[[जीवानन्दनम् Source: EB]]
[
[TABLE]
[TABLE]
काव्यमाला।
<MISSING_FIG href="../books_images/U-IMG-1720614933Capture3.JPG"/>
श्रीमदानन्दरायमखिप्रणीतं
जीवानन्दनम्।
<MISSING_FIG href="../books_images/U-IMG-1720614981Capture4.JPG"/>
प्रथमोऽङ्कः।
लक्ष्मीकैरवबन्धुकल्पकतरूंल्लब्ध्वाथ लब्धेप्सिते
भूयो मथ्नति देवदानवगणे दुग्धाब्धिमृद्धश्रमे।
तस्यानन्दथुना समं समुदयन्कुम्भं सुधापूरितं
बिभ्राणः स्वकरे करोतु भवतां भद्राणि धन्वन्तरिः॥१॥
अपि च।
प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुष्यकं
तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्गं विना।
तत्प्राप्तेरपि साधनं प्रथमतो देहो रुजावर्जित-
स्तेनारोम्यमभीप्सितं दिशतु वो देवः पशूनां पतिः॥२॥
(नान्द्यन्ते)
**सूत्रधारः—**मारिष, इतस्तावत्।
(प्रविश्य)
**पारिपार्श्वकः—**भाव, एषोऽस्मि।
सूत्रधारः—
रीतिः सुखपदन्यासा शारदीया विजृम्भते।
पूर्णचन्द्रोदयश्चायं निहन्ति ध्वान्तमामयम्॥३॥
अपि च।
क्रममाणेषु दिगन्ते जलधरजालेषु शङ्खधवलेषु।
शान्तिमुपयाति सहसा कालुष्यदशा भृशं पयसाम्॥४॥
** पारिपार्श्वकः—**अतः किमाचरितव्यम्।
**सूत्रधारः—**शृणु तावत्। अत्र तञ्जापुरे पौरजानपदा देशान्तरादागताश्च बृहदीश्वररथोत्सवदिदृक्षया संघीभूताः।
सरसकवितानाम्नो हेम्नः कषोपलतां गता
विहरणभुवः षड्दर्शन्या विवेकधनाकराः।
विदधति तपोलभ्याः सभ्या इमे मम कौतुकं
तदिह हृदयं नाट्येनैतानुपासितुमीहते॥५॥
पारिपार्श्वकः—(सशिरःकम्पम्।) कं पुनः प्रबन्धमवलम्ब्य।
**सूत्रधारः—**नन्वस्ति मम वशे सहृदयजनहृदयचन्दनं जीवानन्दनं नाम नवीनं नाटकमिति।
**पारिपार्श्वकः—**कस्तस्य प्रबन्धस्य कविः।
**सूत्रधारः—**विद्वत्कविकल्पतरुरानन्दरायमखी। य एष इह
गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः।
दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव॥६॥
यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रितो
येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते।
सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो-
र्यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः॥७॥
पारिपार्श्वकः—(सबहुमानम्।) आः, ज्ञायत एवायम्। किं त्वस्य सर्वलोकविदिता अप्येते गुणाः प्रबन्धनिर्वाहधूर्वहत्वमवबोधयितुं नेशते। यतः।
आराध्नोति यदेष भक्तिभरितो देवान्द्विजातीन्गुरू-
न्यच्च श्रद्दधदातनोति समये नित्यादिकर्मत्रिकम्।
यद्दीनेषु दयां करोति समरे शौर्यं यदालम्बते
तत्सर्वं नरसिंहयज्वसुततालाभस्य लीलायितम्॥८॥
इदं तु श्रोतव्यम्।
आनन्दरायमखिनो वाल्मीकेरिव योगिनः।
इतरापेक्षणात्सारः स्वतः सारस्वतोदयः॥९॥
सूत्रधारः— (विहस्य।) मारिष, त्वं न जानासि यत एवं ब्रवीषि। शृणु तावत्।
आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित-
स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी।
इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया
श्रीशाहावनिनायकाकृतिभृता नूनं प्रसादः कृतः॥१०॥
अत एव
कवीनां पूर्वेषां कथमपि च चित्तैरवहितै-
र्गृहीता या नासीत्सरसकवितासारपदवी।
असौ तामाक्रामन्हरति नरसिंहाध्वरिकुल-
प्रदीपः सूरीणां श्रवणयुगजाड्यान्धतमसम्॥११॥
**पारिपार्श्वकः—**श्रीशाहराज इति नाम दधत्याः सरस्वत्याः कियानानन्दरायमखिनि दयाविशेषः। यतः।
पुष्यत्कौतुकपद्मसंभृतकरद्वन्द्वाङ्गुलीवेल्लन-
द्राह्निष्पीडितचन्द्रमण्डलगलत्पीयूषधारासखैः।
वाग्गुम्फैर्बलवैरिधारितशचीधम्मिल्लमल्लीसर-
स्फारामोदमदापहैश्च कवयत्यानन्दरायाध्वरी॥१२॥
युक्तमुक्तं च भावेन ‘शाहभूपतिरूपेण गिरां देवी जाता’ इति। कथमन्यथानन्यसाधारणमस्य प्रागल्भ्यम्। तदिदानीमिदमुत्प्रेक्ष्यते—
भर्तुं लालयितुं भुवि प्रथयितुं विद्वज्जनानाश्रिता-
न्श्रीशाहक्षितिपात्मना क्षितिगतां मत्वा गिरां देवताम्।
आसिञ्चन्नसकृत्कमण्डलुजलैरङ्गानि पर्याकुलो
धाता वाहनहंसपक्षपवनैस्तापं किलापोहति॥१३॥
सूत्रधारः— तन्नियोजय भूमिपरिग्रहायास्मद्वर्भ्यं शैलूषगणम्।
पारिपार्श्वकः— वाढम्। किं तु सन्ति कथानायकस्य जीवस्य परिजना विज्ञानशर्मप्रभृतयः प्रतिनायकस्य च यक्ष्मणः परिजनाः पाण्डुश्वासकासज्वरगुल्मातिसारप्रभृतयः। तेषां यद्यपि भूमिकाग्रहणपटवो नटवटवः
पुण्डरीककेयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति। तथापि प्रयोगस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृष्यत इव में हृदयम्।
सूत्रधारः— यत्किंचिदेतत्। महतामेषां सामाजिकानामनुग्रह एवास्माकमभीप्सितमर्थं समग्रयिष्यति। यतः।
जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं
सार्वज्ञमावहति संमदमातनोति।
विद्वेषिवर्गविजयाय धृतिं विधत्ते
किं किं करोति न महद्भजनं जनस्य॥१४॥
**पारिपार्श्वकः—**एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटवटुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेष्यत इति।
सूत्रधारः— विकटो नाम नटवटुर्मया सह स्पर्धत इत्यतत्त्वविदो वचनम्। शृणु तावत्।
अभिनयविद्याविषये दुरहंकाराकुलीकृतो विकटः।
स नटवटुर्मां वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा॥१५॥
(नेपथ्ये)
अरे रे शैलूषापसद, ‘अभिभवितुं जीवमिव यक्ष्मा’ इति किमसंभावितमर्थं दृष्टान्तयसि।
मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये।
दुर्बलो यक्ष्महतकः कथं वाभिबुभूषति॥१६॥
सूत्रधारः—(आकर्ण्य।) मारिष, जीवराजमन्त्रिणो विज्ञानशर्मणो भूमिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति। तदावामप्यनन्तरकरणीयाय सज्जीभवावः।
(इति निष्क्रान्तौ।)
प्रस्तावना
————
(ततः प्रविशति जीवमन्त्री विज्ञानशर्मा।)
विज्ञानशर्मा— (‘अरेरे शैलूषापसद–’ इत्यादि पठित्वा विचिन्त्य।) सर्वथा राजसमीपं गत्वा तदनुज्ञया यक्ष्मणः प्रवृत्तिमुपलब्धुं चारान्प्रेषयिष्यामि। अथवा ‘तत्प्रवृत्त्युपलम्भाय प्रेषय धारणाम्’ इति मयोक्तो राजा तथा कुर्यात्। (श्रुतिमभिनीय।)
दिक्षूदञ्चति ताम्रचूडरसितं यद्ध्रस्वदीर्घप्लुत-
प्रायोवर्णनिभं ब्रवीति तदिदं व्युष्टा निशाभूदिति।
स्त्रीणां निर्गमनं विहृत्य पतिभिर्ब्रूते विनैवाक्षरैः
क्रीडावेश्मकपाटिकाविघटनकेकारपारम्परी॥१७॥
तदिदानीं देव्या प्रसन्नया बुद्ध्या सह राजा प्रतिबुध्य निवसेत्। तदुपसर्पामि। (इति पुरो दृष्टिक्षेपमभिनयन्।)
चञ्चत्खेटकृपाणकञ्चुकशिरस्त्राकल्पदृप्यद्भटा
सादिव्यञ्जितवक्रमण्डलगतित्वङ्गतुरङ्गव्रजा।
गण्डद्वन्द्वगलन्मदाम्बुमुखरीभूतद्विरेफद्विपा
दृष्ट्योर्मे कुतुकाय राजभवनद्वारोपकण्ठस्थली॥१८॥
अपि च।
प्रौढामात्यनिरुक्तमन्त्रपदवीविस्रम्भसंचारिणो
राज्ञो दुःसहतेजसो निशमने यद्वद्धृतिं द्वेषिणः।
प्रासादप्रतिहारवेदिषु तथा स्नेहाङ्कपात्रस्थिताः
प्रत्यूषोपगमे प्रदीपमुकुलाः कान्तिं त्यजन्त्यञ्जसा॥१९॥
(पुरो विलोक्य।) का पुनरियं तपश्चरणजनितप्रभुत्वगौरवेव मामभिवर्तते।
गाढोन्नद्धजटाकलापकपिलश्रीधूतबालातपा
बिभ्राणा भसितानुलेपधवलच्छायां तनुं पावनीम्।
भिक्षापात्रमयूरपिच्छचयभृत्पाणिद्वया मेऽधुना
काषायाम्बरधारिणी कलयति स्वान्ते धृतिं तापसी॥२०॥
(निपुणं निरूप्य।)
अस्यामक्षिभ्रुवं नासा रदपङ्क्ती रदच्छदः।
चुबुकं मन्दहासश्च धारणायामिवेक्ष्यते॥२१॥
(ततः प्रविशति तापसीवेषा धारणा।)
धारणा— अहं खु पच्चत्थिराआभिसेणणसंणाहं कस्स वि पुरिसस्स मुहादो सुदवन्तेण रण्णा ‘इमं उत्तन्तं पुरं पविसिअ जाणीहि’ त्ति पेसिदह्मि। मए वि तावसीवेसाए तह जाणिअ रण्णो समीवे समागमीअदि। (अग्रतो दत्तदृष्टिः स्वगतम्।) एसो विण्णाणसम्मा अमच्चो आअच्छदि। होदु। वेसेण पदारेमि णम्। जज्जवि सव्वस्सिंवि कज्जे इमस्स अणुमदिं विणा राआ ण पवट्टइ तह वि जं मह संसओ वट्टइ ता एअकस्स पआसो ण भवे। (इति परिक्रामति^(१)।)
मन्त्री— (दृष्ट्वा स्वगतम्।) इयं तापसी राजप्रहिता प्रच्छन्ना किं धारणा भवेत्। भवतु। पृच्छामि। (प्रकाशम्।) अये तापसि, का त्वम्। कुत आगच्छसि।
धारणा— (स्वगतम्।) इमस्स पडिवअणं भासन्तरेण भणेमि। अण्णहा कहं वि जाणिस्सदि इअं सेति। (प्रकाशम्) अहं खलु गार्गी यक्ष्मणो राज्ञो वयस्या देव्या गृहिण्याः स्नेहसर्वस्वभाजनं तदन्तःपुरादेवागच्छामि^(२)।
मन्त्री— (स्वगतम्।) भवेदेवेयं धारणा तापसीवेषेण रिपुप्रवृत्तिमुपलभ्यागतवती। अयं स्वनामानुगुणमभिज्ञो वा न वेति मां परीक्षितुं संस्कृत-
————————————————————————————————————
१. अहं खलु प्रत्यर्थिराजाभिषेणनसंनाहं कस्यापि पुरुषस्य मुखाच्छ्रुतवता राज्ञा ‘इमं वृत्तान्तं पुरं प्रविश्य जानीहि’ इति प्रेषितास्मि। मयापि तापसीवेषया तथा ज्ञात्वा राज्ञः समीपे समागम्यते। एष विज्ञानशर्मा अमात्य आगच्छति। भवतु। वेषेण प्रतारयाम्येनम्। यद्यपि सर्वस्मिन्नपि कार्येऽस्यानुमतिं विना राजा न प्रवर्तते तथापि यन्मम संशयो वर्तते तदेककस्य प्रकाशो न भवेत्।
२. अस्य प्रतिवचनं भाषान्तरेण भणामि। अन्यथा कथमपि ज्ञास्यति इयं सेति।
————————————————————————————————————
भाषया वेषानुगुणमपलपते प्रतिपक्षकुले च पक्षपातमात्मनः सूचयति। भवतु। अहमप्यजानन्निवानुनयन्पृच्छाम्येनाम्। (प्रकाशम्।) अये तापसि,
निखिलं जगतश्चरितं विज्ञातं ते समाधिनैव भवेत्।
तन्मे महाप्रभावा भाम्येनासादिता भवती॥२२॥
धारणा— (स्वगतम्।) मं तावसिं एव्व जाणिअ मह मुहादो पच्चत्थिराअप्पउत्तिं सुणिदुंअणुणअप्पआरो एसो। होदु। अहं वि अजाणन्तीव पुच्छामि। (प्रकाशम्।) कस्त्वम्। क्व गच्छसि। सूनृतेन ते वचनेन साधुर्भवानिति पृच्छामि^(१)।
मन्त्री— (स्वगतम्।) इयमात्मानं गोपयति। अहमपि तथैवोत्तरयामि। (प्रकाशम्।) कार्यविशेषेऽधिकृतं जानीहि येनैवमधिकृतस्तन्निकटे गच्छामि।
धारणा— (स्वगतम्।) एसा विपक्खजणपक्खवादिणित्ति गोपणप्पआरो एसो1। (प्रकाशम्।) केनाधिकृतोऽसि।
मन्त्री— भगवति, त्वमेव जानासि। यतः प्रणिधानेन योगिनः सकलमपि प्रत्यक्षयन्ति।
धारणा— (स्वगतम्।) कहं एदं आपडिदम्। होदु। जोइणो विअ आसिअं करिअ अमच्चं वञ्चेमि2। (इति ध्यानारूढा तिष्ठति।)
मन्त्री— (स्वगतम्।) एषा खलु
कृत्वा स्वस्तिकमासनं करयुगं विन्यस्य जानुद्वये
नासाग्रार्पिततारका नतमृजूकृत्यावलग्नं दृढम्।
निःश्वासोच्छ्वसितोपरोधघटितस्तैमित्यपीनस्तनी
चित्ते मे कृतसंयमेव कुरुते धूर्ता महत्कौतुकम्॥२३॥
(प्रकाशम्।) परिनिष्ठितं योगाभासनं भवत्याः।
————————————————————————————————————
१. मां तापसीमेव ज्ञात्वा मम मुखात्प्रत्यर्थिराजप्रवृत्तिं श्रोतुमनुनयप्रकार एषः। भवतु। अहमप्यजानतीव पृच्छामि।
————————————————————————————————————
धारणा— (ध्यानाद्विरम्य सस्मितम्।) जीवस्य राज्ञो मन्त्री विज्ञानशर्मा भवान्।
मन्त्री— महाप्रभावा योगसिद्धिमती भवती। तथाहि।
बुद्ध्या महत्या कृतसाहचर्या देवे निजे दर्शितभूरिभक्तिः।
परप्रवृत्तिं विदती महिम्ना साधारणा त्वं त्वहिते हिते च॥२४॥
धारणा— (स्वगतम्।) किं जाणिदं म्हि अमच्चेण जहत्थणामधेएण जं तावसीवण्णणव्वाजेण अहं जेव्व वण्णिदा। होदु। एव्वं भणामि^(१)। (प्रकाशम्।) महान्खलु योगप्रभावः।
मन्त्री— भगवति, तव न किंचित्प्राणिनामन्तर्गतमविदितमस्ति। अतस्त्वां प्रार्थये। कथमस्माकं राजनि यक्ष्मा मन्यते। योगिन्यास्तव दुःखितेषु कथमेषां दुःखविमुक्तिः स्यादिति चित्तपरिकर्मविशेषः करुणा भवत्येव। योगाङ्गेषु यमेषु वाङ्मनसयोर्यथार्थत्वरूपः सत्यं नाम द्वितीयो यमोऽपि तथा। अत इदं निर्विशङ्कं प्रार्थनापूर्वं पृष्टासि।
धारणा— (स्वगतम्।) जक्खराजपक्खवादविसेसे वि जोइणीए पुच्छिदस्स जहत्थुत्तरं अभणिअ असक्कं ठादुं त्ति मण्णइ अमच्चो^(२)। (प्रकाशम्।) किमन्यत्। पुरान्निष्क्रमयितव्योऽयमिति मन्यते।
मन्त्री— कथमेतदेतस्य संघटते सामादिषु चतुर्षूपायेष्वेकैकस्यापि प्रयोगेण सुसाधो हि रिपुमनोरथभङ्गः।
धारणा— नन्विमं दुष्करं पश्यामि।
यक्ष्मणि विभौ प्रयोगं घटयन्ति न सामभेददानानि।
दण्डः प्रभवेन्नु कथं प्रबलतरे रिपुजने स्वस्मात्॥२५॥
मन्त्री— यथार्थमाह भवती। किं त्विदं पक्षपातवचनम्। केनेममस्मत्प्रबलतरं मन्यसे।
__________________________________________________________________________
१. किं ज्ञातास्म्यमात्येन यथार्थनामधेयेन यत्तापसीवर्णनव्याजेनाहमेव वर्णिता। भवतु। एवं भणामि।
२. यक्ष्मराजपक्षपातविशेषेऽपि योगिन्या पृष्टस्य यथार्थोत्तरमभणित्वा न शक्यं स्थातुमिति मन्यतेऽमात्यः।
__________________________________________________________________________
धारणा— (स्वगतम्।) एसो अत्तकेरअस्स पहुणो अमच्चो। ता पहुजअविषअणीए मन्तविचारसिद्धीए परपक्खबलट्ठिदिं एदस्स जेव्व कहइस्सम्^(१)। (प्रकाशम्।) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत्। शृणु तावत्। परीवारा एतस्य रोगविशेषा भीमरूपा बहवः। तथाहि।
ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः।
कासश्वासावतीसारसंनिपाताश्मरीव्रणाः॥२६॥
किं च।
रोगा मूर्ध्नि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिकां
प्रत्याष्टादश कर्णयोरपि तथा वक्रेचतुःसप्ततिः।
पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः
प्राप्तौ कल्ककषायलेह्यबटकप्रायौषधानामपि॥२७॥
तस्माद्दुर्जयो युष्माभिः।
मन्त्री— (स्वगतम्।) इयं किल भीत्या निसर्गकातरा प्रबलपरबलप्रवेशहृदया मदीयप्रभावमजानती स्वबुद्ध्यनुरूपं किमपि प्रलपति। भवतु। किमनया वृथा संवादकदर्थनया। प्रस्तुतकार्यसाधनार्थमिमां तावदन्तरयामि। (प्रकाशं सोपहासम्।)
आलोक्य शात्रवबलं बहुधारणे त्वं
भीतासि संप्रति रसं प्रतिपन्नधैर्या।
जीवस्य जीवितसमे मयि सत्यमात्ये
भूयात्कथं बत विरोधिशिरोधिरोहः॥२८॥
धारणा— (विहस्य।) कधं जाणिदह्मि अमच्चेण।ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो। अहं खु देईए बुद्धीए सहअरी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व-
__________________________________________________________________________
१. एष आत्मीयस्य प्रभोरमात्यः। तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि।
__________________________________________________________________________
वसाओ त्ति पेसिदह्मि। तह ज्जेव विचारिअ अज्जं पदारेदुं पच्छण्णे व ठिदह्मि^(१)।
मन्त्री— युज्यत एतत्। अतो राजसमीपमेव गच्छावः।
धारणा— तुमं जेव्व गदुअ इमं वुत्तन्तं भणाहि। रण्णो णिवेदणादो वि तुह पुरदो कज्जणिवेदणं अब्भहिदम्। अहं उण दुज्जणसंसग्गकिदं कलुसं पक्खालेदुं महाणदिं ण्हादुं गच्छेमि^(२)। (इति निष्क्रान्ता।)
मन्त्री— (सविचारम्।) यद्यपि कुटिलप्रकृतयः स्वामिनि निबद्धदृढभक्तयो दुर्जया एव परसैनिकास्तथापि किमसाध्यं बुद्धिविभवस्य। यतः।
दुर्जाते सुमहत्यपि क्षितिपतेः शालीनतां संत्यज-
ञ्शत्रूञ्जेतुमथेप्सितं घटयितुं शक्नोत्युपायेन यः।
प्रायो मन्त्रिपदं महोन्नतमतिः प्राप्तुं स एवार्हति
स्वोत्सेकी न तु पण्डितो भुवि जनो वाचा वदन्पौरुषम्॥२९॥
अत इदानीम्।
संचिन्तयामि कंचन संप्रति समयोचितं जयोपायम्।
येनास्माकं श्रेयो भविता सहसा पराजयो द्विषताम्॥३०॥
(इति ध्यानं नाटयन्।) आः, चिन्तितोऽयमबाधितोपायः। तथाहि।
प्रथन्ते यास्तिस्रः प्रबलजडतीक्ष्णाः प्रकृतयो
वशीकारे तासां जगति सदुपायाः परममी।
क्रमात्स्नेहास्ते ते कुशलमतिभिः सद्भिरुदिता-
स्तथा तीक्ष्णोपाया नियतमुपचाराश्च मधुराः॥३१॥
__________________________________________________________________________
१. कथं ज्ञातास्म्यमात्येन। तत्कथयामि विश्रब्धं यथार्थं शृणोत्वमात्यः। अहं खलु देव्या बुद्धेः सहचरी राज्ञा जीवेन तापसीवेषं कृत्वा रात्रौ पुरं प्रविश्य यक्ष्मराजस्य विचारणीयो व्यवसाय इति प्रेषितास्मि। तथैव विचार्यार्यंप्रतारयितुं प्रच्छन्नेव स्थितास्मि।
२. त्वमेव गत्वा इमं वृत्तान्तं भण। राज्ञो निवेदनादपि तव पुरतः कार्यनिवेदनमभ्यर्हितम्। अहं पुनर्दुर्जनसंसर्गकृतं कलुषं प्रक्षालयितुं महानदीं स्नातुं गच्छामि।
__________________________________________________________________________
तस्मात्प्रबलजडतीक्ष्णप्रकृतीनां वातपित्तकफानां मध्ये प्रबलो यो वातः स तु बहुविधस्नेहविशेषप्रयोगेण वशीकार्यः। तदनुगतस्य पित्तस्य मधुरोपचारेणैव सुकरो वशीकारः। उभयविरुद्धो जडो यः कफस्तत्रेतरोपायस्याप्रसरात्तीक्ष्णप्रयोगेणैव स वशमानेतव्यः। एवं च तत्तत्समुचितैरुपायैः सर्वामयनिदानेषु वातादिषु स्वाधीनेषु तज्जनितानामितरेषामुन्मेष एव दूरतोऽपास्तः। किं च।
सर्वस्मिन्विषये निरङ्कुशतया यद्दुर्निरोधं मनः
प्रायों वायुरिव प्रकृष्टबलवत्सर्वात्मना चञ्चलम्।
तत्कामादिभिरुद्धतैरुपहतं संप्रेरितैर्यक्ष्मणा
तत्सौहार्दमुपेत्य यद्यपि पुनर्नः प्रातिकूल्यं चरेत्॥३२॥
अतस्तदपि महाधिकारेण वशीकृत्य महति व्यापारे विनियोज्य तैरपि दुर्भेदं करिष्यामि। यद्यपि मद्विरोधिचेष्टोऽज्ञानशर्मा मदसंनिधाने राज्ञ उपजापेन कार्यभेदमेव जनयेत् तथापि जाग्रतिः फलकर्मैव(?)।
सर्वानर्थनिदाने यक्ष्मणि तस्मिन्समूलमेव मया।
उन्मूलिते ततो नः कर्तव्यं नावशिष्यते किंचित्॥३३॥
तथाकर्तुमेव तावद्राजनिकटमेव गच्छामि। (इति कतिचित्पदानि गत्वा पुरो विलोक्य।) इदं तद्राजभवनम्। यावत्प्रविशामि। कः कोऽत्र भोः।
(प्रविश्य।)
प्रतीहारः— मन्त्रिन्, किमाज्ञापयसि।
मन्त्री— प्राण दौवारिक, संप्राप्तं मां राज्ञे निवेदय।
प्राणः— तथा। (इत्यन्तःपुरं प्रविष्टः।)
मन्त्री— (परितो विलोक्य।) इह खलु
संमृज्य शोधिनीभिश्चत्वरवेदीतलेषु रम्येषु।
रचयन्ति रङ्गवल्लीरन्तःपुरचारिका एताः॥३४॥
गृह्णन्वेत्रलतां वसत्यवसरापेक्षो जरत्कञ्चुकी
राजा मामवलोकयेदिति समं वत्सेन गौस्तिष्ठति।
वादित्रध्वनिमण्डलीकृतगरुद्वहीं नटत्यङ्गणे
देव त्वं विजयीभवेति गुणयन्नास्ते शुकः पञ्जरे॥३५॥
(प्रविश्य।)
दौवारिकः— (मन्त्रिणं प्रति।) स्वामिन्, भवन्तं द्रष्टुं बुद्ध्या सह देव्या भद्रासनमधिवसति राजा।
मन्त्री—
अतिपरिचयेऽपि राज्ञो बिभेमि सहसोपगन्तुमभ्यर्णम्।
येनाग्नेरिव तेजः स्फुरदस्यारान्निवर्तयति॥३६॥
(विचिन्त्य।) परपक्षं प्रति प्रतिविचारणाय प्रेषितां धारणां प्रतीक्षमाण इव लक्ष्यते। भवतु तदेतदहं वक्ष्यामि।
(ततः प्रविशति बुद्ध्या देव्या सह राजा जीवः।)
मन्त्री— (उपसृत्य।) विजयतां महाराजः।
राजा— इतो निषीदतु भवान्। (इति मन्त्रिणे आसनं निर्दिशति।)
मन्त्री— (आसने उपविश्य स्वगतम्। एष खलु
गण्डूषोदकशोधितेऽपि वदने ताम्बूलरक्ताधरः
स्नानापोहितचन्दनेऽपि वपुषि प्रोद्दामतत्सौरभः।
निर्णिक्ते सिचये धृतेऽपि कनकाकल्पेन पीताम्बरः
सोऽयं सत्यपि न प्रमाद्यति सदाचारादतिप्राभवे॥३७॥
(प्रकाशम्।) महाराजेन प्रहिताया धारणाया मुखात्तत्रत्यः सर्ववृत्तान्तो विदित एव। सा पुनर्दुर्जनसंसर्गदोषपरिहाराय नदीं स्नातुं गता। तया च मयि संक्रमितस्तत्रत्यवृत्तान्तः।
राजा— (सोत्कण्ठम्।) कथमिव।
देवी— अहं वि अवहिदह्मि^(१)।
मन्त्री— (स्वगतम्।) इयं हि देवी
किमपि नियमिताग्रैः कुन्तलैः स्निग्धनीलैः
परिलसदपराङ्गा धारयन्ती दुकूलम्।
____________________________________________________________________________________
१.अहमप्यवहितास्मि।
____________________________________________________________________________________
धवलमुपरि भर्तुश्चामरं धूयमानं
विरमयति करेण व्यक्तमाकर्णनाय॥३८॥
(प्रकाशम्।) श्रोतव्यमिदं धारणावचनम्। यक्ष्महतकः पुरान्निष्क्रामणमेवास्माकमिच्छतीति।
राजा— किमत्र प्रतिविधातव्यम्।
देवी— (सोद्वेगम्।) दाणिं किं कुम्भो^(१)।
मन्त्री— देवि, मा भैषीः। प्रतिविधानप्रकारोऽपि धारणया विदितः।
राजा— कथमिव।
मन्त्री— (कर्णे) एवमेवम्।
राजा— कथमिदं धारणया निर्धारितम्।
**मन्त्री—**रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम्।
देवी— (साश्वासम्।) जइ एव्वं ता कहं अह्मेहिं रसगन्धआ संपादणिज्जेति^(२)।
राजा—
शंभोर्वीर्यं रसो नाम शर्वाण्या नाम गन्धकः।
ताभ्यामेव प्रसन्नाभ्यां तौ ग्राह्याविति मे मतिः॥३९॥
देवी— केण उण उवाएण ताणं पसादो संपादणिज्जो^(३)।
मन्त्री— उपासनयैव।
राजा— युक्तमुक्तं भवता। श्रूयते हि पुरा मृकण्डुरुमापतिमुपास्य पुत्रं लेभे। तत्पुत्रोऽपि तदुपासनया भृत्युमुखान्मुक्तो दीर्घमायुरलभतेति।
मन्त्री— सम्यगवगतं महाराजेन। यतः खल्वेष
पादाघातत्रुटितयमुनाभ्रान्तबाह्वन्तरोद्य-
द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम्।
__________________________________________________________________________
१.इदानीं किं कुर्मः।
२.यद्येवं तत्कथमस्माकं रसगन्धकौ संपादनीयौ इति।
३.केन पुनरुपायेन तयोः प्रसादः संपादनीयः।
____________________________________________________________________________________
मार्कण्डेयं व्यतनुत यदा सर्वभूतैस्तदादि-
स्तुत्यं मृत्युंजय इति यशः स्फारमीशः प्रपेदे॥४०॥
राजा— पुरा खलु देवदानवैरमृतार्थिभिर्महोरगयोक्रपरिवेष्टितविकृष्यमाणमन्दरमन्थानदण्डैर्मथ्यमाने दुग्धसागरे गरलमुद्भटमुत्थितमसहमानेषु भुवनेषु विनष्टप्रायेषु पलायनाभिमुखे चतुर्मुखे विगलितौजसि बिडौजसि भगवानेवैष विषमश्नन् जगदनुचकम्पे। तथाहि।
मेघाक्रान्तदिगन्तदर्शरजनीमूर्छत्तमोमेचकं
तापद्रावितदेवदानवनरं यः कालकूटं गरम्।
जग्ध्वा जम्ब्विव बालकस्त्रिभुवनत्राणं ततानाञ्जसा
तस्य द्राङ्महिमा न वाङ्मनसयोः पन्थानमारोहति॥४१॥
मन्त्री— किमुच्यते महिमेति। श्रूयतां तावत्। त्रिपुरविजयप्रसक्तावसक्त इव स्वयं तदर्थं कतिचित्साधनानि संपाद्य तान्यपि वितथीकृत्य स भगवान्निजमेव महिमानमभिव्यक्तवान्। तथाहि।
सूर्याचन्द्रमसौ रथाङ्गयुगलं सूतो विधाता स्वयं
रथ्याश्वा निगमाश्च यस्य रथमारूढेन भूमीमयम्।
मेरुं धन्वविषक्तवासुकिगुणं कृत्वा शरं चाच्युतं
तिस्रस्तेन पुरः स्मितेन तु परं दग्धाः सुरद्वेषिणाम्॥४२॥
राजा— एवमपरिमितान्याश्चर्यचरितानि देवस्य।
देवी— किं अच्चरिअं। महेसरस्स जह जह जारिसो उपासनं करेदि तह तह तारिसं सो तं तं फलं पावेदि^(१)।
मन्त्री— एवमेतत्।
राजा— एवमनिर्धारणीयनानास्वरूपा भगवतीपरमेतत्। परंतु भगवतो दयारूपैवेयम्। अत एव लोकरक्षणार्था प्रवृत्तिरेतस्याः। श्रूयतां तावत्।
__________________________________________________________________________
१. किमाश्चर्यम्। महेश्वरस्य यथा यथा यादृश उपासनं करोति तथा तथा तादृशं स तं तं फलं प्राप्नोति।
__________________________________________________________________________
भक्तिप्रह्नमहेन्द्रमुख्यमखभुक्प्रारब्धभूरिस्तव-
प्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया।
निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातया-
मासाते मधुकैटभावतिबलौ सा केन वा वर्ण्यते॥४३॥
मन्त्री— राजन्, तथ्यमेवाह भवान्। अस्याः किल भक्तवात्सल्यमनन्यतुल्यं पश्यामि।
दूरोद्धूतविषाणकोटिघटनाचूर्णीकृताम्भोधरं
प्रेङ्खत्पादचतुष्टयीखुरपुटप्रक्षुण्णपृथ्वीतलम्।
कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं
विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या॥४४॥
**देवी—**सा खु परमेसरी बहुविहदेवआसत्तिरूआवअवा पअण्डपरक्कमखण्डिअचण्डमुण्ड-धुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि चण्डिआणामघेएत्ति^(१)।
राजा— तदपि ज्ञायते। यथा खलु।
शस्त्रच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिम-
त्कङ्कक्रोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम्।
देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुव-
द्रुद्रेन्द्राग्निकृतान्तनैर्ऋतजलाधीशानिलश्रीदया॥४५॥
मन्त्री— राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपादनीया सिद्धिः। किं च।
सामर्थ्यसिद्ध्यै रसगन्धकानां संयोजनार्थं सकलौषधीश्च।
संपादयामोऽथ तदाश्रितस्य सर्वौषधीशस्य विधोः प्रसादात्॥४६॥
देवी— कदमं उण देसं पविसिअ उवासणिज्जा एदे।
__________________________________________________________________________
१. सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमखण्डितचण्डमुण्डधूम्रलोचनरक्तबीजप्रभृतिदानवमण्डला श्रूयते चण्डिकानामधेयेति।
२. कतमं पुनर्देशं प्रविश्योपासनीयावेतौ।
__________________________________________________________________________
मन्त्री— पुण्डरीकपुरं प्रविश्य।
देवी— कहं तत्थ पवेसो^(१)।
मन्त्री— देवि,
शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत-
स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम्।
दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयस्त्वया
चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमर्था यथा॥४७॥
राजा— (सोत्कण्ठम्।)
तामद्वैतां स्वरूपेण भक्तिं हृदयरञ्जिनीम्।
स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः॥४८॥
देवी— (सासूयमिव स्वगतम्।) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सुणिअ सुदघणाघणगज्जिदो मोरो व्विअ उक्कण्ठिदो अज्जउत्तो। होदु। ता मए घि सह गन्तव्वम्। (प्रकाशम्।) अज्जउत्त, अहं वि आगमिस्सम्^(२)।
राजा— (स्वगतम्।) कथमनयाप्यागन्तव्यम्। (विचिन्त्य।) भवतु। (प्रकाशम्।) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलषितमर्थं साधयावः। (मन्त्रिणं प्रति।)
राज्यं त्वयि समारोप्य योम्ये सर्वाङ्गसंहितम्।
देव्या सह शिवं साम्यमुपास्तुं यामि तत्पुरम्॥४९॥
मन्त्री— यथा रोचते देवस्य।
(इति निष्क्रान्ताः सर्वे।)
इति प्रथमोऽङ्कः।
————
__________________________________________________________________________
**१.**कथं तत्र प्रवेशः।
२. कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः। भवतु। तन्मयापि सह गन्तव्यम्। आर्यपुत्र, अहमप्यागमिष्यामि।
__________________________________________________________________________
द्वितीयोऽङ्कः।
(ततः प्रविशति चेटः कासः।)
कासः— अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वस्मिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगतवता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराजं पाण्डुं पृष्ट्वागच्छेति प्रेषितोऽस्मि। अतस्त्वरन्नितो युवराजसमीपं गच्छामि। अहो महाराजस्य युवराजे महती प्रीतिः। यतः।
यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत्।
तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते॥१॥
(पार्श्वतो विलोक्य।) कथमियं छर्दिः। यैषा
प्रवालमृदुलाधरप्रकरचारुबिम्बप्रभा-
हृताहृतविलोचनाञ्जनविशेषदृश्यानना।
मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी
तरङ्गयति कौतुकं तरुणिमश्रिया चेतसि॥२॥
(स्मरणमभिनीय।)
श्लथजलधरजालश्लिष्टशीतांशुबिम्बा-
नभिनवमुकुराविर्भूतमुक्ताकदम्बान्।
दरतरलितचक्रद्वन्द्वखेलन्मृणाला-
न्विवशहृदयमस्या विभ्रमानन्वभूवम्॥३॥
(सभयम्।) तदियं मामवलोकयति चेदिदानीं विभ्रममूल्यमनुपयुज्य मां निरुन्धीत ततो गमनविघ्नः स्यात्। (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति।)
(प्रविश्य)
छर्दिः— अए सठ, रत्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणिं मं पेक्खिअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि^(१)। (इति कासं हस्ते गृह्णाति।)
__________________________________________________________________________
१. अये शठ, रतौ मुक्ताफलं परिपणीकृत्य पुरुषायितं मया कारयित्वा इदानीं मां प्रेक्ष्यावगुण्ठितशीर्षो बद्धकटिः कुतः पलायसे।
__________________________________________________________________________
कासः— मुञ्च मुञ्च। (इति हस्तं धुनोति।)
छर्दिः— (दृढं हस्तमवलम्ब्य।) हदास, मह पडिण्णादं दाऊण गच्छेहि^(१)।
कासः— हञ्जे, यावदागत्य दास्यामि।
छर्दिः— कुदो आगमिअ^(२)।
** कासः—** धिङ्मूर्खे, नायमवसरः। पश्चात्कथयिष्यामि।
छर्दिः— जइ दाणिं ण कहेसि अहं वि ण मुञ्चेमि^(३)।
** कासः—** तर्हि गृहाण मुक्ताफलस्य प्रतिनिधिमिमामूर्मिकाम्। (इत्यङ्गुलीयकं विमुच्य प्रयच्छति।)
छर्दिः— इदं होदु। कुदो आगमिअ त्ति कहेहि^(४)।
** कासः—** किं मम वधमिच्छसि। यतः।
कार्यं राज्ञां मन्त्रिभिर्मन्त्रितं यत्सर्वेषां तत्सर्वथा गोपनीयम्।
येऽभिव्यञ्जन्त्येतदुद्यत्प्रमादाः शीर्षच्छेद्यांस्तन्वते तान्नरेन्द्राः॥४॥
छर्दिः— जह तह होदु। एदं दाव कहेहि^(५)।
** कासः—** (स्वगतम्।) अहो दास्याः स्नेहपरिपाकः। यः परमनर्थाय संपद्यते। तथा हि।
स्त्रियः स्वार्थपराः प्रायः परदुःखं न जानते।
अप्रष्टव्यं यदप्राक्षीद्गृहिणी कैकयाधिपम्॥५॥
(प्रकाशम्।) राजकौलीनमेतदिति न कथयामि। मुञ्च। (इति त्वरयति।)
छर्दिः— मा भयाहि तुमं। जं मञ्जुसा क्खु अहं राजकज्जाणं। अदो ण पआसेमि^(६)।
__________________________________________________________________________
१.हताश, मम प्रतिज्ञातं दत्त्वा गच्छ।
२.कुत आगत्य।
३.यदीदानीं न कथयसि अहमपि न मुञ्चामि।
४.इदं भवतु। कुत आगत्येति कथय।
५.यथा तथा भवतु। इदं तावत्कथय।
६.मा बिभेहि त्वम्। यन्मञ्जूषा खल्वहं राजकार्याणाम्। अतो न प्रकाशयामि।
____________________________________________________________________________________
** कासः—** (विहस्य।) छर्दिका किल त्वं प्रकृत्या। तत्कुतो न प्रकाशयसि।
** छर्दिः—** (विहस्य।) भसणसीलस्स कुक्कुरस्स विअ तुह जाआ अहम्। होदु। एदं कहेहि पत्थुदम्^(१)।
** कासः—** (स्वगतम्।) इयं राजकार्यकथननिर्बन्धान्न मुञ्चति माम्। का गतिः। (प्रकाशम्।) हञ्जे, कथयामि। शृणु तावत्।
** छर्दिः—** ओहिदम्हि^(२)।
** कासः—** मया कटकप्रवेशः कर्तव्यो युवराजस्य पाण्डोर्दर्शनाय।
** छर्दिः—** ता किं विचारीअदि। अम्हकेरभडक्कन्ते सुगमो सत्तुणो पुरे मग्गो तुज्झ। सान्दणक्खत्ते णहे इन्दुणो व्विअ^(३।)
** कासः—** त्वं पुरोपरोधमात्रं जानासि। तत एवं ब्रवीमि।
** छर्दिः—** किं अण्णं वि तत्थ कडए पउत्तं जं मए ण जाणीअदि^(४)।
** कासः—** श्रूयताम्।
अस्मत्सैन्यैर्निरोधं कृतमगणयता स्वे पुरे सूपदिष्टं
जीवोऽमात्येन योगं स किल निशमयन्प्रापदन्तर्मुखत्वम्।
इत्यस्माकं निशम्य प्रभुरतिविशदं चारवक्त्रात्कुमारं
गत्वा पृच्छ त्वयेदं विदितमथ न वेत्याकुलः प्राहिणोन्माम्॥६॥
** छर्दिः—** जुवराएण पण्डुणा विदिदं ण वेत्ति णत्थि संदेहो। जेण एदं एव्व सुणिअ सअलसामन्तचक्केण सह सिद्धसेणिओ रहस्सागारे णिद्दाभङ्गकसाइदलोअणो चिन्तापज्जाउलो जुवराओ चिट्ठदि। तुए वि तत्थ
__________________________________________________________________________
१. भषणशीलस्य कुक्कुरस्येव तव जायाहम्। भवतु। एतत्कथय प्रस्तुतम्।
२.अवहितास्मि।
३. तत्किं विचार्यते। अस्मदीयभटाक्रान्ते सुगमः शत्रोः पुरे मार्गस्तव। सान्द्रनक्षत्रे नभसि इन्दोरिव।
४.किमन्यदपि तत्र कटके प्रवृत्तं यन्मया न ज्ञायते।
__________________________________________________________________________
गच्छीअदु। णाह, पञ्च वि तुह वअस्सा सासा सेवातप्परा तह ज्जेव्व वट्टन्दि^(१)।
कासः— कथमिदं ज्ञातं त्वया।
छर्दिः— तुह पुव्वगिहिणीए कण्ठकण्डूए परिदेवणमुहेण देइए विसूचीए संणिहाणे सव्वं राअकज्जं णिवेदिदम्। तहिं संणिहिदथम्भन्तरिदाए मए सुदम्^(२)।
कासः— कुतः कीदृशं च परिदेवनं तस्याः।
छर्दिः— जं तुए मं कामअन्तेण पुव्वगिहिणीए ताए पणअभङ्गो किदो तेण कादव्वं परिदेवणं क्खु ताए। तह खु कण्ठकण्डू देवीए कहिदवदी जं किल भट्टिणि, एदं मह दुज्जादं पण्डुगिहिणीए णिवेदिदुं गदम्हि। सा उण कालन्तरे एदं होदुत्ति जह तह मह अस्सुप्पमज्जणं किदवदी। तं जह^(३) (स्मरणमभिनीय सभयम्, संस्कृतमाश्रित्य।)
अस्यात्याहितकर्मणो व्यपगमे कासेन भर्त्रा समं
संधास्येत्यवतीं (?) तु तत्प्रियसखान्संप्रेषयन्ती रहः।
__________________________________________________________________________
१. युवराजेन पाण्डुना विदितं न वेति नास्ति संदेहः। येनैतदेव श्रुत्वा सकलसामन्तचक्रेण सह सिद्धसैनिको रहस्यागारे निद्राभङ्गकषायितलोचनश्चिन्तापर्याकुलो युवराजस्तिष्ठति। त्वयापि तत्र गम्यताम्। नाथ, पञ्चापि तव वयस्याः श्वासाः सेवातत्परास्तत्रैव वर्तन्ते।
२. तव पूर्वगृहिण्याः कण्ठकण्डूत्याः परिदेवनमुखेन देव्या विषूचिकायाः संनिधाने सर्वं राजकार्यं निवेदितम्। तत्र संनिहितस्तम्भान्तरितया मया श्रुतम्।
३. यस्त्वया मां कामयमानेन पूर्वगृहिण्यास्तस्याः प्रणयभङ्गः कृतस्तेन कर्तव्यं परिदेवनं खलु तया। तथा खलु कण्ठकण्डूर्देव्यै कथितवती यत्किल भट्टिनि, एतन्मम दुर्जातं पाण्डुगृहिण्यै निवेदितुं गतास्मि। सा पुनः कालान्तरे एतद्भवत्विति यथा तथा ममाश्रुप्रमार्जनं कृतवती। तद्यथा।
____________________________________________________________________________________
इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्वाः सुखी-
कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला॥७॥
तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति^(१)।
कासः— (विचिन्त्य।) मा बिभेहि। ज्ञातस्तव भावः। त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्वा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम्। तेऽपि मद्बुद्ध्यैव पुष्टाः कथं मह्यं द्रुह्येयुः।
छर्दिः— गच्छेहि कज्जसिद्धीए अहं वि देईए सकासं गमिस्सम्।
(इति निष्क्रान्तौ।)
प्रवेशकः।
———
(ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः।)
पाण्डुः— कः कोऽत्र भोः।
(प्रविश्य)
दौवारिकः— विजयतां देवः।
(पाण्डुर्निद्रालसो जृम्भते।)
दौवारिक— (आत्मगतम्) एष किल
आरक्तसंकुचदपाङ्गमुदग्रदंष्ट्रं
व्यादाय वक्त्रमुरुपाटलदीर्घजिह्वम्।
उच्चैर्भुजी वलयितौ ग्रथिताङ्गुलीकौ
कुर्वन्सशब्दमिह जृम्भणमातनोति॥८॥
अपि च।
जृम्भावसरे दारुणमाननबिम्बं सजिह्वमेतस्य।
निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि॥९॥
(प्रकाशम्।) देवस्य कीदृशो मयि नियोगः।
पाण्डुः— गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशय।
(गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्संनिपातान्प्रवेशयति। सर्वे प्रविश्य प्राञ्जलयस्तिष्ठन्ति।)
____________________________________________________________________________________
**१.**तत्रापि मन्दभागिन्यहं हतमनोरथा जाता।
____________________________________________________________________________________
तत्र एकः— सविचार इव दृश्यते युवराजः। तत्क्षणं जोषमास्यताम्। यदेवः
खट्वामङ्गविवर्तनेन लुलितक्षौमास्तरामावस-
न्वीटीं भृत्यकरार्पितामगमयन्वक्त्रं गृहीतामपि।
उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽर्पय-
न्नत्यर्थं श्वसितोद्गमैर्विवृणुते चिन्तां निजान्तर्गताम्॥१०॥
किं च पूर्वमपि।
न स्नाति वारिषु चिरं त्वरितं दुकूलं
वस्ते विलम्बसहनो न कदापि भुङ्क्ते।
भूषागणं वहति किं च विपर्ययेण
राजा युवैष हृदि कार्यविचारकृष्टः॥११॥
गलगण्डः— (दण्डेन भूमिमाघट्टयन्।) देव, सेनापतयः प्राप्ताः।
पाण्डुः— (विलोक्य।) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशादस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिष्यत इति श्रूयते। स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः।
** संनिपाताः—**
अस्मादृशेषु बलशालिषु सैनिकेषु
राजन्नलं प्रभुपराभवचिन्तया ते।
स्यात्किं वसन्तदिवसेषु विसृत्वरेषु
पद्माकरस्य तुहिनाभिभवप्रसक्तिः॥१२॥
कति कत्यस्मदीयाः सैनिकाः। तत्रैकैकस्य पराक्रमवतो युद्धाय न पर्याप्तमखिलं शत्रुसैन्यम्। किं पुनः सर्वेषाम्। श्रूयन्तां तावदस्मदीयाः।
अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ
षट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम्।
अर्शोभेदाः षडतिधृतयो विंशतिश्च3 प्रमेहाः
किं चाश्मर्यो दश दश पुनः सन्ति सप्तातिसाराः॥१३॥
(गलगण्डं प्रति।) स्वामिनः कुमारस्य संनिधिं प्रापय सर्वानपि सैनिकान्।
गलगण्डः— तथा। (इति निष्क्रम्य सर्वैः सह प्रविशति।)
(सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति।)
पाण्डुः— एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते।
तत्रादौ कुष्ठाः—
कार्या न चेतसि कुमार कदापि चिन्ता
स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः।
शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्यं
कुर्मो वयं तनुभृतामतिकुत्सनीयम्॥१४॥
उन्मादाः— सर्वे सैनिकास्तिष्ठन्तु। ज्ञायतामस्माकमभिप्रायः।
कोपाध्मातककुत्स्यपुंगवकरव्याकृष्टगर्जद्धनु-
र्ज्यानिर्गत्वरमार्गणानलशिखादीने नदीने4 भृशम्।
पाठीनान्कमठैः समं विलुठतः सर्वेऽनुकुर्वन्तु ते
शार्दूला इव शम्बरान्सरभसं5 यानद्य गृह्णीमहे॥१५॥
व्रणाः— स्वामिन्कुमार, प्रथमं पुरमेव वाधितव्यम्। तद्बाधया शिथिलीभविष्यत्यन्तर्मुखतापि जीवस्य। अत इदानीम्
प्रचण्डमदपाण्डवप्रहितकाण्डवर्गत्रुट-
त्तरक्षुकरिकेसरिप्रियकशल्यशार्दूलकम्।
अरण्यमिव खाण्डवं घनसरण्यतीतं द्रुम-
व्रजं दहनहेतयः पुरमरेर्दहामो वयम्॥१६॥
सर्वेऽपि अर्शोभेदाः— स्वामिन्, यदुक्तं व्रणैस्तदस्मभ्यमपि रोचते। तेन वयं च निरुद्धमूलद्वाराः।
गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे
व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽस्मद्गृहीताः।
स्थातुं गन्तुं शयितुमशितुं यातुमाभाषितुं वा
नापेक्षन्ते मनसि दधतो दुःखमात्रानुभूतिम्॥१७॥
प्रमेहाः— स्वामिन्, अस्मासु विधेयेषु पुरोवर्तिषु किमर्थमन्येषां प्रस्तुतकार्यं प्रति प्रेषणम्। तत्क्रियतामस्मदुक्तिश्रवणादरः।
पाण्डुः— वक्तव्यानि वो विवक्षितानि।
प्रमेहाः—
संप्रस्रावात्परिणतिमसृङ्मांसभेदोस्थिमज्ञां
व्यातन्वन्तो वयमनुदिनं तत्पुरं शोषयामः।
क्वान्तर्वक्त्रो भवतु विधुरीभूय जीवः क्व मन्त्री
तत्साहाय्यं कलयतु भवांस्तद्विषादं जहातु॥१८॥
अश्मर्यः— सर्वे सैनिकाः स्वस्वबलानुरूपं गर्जन्ति। स्वामिन्, न वयं गर्जनपराः। किं तु भूतार्थवादिन्यः।
वर्धिष्यते न यावत्स हितः सर्वैर्भटैर्निजैर्वैरी।
तावन्निग्रहणीयः श्रेयस्कामेन पुरुषेण॥१९॥
तथा हि।
वेलालङ्घ्रिप्रसर्पत्तटविटपिसमुत्पाटनाटोपमूर्छ-
त्कल्लोलाक्रान्तपृथ्वीवलयजनलयोल्लेखसंत्रस्तलेखः।
अम्भोधिर्मा जनीति प्रतिकलमुदयद्वारिभूरीभविष्य-
च्चूषत्यह्नाय वह्निर्विघटितवडवावक्त्ररन्ध्रादुदञ्चन्॥२०॥
पाण्डुः— युक्तमुक्तं भवद्भिः।
अतीसाराः— स्वामिनः कृपयैव भुजप्रतापं दर्शयन्तो वयं विजेष्यामह इति किमत्र चित्रम्। अतः किमपि ब्रूमः। विदांकरोतु स्वामी।
नेत्रे मज्जयितुं मुखं ग्लपयितुं जत्रुद्वयं व्यञ्जितुं
पार्श्वस्थ्नां गणनीयतां गमयितुं सत्त्वं भृशं लुण्ठितुम्।
सप्तत्वेऽपि निजे स्थिते घटयितुं पञ्चत्वमेवाङ्गिनां
शक्तान्नः प्रहिणोषि यत्र तरसा तत्साधयामो वयम्॥२१॥
पाण्डुः— (सबहुमानम्।)
अतिसारा इति स्पृष्टं विष्टपत्रयविश्रुतम्।
युष्मन्नामैव युष्माकं ब्रूतेऽतिशयितं बलम्॥२२॥
गुल्मप्लीहानः— श्रूयतां स्वामिना।
अस्मासु प्रविशत्सु शान्नवपुरं पीडाकरेषु द्रुतं
कार्याकार्यविवेक एव न भवेदल्पोऽपि तस्मिन्क्षणे।
आस्तामेतदिदं वचो निशमय क्षन्तुं व्यथामक्षमो
विज्ञानेन च मन्त्रिणा सह पुराज्जीवः पलायिष्यते॥२३॥
पाण्डुः— अस्मत्सैनिकोपरुद्धे पुरे पिपीलिकापि न प्रसरीसरीति, कुतः पुनरियं तस्य पलायनशङ्का। परंतु सर्वैरिदमाकर्णनीयम्। नीतिशास्त्रानुसारिणि मन्त्रिणि तदनुरक्ते विक्रमाभिमानरक्षणैकपरे द्विजदेवपोषणैकतानमानसे राजनि तस्मिन्निपुणं किमपि प्रतिविधानमनुसंधेयम्। अतः प्रागेवातर्कयं किंचिदत्याहितहेतुस्तदीयान्तर्मुखतेति।
कुष्ठेष्वेकः— (स्वगतम्।) प्रागस्माभिः प्रेषितः शत्रुशिबिरं प्रविष्टः कर्णमूलोऽद्यापि नागतः किं तैर्गृहीतः स्यात्।
(ततः प्रविशत्यध्वश्रान्तः कर्णमूलः)
कर्णमूलः— (दृष्ट्वा।) एतत्खलु
तत्तत्कार्यनिवेदनार्थमिलितान्योन्यानभिज्ञस्पश6-
प्राप्तव्यावसरप्रतीक्षणकृतद्वाःपार्श्ववेद्यासिकम्।
अन्तर्मन्दिरनिःसरज्जनवचोविज्ञाप्यमानप्रभु-
व्यापारश्रवणेप्सुबाह्यमनुजं पश्यामि पाण्डोर्गृहम्॥२४॥
(द्वाःस्थं प्रति।) गलगण्ड, कथय कर्णमूलं संप्राप्तं माम्।
(गलगण्डः प्रविश्य निष्क्रम्य कर्णमूलेन सहान्तः प्रविशति।)
कर्णमूलः— (आत्मानं दृष्ट्वा स्वगतम्।)
श्रमाम्भःसंसिक्तालिकललितपुण्ड्राङ्कवदनो
द्रवच्चर्मोपानदृढपिहितपार्श्वाञ्चलपटः।
समुद्यन्निःश्वासप्रसरपरिशुष्काधरपुटो
विलङ्घ्याहं दीर्घां सरणिमगमं पाण्डुसविधम्॥२५॥
(पाण्डुं दृष्ट्वा।) कुमार, विजयी भव।
पाण्डुः— भद्र, किम्। किंचिदुपलब्धं तत्र भवता प्रविष्टेन।
कर्णमूलः— किं सफलो न भविष्यति कुमारनियोगो विशेषोपलम्भेन।
पाण्डुः— कथय।
कर्णमूलः— श्रूयताम्। उपरुद्धमस्मत्सैनिकैः पुरम्।
पाण्डुः— किमेतत्परिज्ञानाय प्रेषितोऽसि। विदितं खल्विदं सर्वेषाम्।
कर्णमूलः— (सर्वतो विलोक्य।) एतदेव प्रस्तोतुमयमवसरः।
पाण्डुः— विस्रब्धं कथय। किं न जानासि अस्मच्छरीराण्येव कीलैते।
कर्णमूलः— देव, भवदाज्ञया प्रविष्टोऽस्मि पुण्डरीकपुरम्। तत्राद्राक्षं च सन्निरीक्षणैकपरे ईक्षणे। निगमार्थश्रवणप्रसिते श्रवसी। शिवनिर्माल्यगन्धसंतर्पितं घ्राणम्। विघसामृतास्वादनैकतानां रसनाम्। त्रेताभस्मावगुण्ठितां त्वचम्। धर्मार्थसंग्रहीतारौ करौ। तदर्थं कृतसंचरणौ चरणौ। चिरंतनसरस्वतीचिकुरपरिमलामोदसदनं वदनं च। तद्दर्शनेन क्वचिदपि स्थलमलभमानः स्थातुमपि नाशक्नुवम्, किं पुनर्देवस्याज्ञां परिपालयितुम्।
कुष्ठः— (विहस्य।) अनासारवर्षणमजागलस्तनसमवस्थं तव गमनागमनं च।
संनिपातः— कुष्ठ, सावशेषमिव तव वचनम्।
कुष्ठः— स्वामिपोषितस्वकलेवरनिरर्थकता च।
कर्णमूलः— जाग्रति मच्छिरसि महाराजपादपङ्कजरेणौ कथमेतद्भविष्यति।
पाण्डुः— ततस्ततः।
कर्णमूलः— ततश्च।
तस्मिन्पुरे स्थानमहं विवेक्तुं चरन्समन्तात्क्वचिदप्यपश्यम्।
त्रिष्वाशयेषु स्थितिमत्स्वशङ्कं संचारितं केन च पङ्गुयुग्मम्॥२६॥
पाण्डुः— (स्वगतम्।) वायुसंचार्यमाणं कफपित्तयोर्युगं तद्भवेत्। (प्रकाशम्।) ततस्ततः।
कर्णमूलः— तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच्च प्रवृत्तिरुपलब्धुं शक्येति तच्च तं चोपासर्पमहम्। स च तच्च मयि दृष्टमात्रे
भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः।
कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम्॥२७॥
भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो
रात्रिं नेतुमिहागतोऽस्मि नियतं सायाह्णि भिक्षामटन्।
स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता-
मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना॥२८॥
अनन्तरं च कार्यान्तरव्यापृते च राजनि नूतनपुरुषपरिमार्गणपरे च नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्व कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि।
पाण्डुः— ततस्ततः।
कर्णमूलः— तेऽपि मां भद्रेत्यामन्त्र्य समकथयन्।
पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम्।
आराद्धुं गतवान्राजा मनोद्वारेण तिष्ठति॥२९॥
किं च।
शत्रुनिरुद्धे च पुरे परिसर्पाशङ्कया नगरगुप्त्यै।
नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते॥३०॥
अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम्। श्रुत्वा च कथंचिल्लब्धावकाशः स्वामिकार्यगौरवादागतोऽस्मि।
पाण्डुः— (आकाशे लक्ष्यं बद्ध्वा सोपहासम्।) रे रे मन्त्रिहतक, अस्मज्जयार्थं सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः। तर्हि पश्य।
साधितोऽपि स किं कुर्याद्रसः पथ्यक्रमं विना।
जिह्वाचापलमुद्भाव्य स एव ध्वंसयिष्यते॥३१॥
किं च। भक्त्या त घटयित्वा चतुरोऽपि पुमर्थांस्तस्य साधयितुं किलायमपरो यत्नस्तत्रापि प्रतिविधास्यते।
कर्णमूलः— (सप्रश्रयम्।) देव, युगविगमसमयसमसमुदितमार्तण्डमण्डलस्येवाखण्डितप्रतापस्य तवापि कियान्स रसः शोषण इव तस्य (?) तव किं महिमातिशयः। तथाहि।
दृष्ट्वा वैरिचमूसमूहमवशादुद्वेलमुज्जृम्भित-
क्रोधात्संगररङ्गसीमनि भवत्यद्धा निबद्धादरे।
जीवः कः क्व च तस्य मन्त्रिहतको विज्ञानशर्मा पुन-
र्दृश्येरन्क्व तृणाग्नितुल्यमहसस्तस्याल्पसारा रसाः॥३२॥
पाण्डुः— आः, अस्त्वेतत्। भद्र, कथय कीदृशी प्रकृतीनां प्रवृत्तिः।
के स्वामिनि दृढभक्ता के प्रबलाः के च दुर्बला नगरे।
अरिमित्रोदासीनाः के पुनरङ्ग त्वया दृष्टाः॥३३॥
कर्णमूलः— कथयामि देव, श्रूयताम्।
तत्र प्रकृतयस्तिस्रो वातपित्तकफात्मकाः।
तत्र यः प्रबलो वातः स तु स्नेहैर्वशीकृतः॥३४॥
किं च।
तदनुगतं यत्पित्तं मधुरमयैस्तद्विजेयमुपचारैः।
पङ्गुर्यस्तत्र कफस्तीक्ष्णोपायैर्वशं स चानीतः॥३५॥
पाण्डुः— अथ कीदृशो मनसो वृत्तान्तः।
कर्णमूलः—
उद्दामबुद्धिविभवेन मनस्तु तत्र
विज्ञानशर्मसचिवेन वशीकृतं सत्।
कार्ये महत्यधिकृतं हितकारिराज्ञः
सर्वात्मनाप्यनुसरत्यधुना तमेव॥३६॥
** पाण्डुः—** अथ विज्ञानशर्मस्पार्धिनो ज्ञानशर्ममन्त्रिणः कीदृशः प्रकारः।
कर्णमूलः—
विज्ञानमन्त्रिमन्त्रैर्विविधैरसकृद्विधूतनिजशक्तिः।
स ज्ञानशर्ममन्त्री तिष्ठति केवलमसौ स्वरूपेण॥३७॥
एवंविधविविधविचित्रचरित्रविस्मापितसकललोकस्य स्वामिहितकरणैकतानस्य मन्त्रिणः पारे खलु वाङ्मनसोश्चरिताद्भुतानि। तथाहि।
तत्तद्दुर्घटराजकार्यघटनाव्यापारपारीणया
शक्त्या दुष्प्रसहस्य तस्य वचनैर्नानोपपत्त्यन्वितैः।
निर्द्वन्द्वोऽपि स निर्गुणोऽपि च निराकारोऽपि निर्लेपनो-
ऽप्याः कष्टं प्रतिपक्षतामुपगतो जीवो विचेष्टेत नः॥३८॥
तस्मादेवंस्थिते प्रकृतिमण्डले दुर्मेधे च शत्रुपक्षे महदत्याहितमापतिष्यति। (इति भयं नाटयति।)
पाण्डुः— (विचिन्त्य।) मा बिभिहि। तत्रापि काचिदस्त्यवाधिता नीतिः।
कर्णमूलः— क्रीदृशी।
पाण्डुः— श्रूयताम्।
यच्चञ्चलं प्रकृत्या विधयेषु मनो निसर्गदुर्दान्तम्।
तत्कामादिभिरेतैर्भेदयितुं शक्यते शनकैः॥३९॥
तस्मिन्सर्वविषयाधिष्ठाने मनसि स्वाधीने सुकर एव कार्यशेषः। किं च याः किलाद्यास्तत्र तिस्रः प्रकृतयस्तासु यस्तीक्ष्णोपायैः संयमितवृद्धिः श्लेष्मा तस्योपचयं केनाप्युपायेन विधाय तेनैव तावपि क्षोभयितुं शक्येते।
विज्ञानोऽयं यद्यपि स्वामिभक्तस्तत्राप्यस्यासंनिधाने विविक्ते।
भेदो राज्ञस्तस्य तैस्तैरुपायैः शक्यः कर्तुं ज्ञानशर्मोपजापैः॥४०॥
एवं राजमन्त्रिणोर्विरोधेन विश्लिष्टे प्रकृतिमण्डलेऽचिरादेव हस्तगता महाराजस्य यक्ष्मणो जयलक्ष्मीः।
कर्णमूलः— (सहर्षम्।) साधु चिन्तिता मन्त्रिवर्येण राजतन्त्रनीतिः।
पाण्डुः— भद्र, नाद्यापि महाराजनिकटगतोऽत्रायाति कासः।
(प्रविश्य)
गलगण्डः— देव, महाराजपादमूलात्कासः प्राप्तः।
पाण्डुः— त्वरितं प्रवेशय।
(ततः प्रविशति गलगण्डेनानुगम्यमानः कासः।)
(कासो जानुभ्यां प्रणम्य किंचिदुपसर्पति।)
पाण्डुः— भद्र, कीदृशो मयि राजनियोगः।
कासः— (करपिहितमुखः। कर्णे। एवमेवम्।
** पाण्डुः—** भद्र, तदर्थमेवेयं बद्धपरिकरता। तिष्ठ त्वमत्रैव। राजानमिममुदन्तमन्यमुखेन प्रापयिष्ये।
(नेपथ्ये यामप्रहारध्वनिः।)
पाण्डुः— (श्रुत्वा सैनिकान्प्रति।) तदहमिदानीं कार्यशेषं निर्वर्त्य प्रकृतकार्यार्थं संनह्यामि। भवन्तोऽपि तावत्
बिभ्राणास्तान्युपमितमहाभोगिभिर्बाहुदण्डै-
र्येषां येषां दधति निजतां यानि यान्यायुधानि।
स्वस्वस्थानेष्ववहितमनोवृत्तयस्त्यक्तशङ्काः
सर्वे तिष्ठन्त्वरिपुरमभिव्याप्य सैन्याः प्रवीराः॥४१॥
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः।
————
तृतीयोऽङ्कः।
(ततः प्रविशति पश्चाद्वन्द्वं पुरुषं किंकरेण विकर्षन् विचारो नागरिकः।)
नागरिकः— अङ्ग गद, कस्त्वमसि।
पुरुषः— (स्वगतम्।) किमहं ज्ञातोऽस्म्यनेन गद इति।
नागरिकः— किं विचारयसि। यदि सत्यं गदोऽसि ततो मोक्ष्यसे।
पुरुषः— (स्वगतम्।) नाहमनेन ज्ञातः।
बिभ्राणो मुखबाहुवक्षसि कृतं पुण्ड्रत्रयं भस्मना
हस्तोपात्तविशुद्धताम्रकलशो रुद्राक्षमाली गले।
धृत्वा वैदिकवेषमाविशमिह स्वस्वामिना प्रेरितो
हृद्रोगोऽहमरेरवेक्षितुमना जीवस्य राज्ञः स्थितिम्॥१॥
अनन्तरमनेन नागरिकेण संयमितः। भवतु। एवं ब्रवीमि। (प्रकाशम्।) आर्य, मुञ्च माम्। विप्रश्निकतामुपजीव्येदं जठरहतकं पुष्णामि।
नागरिकः— अस्त्वेतत्। कुतो रात्रिसंचारः।
पुरुषः— यस्यकस्यचिद्यत्किंचिद्भाविफलमुक्त्वा पारितोषिकं गृह्णामीति।
नागरिकः— किं दिवसस्ते तत्कर्मणो न पर्याप्तः।
पुरुषः— बाढम्। श्रूयताम्।
यामो यात्यविलम्बितं दिनमुखे स्नानादिभिः कर्मभिः
पश्चाद्भिक्षितुमारभे प्रतिदिनं धान्यानि वा तण्डुलान्।
तैरन्नाद्युपपाद्य धूर्जटिमुखान्देवान्निवेद्यातिथी-
न्संतर्प्याश्नत एव याति दिवसः शेषः कुतः संचरः॥२॥
किंकरः— अये, युक्तमिदम्। इह तु यामादूर्ध्वं रुध्यते नगरसंचारः।
पुरुषः— यदीदानीं यामादूर्ध्वं कालस्तर्हि न संचरामि स्वप्स्यामि।
किंकरः— कुत्र निद्रास्थानम्।
पुरुषः— धर्मशालायाम्।
नागरिकः— किमिदं राजमन्दिरं तव धर्मशाला। अत्र हि
नोंकारः पुवते न गीतिरटति स्वाहेति न श्रूयते
न न्यायव्यवहारतारवचसः संघीभवन्ति द्विजाः।
नात्युच्चैः पृषदाज्यहोमसुरभिर्धूम्या जरीजृम्भते
भक्ताः पञ्चजनाः स्वपन्ति परितो न स्त्री कुमारो न च॥३॥
पुरुषः— अस्त्विदं राजमन्दिरं तथापि सुप्रवेशमस्मादृशामिति श्रुतमस्ति।
नागरिकः— सुप्रवेशमिति कस्मात्त्वया श्रुतम्।
