान्यप्यतिशेते। न खलु मे पादौ दुर्ललितौ कर्तव्यौ। किमाह भवान् -” विष्णुदासप्रभृतीनां गोष्ठीकानां रामिलकगोष्ठके समागतानां परस्परविवादरम्याः केचित्संशयाः प्रवृत्ताः कामतन्त्रे। तांश्च यदा कार्त्स्न्येन न शक्नुवन्ति वक्तुं ततोऽस्म्यहं तैरात्मदर्शनं श्रावयितुमभ्यर्थितः। तत्र मयापि स्वदर्शनमुक्तम्। इच्छेयं तावद्‌देविलकभावमपि तमेवार्थँ श्रावयितुम्। तत्र यद्भावो वक्ष्यति तन्नः प्रमाणं भविष्यति। एतमर्थँ भवन्तं श्रावयितुं गृहमेवागन्तुमनाः। अथ भावेन स्वयमेवात्मा दुर्शितः। यदितावद्भावः क्षणिकः ततः प्रवक्ष्यामि” इति। आज्ञापयतु भवान्। अवहितोऽस्मि। शक्तितो वक्ष्यामः। अयन्तु दुर्ललित इव दारकः कुटीप्रदेशं न मुञ्चति वायुः। अतश्विराध्यासं न शक्नोमि कर्तुम्। यद्यभिरुचितं भवते परिक्रान्तावेव संभाषिष्यावहे। विस्तीर्णैयं गोष्ठीशाल। किं ब्रवीषि-” एवं नास्ति दोषः” इति। (उत्थाय) ब्रवीतु भवान्। किं ब्रवीषि-“यद्यर्थमेव वेश्यानां पुरुषैः सह संबन्धः कथं तासमुत्तमाधममध्यमत्वं विज्ञेयं” इति। भोः दानं नाम सर्वसामान्यं वशीकरणं लोकस्य,विशेषतस्तु वेशवधूनाम्। तथापि विद्यते विशेषः। कुतः ? अपि चोक्तं परापरज्ञैः -
% दानाद्रागमुपैति वेशय्रुवतिर्निष्कारणाद्वाधमा
मध्या रूपमवेक्ष्य यौवनयुतं दानेन वा हृष्यति।
दातारं विगतस्पृहं सुवयसं रूपाधिकं चैव भो
दाक्षिण्येन विभूषितं खलु नरं नार्युत्तमा सेवते॥ %

किं व्रवीषि- “कामयमाना वेश्या कथं विज्ञायेत"इति। तद्वक्ष्यामः, श्रूयताम् -
% कान्ता नेत्रार्धपाता वदनरुचिकराः सस्मिता भ्रूविलासा।
साकारा वाक्यलेशाः सहतलनिनदा दृष्टनष्टाश्च हासाः।
नाभीकक्षस्तनानं विवरणमसकृत्स्पर्शनं मेखलानां
श्वासायसाश्च दीर्घा मदनशरहतां कामिनीँ सूचयन्ति। %

किं ब्रवीषि-“तत्र कामलिङ्गानि बहूनि ब्रुवते ‘शठप्रायत्वाद्वेश्याजनस्य निष्ठोचितत्वात् ? क एतच्छ्राद्धास्यन्तीति’ तत्कामयमाना कथं विज्ञेया” इति। श्रूयताम् -
% सास्त्रा निश्वासाः स्त्रेहयुक्ता च दृष्टिः
कार्श्यँ पाण्डुत्वं स्वेदबिन्दूद्गमश्च।
क्षीणे द्रव्येऽपि प्रार्थना कामिनीनां
भावसक्तानां भावशुद्धिँ वदन्ति॥ %
(परिक्रम्य) किं ब्रवीषि-” प्रथमः समागमः केन कारणेन संमोहमुत्पादयति” इति। श्रूयताम्-प्रथमसमागमः खलु कामिनीना मनियोगस्थानम। तत्स्थाने खलु मह्यन्ति तपस्विनः, कुतः -
% दुःखा श्लेषयितुं कथा प्रतिवचो लब्धुं च दुःखं ततो
जातेऽपि प्रचुरे कथाव्यतिकरे विस्त्रंभणं दुष्करम्।
विस्त्रंभेऽपि सति स्वभावसदृशी दुःखा विधातुं रतिः
सम्यक्‌प्राप्तरतापि वेशयुवती रज्येत वा नैव वा॥ %

किं ब्रवीषि -“केन कारणेन निर्गुणास्वपि दर्शनमात्रकेणैव स्त्रेहो भवति। तासु च व्यलीकमुत्पादयन्तीषु किँ प्रतिपत्तव्यम्” इति। प्रत्यक्षे हेतुवचनं निरर्थकम्। अस्रर्त्येतन्महदवकाशमनङ्गस्य-यासु तु निर्गणास्वपि रज्यन्ते मनुष्यास्तासु व्यलीकमुत्पादयन्त्यः शीघ्रमेव परित्याज्याः। कुतः -

% प्रियविरहे यद्ढुः रवं सह्यं तद्भवति सत्वयुक्तस्य।
प्रियजनविमानितानां न रोहति परिक्षतं हृदयम्॥ %

किमाह भवान्-“यस्तु नार्याः प्रियो भवति तस्य सा नातिबहुमान्या प्रिया भवति। सापि किं परित्याज्या” इति। न न न। अन्यास्वपि कामिनीष्वायतिँ रक्षता स्वञ्च दाक्षिण्यमदूषयता तस्यामपि तस्मिंस्तस्मिन् काले रक्तवद्विचोष्ठितव्यम्। कुतः -

% ये कामिनीँ गुणवतीँ च सयौवनाञ्च
नारीँ नराः प्रणयिनीञ्च विमानयन्ति।
ते भोः कृषीवलवचः परिदग्धचित्तै-
र्गौभिः समं पृथुमुखेषु हलेषु योज्याः॥ %