पुरुषः— आर्यमिश्रेभ्य एव।
नागरिकः— हन्त, किमस्माभिरिदं कथितम्।
पुरुषः— नहि नहि। अन्यजनैः।
नागरिकः— कैस्ते कथितम्। यदिदं परिचितजनस्यापि राजशासनमन्तरेण दुष्प्रवेशम्, किं पुनरपरिचितस्य ते।
किंकरः— विसंस्थुलेवास्य वचनव्यक्तिः गृहीत इव चोरस्तरलतारकविलोचनः पश्यन्नयं वक्तुं न शक्तः प्रत्युत्तरं ततश्चर इव लक्ष्यते।
नागरिकः— तर्हि शिक्षयतु भवानिमम्।
किंकरः— अरे, कथय तथ्यम्। मृषावादिनस्तव वैदिकता राजशासनस्य न प्रतिरोधिनी। (इति कशामुवच्छति।)
पुरुषः— मा ताडय। तथ्यं वदामि।
नागरिकः— यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभावयिष्यामि।
किंकरः— प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री। तत्संनिधौ त्वमपि नेष्यसे।
पुरुषः— (स्वगतम्।) तथा चेन्मम दुर्लभमेव जीवितम्। (प्रकाशं भीतिमभिनीय।) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम्। (इति प्रणमति।)
नागरिकः— दत्तभयोऽसि। कथयात्मानम्।
पुरुषः— (उत्थाय प्राञ्जलिः।) हृद्रोगोऽस्मि। विसृज मां दयया।
नागरिकः— चार एवायं वैदिकवेषमवलम्ब्यागतो दत्ताभयश्च।
किंकरः— तर्हि किं कर्तव्यम्।
नागरिकः— ‘सर्वमिदं राजकार्यं त्वया कस्मैचिदपि न कथनीयम्’ इति शपथं गृहीत्वा पुराद्बहिर्विसृज्यताम्। अथवा किमनेन वराकेण कथनीयम्। दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः।
किंकरः— तथा करोमि। (इति निष्क्रान्तः।)
(नेपथ्ये कुक्कुटध्वनिः।)
नागरिकः— (आकर्ण्य।) कथं रजनीविरामः।
(पुनर्नेपथ्ये)
वैतालिकः—
पत्यावस्तं व्रजति विगलच्चञ्चरीकाञ्जनाश्रु-
त्रासान्मीलद्दलदृशमितो रागमर्कक्रमेण।
द्रागालिङ्गेदपि कुमुदिनीमित्यपन्यायशङ्की
कूकूशब्दं विसृजति जवात्कुक्कुटः पूर्वमेव॥४॥
द्वितीयो वैतालिकः—
रागं मुखेन दरदर्शिततारकेण
मां व्यञ्जतीमपि समेत्य करेण गाढम्।
आलिङ्ग्यते कुमुदिनीति रुषापराद्रिं
यातां निशां द्रुतमनुव्रजतीव चन्द्रः॥५॥
अपि च।
प्रातर्जातमिति द्रुतं प्रशिथिलं बद्ध्वा दुकूलं दृढं
धम्मिल्लं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः।
आकृष्टांशुकपल्लवे कठिनयोरालिङ्ग्य वक्षोजयो-
राघ्रायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः॥६॥
नागरिकः— तदधुना राजकार्ये चावहितस्तिष्ठामि। (इति निष्क्रान्तः।)
शुद्धविष्कम्भकः।
————
(ततः प्रविशति प्रासादाधिरूढः प्रतीहार्या धारणया दर्शितमार्गो मन्त्री)
मन्त्री— संप्रति हि
सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं
पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना।
भित्तिष्वालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै-
रारुक्षं निटिलाक्षशैलधवलं प्रासादमभ्रंलिहम्॥७॥
(विचिन्त्य स्वगतम्।) अहो दुरन्तता राजधर्माणाम्।
आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधनै-
र्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि।
दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतले
राज्ञा धर्मपथे मतिं क्रमयता संरक्षितव्याः प्रजाः॥८॥
किं बहुना।
स्वश्रेयसार्थं यततेऽनिशं यो राज्ञा किलानेन पृथग्विमर्शः।
स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्रे दुर्गेषु कोषेषु बलेषु कार्यः॥९॥
निर्ज्ञातसर्वतन्त्रेषु विगूढामोघमन्त्रेषु मन्त्रिषु विन्यस्तसमस्तकार्यभरस्य तु राज्ञो निश्चिन्ततैव। परंतु तेषां व्याकृष्यन्ते दुरन्तया चिन्तया हृदयानि।
सामन्ताविनमेयुरित्युपचयः कोषस्य सिद्ध्येदिति
स्थानेषु द्विषतां स्थितीरपि चराः पश्येयुराप्ता इति।
स्यादायोपगमो यथेति विभवैस्तुष्टाः प्रवीरा भटा
वर्तेरन्निति मा मलिम्लुचगणाद्भूरुद्विजेतेति च॥१०॥
अहमपि राज्ञा विन्यस्तसमस्तकार्यभारतया यत्सत्यं व्याकुल एव। तथा हि।
कार्येषूक्तेषु राज्ञा कतिचिदपि मया साधितान्येव पूर्वं
साधिष्यन्ते परस्तात्कतिचन कतिचिच्चापि साध्यन्त एव।
किंचानुक्तेषु सद्यः किमपि किल कुशाग्रीययात्मीयबुद्ध्या
पर्यालोच्यैव तत्तत्समयसमुचितं कर्तुमुत्कण्ठितोऽस्मि॥११॥
अत एव सर्वत्र तत्रतत्र व्यापृते मया पुरगुप्त्यै मत्सदृश एव कोऽपि विनियुक्तो विचारनामा नागरिकः। तत्प्रकृतकार्ये व्यापृतव्यम्। कः कोऽत्र भोः।
(प्रविश्य।)
दौवारिकः— विजयतां देवः।
मन्त्री— भद्र, मद्वचनेनानुशासनीयाः पौरा नगरालंकाराय।
आलिम्पन्तां सुधाभिः पुरसदनगता भित्तयो भृत्यवर्गै
रम्भास्तम्भाः क्रियन्तां कपिशफलभृतः पार्श्वयोर्द्वारभूमेः।
बध्यन्तां तोरणानि श्रितनवमणिभिर्दामभिः सन्तु रथ्याः
संमृष्टाश्चाम्बुसिक्ताः प्रतिगृहमुपरि ग्रथ्यतां केतमाली॥१२॥
यतः संप्रत्येव सिद्धप्रतिज्ञो राजा समागमिष्यति।
दौवारिकः— यदाज्ञापयत्यार्यः। (इति निष्क्रान्तः।)
मन्त्री— (सदृष्टिक्षेपं परिवृत्त्यावलोक्य च।) अहो रिपूणां पुरावस्कन्दनप्रकारः। तथा हि। पाण्डुना प्रेरिता रोगाः,
मूर्धानं व्याप्तुकामाः शतबध नवतिर्लोचने चाधिगत्वा
नासामष्टादशास्यं खलु चतुरधिका सप्ततिर्हृच्च पञ्च।
वक्षोजौ पञ्च शूलैः सह समगणनैः कुक्षिमष्टौ च गुल्माः
स्वार्हस्थानान्युपेतं त्रिगुणगणनया पञ्चकं च व्रणानाम्॥१३॥
अथ च स्वयमेव मन्त्रिभूतस्य युवराजस्य पाण्डोः पुरोपरोधवैचित्री वाचामतिवर्तते पन्थानम्। (सामर्षं साबहित्थं चाकाशे।) साधु मन्त्रिधुरीण, साधु। अनया गुप्तप्रयोगप्रकारगौरवया धिषणया शौर्येण च दैत्यगुरुं वृषपर्वाणं चाधिशेषे। (सोपहासम्।) मयि– (इत्यर्धोक्ते विरमति।)
धारणा— (सस्मितम्।) अमच्चस्य वाक्यसेसेण तक्कीअदि धीरोदत्तत्तणम्^(१)।
अमात्यः— अस्खलितासाधारणकार्यावधारणधौरेयस्खलितानि तव मनीषितानि भवन्ति। (इति पुरो विलोक्य।) अहो नगरालंकारचातुरी पौराणाम्।
कीर्णाम्भम्बुपृषन्ति किंकरगणैरभ्यन्तरे ताडिता-
न्यातोद्यानि निकेतकेकिनटमप्रारम्भमूलानि च।
बद्धा मन्दिरमार्गसीमसु हसन्नाथापनीतांशुक-
व्यक्तोरोजसलज्जसिद्धयुवतिव्याकृष्टचेलध्वजाः॥१४॥
अपि च।
मन्ये रम्भाः पुरमृगदृशामूरुसौभाग्यचौर्या-
द्बद्धा भृत्यैः प्रतिगृहमपि द्वारपार्श्वद्वयेषु।
अम्भोदुर्गात्कथमपि हृता यन्त्रितोच्चैर्विताने
तासां वक्त्राम्बुजपरिमलग्राहिणी पद्ममाला॥१५॥
किं च। सुधालेपधवलीकृतसौधवसतयः पौरयुवतयः शारदाभ्रगतपरमाद्भुततडिल्लताविभ्रममुद्भावयन्ति। किं च, चञ्चरीकगणश्चित्रलिखितसहकारमञ्जरीकलितोत्कलिकया संचरमाणोऽपि कदर्यमवनीपतिमुपगतो वनीपकलोक इव निष्फल एव निवर्तते। कतिचन निकेतनानि च नूतनालि-
____________________________________________________________________________________
**१.**अमात्यस्य वाक्यशेषेण तर्क्यते धीरोदात्तत्वम्।
____________________________________________________________________________________
खितेनाहिनकुलेनाश्वमहिषेण गोव्याघ्रेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य। (अन्यतोऽवलोक्य सहासम्।)
दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला-
त्कामप्येणदृशं करौ विधुवतीमास्वाद्यमानाधराम्।
आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा-
न्नार्यः सस्मितनम्रवक्त्रकमलाः कर्षन्ति यूनां मनः॥१६॥
नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनह्यन्ति। तथा हि।
स्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः
प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः।
कन्याभिर्घृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः।
साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च॥१७॥
(विचिन्त्य।) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति। कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः। कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः। कथमनेन स्वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या। न चैतस्य तादृशतपश्चरणादृतेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते। नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुर्निरोधा हि चित्तवृत्तयः। तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मज्जति। अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे। (दक्षिणभुजस्पन्दमभिनीय।) कथमस्थाने मम विचारः। सर्वं सुघटितं भविष्यति।
(नेपथ्ये)
वैतालिकः—
वातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं
संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम्।
दिष्ट्या लब्धवता प्रसादमधिकं वापीजलाधारयोः
सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः॥१८॥
मन्त्री— (श्रुत्वा सहर्षम्।) समद्युत (?) प्राणनिरोधेन निर्धूतसकलतपोविघ्नेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोर्धूर्जटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते।
(पुनर्नेपथ्ये।)
दिङ्मण्डलस्य विमलीकरणे प्रवीणा-
न्निर्विघ्नमुत्सृजति नीरजबन्धुरंशून्।
पङ्कश्च पान्थपदयोगममृष्यमाणः
संशोषमेत्य शकलीभवति क्षणेन॥१९॥
मन्त्रीः— (श्रुत्वा।) एतेनापि वचसा निरोगीकरणसमर्थान्सान्प्रयोक्तुं राज्ञस्तस्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते। (सबहुमानम्।) साधु रे वैतालिक, साधु। यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम्। तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि। (इत्युत्थाय आकाशे।) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम्। (पुरो विलोक्य।) कथमागत एव देवः। यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते। यैषा
धम्मिल्ले घनसंनिभे सिततडिद्वल्ल्येव मल्लीस्रजा
वक्त्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च।
हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना
पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते॥२०॥
अयमपि महाराजस्तस्या अनुपदमागच्छति। संप्रति हि एतस्य
विचारविगमादिदं विलसति प्रसन्नं मुखं
गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम्।
विषाणिन इव प्रतिद्विरददर्शनामर्षिणो
गतिश्च किल मेदिनीं नमयतीव धीरोद्धता॥२१॥
(ततः प्रविशति जीवो बुद्धिश्च।)
जीवः— अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः। यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन्। शोभिते च तस्मिन्म-
खितेनाहिनकुलेनाश्वमहिषेण गोव्याघ्रेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य। (अन्यतोऽवलोक्य सहासम्।)
दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला-
त्कामप्येणदृशं करौ विधुवतीमास्वाद्यमानाधराम्।
आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा-
न्नार्यः सस्मितनम्रवक्त्रकमलाः कर्षन्ति यूनां मनः॥१६॥
नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनह्यन्ति। तथा हि।
स्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः
प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः।
कन्याभिर्घृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः।
साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च॥१७॥
(विचिन्त्य।) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति। कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः। कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः। कथमनेन स्वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या। न चैतस्य तादृशतपश्चरणादृतेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते। नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुर्निरोधा हि चित्तवृत्तयः। तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मज्जति। अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे। (दक्षिणभुजस्पन्दमभिनीय।) कथमस्थाने मम विचारः। सर्वं सुघटितं भविष्यति।
(नेपथ्ये)
वैतालिकः—
वातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं
संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम्।
दिष्ट्या लब्धवता प्रसादमधिकं वापीजलाधारयोः
सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः॥१८॥
मन्त्री— (श्रुत्वा सहर्षम्।) समद्युत (?) प्राणनिरोधेन निर्धूतसकलतपोविघ्नेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोर्धूर्जटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते।
(पुनर्नेपथ्ये।)
दिङ्मण्डलस्य विमलीकरणे प्रवीणा-
न्निर्विघ्नमुत्सृजति नीरजबन्धुरंशून्।
पङ्कश्च पान्थपदयोगममृष्यमाणः
संशोषमेत्य शकलीभवति क्षणेन॥१९॥
मन्त्रीः— (श्रुत्वा।) एतेनापि वचसा निरोगीकरणसमर्थान्सान्प्रयोक्तुं राज्ञस्तस्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते। (सबहुमानम्।) साधु रे वैतालिक, साधु। यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम्। तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि। (इत्युत्थाय आकाशे।) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम्। (पुरो विलोक्य।) कथमागत एव देवः। यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते। यैषा
धम्मिल्ले घनसंनिभे सिततडिद्वल्ल्येव मल्लीस्रजा
वक्त्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च।
हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना
पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते॥२०॥
अयमपि महाराजस्तस्या अनुपदमागच्छति। संप्रति हि एतस्य
विचारविगमादिदं विलसति प्रसन्नं मुखं
गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम्।
विषाणिन इव प्रतिद्विरददर्शनामर्षिणो
गतिश्च किल मेदिनीं नमयतीव धीरोद्धता॥२१॥
(ततः प्रविशति जीवो बुद्धिश्च।)
जीवः— अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः। यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन्। शोभिते च तस्मिन्म-
गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती। अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ। अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थं लप्स्यामहे।
बुद्धिः— अज्जउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा सअं जेव्व विवक्खक्खवणं णिव्वहन्दि^(१)।
राजा— देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते।
देवी— ता एव्वं संविहाणसमत्थेण केण वि होदव्यम्।
राजा— विज्ञानशर्मैवात्र निर्वोढा। यतः^(२)।
ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम्।
विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिर्ऋषिः॥२२॥
किं च।
**महेशतेजःसंभूतो रसः कारुणिकाग्रणीः।
यः स्वानिष्टमुरीकृत्य परपीडां व्यपोहति॥२३॥ **
तदुक्तम्—
‘मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति।
अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात्॥२४॥’
‘सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम्।
श्वित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः॥२५॥’
गन्धकस्यापि माहात्म्यमुक्तम्—
‘ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके।
__________________________________________________________________________
१. आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति।
**२.**तदेवं संविधानसमर्थेन केनापि भवितव्यम्।
__________________________________________________________________________
शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान्।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च॥२६॥’
किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति।
देवी— (सलक्षं सदृष्टिक्षेपं च।) संपत्तो एसो विण्णाणआमहेओ अमच्चो। ता णम्मालावस्स ण एसो समओ^(१)।
राजा— (विलोक्य।) अये, मन्त्रिबृहस्पतिः संप्राप्तः। (सानुशयम्।)
कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं
स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च।
अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं
प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया॥२७॥
एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम्।
मन्त्री— (उपसृत्य।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम्।
जीवः— भवत्साहाय्यमेवात्र हेतुः।
बुद्धिः— एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ^(२)।
राजा— अत्र निषीदतु भवान्।
मन्त्री— (उपविश्य।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे।
राजा— तदेव वक्तुकामोऽस्मि।
मन्त्री— अवहितोऽस्मि।
राजा— त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्ध्वा तथैवोपविष्टोऽहम्।
शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ-
प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः।
____________________________________________________________________________________
१. संप्राप्त एष विज्ञाननामधेयोऽमात्यः। तन्नर्मालापस्य नैष समयः।
२. एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव।
__________________________________________________________________________
सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय-
स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम्॥२८॥
तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डलाटवीविलुठज्जाह्नवी-चरबालहंसायमानचन्द्रलेखः कण्ठगतकालकूटद्युतियमुनोभयपार्श्वनिःसरन्निर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीतमिव मृगमेकं संरक्षितुं करे बिभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभञ्जनं टङ्कं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतदवोचत—
ध्यानेन ते प्रसन्नोऽस्मि वृणीष्व वरमर्पये।
इत्युक्तवन्तं तं देवमयाचे रसगन्धकान्॥२९॥
ततस्तेन दीयमानान्रसगन्धकानग्रहीषम्। पुनश्च प्रणम्य सप्रश्रयमयाचिषम्। देवदेव,
फलिन्यः फलहीना याः पुष्पिण्यो या अपुष्पिकाः।
गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः॥३०॥
यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे।
इति सोमेनौषधयः संवदन्तीति च श्रुतिः॥३१॥
अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणमत्रैव संनिहितः। अतः।
शोधयितुं रसगन्धान्कर्तुं च रसौषधानि विविधानि।
दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण॥३२॥
ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः। (इति मन्त्रिहस्तेऽर्पयति।)
मन्त्री— (सहर्षं गृहीत्वा दृष्ट्वा च।) सप्तकञ्चुकादिदोषनिराकरणेन शुद्धानेतानोषधीभिः सह शत्रुजयाय प्रयोक्ष्यामहे।
देवी— कित्तिआ ते सत्तुजणा किंणामहेआ अ कस्सिं समए पुरोपरोहं किदवन्तो^(१)।
____________________________________________________________________________________
१. कियन्तस्ते शत्रुजनाः किंनामधेयाश्च कस्मिन्समये पुरोपरोधं कृतवन्तः।
__________________________________________________________________________
मन्त्री— श्रूयतां तावत्।
पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः।
स्वराजानुज्ञया पाण्डुररुधत्सैनिकैः पुरम्॥३३॥
यक्ष्महतकस्यास्मच्छत्रोर्बहवः सैनिकाः।
ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः।
विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः॥३४॥
देवी— अमच्च, एत्तिअं पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम्^(१)।
मन्त्री— देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुराशाभिनिवेशः।
देवी— अहो अणत्तणीणत्तणं जक्खहदअस्स। जो अम्हेसु पुरादो णिक्वन्तेसु सअं कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि^(२)।
मन्त्री— सत्यमुक्तं देव्या।
महापातकसंभूतेस्तस्य पापस्य यक्ष्मणः।
वैरायितमिदं चित्रं स्वविनाशमपीच्छतः॥३५॥
यदुक्तमभियुक्तैः—
‘अपथ्यसेविनश्चौरा राजदाररता अपि।
जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः॥३६॥’ इति।
ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे
ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम्।
तामेतामतिशेत एष सपरीवारस्य नाशं निज-
स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी॥३७॥
____________________________________________________________________________________
१. अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन यक्ष्महतकेनास्माकं किमत्याहितं कर्तव्यम्।
२. अहो अनात्मनीनत्वं यक्ष्महतकस्य। योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणयति।
__________________________________________________________________________
अस्त्यत्र लौकिकोऽप्याभाणकः— ‘स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्यनात्मनीनो मूर्खः’ इति।
देवी— ता कहिं दाणिं एत्तिआणं रोगाणं णिम्गहो सुअरो7।
मन्त्री— देवि, मा भैषीः। निखिलरोगनिसर्गवैरिणि रसे स्वाधीने कः शत्रुजये संदेहः।
राजा— तर्हि कुतो विलम्ब्यते।
मन्त्री— अहं पुनरधुना रसमोषधीभिः सह संयोजयितुं गच्छामि। देवेनापि विश्रम्यताम्।
(इति निष्क्रान्ताः सर्वे।)
इति तृतीयोऽङ्कः।
————
चतुर्थोऽङ्कः।
(ततः प्रविशति विदूषकः।)
विदूषकः— उत्तं खु दोआरिएण पाणेण रण्णो रसगन्धअवरप्पदाणं सुणिअ बलिअं रोसवसंगदेण जक्खहदएण पण्डुणा सह किंवि मन्तूण सपरिवारस्स अम्हाणं रण्णो उवरि वइक्कमं किंवि कादुं उज्जोओ करीअदित्ति सुदवन्देण विण्णाणणामहेएण मन्तिणा कज्जगदं आवेदिअमाणो अन्तेउरवेदिअन्तरे चिट्ठदित्ति। ता राअसमीपं गमिस्सम्। (इति परिक्रम्योदरं करतलेन परामृष्य।) अहो, मुहुत्तादो पुव्वं स्वादिदं मातुलुङ्गफलप्पमाणाणं मोदआणं सदं वि जिण्णं जादम्। जं तस्सिं समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो। दाणिं उण तिण्णकिदो कटो विअ तणूहोदि। (विमृष्य।) णं मज्झण्णो वट्टदि। तह हि।
पत्तगदं धरहरिणो तिहाए पिबइ सीअलं सलिलम्।
गन्धेण कुणइ सुहिदं घाणं धिदमिस्ससक्करापूवो॥१॥
अहो पमादो। राअसमीवं गमिस्सं ति महाणससमीवं गदो ह्यि। अदो एव्व तह वत्तुलतणुअरगोधूमापूर्वसंहितसरावेहिं माहिसदहिमण्डभिस्सिदभासविरइअभक्खविसेसणिविडिअभा-अणेहिं परितत्तम्बरिसभज्जिदचण-अचअपूरिअपिण्डएहिं फाणिअसंकलिअजवधाणा-समुल्लसिदविसालमत्तेहिं दुद्धदहिसक्करासलिलभाविदविविहपिथु-अरासिसंपुण्णविसङ्कडचस-अविसेसेहिं मल्लि-अमुउलपुञ्जधवलसालितण्डुलन्नसमुच्च-अविराजिदतम्ममअभण्डगणब्मन्तरट्ठाविद सुबण्णसवण्ण-सूपणिहाणपिठरेहिं कित्तपरिवक्ववन्ताककारइल्लपडोल-
कोसातईणिप्पावराअमासकदलीपणसकुम्भण्डप्पमुहसलाटुखण्डमयशाकषण्डमण्डिदबहुविधभाअण-विसेसेहिं अ परिसोहमाणस्स महाणसस्स चिसमरो गन्धो। धुमधुमाअदि मे णासाबिलम्। सिलसिलाअदि तालुरसणामूले सुणिग्गत्तरं लालाजलम्। पज्जलदिव्व हणूमन्तवालग्गलग्गग्गिसिहागहिदधरपरम्परं लङ्काउरं विअ बुभुक्खाउरं मे उदरम्। (किंचित्पुरतो विलोक्य।) इह खु महाणसदुबारदेसे अवणदपुव्वकाओ विलोईअदि चुह्निपावअपज्जलणत्यफुक्कारपवणविकिण्णभसितलेशपुञ्जधूसरमुखो णिडिलदीसन्तविरलसेदम्बुकणिओ करङ्गुलीलग्गहिङ्गुपरिमलसंतप्पिदसमीवगदजणधाणेन्दिओ ईससंकमिदेङ्गाललञ्छिद-परिधाणपडो दक्खिणकरम्गहीददव्वीसिहरतणुतरदीसन्तविलोलिअसाअपा-अवप्फो अण्णकरलम्बितेन्धणसअलो भद्दमुहो णाम पौरोगवो। ता एणं एव्व पुच्छामि। अए भद्दमुह, तुए पक्केसु भक्खविसेसेसु किं वि किं वि मह हत्थे दादव्वं जं भक्खिअ एदं सुट्ठु एदं णेत्ति चिआरिअ कहेमि जं सुट्ठु तं परिवेसिअ रण्णो हत्थादो पारितोसिअं गेह्णदु भवम्। (सामर्षम् ) कहं एसो दासीएपुत्तो ‘जइ तुह बुभुक्खा तदो रण्णो समीपं गदुअ मोअणं दादव्वं ति पुच्छ। अहं उदरंभरिणो तुह किं बि ण दाइस्स’ ति भणिअ महाणसव्भन्तरं गदो। होदु। राजसमीपं गमिस्सम्। (इति परिक्रम्यावलोक्य च।) कहं एत्थ राअसमीवे विअणे अलगद्देण गिह्णिअ बिलं पवेसिदो मण्डूओ विअ किं वि अणक्खरं पलवन्तो अमच्चो वेधवेओ (?) चिट्ठइ। ता समअं पडिवालइस्सम्। (इति तिष्ठति।)^(१)
__________________________________________________________________________
१. उक्तं खलु दौवारिकेण प्राणेन राज्ञो रसगन्धवरप्रदानं श्रुत्वा बलवद्रोषवशंगतेन यक्ष्महतकेन पाण्डुना सह किमपि मन्त्रयित्वा सपरिवारस्यास्माकं राज्ञ उपरि व्यतिक्रमं किमपि कर्तुमुद्योगः क्रियत इति श्रुतवता विज्ञाननामधेयेन मन्त्रिणा कार्यगतिमावेद्यमानोऽन्तःपुरवेदिकान्तरे तिष्ठतीति। तद्राजसमीपं गमिष्यामि। अहो, मुहूर्तात्पूर्वं खादितं मातुलुङ्गफलप्रमाणानां मोदकानां शतमपि जीर्णं जातम्। यत्तस्मिन्समये धान्यकुम्भीपीनोत्तुङ्गुं मम पिचण्डं स्थितम्। इदानीं पुनस्तृणकृतः कट इव तनूभवति। ननु मध्याह्नो वर्तते। तथाहि।