(परिक्तम्य) किं ब्रवीषि-" यस्तु कृतापराधस्तेन कथं कामिनी समनुनेया" इति। स्थाने खलु संशयः। प्रणयिनीनां हि कोपोविषमज्वर इव दुश्चिकित्सः। तथाप्यवश्यमस्याः कोपप्रत्यावर्तकेनभवितव्यम। सांप्रतकालिकाश्च कामुकाः पादपतनमेवात्रौषधं पश्यन्ति।तन्मया नातिबहुमन्यते। यदा च वृद्धश्रोत्रियणमपि तत्तावत्कठिनकूणितवृद्धवकर्कटाकृतयः पादुकाकिणकर्कशाः पुराणघृताम्यङ्गदुर्गन्धाः पादा गृह्यन्ते। कोऽत्राभिमानः पल्लवसुकुमारेषु कामिनीनां पादेषु। अपि च तत्तु दोषवत्। कुतः -पादप्रहणेऽवश्यं बाष्पः संजायते प्रणयिनीनमश्रुविमोक्षे दैन्यं दैन्योत्पत्तौ कुतः कामः। अन्ये तु ब्रवते-‘शपथकरणैरनुनेया’ इति। तदप्यश्र्लिष्टम कुलवध्वोऽपि तावत्कामुकानां शपथं न श्रद्दधति। किंपुनर्वैश्याः या वा श्रद्दध्यात् तया किमनुनेतव्यया भवितव्यम्। उक्तं च

% " ग्रामे वासः श्रोत्रियकथनं परतन्त्रता कृपणभावः।
आर्जवयुता च नारी पुंसां मदनान्तकारिणः केचित् “॥ %

केचिद् ब्रुवते-“येन केनचिदुपायेन हासयितव्या। हासान्तरितधैर्याभिज्ञातगाघेव नदी सुखावगाहा भवति’ इति। अत्र ब्रूमः। यद्यप्यस्त्येतत् तथापि कोपफलं नावाप्तं भवति। कुतः -
% उत्कृष्यालम्बमीषत्प्रतनुनिवसनं नर्तयित्वाधरोष्ठं
तत्कालश्रोत्ररम्यं परुषमपरुषैरक्षरैः श्रावयित्वा।
यत्कोपाद्वामपादं नवनलिननिभं निक्षिपत्युत्तमाङ्गे
तछ्लाघ्यं यौवनार्घ्यं रतिकलहफलं प्राप्तकामा वदन्ति॥ %
तस्माद्धास्यप्रयोगेणापि मानयितव्यः स्त्रीकोपः। एवमस्तु। विमृश्यमानेषु स्त्रीणां कोपप्रसादनोपायेषु सद्यो दृष्टफलत्वादवमृद्य चुंबनमेवास्माकं पक्षः। कुतः -

% केशेषूत्कटधूपवाससुरभिष्वासज्य वामं करं
हस्तौ द्वावपि दक्षिणेन सहितौ संगृह्य नात्यायतम्।
यो हर्षः पिबतो बलत्प्रियतमावक्तेन्दुमुत्पद्यते
तोनाप्ययितमन्मथो हि पुरुषो जीर्णौऽपि न क्षीयते॥ %

किं ब्रवीषि-“यस्तु प्रमाददोषात्प्रियायाः समक्षमेव गोत्रं स्खलयति तत्र भावः किं प्रतीकारं पश्यति” इति। भोः अन्यस्त्रीगोत्रग्रहणं हि महानुपप्लवः कामुकानाम्।आशीविषदष्टस्येवास्य दुः खाप्रतिक्रिया कर्तुम। मुहूर्तँ नाम ध्यानं प्रवेक्ष्यामः। (ध्यात्वा) आ ! दृटम् -

% धाष्टर्यात्सर्वापहारः परिशठमथवा त्रस्तवन्निष्क्रियत्वं
नार्या वाक्यप्रशंसा त्वरिततरमथो हास्यपक्षक्रिया वा।
अन्यस्मिन्वा प्रयोगो वचसि यदि भवेत्तस्यचान्येन योगो
नानागोत्रग्रहो वा भवति हि शरणं गोत्रवाक्यक्षतस्य॥ %
किं ब्रवीषि -नखदशननिपाताः केन कारणेन सवेदना अपि प्रीतिमुत्पादयन्ति” इति। ह ह ह! अतिमुग्धमभिहितम्। पश्यतु भवान्- नखदशननिपाताः सवेदना अपि प्रीतिमद्भ्यां सुखमुत्रपादयन्ति। कुतः -

% यथा प्रतोदोऽवहितं करोति जवे हयं सारथिसंप्रयुक्तः।
तथा रतौ दन्तनखावपातः स्पर्शैकतानं हृदयं करोति॥ %

(परिक्रम्य) किँ ब्रवीषि-“कथं वेश्या विरक्ता रक्तेव चेष्टमाना विज्ञेया” इति। अथ भोः कोऽत्र संशयः। एष एवोपदेशः -अनुरक्तायां रागो भावयितव्यः। यथा चोपदिष्टम्। पश्यतु भवान्। आकारसंवरणं हि महात्मानो न शक्नुवन्ति कर्तुम्। किँपुनरकठिनहृदयाः सवल्पावगताः । स्त्रियः। कुतः - आकार एवावेक्षितव्यः। किँ ब्रवीषि -“कथं” इति।

% व्यर्थँ प्रस्मयते तदन्यकथिते सावेगमुत्तिष्ठति
प्रोक्तं न प्रतिबुध्यते न कुरुते स्त्रीत्वोचितां वामताम्।
गाढं प्रत्युपगूह्य मुञ्चति मुहुः खिन्ना नियुक्ते रतौ
रागान्ते निपुणेऽपि वन्ध्यकुसुमा ज्ञेया लतेवाङ्गना॥ %

किं ब्रवीषि -“विरागं समुत्पन्नं कथं चिकित्सितुं शक्यं उताहो अप्रतीकार एवैष भावः” इति। श्रृणोतु भवान्- रागोत्पत्तिः खलु द्विविघैव भवति कारणादकारणाद्वा।तत्र कारणोत्पन्नस्य रागस्य कारणादेव विरागो भवति। एवमकारणोत्पन्नस्याकारणादेव। एवं रागविरागयोर्वैषम्ये किमिव शक्या प्रतिक्तिया कर्तुम्। मन्दीभूते तु रागे या प्रतित्तिया तां वक्ष्यामः -

% अन्यस्त्रीसेवनं वा रतिविकृतिरथो धीरता विग्रहो वा
क्षान्तिः काले सहास्या वचननिपुणता बन्धुपूजा स्तुतिर्वाँ।
वेश्याव्याजप्रवासः पुरवरगमनं साहसोपक्रमो वा
दानं वा कामिनीनां परिचयशिथिलं रागमुद्दीपयन्ति॥ %

अपि च, श्रृणोतु भवान् -

% बाला बालत्वाद् द्रव्यलुब्धा प्रदानैः
प्राज्ञा प्राज्ञत्वात्कोपना सान्त्वनाभिः।
स्तब्धा सेवाभिर्दक्षिणा दक्षिणत्वात्
नारी संसेव्या या यथा सा तथैव॥ %
(परिक्तम्य) किं ब्रवीषि -
% “दर्शयति कामलिङ्गन्न वदत्यलमिति न गच्छति समीपम्।
या स्त्री विहरति कोले सा कर्तव्या कथं वश्या”॥ इति %
साध्वभिहितमेतत्। प्रथंम तावत्कामिना ज्ञेयः स्त्रीस्वभावः। एष एव स्त्रीस्वभावः स्यात्। किन्तु यावज्जीवितमपि गर्विता निरुपायं न शक्या वशमुपनेतुम्। यत्तु स्त्रीणां रहस्यं दिदमुद्धाट्यते।
% शून्ये वा संप्रमर्द्य द्विरद इव लतां यो हरत्याशु नारीँ
मत्तां वा यो विदित्वा ह्यभिभवति शनै रञ्जयन्वाक्यलेशैः।
अन्यं कृत्वोपाधिं वा च्छलयति कुरुते भावसंगूहनं वा
तस्यैच्चेष्टितं भो न भवति विफलं वामशीला हि नार्यः॥ %
(परिक्तम्य) किं ब्रवीषि -
% “गते तु कोपे प्रथमे समागमे
प्रवासकाले पुनरागमे तथा।
वदन्ति चत्वारि रतानि कामुकाः
ततो भवान् किन्नवधिकं व्यवस्यति”॥ इति। %

अत्र ब्रूमः -यत्तावत्प्रथमसमागमे रतं तदप्यलब्धविस्त्रम्भायां कामिन्यामज्ञातगाधमिव सरः शङ्कावगाहं भवति। यदपि प्रवासकाले रतं तदपि तच्छोकाभिभूतत्वान्मन्दरागायाः सास्त्राविलाक्षमुपोह्यमानहृदयोद्वेगक (का) रणं रम्यं (अरम्यं) करुणं प्रहोपसृष्टं चन्द्रमण्डलमिव न मां प्रणियति। यदपि प्रवासादागते रतं तदप्यकृतप्रतिकर्मतया प्रियया व्रीलितया व्यंजितं दुर्दिनगान्धर्वमिव मन्दरागं भवति। यत्पुनः कोपापगमादागतं ततू सुरासुराविद्धमन्दरपीडिते सर्वौषधिप्रक्षेपाप्यायितवीर्यै भगवति सलिलनिधौ यदुत्पन्नममृतसंज्ञकं किमपि श्रूयते आयुर्वयोऽवस्थापनं रसायनं तदप्यतिवर्तते। कुतः -

% कोपापगमे नार्यास्तमेव हृदयेन भावमजहन्त्याः।
सुरतमतिरभसमनिभृतकररुहदशनपदजर्जरं भवति॥ %

(परिक्रम्य) किँ ब्रवीषि-“वेश्यावञ्चितं पुरुषं परिहसनिधूर्ताः। कथं वेश्यावञ्चनं न प्राप्नुयात् कामुकः” इति। भो वेश्या लिपिकारश्च छिद्रप्रहारित्वात् तुल्यमुभयम्। तत्र लिपिकारोऽप्यास्ते हस्तगतकल्पं कृत्वा मुहूर्तमवस्थानं प्रापयति। वेश्या पुनर्वातरोग इवात्यर्थव्ययमुत्पादययति। यदि मच्चरितानुगामी भवेत् तेनवेशः प्रवेष्टव्यः। मया हि -

% विस्त्रंभो गतयौवनासु न कृतो बालाः परीक्ष्य स्थितं
दूरादेव समातृकाः परिहृता नद्यः ससत्वा इव।
मन्युर्नास्ति विमानितस्य न पुनः संप्रर्थितस्यादरो-
वेशे चास्मि जराङ्गतो न च कृतः स्वल्पोऽपि मिथ्याव्ययः %

(परिक्रम्य) किँ ब्रवीषि -“नार्यौर्युगपदागमे का प्रतिपत्तव्या का परित्याज्या का परित्याज्या कालवर्धितप्रणयिनी उताहो नवप्रणयिनी ?एनं प्रश्रं वदतु भावः” इति। कष्टः खल्वयं प्रश्रः। दुर्वचो मा प्रतिभाति। किमत्र भवान् पश्यति ? किमाह भवान्-” न किञ्चिदप्यत्र पश्यामि। महत्त्वेतत्सङ्कटम्। भाव एव वक्तुमर्हति" इति। तेन हि श्रूयताम् -
%रूढस्न्नेहान्न युक्तं नवयुवतिकृते स्वां प्रियां विप्रमोक्तुं
तत्प्रीत्यर्थँ न हेया स्वयमभिपतिता कामिनी जातकामा।
तत्रोपेक्षैव कार्या व्रजति परिचिता यावदुद्भूतकोपा
शून्ये प्राप्य द्वितीयामथ तदनुमते संप्रसाद्या प्रियैव॥%