__________________________________________________________________________
(ततः प्रविशति राजा मन्त्री च।)
राजा— (कर्णं दत्त्वा।) कार्यपर्यालोचनयातिक्रान्तोऽप्यर्धदिवसो न ज्ञातः। यत इदानीम्
_________________________________________________________________
पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम्।
गन्धेन करोति सुखितं घ्राणं घृतमिश्रशर्करापूपः॥
अहो प्रमादः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि। अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिषदधिमण्डमिश्रितमाषविरचितभक्ष्यविशेषनिबिडितभाजनैः परितप्ताम्बरीषभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुल्लसितविशालामत्रैः दुग्धदधिशर्करासलिलभावितविविधपृथुकराशिसंपूर्णविषङ्कट-चषकविशेषैः मल्लिकामुकुलपुञ्जधवल-शालितण्डुलान्नसमुच्चयविराजित-ताम्रमयभाण्डगणाभ्यन्तरस्थापित-सुवर्णसवर्ण-सूपनिधानपिठरैः कृत्तपरिपक्ववृन्ताककारवेल्ल-पटोलकोशातकीनिष्पावराजमाषकदलीप-नसकूष्माण्ड-प्रमुखशलाटुखण्डमयशाकषण्डमण्डितबहुविधभाजनविशेषैश्च परिशोभमानस्य महानसस्य विसृमरो गन्धः। घुमघुमायते मे नासाबिलम्। सिलसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम्। प्रज्वलतीव हनूमद्वालाग्रलग्नाग्निशिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम्। इह खलु महानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुह्लीपावकप्रज्वलनार्थफूत्कारपवनविकीर्णभसित-लेशपुञ्जधूसरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिकः कराङ्गुलिलग्नहिङ्गुपरिमलसंतर्पितसमीप-गतजनघ्राणेन्द्रियः ईषत्संक्रमितेङ्गाललाञ्छितपरिधानपटो दक्षिणकरगृहीतदर्वीशिखरतनुतर-दृश्यमानविलोलितशाकपाकबाष्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पौरोगवः। तदेनमेव पृच्छामि। अये भद्रमुख, त्वया पक्वेषु भक्ष्यविशेषेषु किमपि किमपि मम हस्ते दातव्यं यद्भक्षयित्वा इदं सुष्ठु इदं नेति विचार्य कथयामि यत्सुष्ठु तत्परिवेष्य राज्ञो हस्तात् पारितोषिकं गृह्णातु भवान्। कथमेष दास्याः पुत्रः ‘यदि तव बुभुक्षा तदा राज्ञः समीपं गत्वा भोजनं दातव्यमिति पृच्छ। अहमुदरंभरेस्तव किमपि न दास्यामि’ इति भणित्वा महानसाभ्यन्तरं गतः। भवतु। राजसमीपं गमिष्यामि। कथमत्र राजसमीपे विजने अलगर्देन गृहीत्वा
प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्घीकृतं
सद्यः पञ्जरगर्भ एव चकितानुद्भ्रामयन्तं शुकान्।
कार्यव्याप्रियमाणमानवमुखं कर्षन्तमात्मोन्मुखं
मध्याह्नागमसूचनाय पटहो धत्ते ध्वनिं ताडितः॥२॥
संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते। तथा हि।
आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिर्झरां
शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम्।
आवर्तस्फुटपुण्डरीकमुकुलप्रेङ्खोलनोद्गन्धिना
तृप्यन्तो मरुता स्वपन्ति च नदीतीरे बिलेषूरगाः॥३॥
मन्त्री — अहो यौवनश्रियं पुष्णात्येष दिवसः। यतः।
छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः
शौरिं दानवपीडिता इव सुराः पान्था भजन्ति द्रुतम्।
दुष्कीर्तिं क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो
गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः॥४॥
अपि चेदानीम्
घर्माम्भःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं
भूयिष्ठोद्गतफूत्क्रियानिलगलन्मासृण्यबिम्बाधरम्।
ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं
प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम्॥५॥
राजा— (स्वगतम्।) नन्वस्मिन्नवसरे
स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम्।
अ ………….मनुकूलं दैवतमत्र क्रमेण मया॥६॥
(प्रकाशम्।) किमतःपरमाचरितव्यम्।
_______________________________________________________________________
बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो ………………. तिष्ठति। तत्समयं प्रतिपालयिष्यामि।
_______________________________________________________________________
मन्त्री— मध्याह्न इति बुभुक्षिताः परिजनाः। ततः स्नानार्थमुत्तिष्ठतु महाराजः।
(राजा उत्तिष्ठति मन्त्री च।)
विदूषकः— (श्रुत्वा) एवंवादिणो मन्तिणो होदु पुण्णलोओ। (उपसृत्य।) जेदु जेदु महाराओ^(१)।
राजा— वयस्य, कथमागतोऽसि।
विदूषकः— (मन्त्रिणं प्रति।) अवि कुसलं अमच्चस्स8।
मन्त्री— कथमभ्यवहारसमय इति प्राप्तोऽसि।
विदूषकः— दाणिं जेव्व णिअघरे भोअणं कदुअ आअदेण अज्जेण वि किं ण विष्णादं मज्झह्नो वट्टदित्ति^(२)।
मन्त्री— विज्ञातमेव। श्रूयतामिदानीम्।
यूना सस्पृहदृश्यमानकबरीभारोरुपीनस्तनी
पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना।
आसन्नां ……….वारणबुसापश्चापनीतातपा-
मारामक्षितिमापगातटगतां साकूतमालोकते॥७॥
विदूषकः— (समुखभङ्गम्।) अण्णस्स पुरिसस्स अण्णाए इत्थिआए संपक्कसूअणं णाम अणुइदं किं ति वण्णीअदु अज्जेण। जइ मज्झह्नो वण्णणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु। जेण सुदमेत्तेण वि मह संतोसो होदि^(३)।
——————————————————————————————————————
१. एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः। जयतु जयतु महाराजः।
२. इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याह्नो वर्तत इति।
**३.**अन्यस्य पुरुषस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वर्ण्यते आर्येण। यदि मध्याह्नो वर्णनीय इत्याग्रहस्तदा मानवानां संभावितं पानभोजनं वर्णयतु। येन श्रुतमात्रेणापि मम संतोषो भवति।
——————————————————————————————————————
मन्त्री— (विहस्य।) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान्।
(प्रविश्य)
दौवारिकः— महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति^(१)।
(राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः।)
विदूषकः— (आत्मगतम्।) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो9।
(इति तदनुसरणं नाटयति।)
मन्त्री— एते स्वामिनं प्रणमन्ति।
राजा— (आकाशे।) अपि कुशलिनो यूयम्।
मन्त्री— एते ‘स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः’ इति वदन्ति।
विदूषकः— (स्वगतम्।) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो10।
मन्त्री—
कश्चित्स्वर्णौघमेको मणिगणमपरो भूषणव्रातमन्यः
क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम्।
सामन्तक्षोणिपालेष्वहमहमिकयोपाहरद्दृष्टिपातैः-
र्देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम्॥८॥
अपि च।
हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः
श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः।
आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा
किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः॥९॥
——————————————————————————————————————
१. महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति।
——————————————————————————————————————
मन्त्री— मध्याह्न इति बुभुक्षिताः परिजनाः। ततः स्नानार्थमुत्तिष्ठतु महाराजः।
(राजा उत्तिष्ठति मन्त्री च।)
विदूषकः— (श्रुत्वा) एवंवादिणो मन्तिणो होदु पुण्णलोओ। (उपसृत्य।) जेदु जेदु महाराओ^(१)।
राजा— वयस्य, कथमागतोऽसि।
विदूषकः— (मन्त्रिणं प्रति।) अवि कुसलं अमच्चस्स8।
मन्त्री— कथमभ्यवहारसमय इति प्राप्तोऽसि।
विदूषकः— दाणिं जेव्व णिअघरे भोअणं कदुअ आअदेण अज्जेण वि किं ण विष्णादं मज्झह्नो वट्टदित्ति^(२)।
मन्त्री— विज्ञातमेव। श्रूयतामिदानीम्।
यूना सस्पृहदृश्यमानकबरीभारोरुपीनस्तनी
पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना।
आसन्नां ……….वारणबुसापश्चापनीतातपा-
मारामक्षितिमापगातटगतां साकूतमालोकते॥७॥
विदूषकः— (समुखभङ्गम्।) अण्णस्स पुरिसस्स अण्णाए इत्थिआए संपक्कसूअणं णाम अणुइदं किं ति वण्णीअदु अज्जेण। जइ मज्झह्नो वण्णणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु। जेण सुदमेत्तेण वि मह संतोसो होदि^(३)।
——————————————————————————————————————
१. एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः। जयतु जयतु महाराजः।
२. इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याह्नो वर्तत इति।
**३.**अन्यस्य पुरुषस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वर्ण्यते आर्येण। यदि मध्याह्नो वर्णनीय इत्याग्रहस्तदा मानवानां संभावितं पानभोजनं वर्णयतु। येन श्रुतमात्रेणापि मम संतोषो भवति।
——————————————————————————————————————
मन्त्री— (विहस्य।) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान्।
(प्रविश्य)
दौवारिकः— महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति^(१)।
(राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः।)
विदूषकः— (आत्मगतम्।) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो9।
(इति तदनुसरणं नाटयति।)
मन्त्री— एते स्वामिनं प्रणमन्ति।
राजा— (आकाशे।) अपि कुशलिनो यूयम्।
मन्त्री— एते ‘स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः’ इति वदन्ति।
विदूषकः— (स्वगतम्।) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो10।
मन्त्री—
कश्चित्स्वर्णौघमेको मणिगणमपरो भूषणव्रातमन्यः
क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम्।
सामन्तक्षोणिपालेष्वहमहमिकयोपाहरद्दृष्टिपातै-
र्देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम्॥८॥
अपि च।
हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः
श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः।
आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा
किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः॥९॥
——————————————————————————————————————
१. महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति।
——————————————————————————————————————
स्वितेनाहिनकुलेनाश्वमहिषेण गोव्याघ्रेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य। (अन्यतोऽवलोक्य सहासम्।)
दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला-
त्कामप्येणदृशं करौ विधुवतीमास्वाद्यमानाधराम्।
आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा-
न्नार्यः सस्मितनम्रवक्त्रकमलाः कर्षन्ति यूनां मनः॥१६॥
नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनह्यन्ति। तथा हि।
स्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः
प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः।
कन्याभिर्घृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः
साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च॥१७॥
(विचिन्त्य।) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति। कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः। कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः। कथमनेन स्वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या। न चैतस्य तादृशतपश्चरणादृतेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते। नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुर्निरोधा हि चित्तवृत्तयः। तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मज्जति। अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे। (दक्षिणभुजस्पन्दमभिनीय।) कथमस्थाने मम विचारः। सर्वं सुघटितं भविष्यति।
(नेपथ्ये)
वैतालिकः—
वातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं
संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम्।
दिष्ट्या लब्धवता प्रसादमधिकं वापीजलाधारयोः
सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः॥१८॥
मन्त्री— (श्रुत्वा सहर्षम्।) समद्युत (?) प्राणनिरोधेन निर्धूतसकलतपोविघ्नेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोर्धूर्जटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते।
(पुनर्नेपथ्ये।)
दिङ्मण्डलस्य विमलीकरणे प्रवीणा-
न्निर्विघ्नमुत्सृजति नीरजबन्धुरंशून्।
पङ्कश्च पान्थपदयोगममृष्यमाणः
संशोषमेत्य शकलीभवति क्षणेन॥१९॥
मन्त्रीः— (श्रुत्वा।) एतेनापि वचसा निरोगीकरणसमर्थान्रसान्प्रयोक्तुं राज्ञस्तस्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते। (सबहुमानम्।) साधु रे वैतालिक, साधु। यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम्। तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि। (इत्युत्थाय आकाशे।) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम्। (पुरो विलोक्य।) कथमागत एव देवः। यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते। यैषा
धम्मिल्ले घनसंनिभे सिततडिद्वल्ल्येव मल्लीस्रजा
वक्त्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च।
हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना
पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते॥२०॥
अयमपि महाराजस्तस्या अनुपदमागच्छति। संप्रति हि एतस्य
विचारविगमादिदं विलसति प्रसन्नं मुखं
गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम्।
विषाणिन इव प्रतिद्विरददर्शनामर्षिणो
गतिश्च किल मेदिनीं नमयतीव धीरोद्धता॥२१॥
(ततः प्रविशति जीवो बुद्धिश्च।)
जीवः— अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः। यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन्। शोधिते च तस्मिन्भ-
गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती। अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ। अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थं लप्स्यामहे।
बुद्धिः— अज्जउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा सअं जेव्व विवक्खक्खवणं णिव्वहन्दि^(१)।
राजा— देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते।
देवी— ता एव्वं संविहाणसमत्थेण केण वि होदव्यम्11।
राजा— विज्ञानशर्मैवात्र निर्वोढा। यतः।
ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम्।
विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिर्ऋषिः॥२२॥
किं च।
**महेशतेजःसंभूतो रसः कारुणिकाग्रणीः।
यः स्वानिष्टमुरीकृत्य परपीडां व्यपोहति॥२३॥ **
तदुक्तम्—
‘मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति।
अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात्॥२४॥’
‘सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम्।
श्वित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः॥२५॥’
गन्धकस्यापि माहात्म्यमुक्तम्—
‘ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके।
——————————————————————————————————————
१. आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति।
——————————————————————————————————————
शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान्।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च॥२६॥’
किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति।
देवी— (सलक्षं सदृष्टिक्षेपं च।) संपत्तो एसो विण्णाणणामहेओ अमच्चो। ता णम्मालावस्स ण एसो समओ^(१)।
राजा— (विलोक्य।) अये, मन्त्रिबृहस्पतिः संप्राप्तः। (सानुशयम्।)
कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं
स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च।
अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं
प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया॥२७॥
एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम्।
मन्त्री— (उपसृत्य।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम्।
जीवः— भवत्साहाय्यमेवात्र हेतुः।
बुद्धिः— एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ^(२)।
राजा— अत्र निषीदतु भवान्।
मन्त्री— (उपविश्य।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे।
राजा— तदेव वक्तुकामोऽस्मि।
मन्त्री— अवहितोऽस्मि।
राजा— त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्ध्वा तथैवोपविष्टोऽहम्।
शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ-
प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः।
——————————————————————————————————————
१. संप्राप्त एष विज्ञाननामधेयोऽमात्यः। तन्नर्मालापस्य नैष समयः।
२. एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव।
——————————————————————————————————————
गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती। अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ। अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थं लप्स्यामहे।
बुद्धिः— अज्जउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा सअं जेव्व विवक्खक्खवणं णिव्वहन्दि^(१)।
राजा— देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते।
देवी— ता एव्वं संविहाणसमत्थेण केण वि होदव्यम्11।
राजा— विज्ञानशर्मैवात्र निर्वोढा। यतः।
ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम्।
विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिर्ऋषिः॥२२॥
किं च।
**महेशतेजःसंभूतो रसः कारुणिकाग्रणीः।
यः स्वानिष्टमुरीकृत्य परपीडां व्यपोहति॥२३॥ **
तदुक्तम्—
‘मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति।
अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात्॥२४॥’
‘सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम्।
श्वित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः॥२५॥’
गन्धकस्यापि माहात्म्यमुक्तम्—
‘ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके।
——————————————————————————————————————
१. आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति।
——————————————————————————————————————
शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान्।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च॥२६॥’
किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति।
देवी— (सलक्षं सदृष्टिक्षेपं च।) संपत्तो एसो विण्णाणणामहेओ अमच्चो। ता णम्मालावस्स ण एसो समओ^(१)।
राजा— (विलोक्य।) अये, मन्त्रिबृहस्पतिः संप्राप्तः। (सानुशयम्।)
कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं
स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च।
अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं
प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया॥२७॥
एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम्।
मन्त्री— (उपसृत्य।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम्।
जीवः— भवत्साहाय्यमेवात्र हेतुः।
बुद्धिः— एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ^(२)।
राजा— अत्र निषीदतु भवान्।
मन्त्री— (उपविश्य।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे।
राजा— तदेव वक्तुकामोऽस्मि।
मन्त्री— अवहितोऽस्मि।
राजा— त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्ध्वा तथैवोपविष्टोऽहम्।
शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ-
प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः।
——————————————————————————————————————
१. संप्राप्त एष विज्ञाननामधेयोऽमात्यः। तन्नर्मालापस्य नैष समयः।
२. एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव।
——————————————————————————————————————
सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय-
स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम्॥२८॥
तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डलाटवीविलुठज्जाह्नवी-चरबालहंसायमानचन्द्रलेखः कण्ठगतकालकूटद्युतियमुनोभयपार्श्वनिःसरन्निर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीतमिव मृगमेकं संरक्षितुं करे बिभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभञ्जनं टङ्कं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतदवोचत—
ध्यानेन ते प्रसन्नोऽस्मि वृणीष्व वरमर्पये।
इत्युक्तवन्तं तं देवमयाचे रसगन्धकान्॥२९॥
ततस्तेन दीयमानान्रसगन्धकानग्रहीषम्। पुनश्च प्रणम्य सप्रश्रयमयाचिषम्। देवदेव,
फलिन्यः फलहीना याः पुष्पिण्यो या अपुष्पिकाः।
गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः॥३०॥
यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे।
इति सोमेनौषधयः संवदन्तीति च श्रुतिः॥३१॥
अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणमत्रैव संनिहितः। अतः।
शोधयितुं रसगन्धान्कर्तुं च रसौषधानि विविधानि।
दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण॥३२॥
ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः। (इति मन्त्रिहस्तेऽर्पयति।)
मन्त्री— (सहर्षं गृहीत्वा दृष्ट्वा च।) सप्तकञ्चुकादिदोषनिराकरणेन शुद्धानेतानोषधीभिः सह शत्रुजयाय प्रयोक्ष्यामहे।
देवी— कित्तिआ ते सत्तुजणा किंणामहेआ अ कस्सिं समए पुरोपरोहं किदवन्तो^(१)।
——————————————————————————————————————
१. कियन्तस्ते शत्रुजनाः किंनामधेयाश्च कस्मिन्समये पुरोपरोधं कृतवन्तः।
——————————————————————————————————————
मन्त्री— श्रूयतां तावत्।
पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः।
स्वराजानुज्ञया पाण्डुररुधत्सैनिकैः पुरम्॥३३॥
यक्ष्महतकस्यास्मच्छत्रोर्बहवः सैनिकाः।
ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः।
विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः॥३४॥
देवी— अमच्च, एत्तिअं पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम्^(१)।
मन्त्री— देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुराशाभिनिवेशः।
देवी— अहो अणत्तणीणत्तणं जक्खहदअस्स। जो अम्हेसु पुरादो णिक्वन्तेसु सअं कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि^(२)।
मन्त्री— सत्यमुक्तं देव्या।
महापातकसंभूतेस्तस्य पापस्य यक्ष्मणः।
वैरायितमिदं चित्रं स्वविनाशमपीच्छतः॥३५॥
यदुक्तमभियुक्तैः—
‘अपथ्यसेविनश्चौरा राजदाररता अपि।
जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः॥३६॥’ इति।
ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे
ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम्।
तामेतामतिशेत एष सपरीवारस्य नाशं निज-
स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी॥३७॥
——————————————————————————————————————
१. अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन यक्ष्महतकेनास्माकं किमत्याहितं कर्तव्यम्।
२. अहो अनात्मनीनत्वं यक्ष्महतकस्य। योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणयति।
——————————————————————————————————————
अस्त्यत्र लौकिकोऽप्याभाणकः— ‘स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्यनात्मनीनो मूर्खः’ इति।
देवी— ता कहिं दाणिं एत्तिआणं रोगाणं णिग्होग्गहोसुअरो7।
मन्त्री— देवि, मा भैषीः। निखिलरोगनिसर्गवैरिणि रसे स्वाधीने कः शत्रुजये संदेहः।
राजा— तर्हि कुतो विलम्ब्यते।
मन्त्री— अहं पुनरधुना रसमोषधीभिः सह संयोजयितुं गच्छामि। देवेनापि विश्रम्यताम्।
(इति निष्क्रान्ताः सर्वे।)
इति तृतीयोऽङ्कः।
————
चतुर्थोऽङ्कः।
(ततः प्रविशति विदूषकः।)
विदूषकः— उत्तं खु दोआरिएण पाणेण रण्णोरसगन्धअवरप्पदाणं सुणिअ बलिअं रोसवसंगदेण जक्खहदएण पण्डुणा सह किंवि मन्तूण सपरिवारस्स अम्हाणं रण्णो उवरि वइक्कमं किंवि कादुं उज्जोओ करीअदित्ति सुदवन्देण विण्णाणणामहेएण मन्तिणा कज्जगदिंआवेदिअमाणो अन्तेउरवेदिअन्तरे चिट्ठदित्ति। ता राअसमीपं गमिस्सम्। (इति परिक्रम्योदरं करतलेन परामृष्य।) अहो, मुहुत्तादो पुव्वं स्वादिदं मातुलुङ्गफलप्पमाणाणं मोदआणं सदं वि जिण्णं जादम्। जं तस्सिं समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो। दाणिं उण तिण्णकिदो कटो विअ तणूहोदि। (विमृष्य।) णं मज्झण्णो वट्टदि। तह हि।
पत्तगदं धरहरिणो तिहाए पिबइ सीअलं सलिलम्।
गन्धेण कुणइ सुहिदं घाणं घिदमिस्ससक्करापूवो॥१॥
अहो पमादो। राअसमीवं गमिस्सं ति महाणससमीवं गदो ह्यि। अदो एव्व तह वत्तुलतणुअरगोधूमापूर्वसंहितसरावेहिं माहिसदहिमण्डभिस्सिदमासविरइअभक्खविसेसणिविडिअभा-अणेहिं परितत्तम्बरिसभज्जिदचणअचअपूरिअपिण्डएहिं फाणिअसंकलिअजवधाणासमुल्लसिद विसालमत्तेहिं दुद्धदहिसक्करासलिलभाविदविविहपिथुअरासिसंपुण्णविसङ्कडचसअविसेसेहिं मल्लि-अमुउलपुञ्जधवलसालितण्डुलन्नसमुच्चअविराजिदतम्ममअभण्डगणब्मन्तरट्ठाविद सुवण्णसवण्ण-सूपणिहाणपिठरेहिं कित्तपरिवक्ववन्ताककारइल्लपडोल-
कोसातईणिप्पावराअमासकदलीपणसकुब्भण्डप्पमुहसलाटुखण्डमयशाकषण्डमण्डिदबहुविधभाअण-विसेसेहिं अ परिसोहमाणस्स महाणसस्स चिसमरो गन्धो। धुमधुमाअदि मे णासाबिलम्। सिलसिलाअदि तालुरसणामूले सुणिग्गत्तरं लालाजलम्। पज्जलदिव्व हणूमन्तवालग्गलग्ग-ग्गिसिहागहिदघरपरस्परं लङ्काउरं विअ बुभुक्खाउरं मे उदरम्। (किंचित्पुरतो विलोक्य।) इह खु महाणसदुबारदेसे अवणदपुव्वकाओ विलोईअदि चुह्निपावअपज्जलणत्थफुक्कार-पवणविकिण्णभसितलेशपुञ्जधूसरमुखो णिडिलदीसन्तविरलसेदम्बुकणिओ करङ्गुलीलग्गहिङ्गुपरि-मलसंतप्पिदसमीवगदजणधाणेन्दिओ ईससंकमिदेङ्गाललञ्छिद-परिघाणपडो दक्खिणकरग्गही-ददव्वीसिहरतणुतरदीसन्तविलोलिअसाअपा-अवप्फो अण्णकरलम्बिते-न्धणसअलो भद्दमुहो णाम पौरोगवो। ता एणं एव्व पुच्छामि। अए भद्दमुह, तुए पक्केसु भक्खविसेसेसु किं वि किं वि मह हत्थे दादव्वं जं भक्खिअ एदं सुट्ठु एदं णेत्ति चिआरिअ कहेमि जं सुट्ठु तं परिवेसिअ रण्णो हत्थादो पारितोसिअं गेह्णदु भवम्। (सामर्षम्) कहं एसो दासीएपुत्तो ‘जइ तुह बुभुक्खा तदो रण्णो समीपं गदुअ मोअणं दादव्वं ति पुच्छ। अहं उदरंभरिणो तुह किं बि ण दाइस्स’ ति भणिअ महाणसव्भन्तरं गदो। होदु। राजसमीपं गमिस्सम्। (इति परिक्रम्यावलोक्य च।) कहं एत्थ राअसमीवे विअणे अलगद्देण गिह्णिअ बिलं पवेसिदो मण्डूओ विअ किं वि अणक्खरं पलवन्तो अमच्चो वेधवेओ (?) चिट्ठइ। ता समअं पडिवालइस्सम्। (इति तिष्ठति।)^(१)
——————————————————————————————————————
१. उक्तं खलु दौवारिकेण प्राणेन राज्ञो रसगन्धवरप्रदानं श्रुत्वा बलवद्रोषवशंगतेन यक्ष्महतकेन पाण्डुना सह किमपि मन्त्रयित्वा सपरिवारस्यास्माकं राज्ञ उपरि व्यतिक्रमं किमपि कर्तुमुद्योगः क्रियत इति श्रुतवता विज्ञाननामधेयेन मन्त्रिणा कार्यगतिमावेद्यमानोऽन्तःपुरवेदिकान्तरे तिष्ठतीति। तद्राजसमीपं गमिष्यामि। अहो, मुहूर्तात्पूर्वं खादितं मातुलुङ्गफलप्रमाणानां मोदकानां शतमपि जीर्णं जातम्। यत्तस्मिन्समये धान्यकुम्भीपीनोत्तुङ्गंमम पिचण्डं स्थितम्। इदानीं पुनस्तृणकृतः कट इव तनूभवति। ननु मध्याह्नो वर्तते। तथाहि।
——————————————————————————————————————
(ततः प्रविशति राजा मन्त्री च।)
राजा— (कर्णं दत्त्वा।) कार्यपर्यालोचनयातिक्रान्तोऽप्यर्धदिवसो न ज्ञातः। यत इदानीम्
——————————————————————————————————————
पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम्।
गन्धेन करोति सुखितं घ्राणं घृतमिश्रशर्करापूपः॥
अहो प्रमादः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि। अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिषदधिमण्डमिश्रितमाषविरचितभक्ष्यविशेषनिबिडितभाजनैः परितप्ताम्बरीषभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुल्लसितविशालामत्रैःदुग्धदधिशर्करासलिलभावितविविधपृथुकराशिसंपूर्णविषङ्कट-चषकविशेषैः मल्लिकामुकुलपुञ्जधवलशालितण्डुलान्नसमुच्चयविराजितताम्रमयभाण्डगणाभ्यन्तरस्थापितसुवर्णसवर्ण-सूपनिधानपिठरैः कृत्तपरिपक्ववृन्ताककारवेल्लपटोलकोशातकीनिष्पावराजमाषकदलीपनसकूष्माण्डप्रमुखशलाटु-खण्डमयशाकषण्डमण्डितबहुविधभाजनविशेषैश्च परिशोभमानस्य महानसस्य विसृमरो गन्धः। घुमघुमायते मे नासाबिलम्। सिलसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम्। प्रज्वलतीव हनूमद्वालाग्रलग्नाग्नि-शिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम्। इह खलु महानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुह्लीपावकप्रज्वलनार्थफूत्कारपवनविकीर्णभसितलेशपुञ्जधूसरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिकः कराङ्गुलिलग्नहिङ्गुपरिमलसंतर्पितसमीपगतजनघ्राणेन्द्रियः ईषत्संक्रमितेङ्गाललाञ्छितपरिधानपटो दक्षिणकर-गृहीतदर्वीशिखरतनुतरदृश्यमानविलोलितशाकपाकबाष्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पौरोगवः। तदेनमेव पृच्छामि। अये भद्रमुख, त्वया पक्वेषु भक्ष्यविशेषेषु किमपि किमपि मम हस्ते दातव्यं यद्भक्षयित्वा इदं सुष्ठु इदं नेति विचार्य कथयामि यत्सुष्ठु तत्परिवेष्य राज्ञो हस्तात् पारितोषिकं गृह्णातु भवान्। कथमेष दास्याः पुत्रः ‘यदि तव बुभुक्षा तदा राज्ञः समीपं गत्वा भोजनं दातव्यमिति पृच्छ। अहमुदरंभरेस्तव किमपि न दास्यामि’ इति भणित्वा महानसाभ्यन्तरं गतः। भवतु। राजसमीपं गमिष्यामि। कथमत्र राजसमीपे विजने अलगर्देन गृहीत्वा
——————————————————————————————————————
प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्घीकृतं
सद्यः पञ्जरगर्भ एव चकितानुद्भ्रामयन्तं शुकान्।
कार्यव्याप्रियमाणमानवमुखं कर्षन्तमात्मोन्मुखं
मध्याह्नागमसूचनाय पटहो धत्ते ध्वनिं ताडितः॥२॥
संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते। तथा हि।
आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिर्झरां
शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम्।
आवर्तस्फुटपुण्डरीकमुकुलप्रेङ्खोलनोद्गन्धिना
तृप्यन्तो मरुता स्वपन्ति च नदीतीरे बिलेषूरगाः॥३॥
मन्त्री— अहो यौवनश्रियं पुष्णात्येष दिवसः। यतः।
छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः
शौरिं दानवपीडिता इव सुराः पान्था भजन्ति द्रुतम्।
दुष्कीर्तिं क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो
गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः॥४॥
अपि चेदानीम्
घर्माम्भःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं
भूयिष्ठोद्गतफूत्क्रियानिलगलन्मासृण्यबिम्बाधरम्।
ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं
प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम्॥५॥
राजा— (स्वगतम्।) नन्वस्मिन्नवसरे
स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम्।
अ ………….मनुकूलं दैवतमत्र क्रमेण मया॥६॥
(प्रकाशम्।) किमतःपरमाचरितव्यम्।
——————————————————————————————————————
बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो ………………. तिष्ठति। तत्समयं प्रतिपालयिष्यामि।
——————————————————————————————————————
मन्त्री— मध्याह्न इति बुभुक्षिताः परिजनाः। ततः स्नानार्थमुत्तिष्ठतु महाराजः।
(राजा उत्तिष्ठति मन्त्री च।)
विदूषकः— (श्रुत्वा) एवंवादिणो मन्तिणो होदु पुण्णलोओ। (उपसृत्य।) जेदु जेदु महाराओ^(१)।
राजा— वयस्य, कथमागतोऽसि।
विदूषकः— (मन्त्रिणं प्रति।) अवि कुसलं अमच्चस्स8।
मन्त्री— कथमभ्यवहारसमय इति प्राप्तोऽसि।
विदूषकः— दाणिं जेव्व णिअघरे भोअणं कदुअ आअदेण अज्जेण वि किं ण विण्णादं मज्झह्नो वट्टदित्ति^(२)।
मन्त्री— विज्ञातमेव। श्रूयतामिदानीम्।
यूना सस्पृहदृश्यमानकबरीभारोरुपीनस्तनी
पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना।
आसन्नां ……….वारणबुसापश्चापनीतातपा-
मारामक्षितिमापगातटगतां साकूतमालोकते॥७॥
विदूषकः— (समुखभङ्गम्।) अण्णस्स पुरिसस्स अण्णाए इत्थिआए संपक्कसूअणं णाम अणुइदं किं ति वण्णीअदु अज्जेण। जइ मज्झह्नो वण्णणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु। जेण सुदमेत्तेण वि मह संतोसो होदि^(३)।
——————————————————————————————————————
१. एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः। जयतु जयतु महाराजः।
२. इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याह्नो वर्तत इति।
३. अन्यस्य पुरुषस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वर्ण्यते आर्येण। यदि मध्याह्नो वर्णनीय इत्याग्रहस्तदा मानवानां संभावितं पानभोजनं वर्णयतु। येन श्रुतमात्रेणापि मम संतोषो भवति।
——————————————————————————————————————
मन्त्री— (विहस्य।) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान्।
(प्रविश्य)
दौवारिकः— महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति^(१)।
(राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः।)
विदूषकः— (आत्मगतम्।) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो9।
(इति तदनुसरणं नाटयति।)
मन्त्री— एते स्वामिनं प्रणमन्ति।
राजा— (आकाशे।) अपि कुशलिनो यूयम्।
मन्त्री— एते ‘स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः’ इति वदन्ति।
विदूषकः— (स्वगतम्।) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो10।
मन्त्री—
कश्चित्स्वर्णौघमेको मणिगणमपरो भूषणव्रातमन्यः
क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम्।
सामन्तक्षोणिपालेष्वहमहमिकयोपाहरद्दृष्टिपातै-
र्देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम्॥८॥
अपि च।
हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः
श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः।
आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा
किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः॥९॥
——————————————————————————————————————
१. महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति।
——————————————————————————————————————
राजा— मन्त्रिन्,
दत्तानि भूपतिभिरेभिरुपायनानि
तेषां वशे कुरु मयाधिकृता नरा ये।
एतान्सभाजयितुमर्पय तत्तदर्हा-
न्युष्णीषकञ्चुकदुकूलविभूषणानि॥१०॥
मन्त्री— यथाज्ञापयति देवः।
विदूषकः— णं वअस्स, मए वि विजई होइत्ति वाआमेत्तेण तुह उवाअणं दिण्णं तदो बुभुक्खिदं मं किं त्ति ण संभावेसि^(१)।
मन्त्री— राजन्, श्रोतव्यः कार्यशेषः।
विदूषकः— हुं, चिट्ठदु दासीए वच्छो कज्जसेसो। वअस्स, किं मह पडिवअणम्^(२)।
राजा— मन्त्रिन्, ब्राह्मणस्य प्रथमं भोजनं निर्वर्तयेति अन्तःपुरं गत्वा देवीं वद। अतः प्रागेव संभाव्यात्र सामन्तभूपान्स्वस्थानं प्रेषय। वयस्य, त्वमपि मन्त्रिणा सह गच्छ।
विदूषकः— दीहाओ होइ12।
मन्त्री— विजयी भवतु देवः। (इति विदूषकेन सह निष्क्रान्तः।)
राजा— कः कोऽत्र भोः।
(प्रविश्य)
दौवारिकः— आणवेदु महाराओ13।
राजा— मज्जनगृहमार्गमादेशय।
दौवारिकः— इदो इदो भवं14। (परिक्रम्यावलोक्य च संस्कृतमाश्रित्य।)
——————————————————————————————————————
१. ननु वयस्य, मयापि विजयी भवेति वाचामात्रेण तवोपायनं दत्तं तद्बभुक्षितं मां किमिति न संभावयसि।
२. हुं, तिष्ठतु दास्या वत्सः कार्यशेषः। वयस्य, किं मम प्रतिवचनम्।
——————————————————————————————————————
स्नातुं ते परिचारिकाः स्तनभरश्रान्ताः शनैः सांप्रतं
क्वाथोष्णानि जलानि मज्जनगृहे कुम्भीषु संगृह्णते।
आयान्तीव तृषा जलार्थनमिषादासां विलासाद्गतिं
हंसाः केशभरश्रियं च शिखिनः स्नेहादिमा याचितुम्॥११॥
अत्र च हिरण्मयस्य गृहस्थूणस्य पार्श्वभागे
अभ्यङ्गाय सुवर्णपात्रनिहितं तैलं चलत्सौरभं
विस्तीर्णस्फुटकर्णिकारकुसुमे येनाभिभाव्यं मधु।
न्यस्तं चन्दनदारुनिर्मितमिदं कूर्मासनं चासितुं
यत्पृष्ठे पृथिवीव च त्रिगुणिता कौशेयशाटी स्थिता॥१२॥
अपि च नवाम्बुदश्यामलायां विपुलायतायामिन्द्रनीलमणिनिर्मितायां हर्म्यभित्तौ प्रतिफलितवपुश्चेटी-जनस्तडिल्लताविन्यासमवलम्बते। अत्रैव
कञ्चुल्या दृढसंयतस्तनभरा हारं गले कुर्वती
पश्चाल्लम्बितमम्बरं च जघने काञ्च्यादृढं बध्नती।
स्वेदाम्भःकणमञ्जरीं च भजती चेलाञ्चलेनानने
चेटीष्वेकतमेयमत्र यतते कर्तुं तवाभ्यञ्जनम्॥१३॥
राजा— दौवारिक, मन्त्री विदूषकश्च कृतोचितव्यापारो न वेति विचार्यताम्। अहमप्यत्र स्नात्वा कृतशिवार्चनो भोजनाय यतिष्ये।
दौवारिकः— तह15।
(इति निष्क्रान्तः।)
राजा— (स्मृतिमभिनीय।) अये महानुभावा शिवभक्तिः, यस्याः प्रसादाद्भगवन्तं साम्बं साक्षात्कृत्य तदीयकरुणाकटाक्षामृतनिःष्यन्दकन्दलिताखिलपुमर्थोऽपि सन्संप्रति प्राकृतानर्थनिवर्तकान्रस-गन्धकानासाद्य तावतैव कृतकृत्यंमन्यो मूढोऽहं विस्मृतवानस्मि तां भगवतीं शिवभक्तिम्। अहो धिक् प्रमादम्। नूनं सा भगवती मां कृतघ्नं मन्येत। (निःश्वस्य।)
दृङ्मात्रदर्शितनिजप्रथितप्रभावा
प्रह्लादभूमसुरभूरुहमूलभूता।
जन्मान्तरीयतपसां परिपाकतः सा
प्राप्तापि दैवहतकेन मया विमुक्ता॥१४॥
तामेव हा स्मितसुधामधुराननेन्दुं
भक्तिं तथा निरुपमामसकृद्विचिन्त्य।
स्नातुं च भोक्तुमशितुं शयितुं विहर्तुं
शक्नोमि नाहमधुना परितप्यमानः॥१५॥
हृदयानन्दविधात्रीं भक्तिं तामन्तरा न मे सौख्यम्।
आसारेण विना किं घर्मम्लानस्य शालिनस्तृप्तिः॥१६॥
तत्कथमहं प्राकृतमिमं व्यासङ्गं परित्यज्य तामेव परमानन्दलीलामनुभूय कृतार्थो भूयासम्। (इति सचिन्तस्तिष्ठति।)
(ततः प्रविशति स्मृतिः।)
स्मृतिः— अम्मो, भअवदीए शिवभत्तीए विओएण बलिअं उक्कण्ठिदो राआ संपदं ण्हाणभोअणव्वावारं वि णाणुमण्णेदि। ता तुरिअं गदुअ भअवदीए इमं वुत्तन्तं णिवेदिअ ताए णं संयोजइदुं यतिस्सं ति पुण्डरीअपुरं गदुअ तत्थ सद्धाए सेविज्जन्तीं भअवदिं दिट्ठूण सद्धामुहेण तह संविधाणं कदुअ आअदह्मि। ता राअसमीवं गदुअ एदं णिवेदेमि। (इति परिक्रम्योपसृत्य।) जेदु जेदु देवो^(१)।
राजा— (दृष्ट्वा।) अये, कथमियं स्मृतिः। सखि, दिष्ट्या चिरादागतासि।
स्मृतिः— देव, भअवदिं शिवभत्तिं उद्दिसिअ तुह एआरिसीं बलिअं उक्कण्ठं दिट्ठूण^(२) (संस्कृतमाश्रित्य।)
——————————————————————————————————————
१. अम्मो, भगवत्याः शिवभक्तेर्वियोगेन बलवदुत्कण्ठितो राजा सांप्रतं स्नानभोजनव्यापारमपि नानुमन्यते। तत्त्वरितं गत्वा भगवत्या इदं वृत्तान्तं निवेद्य तयैनं संयोजयितुं यतिष्ये इति पुण्डरीकपुरं गत्वा तत्र श्रद्धया सेव्यमानां भगवतीं दृष्ट्वा श्रद्धामुखेन तथा संविधानं कृत्वा आगतास्मि। तद्राजसमीपं गत्वा इदं निवेदयामि। जयतु जयतु देवः।
२. देव, भगवतीं शिवभक्तिमुद्दिश्य तवैतादृशीं बलवदुत्कण्ठां दृष्ट्वा-
——————————————————————————————————————
यातं देव मया जवेन महता तत्पुण्डरीकं पुरं
श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठ्यमेतादृशम्।
तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्तिं तयै-
वागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा॥१७॥
राजा— (सहर्षम्) कथमेतावदनुगृहीतः। अहो प्रसादातिशयो मयि भगवत्याः। कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती।
** स्मृतिः—** अध इं16।
(ततः प्रविशति श्रद्धया सह भक्तिः।)
भक्तिः— सखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभिमुख एव संवृत्तः।
श्रद्धा— अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसअप्पवणं करेइ। तह अ कदिदं अहिजुत्तेहिं^(१)। (संस्कृतमाश्रित्य।)
जरठापि काचिदसती संदर्भ्य गुणान्परस्य पुरुषस्य।
सङ्गं विनैव हसितैः सर्वस्वं हरति हन्त किं ब्रूमः॥१८॥
भक्तिः— भवतु। अतस्तस्मिन्मम दृढः प्रेमातिशयः।
सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं
देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्यहो।
अस्त्वेतद्व्यपयुक्तमात्मकलने तस्मान्निरस्तामयं
निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये॥१९॥
——————————————————————————————————————
१. अम्ब, देव्या गुणमय्या दुरत्ययाया मायायाः कुटिलाया एषोऽनादिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति। तथा च कथितमभियुक्तैः।
——————————————————————————————————————
श्रद्धा— जुज्जइ एदं णिरुपधिणिरवधिकरुणाए भअवदीए। ता एहि तं जेव्व अणुग्गहीदुम्^(१)।
राजा— अहो अमृतासारमयः कोऽप्यालापः कर्णविवरमाप्याययति। सखि, किमागतवती भगवती।
स्मृतिः— को संदेहो17।
राजा— (पुरोऽवलोक्य।) अहो।
निरुपाधिकनिःसीमकरुणामृतवारिधिः।
दिष्ट्या दृष्टा भगवती पुमर्थघटनापटुः॥२०॥
(उत्थाय सरभसं प्रत्युद्गच्छति। श्रद्धाभक्ती परिक्रम्योपसर्पतः। राजा साष्टाङ्गं प्रणमति।)
भक्तिः— सकलाभीष्टभाजनं भूयाः।
श्रद्धा— जेदु जेदु देवो18।
राजा— (उत्थाय।) देवि निरुपधिकरुणानिधे, अपराधिनमपि मामेवमनुगृहीतवत्यसीति सकलमनोरथानामुपरि वर्तामहे।
अवने हि निरागसां जनानां भजतां जाग्रति दैवतान्तराणि।
अवनाद्विहितागसोऽपि मेऽस्तु प्रथितं ते निरुपाधिवत्सलत्वम्॥२१॥
उक्तं चात्राभियुक्तैः।
प्रवहन्ती तु दया तव परिहृतनीचोच्चवस्तुवैषम्या।
पततु मयि स्फुटमधुना पङ्गोरुपरीव गगनगङ्गोर्मिः॥२२॥
भक्तिः— देव, भवान्मामनुसृत्य बलवदुत्कण्ठितः प्रकृतकार्यविमुखः संवृत्त इति श्रुत्वा तत्रभवन्तं सान्त्वयितुमागतास्मि। संप्रति विज्ञानमन्त्रिमतानुसारेणैव प्रकृतशत्रुविजयाय व्याप्रियस्व। तदनन्तरम्
निर्जितनिखिलविपक्षं नीरुजमुरुसुस्थमपगतातङ्कम्।
अहमागत्य विधास्ये परमानन्दाब्धिमाप्तकामं त्वाम्॥२३॥
——————————————————————————————————————
१. युज्यत एतन्निरुपधिनिरवधिकरुणाया भगवत्याः। तदेहि तमेवानुग्रहीतुम्।
——————————————————————————————————————
राजा— (सप्रश्रयम्) परमनुगृहीतोऽस्मि। इदं तु प्रार्थये।
या प्रीतिरविवेकानामिति न्यायात्सदा मम।
हृदयान्मापसर्प त्वं प्रसीद करुणानिधे॥२४॥
भक्तिः— तथा भवतु। (स्मृतिं प्रति।) अयि वत्से, एतत्त्वदायत्तम्।
स्मृतिः— भअवदि, अवहिदह्मि19।
भक्तिः— तथा भवतु। (इति निष्क्रान्ता।)
राजा— (सोत्कण्ठम्।) कथं गतवती भगवती। (स्मृतिं प्रति।) सखि, सर्वदा हृदि संनिहिता भव।
स्मृतिः— तह15। (इति निष्क्रान्ता।)
(प्रविश्य)
दौवारिकः— देव, एसो अमच्चो भुत्तवन्तेण विदूसएण अणुगदो आअच्छदि20।
(ततः प्रविशति मन्त्री विदूषकश्च।)
मन्त्री— भोः, साधु भुक्तं भवता।
विदूषकः— देवीए बुद्धीए साहुपडिवेसणं किदं जहमणोरहं उदरं पूरिअम्21। (सहर्षं संस्कृत्यमाश्रित्य।)
भूमौ साधु वितत्य गारुडमणिश्यामं कदल्या दलं
शाल्यन्यं घृतपक्वफाणितमथापूपैः सहात्रार्पितम्।
धन्या एव हि सूपपायसमधुक्षीराज्यदध्यन्वितं
नानाशाकयुतं फलैश्च मधुरैरेवं सदा भुञ्जते॥२५॥
मन्त्री— भुक्तवतोऽप्येवमिहादरश्चेत्किमुत बुभुक्षितस्य। (राजानमुपसृत्य।) विजयतां देवः। देवानुज्ञया सर्वेऽपि सामन्ता यथार्हं संभाविताः। अयमपि वटुराकण्ठमभीप्सिताभ्यवहार्येण भोजितो देव्या। तद्देवेनापि स्नानपूजनभोजनादिविधिर्निर्वर्त्यताम्।
राजा— तर्ह्यत्रैवावस्थीयतां भवता। अहमपि प्रकृतमाह्निकं निर्वर्त्यागच्छामि। (इति दौवारिकेण सह निष्क्रान्तः।)
(नेपथ्ये।)
अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा
देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमिश्रैः।
रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं
साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः॥२६॥
मन्त्री— (आकर्ण्य।) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः। (इति विदूषकेण सह परिक्रामति।)
(ततः प्रविशति देव्या सह राजा।)
राजा— देवि, पश्य पश्य रामणीयकमारामस्य।
क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा-
संपूर्णावालपुष्प्यत्फलडुडुकदलीदाडिमीमातुलुङ्गा।
संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च-
त्सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा॥२७॥
देवी— मलअपवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति। इदो तदो परिब्भमन्तो भमरा कलं कूजन्दि^(१)।
राजा— युक्तमाह भवती।
कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे।
नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन॥२८॥
देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी।
कंदर्पागममन्त्रपाठमुखरे पुंस्कोकिले कानन-
श्रीपाणिग्रहमङ्गले सति मधोर्देवस्य दीप्तौजसः।
वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः
प्रक्षिप्तस्य मतिं न किं वितनुते लाजव्रजस्याधुना॥२९॥
——————————————————————————————————————
१. मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति। इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति।
——————————————————————————————————————
मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः।
अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति॥३०॥
देवी— पेक्खदु भवं^(१)।
किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ।
णीवविडवे सिहण्डी जम्बूसिहरे सुओ एक्को॥३१॥
विदूषकः— (उपसृत्य।) जेदु वअस्सो। देवि, सोत्थि भोदीए22।
मन्त्री— देव, विजयी भव। देवि, जयतु भवती।
राजा— अत्र निषीदतु वयस्यः। इहास्यताममात्येन।
मन्त्री— (उपविश्य उद्यानभूमिमभितो विलोक्य) आश्चर्यमाश्चर्यम्।
इहोद्याने तादृक्पशुपतिदयासादितमहा-
महिम्नस्ते सेवारसपरवशाः सर्वत इमे।
यथास्वं पुष्प्यन्तो युगपदृतवः संनिदधते
प्रसङ्गादत्राहं कतिचन वदाम्यार्तवगुणान्॥३२॥
राजा— अवहिताः शृणुमस्तावत्। (पुरो विलोक्य।) मन्त्रिन्, पश्य पश्य।
स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा।
नीलाम्बुदकुचविगलद्धनपुष्पा विहरतीव वनलक्ष्मीः॥३३॥
मन्त्री— राजन्, तर्हि वर्षा एताः। पित्तसंचयोऽत्र भवति। एवं हि ऋतुचर्यां भिषजो भाषन्ते।
राजा— कथमिव।
मन्त्री—
शंसन्ति भाद्रपदमाश्वयुजं च वर्षा-
स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः।
——————————————————————————————————————
१. पश्यतु भवान्।
कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति।
नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः॥
——————————————————————————————————————
वीर्यं प्रसन्नमसुमत्सु च शीतवाता-
विष्टेषु तत्र शिखिनोदयते विदाहः॥३४॥
स एव पित्तसंचयमापादयति।
राजा— शरदि कथम्।
मन्त्री—
मासौ शरत्कार्तिकमार्गशीर्षौ तत्राभ्रकार्ये सति पङ्कशोषः।
विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते॥३५॥
राजा— हेमन्ते कीदृशो रोगः।
मन्त्री— श्रूयताम्।
हेमन्तः पौषमाघाविह भवति बलं वीर्यमप्यौषधीनां
स्निग्धाश्चापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः।
मन्दांशुत्वाच्च भानोः सहिममरुदुपस्तम्भिताङ्गेषु देहि-
ष्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छ्लेष्मणः संचयश्च॥३६॥
राजा— कदा पुनरयं श्लैष्मिकान्व्याधीञ्जनयति।
मन्त्री— फाल्गुनचैत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः श्लेष्मसंचयोऽस्मिन्नृतौ भवति। एवं च
निःसारा रौक्ष्यभाजो दधति च लघुतामोषधीनां समूहाः
सर्वे ते ग्रीष्मसंज्ञां भजति किल ऋतौ ज्येष्ठवैशाखरूपे।
तस्मिन्सूर्यप्रतापम्लपिततनुभृतां लाघवाच्चापि रौक्ष्या-
ज्जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य॥३७॥
स संचयः प्रावृषि शीतवातवर्षेरितो वातिकरोगकारी।
क्लिन्नाङ्गभाजां पयसैव नित्यं प्रकोपहेतुस्त्रयसंचयस्य॥३८॥
राजा— कौ मासौ प्रावृट्।
मन्त्री— आषाढश्रावणौ तथा भिषग्भिरुच्यते।
राजा— कदा पुनरेषामुपशमः।
मन्त्री— सोऽप्येतेषां ज्ञातव्य एव स्वामिना। तद्यथा—
हेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यद्रुजः
शान्तिर्वातिकरोगशान्तिरुदयेद्वर्षात्यये केवलम्।
एवं षडृतुषु स्वभावजतया व्याख्यायि तुभ्यं मया
पित्तश्लेष्मनभस्वतां सह चयेनापि प्रकोपःशमः॥३९॥
अपि च।
रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्णः।
मध्याह्नोऽप्यपराह्णो वर्षाद्याः षट् प्रकीर्तिता ऋतवः॥४०॥
एष्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः।
राजा— अस्त्वेतत्। दौवारिक, आन्तःपुरिकं जनं प्रवेशय।
विदूषकः— किं उक्कण्ठिदो भवं दोलाविहारस्स23।
राजा— स्मारितं भवता। तथैव क्रियते। मन्त्रिविन्यस्तसमस्तकार्यभारस्य मम विहारादृते कोऽन्यो व्यापारः।
मन्त्री— देव्या सह दोलामधिरोहतु महाराजः। दौवारिक, पद्ममुखीं चन्द्रमुखीं च चेटीमानय।
दौवारिकः— तथा। (इति निष्क्रम्य चेटीभ्यां सह प्रविशति।)
(राजा देवी च दोलाधिरोहणं नाटयतः।)
मन्त्री— (चेट्यौ प्रति।) गायन्त्यौ दोलयतं भवत्यौ।
प्रथमा—
जअइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो।
जस्स खु वि जअपताआ सामारुणवामदक्खिणावअवा॥४१॥^(१)
विदूषकः— (सकोपम्।) आः दासीए पुत्ति, वालिसा क्खु तुमं। जह अत्थबोधो ण होदि तह पढिदम्^(२)।
——————————————————————————————————————
१.