(परिक्रम्य) किं ब्रवीषि-“वेशे सञ्चरता दर्शनमात्रकेणैव कथं शक्यं ज्ञातुं स्त्रीणां रहोनैपुणं” इति। नास्ति किञ्चिन्निपुणस्याज्ञेयम्। स्त्रियं खलु दृष्ट्वा पुरुषेणैव दृष्टिरेव प्रथमं परीक्ष्या भवति। चक्षुषि हि सर्वै भावा नियताः। पश्यतु भवान् -
%सकेकरा मन्दनिमेषयुक्ता तिर्यग्गता स्न्नेहवती विशाला।
दैन्येन हीना चलतारका च स्त्रीणां रहोनैपुणमाह दृष्टिः॥%

अपि च, यस्याश्चभुग्नमीषत्प्रतनुकपोलं भ्रूस़ञ्चारि तिर्यक्कटाक्षमाननं तस्या रतिकार्कश्यं यस्यावाश्याम( न) मूलोऽधरः सदन्तनखपदंशरीरं प्रविरलहासितञ्च मुखं तस्यानिर्विशङ्कमेव रतिशैण्डीर्यमवगन्तव्यम्। यां वा भवान् पश्यति कटिप्रदेशविन्यस्तवामहस्तां प्रलम्बदक्षिणकरामेकपार्श्वोन्नतजघनां तस्यामप्यास्था कार्या। नह्येवमगर्विता तिष्ठति। याञ्च निवसनान्तावृतैकपयोधरां स्वगृहदेहलीविलग्नैकरुचिरचरणां द्वारबाह्यावरूद्धशरीरां पश्यति स खलु स्त्रीमयः पाशः। चारुलीलत्वमेवास्याः सर्वँ कथयति। या वा कवाटगोस्तनतटकमालम्ब्य प्रकटिकृतबाहुपाशा शिथिलीकृतनीवीबन्धना सन्दर्शितनाभिह्रदा टृश्यते तस्या माकृतिरतिपूर्वरंगाया मननुभेयं न विद्यते। शक्यमत्र बह्वपि वक्तुम्। संक्षेपस्तु ब्रूयताम् -
% यस्यास्ताम्रतलाङगुलिः शुचिनखो गण्डान्तसेवी करो
वाणी साभिनया गतिः सललिता प्रस्पन्दितोष्ठं स्मितम्
लोला दृष्टिरशङ्कितं मुखमधोनाभेश्च नीवीक्रिया
तां विद्यान्नरवागुरां रतिरणे प्राप्ताग्रयशौर्याँ स्त्रियम्॥ %

(परिक्तम्य) किं ब्रवीषि-“द्विविधमेव स्त्रीणां कामितं भवति प्रकाशं प्रच्छन्नञ्च। तयोः कतरव्द्यतिरिच्यत” इति। भोः यत्प्रकाशं तद्वेशवधूष्ववोपपद्यते। कृतकमपिचैतद्भवति। यत्विदं प्रच्छन्नं तत्कुलवधूषु वेशवधूषु च। यत्केवलमनुरागादुत्पद्यते विशेषतञ्चैतदल्पदोषत्वाद्वेश्यावधूष्वेव रम्यं भवति। दुर्लभत्वादपि पुरुषाणां कुलवध्वस्तु यं कञ्चित्कामयन्ते। वेश्यया तु न सर्वः काम्यते। स्यान्मतं कस्यचित् -“निर्दौषमदनत्वाद्वेश्यानां प्रच्छन्नकामितेन किं प्रयोजनं” इति। अत्र ब्रूमः -पूर्वसंस्तुतो राजवल्लभः कृतोपकारेभक्तिंमाननृशंस इत्येते वेश्याजननीसेवकाः। एतेषामवश्यमकामयमानापि वेश्यानुविधेयो भवति। किन्निमित्तं ? प्रयोजनार्थमित। तस्माद्वोश्यया प्रच्छन्नमदनार्थिन्या यः काम्यते तेन जन्मजीवितयोः फलमावाप्तं भवति। किञ्चान्यत् यत्तावद्विरहमासाद्य स्वयं दूतीनां प्राञ्जलिपुरस्सराणि सवाष्पगददानि वाक्यानि श्रूयन्ते ननु तान्येव तस्य पर्याप्तनि भवन्ति। या वा तध्यानपरा रोगव्यपदेशेनगता पाण्डुभावं चन्द्रोदये रोदिति प्रजागराभिताम्रनयना कामिनीशिथिलीकृतभूषणा’दिष्टया त्वदर्थमेव निर्धुण शरीरस्येयमवस्था,भद्रंतवास्तु’इति स्वयमुपालभमानायाः, कान्त येचे त्वा दयस्व मे शरीरस्येति सीत्कारानुबद्धाक्षराणि श्रृण्वतः त्वरस्व मा मैवं इति दशनकररुहैर्विचोद्य रदमानाया अहमेवं विधा श्रद्दधातु भवान् मया च शापित इत्येवं चोक्तानि रसायनप्रयोगतिवर्तकानि वचांसि चिन्तयतो मदर्थमेवयमीदृशी संवूत्तेत्ति कारणतो दूतीवचनाच्चोपलभ्य पुरुषस्य कारुण्यमिश्रा या प्रीतिरुत्पाद्यते तत्सदृशीँ यदन्यां ब्रूयात् विटभावमिमं परित्यज्य श्रोत्रियैः समतां गच्छेयम्। अपि च,
% हस्तालम्बितमेखलां मृदुपदन्यासावभुग्नोदरीँ
लब्ध्वापि क्षणमागतां समदनां सङ्केतमेकां निशि।
यो नारीं स्थित एव चुम्बति मुखे भीताञ्चलाक्षीँ प्रियां
तस्येदं स्वभुजात्तपङ्कजमयं छत्रं मया धार्यते। अपि च, %
% त्वरस्व कान्तेति भयाद् ब्रवीति यं कामिनी चोरितसंप्रयोगा।
क्रीतास्तया तस्य भवन्ति पुंसः प्राणां यथेष्टं परिकल्प्य मूल्यम्॥ %
(परिक्तम्य) किं ब्रवीषि-‘‘रूपवती च दक्षिणा चोति तयोः कस्यां प्रीतिविशेषं भावः पश्यति" इति। उभयमेतत्स्त्रियं भूषयति। यत्तावद्विरूपायां दाक्षिण्यं तदन्धकारनृत्तमिव व्यर्थँ भवति। रूपमपि दाक्षिण्यहीनमटवीचन्द्रोदयइव कां प्रीतिँ करिष्यति। मां प्रतिरूपाद्दाक्षिण्यं भवति प्रधानम्। कुतः ? दाक्षिण्यं विरूपामपि स्त्रियं भूषयति सुरूपामप्यदाक्षिण्यं दूषयति। दृश्यन्ते हि पुरुषाः सुरूपा अपि स्त्रियः। परित्यज्य विरूपास्वपि दक्षिणासु रज्यमानाः। रूपवत्या चावश्यं स्तब्धया भवितव्यम्। स्तब्धता च कामस्य महान् शत्नुः। अनुवृत्तिर्हि कामे मूलम्। सा च दाक्षिण्यात्संभवति। यदि रूपमात्रं कारणं स्याच्चित्रनार्यामपि प्रयोजनं निर्वर्तयेत्। दाक्षिण्य एव रूपगुणं हित्वा सर्व एव गुणसमुदायोऽन्तर्भूतः। कुतः -
% सुवाक् सुवेषा निभृता गुणज्ञा भावान्विता नापि च दीर्घकोपा।
अलोलुपा छन्दकरी च नित्यं दाक्षिण्ययुक्ता भवती च नारी॥ %