जयति मधुतुन्दिलगुणः सुरभिशरो मधुरकार्मुको वीरः।
यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा॥
२. आः दास्याः पुत्रि, बालिशा खलु त्वम्। यथार्थबोधो न भवति तथा पठितम्।
——————————————————————————————————————
राजा— वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः।
विदूषकः— (सशिरःकम्पम्।) जुज्जइ24।
** द्वितीया—**
कैरवणिद्दाभङ्गे चओरतिह्णाणिवारणे अ पडु।
सो को वि जअउ देवो पेक्खन्तणिडालपुरुसमौलिमणी॥४२॥^(१)
विदूषकः— एदस्स पज्जस्स अत्थो वण्णीअदि25।
राजा— कथमिव।
विदूषकः— कैरवविआसंआरी चकोरतित्तिआरी भअवं तस्स तिणेत्तस्स सिहामणी चन्दो जअइ त्ति^(२)।
मन्त्री— सम्यगुक्तः पद्यार्थो भवता।
विदूषकः— (सगर्वम्।) पुव्वपज्जस्स वि मह अत्थबोधो जादो जेव्व। वअस्सेण अत्थो वण्णीअदि ण वेति तुह्निं ठिदम्^(३)।
मन्त्री— (विहस्य।) कः संदेहः।
विदूषकः— अमच्च, किं उवहससि मं। एदं सुणादु भवं। धरणीए विअ मह धरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ^(४)।
(सर्वे हसन्ति।)
——————————————————————————————————————
१.
कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पठुः।
स कोऽपि जयति देवः पश्यन्निटालपुरुषमौलिमणिः॥
२. कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शिखामणिश्चन्द्रो जयतीति।
३. पूर्वपद्यस्यापि ममार्थबोधो जात एव। वयस्येनार्थो वर्ण्यते न वेति तूष्णीं स्थितम्।
४. अमात्य, किमुपहससि माम्। एतच्छृणोतु भवान्। धरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थबोधो भवति।
——————————————————————————————————————
(नेपथ्ये)
वैतालिकः—
गन्धेन स्फुटकैरवाकरभुवा विष्वग्विकर्षन्नली-
न्स्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्यन्दते।
भावी नौ विरहाधिरित्यविदितेऽप्यन्तः शुचा स्थीयते
कोकेन प्रियया सहैकनलिनीनालाधिरूढेन च॥४३॥
द्वितीयः—
मोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा-
न्रागः कोऽपि विजृम्भते घनपथे चित्ते वधूनामपि।
आर्द्रागाः कुपितामुपासिसिषते कान्तां विलासी जनो
भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम्॥४४॥
मन्त्री— अहमपि संध्योपासनार्थं गच्छामि।
विदूषकः— अहं पि26।
राजा— अहमप्यन्तःपुरमेव गच्छामि।
(इति निष्क्रान्ताः सर्वे।)
इति चतुर्थोऽङ्कः।
————
पञ्चमोऽङ्कः।
(ततः प्रविशति धावन्मत्सरः)
मत्सरः— (विचिन्त्य।)
जीवे साधयितुं रसं पशुपतेर्ध्यानस्य सिद्धौ स्थिते
तद्विघ्नाचरणाय षट् प्रणिहिताः कामादयः पाण्डुना।
ते गत्वापि वयं परैरभिभवं प्राप्ता यथा पूर्वजाः
पञ्चापि व्यगलन्नहं च चकितः षष्ठः पलाय्यागतः॥१॥
इतःपरं किं करोमि मन्दभाग्यः।
किं पाण्डोर्निकटं व्रजामि धृतिमानेव कृते भ्रातृभि-
स्तस्याग्रे कथमस्तकार्यनिकरः संदर्शयिष्ये मुखम्।
राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना
पृष्ठे चोत्तरयामि हन्त शरणं कं वा करिष्येऽधुना॥२॥
तत्सर्वथा नास्ति दैवानुकूल्यम्। (विचिन्त्य।) भवतु। वनमेव गत्वा तपश्चरणेनात्मानं कृतार्थयामि। यतः।
अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी-
संघायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः।
प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे
स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया॥३॥
(पुरो विलोक्य।)
समन्तादालोके सवितुरुपगच्छत्युपशमं
गुरोर्दिष्ट्या लब्धे महत इव सेवापरिचये।
तमः सर्वामुर्वीं स्थगयति खलानामिव मतिं
तदस्यामत्यर्थं न भवति विवेकः सदसतोः॥४॥
तथापि पश्यतो मम द्वावपि पुरुषौ गृह्येते। (कतिचित्पदानि गत्वा निपुणं निरूप्य।) हन्त, सकिंकरः कुष्ठोऽयमागच्छति। स्वजनेनाप्यनेनाहमिदानीं संभाषणाय जिह्रेमि। तदस्य दर्शनं परिहरणीयम्। मार्गोऽपि न दृश्यते निलीय गन्तुम्। भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि। गते चैतस्मिंस्त्वरितपदं व्रजेयम्। (इति तथा स्थितः।)
(ततः प्रविशति किंकरेणानुगम्यमानः कुष्ठः।)
कुष्ठः— (सदृष्टिक्षेपम्।) किमिदं दृश्यते पश्य।
किंकरः— (सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन्।)
पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित्।
वैशिष्ट्यमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति॥५॥
कुष्ठः— भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः।
आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाद्बहि-
स्तान्यानेतुमशब्दकल्पितपदन्यासास्तमस्यागताः।
संप्राप्ते सति संनिधिं परिजने द्राग्बिभ्रतः स्थाणुतां
लीनत्वं दधतोऽथवाधिसरणि स्वं साधयन्तीप्सितम्॥६॥
अतः सम्यङ्निरूपय।
(किंकरो गत्वा मत्सरं हस्ते गृह्णाति।)
मत्सरः— (स्वगतम्।) मम खलु माशब्दकीयमवस्था संप्राप्ता। यद्यहं शब्दं कुर्यां ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासिष्ये। (इति हस्तं विधुनोति।)
किंकरः— चोर, दृढं गृहीतोऽसि। वृथा ते हस्तधूननम्। (कुष्ठं प्रति।) आवुक, पुरुषः पुरुषः। गृहीत एष दृढं मया।
कुष्ठः— सफलो मे तर्कः। दृढबद्धमेनमत्रैवानय।
किंकरः— एहि रे चोर, एहि। रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि। अहो तव तपःप्रभावः। गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि।
मत्सरः— (स्वगतम्।)
दग्धो मनोरथो मे बत चिन्तितमन्यदापतितम्।
(हर्षमभिनीय।)
मोक्ष्याम्यथवा शोकाद्देहवियोगेन भाविना दैवात्॥७॥
(किंकरो बलान्मत्सरमाकृष्य कुष्ठनिकटं गमयति।)
कुष्ठः— भद्र, दीपिकासमीपमानय क एष इति पश्यामि। साधारणश्चेन्मोक्ष्याम एनम्।
किंकरः— आर्य, ज्ञातचर इव दृश्यते। (इति दीपिकासमीपमानयति।)
कुष्ठः— (निरूप्य।) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालिकस्य। तथाहि।
भस्मानुलेपधवलीकृतसर्वगात्रः
श्वेतां वहञ्छिरसि नारकपालमालाम्।
एकेन शूलमितरेण दधत्कपालं
हस्तेन तिष्ठति पुरो मृगचर्मवासाः॥८॥
भवतु। एनं संबोधयामि। सखे, कीदृशीयमवस्था ते संप्राप्ता।
मत्सरः— (आत्मगतम्।) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः। ज्ञातस्याधुना ममात्मापलापोऽनुचितः। (प्रकाशम्।) तस्यैवेयं दशा दैवहतकस्य।
कुष्ठः— (किंकरं प्रति।) भद्र, सखायं मे मत्सरः। तन्मुञ्चैनम्। (किंकरस्तथा करोति।)
कुष्ठः— सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका।
मत्सरः— सखे, सत्यमाह भवान् कापालिकतापिशाचीति। या खलु मामाकृष्य मरण-सुखाद्दुरवस्थामिमां प्रापितवती।
कुष्ठः—
सुखं मरणमप्येवंविधं तव भविष्यति।
संगतिः स्वजनेनापि कथं तद्दुर्दशा परम्॥९॥
(मत्सरस्तूष्णीमधोमुखस्तिष्ठति।)
कुष्ठः— सखे,
न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम्।
श्रुत्वा विचारयिष्ये त्रपया चालं भिया चालम्॥१०॥
मत्सरः— सखे, मम किमुपरोधेन। किमन्यद्वनगमनादृते कर्तव्यम्।
कुष्ठः—
कापालिकताद्य कुतः कुतस्तरां ते वने गमनम्।
मत्सरः—
सख्युपरोधेऽरिकृते सर्वं संभाव्यतेऽभिमानजुषाम्॥११॥
कुष्ठः— किं शत्रुषूपजापार्थं प्रवृत्ताः सखायस्ते निरुद्धाः।
मत्सरः— अथ किम्।
कुष्ठः— कथय कीदृशो वृत्तान्तः।
मत्सरः— (स्वगतम्।)
कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण।
उपजापस्य कथं वा जातामाकाशचित्रतामरिषु॥१२॥
अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि।
तद्द्रोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम्॥१३॥
अतः सर्वमस्मै निवेदयामि। यदयमपि तस्य पाण्डोर्विश्वासस्थानमेवेति। (प्रकाशम्।) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम्।
विज्ञानप्रहितेन राजहतकेनास्मन्निसर्गद्विषो
यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात्।
स्वच्छन्देन च पुण्डरीकनगरीं गत्वा मनोद्वारतः
साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम्॥१४॥
तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थं कामादयः षडेव प्रभवन्तीति त एव वयं प्रेषिताः। अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्त्र्यकरणम्।
कुष्ठः— ततस्ततः।
मत्सरः— ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि।
कुष्ठः— अथ कामस्य कावस्था।
मत्सरः— सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम्।
श्रुत्वा पित्तकफात्मपङ्गुयुगलस्पष्टोपजापं तथा
हृद्रोगस्य विमोचनं च सचिवः स्वात्किंकराद्विस्मितः।
(आकाशे लक्ष्यं बद्ध्वा।)
पाण्डो साधु भवाम्यदैव परमेशाराधने साधनं
चेतःस्थैर्यवदुद्यतस्तदरिणा तद्भेत्तुमित्यब्रवीत्॥१५॥
इतःपरमपि स बुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्यापृततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रबलांस्तद्भेदिनः कामादीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम्।
कुष्ठः— ततो विचारेण किं कृतम्।
मत्सरः— तेन च तत्सदृशबुद्धिना कामः कामपि योगकलामुत्पाद्योपजापेन ध्यानविषयतामापादितः।
कुष्ठः— हा कामस्यापि परिणतिः। अथ क्रोधस्य को वृत्तान्तः।
मत्सरः—
कमपि प्रदर्श्य दोषं विचारहतकेन सोऽपि च क्रोधः।
अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत्॥१६॥
कुष्ठः— हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्रवृत्तः। अथ लोभः कथम्।
मत्सरः— यादृशः कामः।
कुष्ठः—
साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया।
यादृशीं प्रापितोऽवस्थां कामस्त्वमपि तादृशीम्॥१७॥
अथ दम्भः क्व।
मत्सरः—
उपजप्तोऽपि बहुधा तैरस्माकं स केवलम्।
सौहार्दमुपरुन्धानः शस्त्रघातहतोऽजनि॥१८॥
कुष्ठः— धन्योऽसि दम्भ, धन्योऽसि। यतः सख्युरनृणतां गतोऽसि। अथ कथय किमध्यवसितं मदेन।
मत्सरः— मदस्तु निगृह्य कारागारे स्थापितः।
कुष्ठः— ततः।
मत्सरः— निर्गते च पुण्डरीकनगराद्राजनि नर्मकर्मण्येनमुपयोक्ष्यामह इति।
कुष्ठः— मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि।
मत्सरः— शृणु तावत्। नहि मम स्वेच्छया ततो निर्गमो जातः। यतो रससिद्ध्यनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करिष्याम इति निगृह्य स्थापितोऽस्मि।
कुष्ठः— तर्हि सखे, तवागमनमिदानीं तत्र रससिद्धिं सेनासंनाहं च सूचयति।
मत्सरः— एवमेतत्। समनन्तरमेव
राज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डुमाविष्कुरु
स्वामिप्रीतिमुपेहि मन्त्रकलनाकौशल्यमप्यश्लथम्।
मा म्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका-
न्नामग्राहमपि प्रदर्श्य नगरान्निःसारितोऽहं शनैः॥१९॥
कुष्ठः—
प्रज्ञोन्मदः स सचिवस्तदनर्थो भविष्यति।
गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये॥२०॥
मत्सरः—
तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव।
कुष्ठः—
फलिष्यति तपः किं ते न चेत्सख्यमजीगणः॥२१॥
म्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम्।
अम्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम्॥२२॥
तस्मादम्लानिरेव क्रियताम्।
मत्सरः— का गतिः। (इति कुष्ठेन किंकरेण च सह निष्क्रान्तः।)
शुद्धविष्कम्भकः।
————
(ततः प्रविशति पाण्डुः कुष्ठश्च।)
पाण्डुः— (सामर्षम्।)
अग्राह्यमल्पमतिभिः सचिवस्य तस्य
वैयात्यमूर्जितमहो किमिति ब्रवीमि।
यः प्रेषयन्किमपि तादृशवाचिकं द्रा-
गुन्मस्तकं निजमसूचयदूष्मलत्वम्॥२३॥
जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः। स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत्। किमतः प्रतिविधातव्यम्।
कुष्ठः— मम त्वेवं प्रतिभाति।
मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः।
शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत्॥२४॥
पाण्डुः— मैवं वादीः। परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह-
न्तव्या। यथा खलु शास्त्रविद आचक्षते। यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति। अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमौपयिकम्। अहमिदानीं तदुचितं प्रतीकारमालोचयामि।
कुष्ठः— आलोचयतु भवान्।
आकर्णयिष्यति यदा वृत्तान्तमिदं स मत्सरमुखेन।
दीपितरोषो हृदये देवोऽपि समागमिष्यति तदैव॥२५॥
तस्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः।
पाण्डुः— अस्त्वेवम्। भवानवहितस्तिष्ठतु।
कुष्ठः— तथा। (इति निष्क्रान्तः।)
पाण्डुः— कः कोऽत्र भोः।
(प्रविश्य।)
गलगण्डः— आज्ञापय करणीयम्।
पाण्डुः— भद्र, अपथ्यतां प्रवेशय।
गलगण्डः— (निष्क्रम्य पुनस्तया सह प्रविश्य) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो विज्ञापयति।
पाण्डुः— (अपथ्यतां प्रति। अपवार्य) अये, त्वं क्वचिन्महति राजकार्ये नियोजयितव्यासि।
अपथ्यता— अवहिदह्मि27।
पाण्डुः— जीवं प्रविश्य तमपथ्येष्वाहारविहारादिषु नियोजय।
अपथ्यता— तह। (इति निष्क्रान्ता।)
पाण्डुः— (पुरोऽवलोक्य) अये, देवः प्राप्तः। गलगण्ड, गच्छाग्रतः।
(ततः प्रविशति राजयक्ष्मा मत्सरश्च।)
पाण्डुः— (प्रणम्य) राजन्, कथमेतत्।
तन्वन्पुनः पुनरपि भ्रुकुटिं ललाटे
निःसीमनिःश्वसितमुच्चलिताधरोष्ठम्।
देवस्य शंसति मुखाम्बुजमन्तरङ्गे
रूढां रुषा रिपुजने सहसैव चिन्ताम्॥२६॥
राजा— पाण्डो, विजने प्रासादे समुपविश्य सर्वं बोधयिष्यामि।
पाण्डुः— गलगण्ड, प्रासादमार्गमादेशय।
गलगण्डः— इत इतो देवः।
पाण्डुः— (विलोक्य) राजन्, आरुह्यतामयम्।
श्रीकण्ठक्षितिधरशृङ्गभङ्गदायी प्रासादः शिखरविराजिहेमकुम्भः।
सोपानैः स्फटिकमयैः सुखेन गम्यो रम्योऽयं भवति कलस्वनैः कपोतैः॥२७॥
(सर्वे प्रासादारोहणं नाटयित्वोपविशन्ति।)
राजा— पाण्डो, किं न त्वया श्रुतो मत्सरात्परवृत्तान्तः।
पाण्डुः— श्रुतं कुष्ठमुखात्पुरवृत्तं तं विशेषतः श्रोतुमिच्छामि।
राजा— पाण्डो, श्रूयतां मत्सरमुखात्। ततः समुचितं प्रतीकारं विधास्यसि। मत्सर, कथय।
मत्सरः—
संनद्धैः पुररक्षणे परिगतं प्राणादिभिः पञ्चभि-
स्तत्तद्देशगतैश्च यत्ननिचयैस्तद्दुष्प्रवेशं पुरम्।
रन्ध्रान्वेषितया कथं कथमपि प्राप्ताः स्म देवाज्ञया
यत्रान्तर्मुखतामुपेत्य नियतं जीवस्तपोऽतप्यत॥२८॥
राजा— के ते प्राणादयः कतिविधाः कुत्र गताः किंनामधेयाश्च। कानि च तानि यत्नानि कीदृशानीति सप्रकारमावेदय।
मत्सरः—
हृदयसततावासः प्राणो महाबलविक्रमः
सकलमपि तद्यस्यायत्तं पुरं सपरिच्छदम्।
कलितनिलयोऽपानो मूलस्थले हितकृद्विभो-
र्वसति च समानाख्यो गुल्फे बली घनशूलभृत्॥२९॥
किं च।
कण्ठोपकण्ठे निवसन्नुदानः करोत्यकुण्ठां किल राजभक्तिम्।
व्यानस्तु सर्वत्रचरः पुरेऽस्मिन्करोति जीवे सकलानुभूतिम्॥३०॥
शल्यानि यानि किल देहभृतां शरीरं
नानाङ्गकेषु महतीं प्रथयन्ति बाधाम्।
तेषां समुद्धरणकर्मणि साधनानि
यन्त्राणि कानिचन संघटितानि तत्र॥३१॥
यानि किल
अर्शोभगंदरमुखस्य रुजां गणस्य
क्षाराग्निशस्त्रपरियोजनमङ्गरक्षाम्।
मस्त्यादिकर्मघटकादि च कार्यजातं
कुर्वन्त्यपायरहितानि च तत्र तत्र॥३२॥
अपि च।
यद्धर्यक्षसदृक्षरूक्षवदनं तत्सिंहवक्त्राभिधं
यच्चर्क्षस्य मुखाभभीषणमुखं भल्लूकवक्त्रं हि तत्।
तत्कङ्कानननामकं प्रतिभयं यत्कङ्कतुल्याननं
यन्त्रं काकमुखं तदेव यदपि ध्वाङ्क्षतितीक्ष्णाननम्॥३३॥
विस्तीर्णानि नवद्वयाङ्गुलपरीणाहानि कण्ठे परं
संनद्धानि च कीलकैः सुघटितैर्मूलेऽङ्कुशाभानि च।
पर्यन्तेषु पुनर्मसूरसदृशाकाराणि तिष्ठन्त्यहो
तत्र स्वस्तिकनामकानि कतिचिद्यन्त्राणि घोराणि च॥३४॥
तान्येव सुदृढान्यस्थिलग्नशल्यापकर्षणम्।
कुर्वन्ति स्वस्तिकाख्यानि यन्त्राणि हि शरीरिणाम्॥३५॥
अपि च।
एकान्येकमुखान्यपि नाडीयन्त्राणि सूक्ष्मसुषिराणि।
स्रोतोगतशल्यानां दर्शनचूषणविधौ समर्थानि॥३६॥
एवमादिभिर्बहुविधैर्यन्त्रनिवहैरन्यैरपि परिगुप्ततया दुर्गममपि पुरं कथंचन प्रविश्य मनसः पारतन्त्र्यकरणाय वयं यावदितस्ततः संचरितुं प्रवृत्तास्तावदेव विज्ञानविधेयेन विचारनाम्ना नागरिकहतकेन परिज्ञाताः।
पाण्डुः— ततस्ततः।
मत्सरः— ततः कामादिषु तत्र तादृशीं दुरवस्थां प्रपन्नेष्वहमेक एव हतभाग्यतया वैरिवशं गतस्तत्कृतमवमानजातमशरणतया सहमानस्तदीयभटैरितस्ततो विकृष्यमाणस्तदुदितवाचिकमपि निशमयंश्चारवधविमुखैस्तैरेव कृपया विमुक्तः प्रज्वलदवमानाग्निसंतप्यमानः स्वजनमुखावलोकने कृतलज्जतया क्वचन विजनकाननसीमनि कठोरतपश्चर्यया विनिपातिततनुर्भर्तुरानृण्यं भजेयमिति पुरान्निःसरन्नन्तरा सकिंकरेण कुष्ठेन देवपादमूलं प्रापित इत्येतदवसानं प्रवृत्तेः श्रुत्वा देवः प्रमाणम्।
राजा— कुमार, श्रुतं खलु निरवशेषमस्य मुखात्। किमत्र प्रतिविधेयम्।
पाण्डुः— (विचिन्त्य) देव, किमन्यत्।
सन्तु यन्त्राण्यनेकानि सन्तु वा सैनिकाः परे।
त्वत्कोपाग्नौ पतङ्गत्वं भजेरन्निति मे मतिः॥३७॥
राजा— पाण्डो, सत्यमेव किं कालविलम्बेन। सर्वथा प्रविश्यान्तःकोशागारम्
शस्त्रेण सर्वमपि खण्डश एव कृत्वा
गृध्रव्रजाय निखिलं बलिमर्पयामि।
येनौदनो दिविषदां विकलीकृतोऽभू-
त्किं तस्य मे भयममी कितवा विदध्युः॥३८॥
अपि च।
अमृतनिधिरयं यः सोऽपि मत्पीडितः स-
न्न विसृजति मदीयेनाधिनाद्यापि कार्श्यम्।
निजविकटजटालीकाननस्थापितस्य
प्रभवति स महेशोऽप्यस्य किं पूरणाय॥३९॥
हन्त हन्त।
स ददाति नाम गिरिशो रसमेतेषामुपासनपराणाम्।
लब्धेनैतेनास्मानेते नाम प्रशमयन्ति॥४०॥
(विहस्य।) अहो विचारचातुरी विज्ञानहतकस्य।
(आकाशे।)
अरे विज्ञानहतक,
आश्रित्य यं सततमुत्पतसि स्मयेन
निर्वापयामि तमहं सहसैव जीवम्।
पश्चाद्विनङ्क्ष्यति भवानपि चाश्रयस्य
नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः॥४१॥
राजा— कः कोऽत्र भोः, शस्त्रम्। इत्युत्थातुमिच्छति।)
पाण्डुः— ननु संनिहितमेव शस्त्रम्। तथापि किंचिद्विज्ञापयामि। अस्त्येवायमन्तिमः प्रकारः। अपि तु
त्रिषूपायेषु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः।
उपायमिममेवातो मनो मे प्रयुयुक्षते॥४२॥
राजा— कोऽयमुपायः।
पाण्डुः— (कर्णे।) एवमेवम्।
राजा— भवतु तथा। अस्त्येवैतदनन्तरकर्तव्यम्।
पाण्डुः— देव, मार्गश्रम इव दृश्यते सिद्धं च सर्वं शयनादि।
राजा— त्वमपि स्वकार्येऽवहितस्तिष्ठ। अहमपि भुक्त्वा निद्रास्थानं गच्छामि।
(इति निष्क्रान्ताः सर्वे।)
इति पञ्चमोऽङ्कः।
————
षष्ठोऽङ्कः।
(ततः प्रविशति कर्मणा सह कालः।)
कालः— वत्स कर्मन्, जीवस्य राज्ञः पुरबाधनार्थं यक्ष्मराजमन्त्रिणा पाण्डुना प्रयुक्तान्रोग-रूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सरसतत्प्रतिभटजातं किं करोतीति जिज्ञासते मे हृदयम्।
कर्म— भगवन्, सर्वानुस्यूतस्य तव किं नामाविदितमस्ति।
कालः— भवानपि तादृश एव। महान्खलु तव प्रभावः। तथाहि।
त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति-
र्लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च।
किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत-
स्तत्त्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम्॥१॥
अपि च।
त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा त्रिधानेकफलानि दत्से।
इन्द्रत्वमिन्द्रस्य विधेर्विधित्वं हरेर्हरित्वं च फलं त्वदीयम्॥२॥
कर्म— आर्य, अवाङ्मनसगोचरस्तव महिमा।
** सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या**
(सविनयम्।)** भवति भवदधीनं मद्विधानं जनानाम्।**
भगवन्, किमन्यद्ब्रवीमि।
परिणमयसि पुंसां दातुमर्थात्मना मां
त्वयि कृतिमति षोढा विक्रियन्ते च भावाः॥३॥
किं च।
त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम्।
ऐकध्यमापन्नमखण्डरूपमाधारमेषो जगतामवैमि॥४॥
निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान्।
भवत्तनूभृत्त्वयने तथाब्दं युगं च मन्वन्तरमप्यवैमि॥५॥
कालः— तदिदानीं पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुषी कृतार्थयिष्यावः। पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गृहीतो राजेति जानामि।
आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः।
उभयेषामपि युद्धं पश्यावः संलपावश्च॥६॥
किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः।
कर्म— भगवन्, कीदृशो ज्ञानशर्मणोपजापः।
कालः— वत्स, श्रूयताम्।
तत्तत्कार्यविशेषसाधनविधावुक्त्वेतिकर्तव्यतां
जीवस्यास्य विभोः स्वकीयपृतनासंनाहमालोकितुम्।
निष्क्रान्ते सचिवे कदाचन भजत्येकाकितां राजनि
श्रुत्वा तत्समयं तदन्तिकभुवं स ज्ञानशर्मा ययौ॥७॥
अनन्तरमायान्तमवलोक्य दूरादेव
अथ सुचिरवियोगात्संदिहानः सखित्वे
किमपि विवशचेता निर्भरैर्हर्षभारैः।
कथमपि समुदश्रुर्बाष्पसंरुद्धकण्ठो
वचनमिदमवोचन्मत्तहंसस्वरेण॥८॥
चेतः शीतलतामुपैति नयने विस्तारिणी कौतुका-
न्निर्मर्यादमुपैत्यमानिव तनौ कोऽप्यन्तरानन्दथुः।
बाहू मां परिरम्भणे त्वरयतस्त्वां वीक्ष्य कस्त्वं सखे
पुण्यैः पूर्वकृतैश्चिरान्मम दृशोः पन्थानमारोहसि॥९॥
कर्म— ततस्ततः।
कालः— ततोऽसौ जीवस्य वचनमिदमाकर्ण्य ज्ञानशर्माकथयत्।
सोऽहं जीव विभो चिरन्तनसखस्ते ज्ञानशर्मा तथा
प्राणेष्वन्यतमो मुहुस्तव हिताकाङ्क्षी च सर्वात्मना।
विज्ञानस्य कुमन्त्रितैः परवति त्वय्यव्यवस्थस्थितौ
शान्तस्त्वन्नगराद्विरक्तहृदयः प्रास्थामनास्थावशात्॥१०॥
संप्रति हि।
दुःसामाजिकबोधनैः कुपदवीसंचारमासेदुष-
स्तेनापज्जलधौ निराश्रयतया राज्ञो वृथा मज्जतः।
ब्रूते यो न हितं वचोऽप्रियमपि स्वेष्टं निगृह्याग्रहा-
त्स्वामिभ्यः स तु बुद्धिमत्पशुरिति प्राप्नोति मन्त्री प्रथाम्॥११॥
अतः किल
विज्ञानशर्महतकस्य वृथा कुमन्त्रै-
र्घोरामिमां सुमहतीं गतमापदं त्वाम्।
आकर्ण्य देव हितवागुपदेशहेतो-
रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूषुः॥१२॥
कर्म— ततस्ततः।
कालः— ततश्च राजा सरलप्रकृतितया ‘सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि। त्वत्तोऽपि मे श्रेयः संपादकः कोऽन्योऽस्ति। तत्कथय प्रस्तुतोचितं हितम्’ इति तमन्वयुङ्क्त।