किमाह भवान्-" वेश्याः कतकोपचरित्वात्सतामनभिगस्या भवन्तीति ब्रुवन्ति। तत्कथं" ? इति। इह खलु काम्यैर्विशेषैरुपचरणमुपचारः। एतच्च स्वभावतो नार्या द्वे च लभ्येत। वेश्यायां क्रियानिष्पत्तेः(?)। स्यान्मतं-यच्छाठ्यादुपचर्यते तत्कृतकमिति तदप्य दोषः। कुतः ? शाठ्यादप्युपचारः प्रयुक्तः प्रीतिमुत्पादयति। आर्जवादप्युपचारः स्खलीकृतः कस्य प्रीतिँ जनयति ? शाठ्यं नामार्थनिर्वर्तको बुद्धिशेषः। आत्मार्थप्रधानया च स्त्रिया पुरुषंविशेषोऽवश्यं मृगयितव्यः। या च पुरुषविशेषज्ञा स्त्री तस्यां रज्यन्ते पुरुषाः। अपि च,

% नीचैर्भावः प्रियवचनताक्षमा नित्यमप्रमादश्च।
शाट्यादुत्पद्यन्ते केनैतद् दूष्यते लोके॥ %

किं ब्रवीषि-“विसंवादितं हि शठायाः सारम् ?। विसंवादितस्य कामिनः प्रियया दुःखमत्पद्यते। नास्ति तस्य प्रतिक्रिया"इति। भोः सर्वँ खलु कारणमभिसमीक्ष्य विसंवाद्यते। यस्तु न शक्नति तत्कारणं परिहर्तु ननु तस्यैव सोऽपराधः। अनैकान्तिकश्व विसंवादने दोषः। दृश्यन्ते बहवो विसंवादिता भृशतरमनुरज्यमानाः ।

% आवल्गितस्तनतटानि च बाष्पमिश्रा
भावाभिधानपटवश्च कटाक्षपाताः।
अव्यक्तशोभितपदाश्च भवन्ति वाचः
शाठ्यात्सतोऽपि गुणवत्परिकल्पयन्ति॥ ? %

किं ब्रवीषि-” वेश्याभ्यो यद्दीयते तन्नष्टं इति बहवो ब्रुवन्ति। दत्तकेनाप्युक्त ‘कामोऽर्थनाशः पुंसां’ इति। तन्न भावः किं पश्यति" इति। भोः अर्थस्य त्रय एव विधयः - दानमुपभोगो निधानमिति। तन्न दानोपभौगौ प्रधानौ।नेधानन्तु गर्हितम्। कुतः -

% निधौ कृतेऽर्थै न हि विद्यते फलं भवत्यतुष्टिर्विफलीफलीकृते पुनः ।
ततो निधानां हि न युक्तमागतं स्फुरत्तुरङ्गस्य जवोपमं धनम्। %

अर्थधर्मौ शरीरसुखमुत्पादयतः। तत्रेष्टानां शब्दादीनामवाप्तिः सुखमित्युच्यते तच्च वेश्याजनमुपसेवमानो यथावत्प्राप्नोति। सर्वशब्देषु तावाद्विशेषतः प्रियवचनं निर्वृतिकरं भवति। तच्च वेश्या जनो ब्रवीति। न तथान्यः। कथमिव -

% प्रियं प्रियार्थँ कटुवा प्रियार्थँ वदन्ति काले च मितञ्च वेश्याः।
वदन्ति दाक्षिण्यधनाः कदाचिन्नैवाप्रियं न प्रियमप्रियार्थम्॥ %