कर्म— ततस्ततः।
कालः— ततो ज्ञानशर्मा राजानमुपह्वरे स्वैरमित्थं बोधयामास।
शश्वन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं
मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः।
एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीषावतां
दुःखे न्यायविदो विमोहमिह के तन्वन्ति नन्वन्तिमे॥१३॥
जगत्प्रोतं यस्मिन्विविध इव सूत्रे मणिगणः
समस्तं यद्भासा तदपि च विभाति स्फुटमिदम्।
अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं
निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान्॥१४॥
तत्तादृशः सुखघनस्य निरञ्जनस्य
सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन्।
विज्ञानशर्मवचनैर्विपरीतवृत्ते-
र्मन्ये न युक्त इव ते ममताभिमानः॥१५॥
इत्यादिभिर्बहुविधैरुपपत्तिपूर्वै-
रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः।
कोषे बले रिपुवधे च बभूव सद्यो
जीवो विरक्तहृदयो विगताभिमानः॥१६॥
कर्म— भगवन्, इत्थं ज्ञानशर्मणोपजप्तस्यापि जीवस्य राज्ञः कथमधुना रिपुवधे प्रवृत्तिः।
कालः— श्रूयताम्। इत्थं ज्ञानशर्मा राज्ञो रहस्युपजापं कुर्वन्सेनासंनिवेशादागतस्य विज्ञानशर्मणो वचनमाकर्ण्य न नः परमिह स्थातव्यमिति राजानमामन्त्र्य जगाम।
कर्म— ततस्ततः।
कालः— ततश्च निष्क्रान्ते ज्ञानशर्मणि प्रविश्य विज्ञानशर्मा राजानमालोक्य अये, किमयमपूर्व इव राजा पुरादिषु परित्यक्ताभिमान इव दृश्यते। तद्बहुधा ज्ञानशर्मणोपजापितः स्यात्। भवतु। सर्वमिदं स्वयमेव व्यक्तीभविष्यति। (इति राजसमीपं गतः।)
कर्म— ततस्ततः।
कालः— राजा च तमालोक्य सावहित्थस्तमनुसरन्निव सादरमपृच्छत्। ‘मन्त्रिन्, कथय कीदृशः पुरवृत्तान्तः परवृत्तान्तश्च’ इति।
कर्म— ततस्ततः।
कालः—
इति राज्ञा समाज्ञप्तो नयज्ञो मन्त्रिशेखरः।
प्रत्युत्तरं तदादत्त प्रज्ञावज्ञातवाक्पतिः॥१७॥
स्वायत्तं पुरमेव नः समजनि स्वामिन्भवच्छासना-
त्तत्तद्देशनिविष्टपत्रनिचयव्यापारसंरक्षितम्।
निर्दग्धा भवतः प्रतापमहसा नूनं पतङ्गा इव
प्रत्यर्थिप्रकरा भवेयुरधुना नामावशेषाः क्षणात्॥१८॥
कर्म— ततस्ततः।
कालः— इत्याकर्ण्य राजा ज्ञानशर्मवचोऽनुस्मरन्नुभयोर्मतयोरपि दोलायमानमानस इतिकर्तव्यताम-व्यवस्यन्नित्थमाक्षेपमुखेन व्याजहार।
निसर्गतो ये रिपवो हि रोगा वातादिभिस्तज्जनकैः समन्तात्।
अधिष्ठितेऽस्मिन्कुटिलैः प्रवृत्त्या स्वायत्तता हन्त कथं पुरे नः॥१९॥
किंच।
संरक्ष्यते निजवशंवदसेवकेन
यः पाण्डुना विमतखण्डनपण्डितेन।
सोऽयं प्रतापपरिदग्धपुरो विसर्प-
ञ्जेयः कथं कथय संप्रति राजयक्ष्मा॥२०॥
कर्म— ततस्ततः।
कालः— इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत्। राजन्, श्रूयताम्।
वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति।
यथारणेर्वह्निरुदर्चिरुद्यन्दहत्ययत्नादरणिं तमेव॥२१॥
अपन्थानं त्विति न्यायादात्मद्रोहिषु तेष्वमी।
आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो॥२२॥
अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु। किं च।
स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः।
जयश्रियं हस्तगतां जानातु भगवान्क्षणात्॥२३॥
कर्म— ततस्ततः।
कालः— इत्थं मन्त्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मन्त्रिन्, ‘इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि’ इति पृष्टो मन्त्री कथयामास—
पुरस्य दार्ढ्ये योगस्य सिद्धिः सर्वार्थसाधिनी।
अखण्डानन्दसिद्धिश्च फलं तेनैव जायते॥२४॥
कर्म— ततस्ततः।
कालः— इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः। प्रत्युत हानिरेव फलम्। अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च। कुत एतावान्यत्र इति वदति राजनि पुनरपीत्थंसमाहितवान्मन्त्री—
प्रारब्धरहितस्यैवं भवेदेव न संशयः।
प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः॥२५॥
किं च।
श्लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिष्वकस्मात्।
ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनस्ते प्रबला भवेयुः॥२६॥
किं च।
यक्ष्मणि जाग्रति तस्मिन्पाण्डुज्वरसंनिपातपरिवारे।
देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण॥२७॥
इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः।
कर्म— ततस्ततः।
कालः— तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहु-स्तमित्थं प्रशंसन्नवोचत्—
त्वयि दत्तभरस्य मेऽधुना किं बहुनानेन विचारणश्रमेण।
भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम्॥२८॥
कर्म— ततस्ततः।
कालः— ततश्च किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम्। अतो विज्ञापयामि। तिष्ठतु दार्ढ्यं मद्वचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते।
कर्म— भगवन्, ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः।
कालः— वत्स,
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः।
तयोर्विरोध इत्येतत्किमाश्चर्यकरं तव॥२९॥
कर्म— भवतु नाम तयोर्विरोधः। तदेवान्तरमुपलभ्य क्रियतां च द्विषद्भिरुपजापः। ज्ञानशर्मणा तु स्वामिहितैषिणा विपक्षानुकूलं पुराभिमानशैथिल्यं कथमुपदिष्टम्।
कालः— नहि विपक्षानुकूलमिति न च तदीयोपजाप इति वा प्रवृत्तिरेतस्य। किं तु वस्तु तत्त्वमुपदेष्टव्यमित्येव तस्य स्वभावः।
ज्ञानमद्वैतसन्मात्रं विपक्षस्तत्र को वद।
स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी॥३०॥
मूढवद्देहतादात्म्यं राजा न प्रतिपद्यताम्।
बाधितं तद्दग्धपटन्यायेनास्त्विति तस्य धीः॥३१॥
तदुक्तमभियुक्तैः—
‘बाधितं दृश्यतामक्षैस्तेन बाधो न शक्यते।
जीवन्नाखुर्न मार्जारं हन्ति हन्यात्कथं मृतः॥३२॥
किं च।
मायया बहुरूपत्वे सत्यद्वैतं न नश्यति।
मायिकानां हि रूपाणां द्वितीयत्वमसंभवि॥३३॥
कर्म— भगवन्, युज्यत एतत्।
कालः— एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिष्यति तदालोकयिष्यावहे। (भुवमवलोक्य।) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः।
(इति परिक्रामतः।)
(ततः प्रविशति राजा विदूषकश्च।)
राजा—
संख्यापेततया रसानपि भृशं षट्सेवमानस्य मे
तेष्वेवातिबुभुक्षुता प्रतिमुहुर्हाहा सखे जायते।
एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽन्नराशीनहं
पीयन्ते च रसालमाक्षिकदधिक्षीराज्यकुल्या मया॥३४॥
अङ्गान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू-
र्वारि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः।
सर्वोऽयं लवणाम्बुराशिरपि चेद्दुग्धाम्बुधिर्जायतां
भुञ्जानस्य तथापि हन्त पिबतो न क्षुत्पिपासाशमः॥३५॥
तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम्।
विदूषकः— (सहर्षम्।) अज्ज एव्व एदं करणिज्जं। जेण अहं वि एदस्सिं कज्जे तुअ सहाअत्तणे दक्खो होमि। जम्मेण तु विण्णाणेण भवं मिदभोअणे सव्वदा सिक्खीअदि तेण विण्णत्तो वि तुमं तस्स वअणं मा करेहि^(१)।
राजा— साधु सखे, साधु। सम्यगुपदिष्टम्। तथा करिष्ये।
कालः— वत्स, श्रुतं भवता।
**कर्म—**श्रुतमेव। एष पाण्डुना प्रहितामपथ्यताजननीं स्वस्य बहु बुभुक्षां न जानाति विदूषको-ऽप्यजानन्नेवं भाषते।
राजा— कः कोऽत्र भोः।
विदूषकः— सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमच्चस्स आआरणत्थं दोआरिअं आमन्तेसि^(२)।
राजा— वयस्य, मा बिभिहि। तव मतमेवानुसरामि।
विदूषकः— जइ एव्वं थिरपडिण्णो होहि। एदस्त अविह्मरणत्थं वसणन्ते मए बद्धो गण्ठी। अहं जेव्व तं आणेमि^(३)। (इति निष्क्रम्यामात्येन सह प्रविशति।)
अमात्यः— सति दौवारिके राज्ञा किमर्थं त्वं प्रहितः।
विदूषकः— एत्थ कज्जे अहं जेव्व दोवारिओ28।
अमात्यः— कीदृशे कार्ये।
——————————————————————————————————————
१. अद्यैवैतत्करणीयम्। येनाहमप्येतस्मिन्कार्ये तव सहायत्वे दक्षो भवामि। जाल्मेन तु विज्ञानेन भवान्मितभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु।
२. शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थं दौवारिकमामन्त्रयसि।
३. यद्येवं स्थिरप्रतिज्ञो भव। एतस्याविस्मरणार्थं वसनान्ते मया बद्धो ग्रन्थिः। अहमेव तमानयामि।
——————————————————————————————————————
कालः— कर्मन्, मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा।
**कर्म—**बाढम्।
विदूषकः— अमच्च, रण्णो दाणिं बहुभक्खणणामहेऐ उवट्ठिदे कज्जे^(१)।
मन्त्री— कीदृशी बहुभक्षणता।
विदूषकः— किमण्णं। बुभुक्खिदो वग्घो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलअकालकुविदो रुद्दो विअ चिट्ठदि^(२)।
मन्त्री— (विहस्य। स्वगतम्।) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भविष्यतीत्येतस्य हृदयम्। (प्रकाशम्।) गच्छाग्रतः। अहमप्यागमिष्यामि। (आकाशे दत्तदृष्टिः।) किं न्वेतत्स्यात्।
कार्यान्ववेक्षणबिधौ सदसि स्थितेन
येन क्षमाजनि चिरं सहितुं बुभुक्षा।
भुक्त्वा च यस्य कियदप्यशनं नितान्तं
तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति॥३६॥
कालः— अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि।
कर्मः— बाढम्। अलमिदम्। अन्यदप्यचिन्तनीयं बुद्धिविलसितमिति जानामि। यत्किल
दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गीं सतीं
यः शान्तस्तपसि स्थितः स गिरिशः स्वं प्रत्युपात्तायुधम्।
कोपोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमज्वल-
ज्ज्वालाजालविजृम्भणेन सहसा भस्मीचकार स्मरम्॥३७॥
कालः— (विहस्य।) शृणु तावत्।
——————————————————————————————————————
१. अमात्य, राज्ञ इदानीं बहुभक्षणनामधेये उपस्थिते कार्ये।
२. किमन्यत्। बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षितुकामो राजा मा खल्वेनं मिवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति।
——————————————————————————————————————
मारुतं यः पिबन्नेव महर्षिस्तपसि स्थितः।
तमहं कुम्भजन्मानं तोयराशिमपाययम्॥३८॥
मन्त्री— अतिबुभुक्षया राज्ञः किमप्याशङ्कते मे हृदयम्। यथाहुर्नीतिज्ञाः— ‘अतिबुभुक्षा राज्ञो राज्यच्युतिसूचिका’ इति। ( राजानं निरूप्य।)
शुष्यन्त्या धृतशोषणे रसनया शश्वल्लिहन्सृक्किणी
किंचिन्मग्नविलोचनः श्रमजलक्लिद्यत्कपोलालिकः।
आरूढभ्रुकुटीभयंकरमुखो निःश्वासदूनाधरो
दृष्ट्या कूणितया विलोकयति मामायान्तमेवान्तिके॥३९॥
(उपसृत्य।) जयतु जयतु देवः।
राजा— उपविश्यताम्। (इत्यासनं निर्दिशति।)
विदूषकः— वअस्स, मए गहिदत्थो किदो अमच्चो29।
राजा— अमात्य, सज्जीक्रियतामनेनोक्तं सर्वमपि।
मन्त्री—
किमियमपूर्वा बुद्धिर्देवस्य विजृम्भते ससंरम्भम्।
ननु कुर्वे यदिदानीमनेन दुर्मेधसा कथितम्॥४०॥
विदूषकः— दाणिं वअस्स, तुमं जेव्व मह सरणं, जं कुषिदो अमच्चो30।
राजा— अलं चापलेन।
मन्त्री— तिष्ठ तूष्णीम्। जानामि ते दौष्ट्यम्।
(विदूषको लज्जितस्तिष्ठति।)
मन्त्री— (स्वगतं विचित्य।)
स्यादेतत्किं नात्र पश्यामि हेतुं राज्ञो न क्षुद्राज्यविभ्रंशचिह्नम्।
अस्य श्रेयः सिद्धये बद्धकक्षः किं नाहं स्यां किं न मे स्वामिभक्तिः॥४१॥
परं त्वेवं निश्चिनोमि द्विषद्राजमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति।
भवतु। अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि। स एवास्य प्रतीकारः। (प्रकाशम्।) प्रासादस्योपरि चलतु देवः। तत्रैव संपाद्यते महती तृप्तिः।
राजा— बाढम्।
(सर्वे प्रासादाधिरोहणं नाटयन्ति।)
विदूषकः— (सर्वतो विलोक्य।) भो वअस्स, किं एदं भासिणीपाआरे अपुव्वं किं वि दीसइ^(१)।
राजा— अमात्य, किमिदम्।
कर्म— भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः तत्र त्वग्रूपप्रथमप्राकारे सिध्मक-पद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते। तान्विदूषको राजा च न वेत्ति, अतः पृच्छति।
कालः— सत्यमेवेदम्।
मन्त्री— राजन्, सिध्मकपद्मककण्टकाः।
विदूषकः— (सभयम्।) वअस्स, एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्सन्ति। ता अस्मदो सिग्धं पलाअणं करेह्म^(२)।
मन्त्री— विदूषक, मा भैषीः।
गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे।
एष हरिद्राक्षारः कण्टकहृतये मया प्रहितः॥४२॥
राजा— सुष्ठु कृतममात्येन।
कालः— गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदूषको ब्रवीति।
कर्म— एवमेतत्।
विदूषकः— अज्ज, को एसो31।
——————————————————————————————————————
१. भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्वं किमपि दृश्यते।
२. वयस्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति। तदस्माच्छीघ्रं पलायनं कुर्मः।
——————————————————————————————————————
मन्त्री— व्यङ्गनामा रोगः।
अभिमुखमवेक्षमाणः शशरुधिरालिप्ततनुरिमं हन्तुम्।
तिष्ठति मुखमावृण्वन्मञ्जिष्ठाप्रमुखसाधनो लेपः॥४३॥
विदूषकः— किं एदं मल्लाणं आजोहणं विअ जं रत्तप्पवाहो दीसह^(१)।
मन्त्री—
वैधेय शस्त्रधाराक्षुण्णं प्रवहति पुरो न रक्तं यत्।
तव मूढतां धिगेष प्राकारो लोहिनी नाम॥४४॥
कालः— त्वग्रूप एष द्वितीयः।
कर्म— तथैव।
विदूषकः— अहो पमादो। सुवेदाए उपरि सव्वत्थ गअकण्णा वित्थिण्णा^(२)।
कालः— कर्मन्, श्वेतनाम्नि तृतीयत्वक्प्राकारे चर्मदलं नाम रोगं पृच्छति विदूषकः।
राजा— क एते संवर्तन्ते श्वेतायाम्।
मन्त्री—
देव योधेन तत्रापि नियुक्तेन मया पुरा।
आम्रपेश्यभिधानेन लेपेनाक्रम्य भूयते॥४५॥
विदूषकः— वअस्स, पेक्ख एत्थ का वि दुद्धतरङ्गिणी विअ वहइ। ता अञ्जलीहिं गेह्णिअ पिब^(३)।
मन्त्री— धिगौदर्य, सर्वत्राभ्यवहारभ्रान्तिः। भ्रान्त,
नेयं दुग्धतरङ्गिणी प्रवहति श्वित्रोऽयमिन्दुप्रभः
प्राकारं किल तुर्यतामुपगतं ताम्राख्यमाक्रामति।
——————————————————————————————————————
१. किमेतन्मल्लानामायोधनमिव यद्रक्तप्रवाहो दृश्यते।
२. अहो प्रमादः। श्वेताया उपरि सर्वत्र गजकर्णा विस्तीर्णाः।
३. वयस्य, पश्यात्र कापि दुग्धतरङ्गिणीव वहति। तदञ्जलिभिर्गृहीत्वा पिब।
——————————————————————————————————————
संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां
पातुं शक्यत एष किं तव ततो मौढ्यं त्वयाविष्कृतम्॥४६॥
(इति सभ्रूक्षेपं तर्जयते।)
राजा— क एनमभिसरति।
मन्त्री— एष मया नियुक्तो महातालेश्वरः।
कालः— कर्मन्, औषधविशेषोऽयम्।
विदूषकः— अध वेदिणीलोहिदाणं उवरि के वि उल्लुठअन्तो विअ दीसन्ति^(१)।
मन्त्री— सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति।
कर्म— भगवन्, वेदिनीलोहिते पञ्चमीषष्ठ्यौ त्वचौ। तत्र कुष्ठादेरुत्पत्तिः।
कालः— अस्त्येतत्।
विदूषकः— एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिज्जमाणसरीरो दीसइ^(२)।
मन्त्री— स्थूलायां विद्रधिरेष शत्रुमल्लः।
विदूषकः— (सभयम्। संस्कृतमाश्रित्य।)
प्राकारसप्तकमपि प्रसभं गृहीत्वा
स्वेद्यानि सप्त च विशोष्य तथैव कोषान्।
उल्लुण्ठयिष्यति रिपोर्निवहो भटानां
म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि॥४७॥
राजा— धिक् प्रमादम्। हन्त विज्ञानशर्मन्, आक्रान्तमेवारिभिरान्तरम्।
——————————————————————————————————————
१. अथ वेदिनीलोहितयोरुपरि केऽप्युल्लुठन्त इव दृश्यन्ते।
२. अत्र पुनः स्थूलानाम्नि सप्तमे प्राकारे कोऽपि लोहकारभस्त्रिकेव पूर्यमाणशरीरो दृश्यते।
——————————————————————————————————————
मन्त्री— देव, धीरो भव। यदि नाहं प्राणिष्यस्तदिदमभविष्यत्।
विदूषकः— (सकोपोपहासम्।) एदं पच्चक्खं खु वट्टइ। तुमं उण अणुमाणेण एदं णत्थित्ति वण्णेसि। ता अच्छरिअं तक्को विण्णाणसम्ममन्तिणो। वअस्स, आकण्णेहि मे वअणं। एसो अमच्चो एव्व सव्वदुवारेसु सत्तुहिं आक्कन्तेसु भिक्खुवेसं गेह्निअ पलाइस्सदि। तुह पुणो दुल्लहो मोक्खो। ता एहि। सुरङ्गादुवारेण तुमं णइस्से। (इत्युत्थाय सर्वतो विलोक्य।) हद्धी हद्धी। किं करेमि मन्दभग्गो। जलमत्तं वि कहिं वि ण दीसइ। सत्तापि जं परिहाओ रित्ताओ विअ दीसन्ति। (पुनर्दृष्ट्वा।) वअस्स, किं एदं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव्व सुक्काओ पुणो वि अपरिमिदरसाओ दीसन्ति। कधं इमाओ उत्तरिअ गच्छह्म^(१)।
राजा— अमात्य, श्रुतमेतस्य वचनम्।
मन्त्री—
एतन्न किंचन ततस्तव मास्तु भीति-
रोजायितं रिपुजनस्य निरीक्ष्य किंचित्।
यत्खेयपूरणविशोषणयोः समर्थं
तन्मूलमेव हि विजृम्भणमप्यरीणाम्॥४८॥
अपि च।
रिपवो लब्ध्वा मार्गं रसादिपरिखाः प्रकोप्य तन्मूलम्।
देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः॥४९॥
——————————————————————————————————————
१. एतत्प्रत्यक्षं खलु वर्तते। त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि। तदाश्चर्यं तर्को विज्ञानशर्ममन्त्रिणः। वयस्य, आकर्णय मे वचनम्। एषोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेषु भिक्षुवेषं गृहीत्वा पलायिष्यते। तव पुनर्दुर्लभो मोक्षः। तदेहि। सुरङ्गाद्वारेण त्वां नेष्ये। हा धिक् हा धिक्। किं करोमि मन्दभाग्यः। जलमात्रमपि कुत्रापि न दृश्यते। सप्तापि यत्परिखा रिक्ता इव दृश्यन्ते। वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा इदानीमेव शुष्काः पुनरप्यपरिमितरसा दृश्यन्ते। कथमिमा अवतीर्य गच्छामः।
——————————————————————————————————————
कालः— रसरक्तमांसमेदोस्थिमज्जशुक्ररूपाः परिखात्वेन निरूपिताः।
कर्म— एषां वृद्धौ श्लेष्मविद्रधिरक्तविसर्पादयो भवन्ति। कार्श्ये तु रौक्ष्यश्रमशोषादयः।
कालः— युक्तं भवतोक्तम्।
मन्त्री— एवमेते स्वामिकार्ये बद्धपरिकरा यतन्तु नाम। सन्त्येवैषां प्रतीकारशस्त्राण्यस्मदायत्तानि।
विदूषकः— किं एसा वादाली विअ मह अक्खीहिं आउलेदि32।
राजा— अहो प्रचण्डोऽयमनिलः। तथाहि।
ताराश्च्यावयितुं घनान्विकिरितुं कृत्वार्कतूलोपमा-
न्भित्त्वा पातयितुं भुवि क्षितिभृतां तुङ्गानि शृङ्गाणि च।
सद्यः शोषयितुं समुद्रमवनीकर्तुं तु पांस्वात्मना
द्रागुन्मूल्य च भूरुहान्भ्रमयितुं शक्तो भवत्यम्बरे॥५०॥
मन्त्री— अयमेव वृद्धिशोषहेतुः परिखाणाम्। एनमुपजीव्योत्कुप्यन्ति शुष्यन्ति च सर्वतः परिखाः।
विदूषकः— किं मूढो विअ पेक्खसि। करेहि एदाणं पडीआरं33।
मन्त्री— अदृष्ट्वा किमेवं प्रलपसि।
विदूषकः— (उष्ट्रग्रीविकया विलोक्य।) अच्चरिअं अच्चरिअं। एत्थ सत्तासत्ति वट्टइ। वड्ढन्तेसु सत्तसु एदे वीरा रोअउलं पहरन्दि^(१)।
मन्त्री— तत्र श्लेष्मप्रभृतीन्रक्तपुत्रांश्चन्द्रप्रभा प्रहरति।
विदूषकः— कधं इत्थिआ वि सूराअदि34।
मन्त्री— रक्तपुत्राणां विसर्पप्लीहप्रभृतीनाममृतगुग्गुलुच (तृ?)णपञ्चका-
——————————————————————————————————————
१. आश्चर्यमाश्चर्यम्। अत्र शस्त्राशस्त्रि वर्तते। वर्धमानेषु शत्रुषु एते वीरा रोगकुलं प्रहरन्ति।
——————————————————————————————————————
दयः प्रहर्तारः। तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः। मेदसः पुत्राणां कफकेसरिप्रभृतयः।
कालः— कर्मन्, एवं वातपित्तकफेषु वात एको रसरक्तमांसादिधातूनां शोषकः पोषकश्च।
कर्म— एवमेवैतत्। धातूनां प्रकोपे धातुकार्श्ये च भिषजो वदन्ति ‘कटुकादयो मांसवृद्धिहेतवः’ इति।
‘कटुकाद्वर्धते मांसं कषायाच्छोणितो रसः।
लवणाद्वर्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते।
मधुराद्वर्धते शुक्रं तिक्तान्मेदः प्रवर्धते॥’
विदूषकः— (परिवृत्यावलोकितकेन।) अज्ज एदं होदु जुज्झदंसणम्। पेक्खदु भवं पुरट्ठिदं अच्चरिअं35।
राजा— आर्य, किमेतत्पश्यसि।
मन्त्री— (विहस्य।) पश्याम्येतत्।
एतत्पङ्गुद्वितयमनिलश्चारयत्याशयेषु
त्रिष्वश्रान्तं जरठगणिका काचिदेषा पुरस्तात्।
आजान्वग्रप्रविततकुचा लोभयन्ती प्रसूते
हन्तामर्थाङ्कुरमनुगता सर्वदा देहभाजाम्॥५१॥
कालः— सम्यगुक्तं मन्त्रिणा यत्पित्तकफौ पङ्गू इति भिषक्प्रसिद्धिः। आशयेष्विति कफपित्तवातानामाशया विवक्षिताः। अपथ्यतां जरठगणिकेति निरूपयन्ति। अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम्।
कर्म— साधु निरूपितम्।
राजा— किमिदमप्यरिभिरेवं कृतम्।
मन्त्री— कः संदेहः। श्रूयताम्।
पाण्डुः स्वस्य निशम्य मत्सरमुखात्तूलायितं विक्रमं
सेर्ष्यो मामकवाचिकेन हृदये राज्ञा निषिद्धोऽपि सन्।
प्रज्ञागर्ववशान्मदीयविजये जाताभिलाषोऽब्रवी-
दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम्॥५२॥
विदूषकः— कहं सन्तं उत्तवन्तो पाण्डू36।
मन्त्री— एवम्
अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे
किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः।
औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यापृता
त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः॥५३॥
अतस्त्वां विज्ञापयामि। संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्मत्कुल-कारकान्रसवाहिनीभिर्नाडीभिश्च पोषयन्ती राजानमपि स्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेषितवान्।
विदूषकः— अच्चरिअं एदाए दूतत्तणं जाए पङ्गुणो वि चालिदा। पेक्ख दाणिं वि किं वि मन्तअन्ती चिट्ठदि। सुणाहि दाव तूह्णीओ भविअ^(१)।
(ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः।)
मन्दाग्निवातकफपित्ताः— अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति। यतस्त्वत्संततिः खल्वेते। त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरस्तेषां प्रवेशः। वयं तु तत्र निमित्तमात्रम्।
कालः— कर्मन्, रसवतीत्यपथ्यताया नामान्तरेण भवितव्यम्।
कर्म— रुचिमतीत्यप्येतस्या नाम।
विदूषकः— एसा ताडआ विअ भीसणा अणुवट्टदि37।
——————————————————————————————————————
१. आश्चर्यमेतस्या दूतत्वं यया पङ्गवोऽपि चालिताः। पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति। शृणु तावत्तूष्णीको भूत्वा।