यस्यानिभृतमविषमोरुनितम्बमुद्‌धृतांशुकमाविद्धमेखलाकलापं वेश्याजघनमभिवाहयतः स्पर्शाः संभवन्ति। किन्न तत्कृते प्राणानपि परित्यजन्ति, किं पुनर्धनम्। सर्वैभ्यश्च रसेभ्यः पानं गर्हितमिव लक्ष्यते तस्यापि वेश्याविशिष्टत्वादुपभोगो रम्यो भवति। पश्यतु भवान् -
% ससंभ्रमोद्धूतविघूर्णितां वा पीताबशेषां मुखविच्यतां वा।
ओष्ठोपदंशां मदिरां निपीतो यो वेशमध्ये सरसं विवेद॥ %

येन वार्धनिमीलिताक्षीणि प्रस्पन्दिताधराणि आयतभ्रूलतानि स्विन्नकपोलान्याननानि वेश्याजनस्यावलोकितानि तस्य चक्षुषः फलमवाप्तं भवति। अपि च,-

% केशान्तः स्न्नानरूक्षो विरचितकुसुमः केशहस्तः पृथुर्वा
वस्न्नं वा भुक्तमुक्तं परिमलसुरभिः पद्मताभ्रोऽधरो वा।
वेश्यायास्ताभ्रनेत्रं मुखमुदितमदं चन्दनार्द्रा तनुर्वा
येनाघ्रातानि तस्य ध्रुवमभिपतितो घ्राणमार्गैण कामः॥ %

न त्वस्माकं धर्मेऽधिकारः। तथापि तु यथा धर्मावाप्तिर्भवति तथा वक्ष्यामः। इह हि कृतघ्नता सर्वपापीयसी। स च ततः कृतघ्नतरः वेश्यावधूभ्यः सुखमीप्सितमनुपममवाप्य ताभ्वो न प्रत्युपकुरुते। यदि कृतज्ञो भवति तस्य हस्ते स्वर्गः। तस्मात् स्वर्गसुखावाप्त्यर्थँ निर्विशङ्केन वेश्याभ्योऽवश्यं वित्तं दातव्यम्। किं ब्रवीषि -“दाक्षिण्ययुक्तायामपि कुलवध्वां क्रेन कारणेन तादृशो न भवति यादृशो वेश्यायां” इति। श्रूयतां - दाक्षिण्यविषयस्तावदन्यः कुलवध्वा मन्य एव वेश्यायाम्। ऋजुस्तु कुलवधूर्यदि तावत् प्रियं वदति अकाले वा वदति अतीव प्रियमिति वा विप्रियं वदति। एवं सर्वत्र। कामश्चेच्छाविशेषः। प्रार्थना चेच्छा। प्रार्थना चासंप्राप्तेरुत्पद्यते। सा च वेश्यायां स्वाधीनप्राप्तायामपि मात्सर्यादुत्पद्यते। बहुसाधारणत्वात्। मात्सर्यञ्च लोभं जनयति। तस्माल्लब्धावकाशो वेश्यायां कामो न व्यपैति। काममूलश्च रागः। अपि च -
% वेश्याजघनरथस्थः कुलनारीँ कः स चेतनो गच्छेत्।
नहि रथमतीत्य कश्चिद्गेयानेन व्रजेत्पुरुषः॥ %
किं ब्रवीषि-" लोकस्य वेश्यां प्रितसक्तो मनुष्यः पूज्यो न भवति। संमतिश्च तस्य नेष्टा। यत्र च गुणा दृश्यन्ते तत्किमर्थं नानुष्ठेयं" इति। अतिविटत्वमभिहितम्। मुहूर्तमवधानं दीयताम। (ध्यात्वा) इह हि द्विविधा पूजा भवति। फलवत्यफला च। तत्र याफला नग्नस्येव चेष्टितं भवति हास्यम्। वेश्यायामप्रसक्तस्य किं फलमिति। स्यान्मतं ‘अयशस्यो वेशप्रसङ्गः’ इति। तन्न ग्राहृम्। सर्वौ हि सुखिनं द्वेष्टि लोकः। यथा च परस्त्रियो न गम्या इति प्रतिकण्ठमभिहितं न तथा वेश्याः। स्यान्मतं -‘स्त्रीषु प्रसङ्गो न श्रेयान् वेश्याश्च स्त्रियः’ इति। अत्र ब्रूमः। न तु स्त्रीष्वायत्तो लोको दूषयितुमर्हति। अपि च, -

% प्रागल्भ्यं स्थानशौर्यँ वचननिपुणतां सौष्ठवं सत्वदीप्तिं
चित्तज्ञानं प्रमोदं सुरतगुण (वि)धिं रक्तनरीनिवृत्तिम्।
चित्रादीनां कलानामधिगमनमथो सौख्यमग्रय ञ्च कामी
प्राप्नोत्याश्रित्य वेशं यदि कथमयशस्तस्य लोको ब्रवीति॥ %

(परिक्रम्य) किं ब्रवीषि-" यदेतद्बृस्पत्युशन.प्रभृतिभिरन्यैश्च शास्त्रप्रयोक्तृभिरूपदिश्यते-‘स्त्रीषु प्रसंगो न कर्तव्यः’ इति अत्र भावः किं पश्यति" इति। भोः उपदेशमात्रं खल्वेतत्। तमहं न पश्यामि यः स्त्रीषु प्रसङ्गं न गच्छेत्। श्रूयतन्ते हि -‘महेन्द्रादयोऽप्यहल्याद्यासु विकृतिमापन्नाः’। धर्मार्थयोरपि श्रेष्ठो विषयः। इष्टविषयप्रादुर्भावफलत्वात्। विषयप्रधानाश्च स्त्रियः। यो हि वेश्यां परित्यज्य कामोपभोगान् दिव्यान् कामयते तमप्यहं वञ्चित इत्यवगच्छामि। इहापि तावत्तदात्वायत्योस्तदात्वमेव गरीयः प्रत्यक्षफलत्वात्। किं पुनरन्यस्मिन् देहग्रहणे संशयिते तपश्चरणदुरवापे रमणीये(?)पश्यतु भवान्- जलधरनिर्वापितचन्द्रदीपासु द्विगुणतरतिमिरभीमदर्शनासु शिशिरतरपवनासु सलिलपवनद्रुः सञ्चारासु जलदकालनीलासु रजनीषु मदनशरसन्तप्तयैकाकिन्या कामिन्याभिसारितस्य पुंसो नूपुरस्वनबोधितस्य जन्मजीवितयोः फलमवाप्तं भवति। किमाह भवान् -“नूपुरधारणं हि महदुपकुरुतेऽभिसारिकाभ्यः” इति। एवमेतत्। कुतः

% प्रथमसमागमनिभृतः कथमात्मनिवेदनं जनः कुर्यात्।
पादस्पन्दनरभसो यदि न स्यान्नूपुरनिनादः॥ %

एवं नूपुरशब्दनिबोधितोऽयं जलधरधारधौताविशेषकमाप्लुतांजनाक्षमनवस्थितोष्टमाननं समदं पीत्वा यद्यवक्‌छिरा बहूनि कल्पान्तराणि नरकदुः खान्यनुभवति तथापि तस्य युवतिजनप्रणयप्रतिग्राहिणस्तानि श्लाघ्यानि भवन्ति। विगतजलदावकुण्ठनायां विरचितविमलग्रहपतितिलकायां विगतमारुतायामसनकुसुमवासितदिगन्तरायांशरदि सारसरुतसंवादितमखलास्वानाभिबन्धूककुसुमोज्वलविशेषकाभिश्चक्रतवाकोपदिष्टानुरागाभिः सह येन प्रतिबुद्धपङ्कजदीर्घिकासलिलमवगाढं किं स्वर्गोण। अथवा कुन्दकुसुममिश्रिते फुल्ल्लोघ्रगन्धाविद्धमारुते प्रियङ्गुमञ्‍चरीक्लृप्तकेशहस्ते प्राप्ते हेमन्तकाले हिमापराधकातरोष्ठीनामधरोष्ठरक्षणीनामपि चुमबनविवादिनीनां प्रियाणां प्रणयबलात् मुखन्यापिबतो या प्रीतिरुत्पद्यते तस्या नास्त्यौपम्यम्। अथवा कालागरुओधूपदुर्दिनेषु गर्भगृहेषु प्रकीर्णतिमुक्त. कुसुमेषु तुषारमुक्तावर्षिणीषु परुषपवनासु शिशिरकालरात्निषु प्रिययानुरक्तया पीनाभ्यां स्तनाभ्यामवपीड्यमानवक्षा वरशयनतलोपगतो गाढोपगूहृनजनितस्वेदबिन्दुसुरभिगात्नो यः सुरतान्तरोषु निद्रा मुपसेवते तेन किं नाम नावाप्तं भवति। अपि च, -

% अधरोष्ठरक्षणीनां कचग्रहोत्क्षेपचञ्चलाक्षीणाम्।
पातव्यानि च तृषितैर्मुखानि सीत्कारसहितानि॥ %

निद्राविरहिते स्वर्गे किमवाप्यन्ते। अथवा स्वेदबिन्दुलङ्घनावरुद्धतिलकमार्गेषुप्रवृत्तमदनदूतीसंपातेषु संयोज्यमानमणिरशनेषुदृष्टसहकाराङ्कुरेषु सुरभिपवनेषु वसन्तदिवसेष्वविदितागतया स्वयमेव मुक्तमानया यः प्रिययानुरक्तयानुनेतव्ययानुनीयते तेन नान्येषु स्पृहा कर्तव्या। अथापि यो वा शिरीषकुसुमश्यामिश्यामिलीकृतस्त्रीकपोले सलिलमणिमुक्ताहारचन्दनोशरिव्यजनपवनोपभोगरमणीये प्रचण्डस्‌र्यकिरणे निदाघकाले कुसुमशयनशयिन्या नवंमालिकोन्मीलितकेशहस्तहस्तया चन्दनार्द्रपयोधरया तालवृन्तमारुतेनोपसेव्यमानो मारुतग्रहिण्युदवसिते प्रियया सह मघ्याह्नमतिवाहयति। अथवा गन्धसलिलावसिक्तभूमिभगेषु प्रकीर्णवकुलनल्लिकोत्पलदलेषु मारुतग्रहिष्ल गृहमध्येषु यो निरुध्यते प्रियया तेनातिपाति यौवनमनुभूतं भवति। अपि च, -

आदष्टस्फुरिताधरे भवति यो वक्त्रारविन्दे रसः
प्रीतिर्या च हृतांशुके च जघने काञ्चीप्रभोद्योतिते।
लक्ष्मीर्या च नखक्षताङ्कुरधरे पीने कपोले स्त्रियो
रक्तं तेन विरज्यते न हृदयं जात्यन्तरोऽपि ध्रुवम्॥

अयन्तु तपस्वी लोकेः पिपीलिकाधर्मोऽन्योन्यानुचारितानुगामी प्राणापायहेतुभिः स्वयमपरीक्ष्य स्वर्गः स्वर्ग इति मृगतृष्णिकासदृशेन केनाप्यसद्वादेन विकृष्यमाणहृदयो मरुत्प्रपाताग्निप्रवेशनादिभिरन्यैश्च घोरैर्जपहोमव्रतनियमवेषैः स्वर्गमभिकाङ्श्रते। परीक्षितुं नेच्छति परमार्थम्। स्वर्गे सन्निहिताः प्रमादाः श्रूयन्ते। तस्य तस्यां मनुष्यत्वाच्च परस्परविरोधित्वाच्च सुखोत्पत्तिर्न विद्यते। नित्यसन्निहितत्वाच्चाविरहिताः कां प्रीतिँ करिष्यन्ति। अन्योऽन्यानभिज्ञात्वाच्च(च्च) व्यक्तगुणोपभोगेऽप्यसमर्थाश्च भवन्ति। यदपि चात्रसौवर्णानि गृहाणि सौवर्णास्तरवः श्रूयन्ते तद्विबुधानामदाक्षिण्यसर्वस्वम्। यदि तावत्सौवर्णानि गृहणि सौवर्णास्तरवः केनालङ्‌क्तियन्तेस्न्नियः। कोऽत्र विशेषः। कथं भवानविनियोगादुपनीतं कुहकं स्त्रीणां। शोभामुत्पादयति। यश्च कामिनीभिः स्वयमेव पुत्रवत्संवर्धितसंमानितानां युवतिकेशहस्तसंक्रासुमसमुदायानां गृहोपवनबालवृक्षाणामुपभोगो रम्यो भवतिष्यति कुतः स जातिकठिनानां कनकतरूणाम् ?तारुण्यबद्वकामतन्त्रस्य पस्परदर्शनोत्सुकस्य मदनदूतीवचनाभितृषिँतस्यान्योऽन्यमुपालमुपालभ्यमानस्य प्रीतिफलेप्सोः कामिजनस्य या प्रीतिरुत्पद्यते कुतः सा शापभयोद्विग्नस्त्रीजने स्वर्गे ? ये च प्रणयकुपितासु कामिनीषु तत्कालोत्कण्ठानुरूपान् रम्यान् प्रसादनोपायान् मिन्नैः सह चिन्तयतः सायामा इव दिवसा व्रजन्ति कुतस्त ईष्र्याविरहिते स्वर्गे? यस्य (च्च) भावविनिविष्टांग्यो वक्षः स्थलशायिन्यो वकुलकुसुमनिश्रास्मारुतैर्घ्राणमाघ्राययन्त्यः स्त्रियो निद्रासुखमुत्पादयन्ति कुत स्तन्निद्राविरहिते स्वर्गे ? यानि वारुणीमदविलुलिताक्षराणि किमपि किमपि लज्जावन्ति प्रियाणि प्रियार्थानि वचांसि स्त्रीणां कुतस्तानि पानविरहिते स्वर्गे ? सुकृतसीत्काराणि श्वसितबहुलान्युपगूहनदूतानिनववधूरतानि कुत्त एव स्वर्गे ? भोः मां प्रति वरं श्रोत्नियैर्वृद्धवैः सहासितुं नाप्सरोभिः। तास्तु दीर्घायुष्मत्यः संस्कृतभषिण्यो महाप्रभावाश्च श्रूयन्ते। यासु वसिष्ठागस्त्यप्रभृयो महर्षयः समुत्पन्नास्तासु को विस्त्रम्भः। पश्यतु भवान् -
% शाठ्यमनृतं मदो मात्सर्यमवमतं तथा प्रणयकोपः
मदनस्ययोनयः किल विद्यन्ते नैव ताः स्वर्गे॥ %
तस्माद्यद्यस्तिकाममव्याहतमनुभवितुं स्पृहा भोस्तेनेहैवरन्तव्यम्। विशेषेण वेशवधूभिः सह! इह हि -

% आद्वारादनुगम्य साश्रुवदनं यं प्रेक्षते शंभली
वस्त्रान्ते परिलम्बते यमनृतक्रोतोधप्रयातं प्रियम्।
क्रुद्धस्चाप्यनुनीयमानकठिनो यः क्रुध्यते कान्तया
कामस्तेन समुद्धतध्वजरथः सञ्चूरर्ण्य संमर्दितः॥ %

अये सुनन्दा। कि ब्रवीषि-“सर्वँ मयाश्रुत” इति। हन्त! विक्रीतपण्याः म्मः। वासु न खलु विप्रलम्भितम्। किं ब्रवीषि -" न खलु चन्द्रादन्धकारो निष्पतति"इति। सुनन्दे तवैव सदृशमेतद्वाक्यम्। अत एव त्वयैतदुच्यते। एवमभ्यन्तरं प्रविशाव (मः)। (प्रविश्य) भवति विसर्जयितुमिच्छामि। संप्रति हि -

% बध्वा मानिनि मेखलां प्रशिथिलां पीत्वां सकृद्वारुणीँ
कृत्वा कान्तकरग्रहप्रणयिनः पुष्पोत्कटान्‌ मूर्धजान्।
हस्तालम्बिमेखलाभिरसकृत्स्त्रीभिः कटाक्षाहतो
हैमः कूर्म इवावसीदति शनैः संक्षिप्तपादो रविः॥ %

किं ब्रवीषि-" न शक्यमद्य त्वयार्धपादमपीतो गन्तुं " इति। भोः गन्तव्यमेव। मे भार्याकलेबरमन्यथा ग्रहीष्यति। किमाह भवति"अहन्तामनुनेष्यामि" इति। राजवद्गुह्यादप्रतिगृहीतानुनय इव दुर्जनो न शक्योऽनुनेतुम्(?) इदं गम्यते। कथं पादयोर्लग्रा सहविश्वलकेन। हन्त! पङ्गूकृताः स्मः। सुनन्दे।
नत्वाहमतिवर्तिष्ये वेलामिवमहोदधिः।
इमामपि महीँ पातु राजा सागरमेखलाम्॥
(निष्क्तान्तो विटः )
इति श्री ईश्वरदत्तस्य कृतिः धूर्तविटसंवादो नाम
भाणः समाप्तः।
***

]