——————————————————————————————————————
मन्त्री— राजा चाहं च रामलक्ष्मणाविव वर्तावहे।
विदूषकः— अहं वि कोसिओ विअ38।
राजा— (विहस्य।) तादृक्प्रभावो महर्षिः खलु भवान्।
विदूषकः— भो वअस्स, एसो अमच्चो एदाए मं बलिं दाऊण अप्पाणं मोचेदुं अहिलसन्तो विअ दीसइ। दाणिं भवं जेव मह सरणम्^(१)।
मन्त्री— वैधेय, क्षणं तूष्णीं तिष्ठ। शृणुमः शेषमपि वचनमेषाम्।
वातादयः— अयि रुचिमति,
त्वां वीक्ष्य जागरूकां तस्यां तस्यां रुचिप्रविष्टायाम्।
स्वत एव भिद्यतेऽसौ विज्ञानादञ्जसा राजा॥५४॥
राजा—
आलापादेतेषां कुलालदण्डावघट्टनादिव मे।
हृदयं भ्रमतीदानीं सहसा चक्रमिव किं न्वेतत्॥५५॥
विदूषकः— अण्णं किम्। दिढं खु णिगिहीदो सि तुमं एदाए अपत्थदापिसाचिआए। अहं उण छवेदो बह्मणो होमित्ति सज्झसेण इमाए विसज्जिदो ह्मि^(२)।
मन्त्री— (विहस्य।) षड्वेदा इत्यनया संख्ययैव सूचितं वेदविज्ञानम्।
राजा— किं विस्मृतं त्वया यत्प्रागेव मम मनीषितार्थं विदूषकेण बोधितोऽसि।
मन्त्री— (स्वगतम्।) अहो त्रुटितसंघटिताया दास्या विलसितं यदियन्तं कालं विस्मृतापि बुभुक्षा स्मृता सती राज्ञो हृदयमाकुलयति। (प्रकाशम्।) तदप्यग्रे भविष्यति। देवेन तु एतद्वैरिप्रयुक्तमिति निश्चित्य तद्वशे न भवितव्यमिति बहुशः प्रार्थये।
——————————————————————————————————————
१. भो वयस्य, एषोऽमात्य एतस्या मां बलिं दत्त्वा आत्मानं मोचयितुमभिलषन्निव दृश्यते। इदानीं भवानेव मम शरणम्।
२. अन्यत्किम्। दृढं खलु निगृहीतोऽसि त्वमेतया अपथ्यतापिशाचिन्या। अहं पुनः षड्वेदो ब्राह्मणो भवामीति साध्वसेनानया विसर्जितोऽस्मि।
——————————————————————————————————————
राजा— (सबहुमानम्।) तथ्यं पथ्यं चाह भवान्। तदहमवहितोऽस्मि।
विदूषकः— को एसो विज्जपुञ्जो विअ धगधग्गअमाणो सव्वदो वि मह अच्छी आउलेदि^(१)।
मन्त्री— परिवारपरिवृतो ज्वरराज एषः। यमेनमुपरुध्य सर्वेऽपि रोगाः प्रहरन्ति। अत एवायं राजपदभागिति भिषग्व्यवहारः।
कर्म— युक्तमाह मन्त्री। तथाहि।
ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः।
क्रोधो दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भवः॥५७॥
जन्मान्तर्यो मोहमयः संतापात्मापचारजः।
विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते॥५८॥
कालः— कर्मन्, नानायोनिष्विति सुष्ठूक्तं त्वया।
पाकलस्तद्यथेभानामभितापो हयेषु च।
वान्तादानामलर्कः स्यान्मत्स्येष्विन्द्रमदः स्मृतः॥५९॥
ओषधीषु तथा ज्योतिश्चुणपा धान्यजातिषु।
जलेषु नीलिका भूमावूषो नॄणां ज्वरो मतः॥६०॥
राजा— पश्य सखे, पश्य।
त्रिकूटाद्रेः कूटैस्त्रिभिरिव शिरोभिः प्रतिभयो
दिशः पश्यन्दृग्भिः शशरुधिरसोदर्यरुचिभिः।
त्रयाणां पादानां तृणतरुसमुच्छ्रायजयिना-
मयं न्यासैर्भूमिं नमयति गदानामधिपतिः॥६१॥
कालः— कर्मन्, पश्यायं यस्मिन्नुदेष्यति तस्य जनस्य।
आलस्यमश्ममयतां पुलकोद्गमं च
गात्रे करोति न रतिं क्वचिदातनोति।
जाताश्रु जृम्भयति सप्तिविघूर्णमल्प-
प्राणं तमम्बु च पिपासयतेऽनुवेलम्॥६२॥
——————————————————————————————————————
१. क एष विद्युत्पुञ्ज इव धगधगायमानः सर्वतोऽपि ममाक्षिणी आकुलयति।
——————————————————————————————————————
कर्म— एवमेतत्। अपि चानेनाविष्टः।
यद्भक्ष्यमम्लकटुतिक्तमपेक्षते त-
न्न स्वादु खादति च सूर्क्षयते हितोक्तम्।
जङ्घां विवेष्टयति हुंकृतिमादधाति
बालेषु न क्वचन दर्शयते रुचिं च॥६३॥
विदूषकः— दिट्ठी वि ण पहुवदि णं पेक्खिदुं39।
मन्त्री— एष ज्वरोऽपि यक्ष्मराजसखः।
क्रोधनारोचकाध्मानैस्त्रिभिः पुत्रैरुपैधते।
भार्यया पञ्चविधया ग्रहण्यभिधया सह॥६४॥
विदूषकः— (अन्यतो विलोक्य सभयकम्पम्।) वअस्स, अहं दाणिं ण जीविस्सं, जदो खु करगहिदखग्गखेडअसरकम्मुअपरिघसूलगदा पच्चत्थिराअसेणा अभिवड्ढइ साअरो विअ^(१)।
मन्त्री— (विलोक्य।) एते व्रणराजपुत्रा अष्टविधा भगंदराः। एते च षड्विधा मूलाधिष्ठानम-भिव्याप्नुवन्ति। एते च कफसंभवा दश मेहाः पित्तसंभवैः षद्भिर्वातसंभवैश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः। अपरत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते। एतान्यपि च वातपित्तकफसंनिपात-भुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह सज्जीभवन्ति। एष गुल्मोऽपि शूलमवलम्ब्य विजृम्भते तथाष्टविधशूलाश्च निरुन्धन्ति।
कालः— कर्मन्, समर्थोऽयं मन्त्री रोगविशेषपरिज्ञाने।
मन्त्री— तथान्येऽप्यत्र बहवः प्रभवन्ति। ये किल
मन्दाग्न्युत्थोदरस्थामयसुहृद उदावर्तभेदा अशीति-
र्वातोत्थाः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च।
——————————————————————————————————————
१. वयस्य, अहमिदानीं न जीविष्ये, यतः खलु करगृहीतखड्गखेटशरकार्मुकपरिघशूलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर इव।
——————————————————————————————————————
चत्वारोऽक्ष्णोर्वसन्तो नवतिरपि चतुःसप्ततिर्वक्त्रनिष्ठा
मूर्धस्थाः पङ्क्तिसंख्याः क्रिमिगदनिवहोऽप्यस्ति नैके च शोफाः॥६५॥
तथा भूतोन्मादा विंशतिः।
आमवात इति कोऽपि चतुर्धा जायते निखिलरोगनिवासः।
वातपित्तकफशोणितमद्यक्ष्वेडजा षडुदयन्ति च मूर्छाः॥६६॥
अपि च।
एते षोढा भिन्ना उन्मादाश्च प्रवर्तन्ते।
अभिवर्तन्ते चामी हृद्रोगाः पञ्चधा भिन्नाः॥६७॥
विदूषकः— पमादो पमादो। एदेहिं अरिहिं दुवाराइं पाआरा परिखा कोसाआराइं अ सव्वं वि अक्कत्तम्। किं बहुजम्पिदेण। हृदयं। गुम्मं करिअ अधिट्ठिदं। तिलप्पमाणो वि देसो अणक्कन्तो ण दीसइ। (अञ्जलिं बद्ध्वा।) वअस्स, अदो वरं णत्थि मे जीविदासा। मम बह्मणीए विहुराए अन्धकूवणेत्ताए तुमं एव्व सुमरिअ जोअक्खेमं वहेहि। पढमं एव्व एसो अणत्थो सुणाविदो सि मए। तुमं उण दुम्मन्तिणो से वअणवीसम्भेण इमं दुरवत्थं पावदो सि। पेक्ख दाव तस्स फलं एदं संवुत्तं^(१)।
राजा— अमात्य, संवदत्येव विदूषकवचनम्।
त्वद्बुद्धिप्रसरोऽत्र धिग्विफलितो निक्षिप्य सर्वामपि
त्वय्येवात्मधुरां मया निवसता संप्राप्तमीदृक्फलम्।
वैयग्र्यं हृदि सर्वथास्मि गमितो द्वाराणि कोषालयाः
प्राकाराः परिखाश्च हा निखिलमप्याक्रान्तमेवारिभिः॥६८॥
——————————————————————————————————————
१. प्रमादः प्रमादः। एतैररिभिर्द्वाराणि प्राकाराः परिखाः कोषागाराणि च सर्वमप्याक्रान्तम्। किं बहुजल्पितेन। हृदयं गुल्मं कृत्वा अधिष्ठितम्। तिलप्रमाणोऽपि देशोऽनाक्रान्तो न दृश्यते। वयस्य, अतःपरं नास्ति मे जीविताशा। मम ब्राह्मण्या विधुराया अन्धकूपनेत्रायास्त्वमेव स्मृत्वा योगक्षेमं वह। प्रथममेव एषोऽनर्थः श्रावितोऽस्ति मया। त्वं पुनर्दुर्मन्त्रिणोऽस्य वचनविश्रम्भेणेमां दुरवस्थां प्रापितोऽसि। पश्य तावत्तस्य फलमिदं संवृत्तम्।
——————————————————————————————————————
एवं स्थिते किमन्यद्ब्रवीमि।
गात्रं मे परितप्यते पदयुगं शक्नोति न स्पन्दितुं
स्तब्धं चोरुयुगं भुजौ च भजतः कम्पं मुखं शुष्यति।
नास्त्यक्ष्णोर्विषयग्रहः श्रवणयोरप्येवमेव त्वचो-
ऽप्यन्यत्किं चलतीव हृन्निजपदादाशा भ्रमन्तीव च॥६९॥
अपि च।
ननु मे दुःखभागात्मा न धैर्यमवलम्बते।
काठिन्यमिव मृत्पिण्डो घनवारिसमुक्षितः॥७०॥
किं च मया भवत्संविहितरसगन्धकौषधघटितरसायनप्रत्याशया
त्वदुपदेशवशंवदचेतसा वपुषि नश्वरके ममता वृथा।
विदधता शिवभक्तिरसायनं शिवशिवान्तरितं परमार्थदम्॥७१॥
मन्त्री— सत्यमेतच्छिवभक्तिरसायनं परमार्थदमिति सकलैहिकसंकटविघटनं च। किं तु
पुराभिमानो न वृथा तद्दार्ढ्येन विना कथम्।
चित्तस्वास्थ्यं विना तच्च शिवभक्तिर्दृढा कथम्॥७२॥
अतो विज्ञापयामि।
कृच्छ्रेऽपि धैर्यग्रहणं राज्ञो विजयसाधनम्।
इति नीतिविदः प्राहुर्धैर्यमालम्ब्यतां ततः॥७३॥
किं च तव निदर्शयामि तादृशमितिहासम्। यथा।
श्रेयः प्रापदगस्तिना स नहुषः शप्तोऽपि धैर्यग्रहा-
न्नन्वालम्ब्य धृतिं शुभं नलहरिश्चन्द्रावपि प्रापतुः।
कृत्वा छद्मकृतेऽरिणा प्रणयिनीचौर्येऽपि धैर्यं वह-
न्बद्ध्वा सेतुमुदन्वदम्भसि न किं रामो विजिग्ये रिपून्॥७४॥
विदूषकः— वअस्स, सुदं किं दाणिं वि एदस्स मन्तिणो एदं एव्व वअ-
णम्। संपदं एसो अत्ताणं वि ण जाणादि राजकज्जं कुदो उण उम्मादं वा उवजावं वा सत्तुकिदम्^(१)।
मन्त्री— (विहस्य।) वैधेय, किं वृथा प्रलपसि। देव, अलं धैर्यत्यागेन। एते च मत्संनिहिता रसौषधिविशेषा भवत्सेवनमेव प्रतीक्षमाणा विपक्षक्षपणाय सज्जीभवन्ति तानेताननुगृहाण। (नेपथ्ये।) देव, एते वयम्
शिवभक्तिप्रसादेन लब्धा मन्त्रिवरेण च।
सम्यक्संविहिताः सर्वे विपक्षान्विजयामहे॥७५॥
पुरस्तादचिरादेवास्माभिर्बाध्यमानं यक्ष्माणं सामात्यं सपुत्रकलत्रं ससैन्यं च पश्य।
राजा— (दृष्ट्वा) प्रियं प्रियम्। सर्वे यूयमप्रमत्ता विपक्षक्षपणाय यतध्वम्।
(ततः प्रविशति यक्ष्मा पाण्डुश्च।)
यक्ष्मा— पाण्डो, क्व पुनरस्मदीया भटाः प्रहारार्थं वर्तन्ते।
पाण्डुः— देव, पश्य। केचिदनुगच्छन्ति, केचित्पुरो गच्छन्ति।
कालः— कर्मन्, यदुक्तं पाण्डुना तत्तथैव। यतः,
अनेकरोगानुगतो बहुरोगपुरोगमः।
राजयक्ष्मा क्षयः शोषो रोगराडिति यः स्मृतः॥७६॥
कर्म— जानामि यादृश एष इति।
नक्षत्राणां द्विजानां च राजाभूद्यो विधुः पुरा।
तं प्रजग्राह यक्ष्मासौ राजयक्ष्मा ततः स्मृतः॥७७॥
देहेषु यः क्षयकृतेः क्षयस्तत्संभवाच्च सः।
रसादिशोषणाच्छोषो रोगराड्रोगरञ्जनात्॥७८॥
यक्ष्मा— सखे पाण्डो, प्रबलेषु सामदानभेदा न प्रसरन्ति, अतोऽन्तिम एव प्रयोगः संप्रतिपत्तव्यः। तदत्र किं विलम्बेन।
——————————————————————————————————————
१. वयस्य, श्रुतं किमिदानीमप्येतस्य मन्त्रिण इदमेव वचनम्। सांप्रतमेष आत्मानमपि न जानाति राजकार्येकुतः पुनरुन्मादं वा उपजापं वा शत्रुकृतम्।
——————————————————————————————————————
शस्त्राशस्त्रि प्रसह्याथ प्रवृत्ते रणवैशसे।
अजीवकमरोगं वा पुरमेतद्भविष्यति॥७९॥
तदेहि। तत्क्षमां भूमिमेव गच्छामः। (इति पाण्डुना सह निष्क्रान्तः।)
कालः— कर्मन्, पश्य पश्य विपक्षविजयाय विज्ञानमन्त्रिप्रयुक्तान्भटान्।
राजा— वयस्य, मन्त्रिणा दर्शितेन विक्रमव्यापारेण हृदयं मम निर्वृणोति। यतः।
भूपतिरससिन्दूरज्वराङ्कुशानन्दभैरवैः साकम्।
चिन्तामणिश्च शत्रून्राजमृगाङ्कश्च जेतुमुद्युङ्क्ते॥८०॥
पश्य चात्रारोग्यचिन्तामणेरुत्तरेण।
कृतसिद्धरसेश्वरः पुरस्तात्करमालम्ब्य च वातराक्षसस्य।
समराङ्गणमेति पूर्णचन्द्रोदय एषोऽग्निकुमारदर्शिताध्वा॥८१॥
प्रतापलङ्केश्वर एष यश्च प्रतापयत्यत्र निजप्रतापात्।
गदान्धनुर्वातमुखानशेषांल्लङ्केश्वरः शत्रुभिरप्रसह्यः॥८२॥
वसन्तकुसुमाकरः सरभसं विधत्ते रणं
सुवर्णरसभूपतिर्वशयते रुजां मण्डलम्।
प्रसह्य वडवानलाभिधमिदं च चूर्णं जवा-
द्विशोषयति सर्वतः प्रबलमग्निमान्द्यारुचिम्॥८३॥
सुदर्शनं चक्रमिवामरारीन्सुदर्शनं चूर्णमिदं रणाग्रे।
निहन्ति जीर्णज्वरमाशु पित्तजन्या रुजश्चूर्णयति प्रसह्य॥८४॥
प्रबलानलसंकुलितं गदगहनं दुरवगाढमन्येन।
हन्ति धुरि तीक्ष्णसारो वातकुठारः समूलमुन्मूल्य॥८५॥
असकृत्स्खलतः किंचिद्गतिमान्द्यविधायिनः।
प्रमेहान्माद्यतो हन्ति मेहकुञ्जरकेसरी॥८६॥
गतिमन्थरताधायिवर्ष्मवैपुल्यशालिनः।
सर्वान्वातगजान्हन्ति वातविध्वंसनो हरिः॥८७॥
विदूषकः— देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संपहारं कुणन्ति त्ति अच्चरिअम्। ता इन्दजालं विअ एदं मे पडिभादि^(१)।
राजा— धिङ्मूर्ख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य। अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः। अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते। (कर्णं दत्त्वा।) मन्त्रिन्, कोऽयं कलकलाविर्भावः।
मन्त्री— पश्यतु देवः।
शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे
मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम्।
जित्वारीनिह देव तावकभटैरापूर्यते काहला
शङ्खः संप्रति शब्द्यते दृढतरं संताड्यते दुन्दुभिः॥८८॥
अपि च।
आस्फालयन्ति दृढमूरुयुगं कराग्रैः
कुर्वन्ति कुण्ठितघनारवमन्दहासम्।
जीवोऽयमस्मदधिपो जितवानमित्रा-
नित्युद्धतं युधि भटास्तव पर्यटन्ति॥८९॥
विदूषकः— कहं एत्थ एव भग्गमणोरहदाए परुण्णो विअ जक्खराओ लक्खीअदि^(२)।
राजा— वयस्य, सम्यङ्निरूपितं भवता।
गण्डस्थलप्रसृमराश्रु करं करेण
निष्पीडयन्कटकटाकृतदन्तपङ्क्तिः।
यक्ष्मा ललाटघटितभ्रुकुटिः किलाय-
मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति॥९०॥
मन्त्री— न केवलां रुषं शुचं च।
——————————————————————————————————————
१. देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं संप्रहारं कुर्वन्तीत्याश्चर्यम्। तदिन्द्रजालमिवैतन्मे प्रतिभाति।
२. कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते।
——————————————————————————————————————
विदूषकः— एसो सोएण पलवन्तो विअ दीसइ40।
मन्त्री— शृणुमस्तर्हि प्रलापमेतस्य। विषूचीमत्सरावप्येनमनुवर्तेते।
(ततः प्रविशति विषूचीमत्सराभ्यां सहितो यक्ष्मा।)
यक्ष्मा—-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था। आश्चर्यमाश्चर्यम्।
जीवस्य ध्वजिनीचरानतिबलाञ्शक्नोति कः शासितुं
दुर्वारैर्युधि पातितानि मम यैः सर्वाणि सैन्यानि च।
पाण्डुर्मे सचिवः परैरवधि वा भीतः पलायिष्ट वा
नो जाने मम जीवतो बतहताः पुत्रास्तथा बान्धवाः॥९१॥
(सशोकावेगम्।)
भो भोः सुताः क्व नु गताः स्थ विना भवद्भि-
र्जीर्णाटवीव जगती परिदृश्यते मे।
आक्रम्यते च तमसा हरिदन्तरालं
शोकाग्निसंवलितमुत्तपते वपुश्च॥९२॥
(इति मूर्छति।)
मत्सरः— समाश्वसिहि समाश्वसिहि।
यक्ष्मा— (समाश्वस्य।)
वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केषामहं
केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा।
मर्त्यानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के
यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः॥९३॥
कालः—
पुत्रप्रविलयाद्दुःखं न सोढुं शक्यते जनैः।
वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः॥९४॥
तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि।
कर्म— अहमप्येवमेव।
(इत्युभौ निष्क्रामतः।)
मत्सरः—
देवालं शोकेन द्विषि जीवति न खलु धर्मोऽयम्।
यावच्छक्ति ततोऽरीन्हत्वा शोचन्ति नैव तान्वीराः॥९५॥
अत इदानीं पुनरानीय परिभवमरिहतानामस्मदीयानामानृण्यमृच्छतु भवान्।
विषूची—
दाणिं खु एव दिट्ठा राअकुमारा कहिं गदा तुह्मे।
ढज्जइ हिअअं सोओ अग्गी विअ सुक्कतिणजालम्॥९६॥^(१)
यक्ष्मा—
गण्डद्वयेऽपि गलितैर्नयनाम्बुपूरै-
रामृष्टपत्रलतमाकुलकेशपाशम्।
पाणिद्वयप्रहतपाटलबाहुमध्य-
मस्या वपुर्मम शुचं द्विगुणीकरोति॥९७॥
मत्सरः— राजन्, धैर्यमवलम्ब्यताम्। कृतं शोकेन। संप्रति हि कतिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः।
यक्ष्मा— ततः किम्।
मत्सरः— ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिहतकः। तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति।
यक्ष्मा— (सविमर्शम्।) अवन्ध्योऽयं प्रयत्नः। तदर्थमेव शत्रून्मूलनाय गच्छामः। (इति विषुचीमत्सराभ्यां सह निष्क्रान्तः।)
मन्त्री— मत्सरेण कर्णेऽस्मज्जयार्थं किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः
——————————————————————————————————————
१.
इदानीं खल्वेव दृष्टा राजकुमाराः कुत्र गता यूयम्।
दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम्॥
——————————————————————————————————————
तद्वयमपि तदिङ्गितानुमितं पर्यालोच्य तत्प्रतिविधानाय व्याप्रियमाणा इष्टं साधयामः।
(इति निष्क्रान्ताः सर्वे)
—————
सप्तमोऽङ्कः।
(ततः प्रविशति जीवराजो विज्ञानमन्त्री च)
जीवराजः— (सहर्षम्।)
मन्त्रिस्त्वदीयमतिकौशलनौबलेन
तीर्णो रणाम्बुधिरभूदतिदुस्तरोऽपि।
यस्मिन्भयंकरगतिर्ज्वरपाण्डुमुख्यो
रोगव्रजः किल तिमिंगिलतामयासीत्॥१॥
किं ब्रवीमि संकुलयुद्धेऽस्मदीयानां तदीयेषु प्रवृत्तमोजायितम्।
एकत्र मण्डभेदो गुटिकाभेदः परत्र मन्दाग्निम्।
निखिलामयजननकरं निजपानं प्रथममिदमहमदर्शम्॥२॥
अथ गुलूच्यादिपञ्चभद्रकषायं निकषा यन्नवं (?) तमवलोक्य पलायन्त पित्तसमीरज्वराः। तदनन्तरं जगदन्तरप्रसिद्धः स्वयमनश्वरसारो यक्ष्मपरिक्षपणदक्षिणः सन्नपि संननाह स्वयं त्रैलोक्यचिन्तामणिर्विनिपाताय संनिपातेन साकमष्टविधानामपि ज्वराणाम्।
स्थावरजङ्गमगरलं ज्वरमामोत्थं व्रणोपजातं च।
आरोग्यपूर्वचिन्तामणिरपि निघ्नन्मया रणे दृष्टः॥३॥
ततः सर्वज्वरानपि निगृहीतवन्तं ज्वराङ्कुशमुत्तरेण गुल्मार्शः संग्रहिणीर्विपाटितवतो ग्रहिणीकपाटस्य पूर्वभागे
या पञ्चामृतपर्पटी ग्रहिणिकायक्ष्मातिसारज्वर-
स्त्रीरुक्पाण्डुगदाम्लपित्तगदरुक्क्षुन्मान्द्यविध्वंसिनी।
तामद्राक्षमहं रणे स्त्रियमपि व्यातन्वतीं पौरुषं
चामुण्डामिव चण्डमुण्डसमरप्रक्रान्तदोर्विक्रमाम्॥४॥
पश्चाद्भागे तस्याः
अरुचिप्लीहवमिज्वरकासार्शःश्वासशूलानाम्।
सूक्ष्मैलादिमचूर्णं निरवर्णयमाशु युधि निहन्तारम्॥५॥
तदनु जलजाक्ष इव दनुजलोकस्य सिद्धवसन्तः शुक्रदोषस्य गोक्षुरकादिचूर्णमिश्रितपयःपानविधिः पुंस्त्वदोषस्य त्रिविक्रमरसो मूत्रकृच्छ्राश्मर्योर्विष्यन्दनतैलयोगो भगंदरस्य लघुलङ्केश्वरः कुष्ठस्य नित्योदितरसो मूलानां विद्याधररसो गुल्मानां त्रिनेत्ररसः शूलानां महावह्निरस उदररोगाणां गिरिकर्ण्यादिविधिर्गुञ्जातैललेपश्च शिरोरोगस्य चन्द्रोदयवर्तिश्च चक्षूरोगस्य सौवीरादिपक्वतैलनिषेकः कर्णरोगाणां सिद्धार्थत्रिफलाद्यौषधयोगविशेषपानविधिः कृत्योन्मादविषज्वरसर्वग्रहाणां मधुसर्पिर्युतचूर्ण-विशेषलेहनविधिः पाण्डुहृद्रोगभगंदरशोफकुष्ठोदरार्शसां मेहकुञ्जरकेसरीप्रमेहाणां च विजयमहोत्सवेन समुत्सारितसर्वरोगखेदाः समरजनैरप्यस्तूयन्त। ततः किमप्यवशिष्यते कार्यमस्माकम्।
मन्त्री— स्वामिन्, श्रूयताम्।
जन्यार्णवोऽरिजनितः सुमहानिदानीं
तीर्णोऽप्यतीर्ण इति निश्चिनुते मनो मे।
यन्मत्सरेण रणभुव्युपदिष्टकार्यः
कर्णे स तत्परमितो विदधीत यक्ष्मा॥६॥
राजा— विज्ञानसचिव यथार्थनामधेय, मत्सरेण यक्ष्मणः कर्णे किमुक्तं भवेत्। यक्ष्मा च तदाकर्ण्य किं विदध्यात्। तद्विधानेन चास्माकमुत्तिष्ठेत कीदृशमत्याहितम्।
मन्त्री— (क्षणं विचिन्त्य।) किमन्यद्ब्रवीमि। केचिदसाध्यरोगा यक्ष्माणमुपासते तैरस्मान्बाधितुं यक्ष्माणं प्रति मत्सरेण संकेतितमिति शङ्के।
राजा— (सवितर्कम्।) एवमेवास्मासु यक्ष्मा यदि वक्रं विधिमुपक्रंस्यते तत्र कमुपायं पश्यति भवान्।
मन्त्री— ‘भक्ताय भवते कदापि मया दर्शयिष्यते साम्बः’ इति भगवत्या तुभ्यं जातुचिदावेदितं भक्त्या इति कदाचित्कथान्तरे देवेनैव मां
प्रति प्रागुक्तम्। तदिदानीं तामेव भगवतीं भक्तिं हृदि दृढमवलम्ब्य भगवद्दर्शनार्थं संनिधानानुग्रहः प्रार्थ्यताम्। तत एवासाध्यरोगाभिभवः सुलभः प्रतिभाति।
राजा— यद्येवमनुध्याय विध्यादिविबुधकृतनिषेवणं करोमि मनसा शरणं शंकरम्। (इत्यनुध्यायति।)
मन्त्री— आश्चर्यमाश्चर्यम्। भक्तवत्सला भगवतश्चन्द्रचूडस्य परां कोटिमवलम्बते। यदनुध्यानमात्र-मनुतिष्ठति स्वामिनि तदाविर्भावसूचनमेतदालक्ष्यते। यत्किल
शैलस्थूलशिरोभिरुग्रभुजगप्रायश्रवोभूषणै-
र्जानुस्पर्शिबृहत्पिचण्डचटुलैस्तालद्रुदीर्घाङ्घ्रिभिः।
प्रावृण्नैशतमिस्रनीलतनुभिर्भस्मत्रिपुण्ड्राङ्कितैः
शूलोद्भासिभुजैः समावृतमिदं भूतैरभूद्भूतलम्॥७॥
राजा— (ध्यानाद्विरम्य कर्णं दत्त्वा) अहो भाग्यप्रकर्षो जीवलोकस्य। यतः।
‘जय विश्वपते जयेन्दुमौले जय शंभो जय शंकरेति शंसन्।
परितः श्रुतिगोचरो जनानां कलुषं लुम्पति काहलीनिनादः॥८॥
मन्त्री— (सहर्षम्।) राजन्, फलितस्ते मनोरथः। पश्य।
आरूढः स्फाटिकक्ष्माधरनिभवृषभं सार्धमद्रीन्द्रपुत्र्या
वीतावष्टम्भकुम्भोदरकरयुगलोदस्तमुक्तातपत्रः।
गायद्गन्धर्वनृत्यत्सुरगणिकपुरोभागघोषन्मृदङ्गो
गङ्गाभृत्युत्तमाङ्गे शशिशकलधरः शंकरः संनिधत्ते॥९॥
अपि च।
मौलिन्यस्ताञ्जलीनां दरमुकुलितदृङ्निर्यदानन्दबाष्प-
क्लिद्यद्गण्डस्थलानामविरलपुलकालंकृतस्वाकृतीनाम्।
वेदान्तप्रायभूरिस्तुतिमुखरमुखाम्भोजभाजामृषीणां
पङ्क्त्या पाश्चात्यभागो झटिति निबिडितो दृश्यतामस्य शंभोः॥१०॥
राजा— मन्त्रिन्, इतः परं प्रणिपातादिना भगवन्तं प्रसाद्य स्वाभीष्टमर्थं प्रार्थयिष्ये।
मन्त्री— अनितरसाधारणमेतस्य भक्तामीप्सितप्रदानचातुर्यम्। यः प्रसादितवते पार्थाय पाशुपतमस्त्रं प्रतिपादितवान्। येन च निखिलक्षत्रियकुलजिघृक्षवे भार्गवाय प्रसादीकृतः परशुः।
राजा— उपपन्नमिदम्। एवमपरिमितानि महान्त्याश्चर्यचरितानि देवस्य। यच्च कपिलभस्मीकृत-प्रपितामहसंघसमुत्तारणकृतप्रयत्नभगीरथप्रसादितायाः सुरापगाया भुवमुत्तरन्त्या गर्वभञ्जनं नाम मृत्युंजयस्य चरितं तदपि परमाद्भुतमेव।
मन्त्री— जगत्प्रसिद्धमेवेदम्। तथाहि।
वेगाकृष्टोडुचक्रानुकरणनिपुणश्वेतडिण्डीरखण्ड-
श्लिष्टोर्मीनिर्मितोर्वीवलयविलयनाशङ्कसातङ्कदेवा।
विभ्रम्याकाशगङ्गा विधिभुवनभुवः सर्वदुर्वारगर्वा
निर्विण्णा धूर्जटीयोद्भटघटितजटाजूटगर्भे निलिल्ये॥११॥
किं च। अध्वरविधावपराधिनो दक्षप्रजापतेः शिक्षणावसरे रोषसंधुक्षितेन नीललोहितेन विसृष्टः स्वांशभूतः प्रभूतकोपविधूतविनयमुद्रो वीरभद्र एव किं न कृतवान्। तथाहि।
शूलाग्रक्षतदक्षकण्ठरुधिरैः शोणे रणप्राङ्गणे
कीर्णो दन्तगणश्चपेटदलितादर्कस्य वक्त्रान्तरात्।
वीरश्रीकरपीडनोत्सवविधावेतस्य वैश्वानर-
प्रक्षिप्तोज्ज्वललाजविभ्रमकरो नालोकि लोकेन किम्॥१२॥
राजा— किमिति वर्ण्यतामयमाश्चर्यचर्यो भगवान्।
क्रोधारूढभ्रुकुटिरलिके क्रूरखङ्गप्रहार-
श्छिन्नग्रीवत्रिदशनिकरच्छन्नसङ्ग्रामभूमिः।
शक्रश्रीशद्रुहिणशरणालाभविद्राणविद्या-
दानोन्निद्रः प्रणतजनताभद्रदो वीरभद्रः॥१३॥
कः पुनरस्य स्वरूपं तत्त्वतः शक्नोत्यवधारयितुं यदन्तर्वाणयः सर्वेऽपि स्वच्छन्दानुरोधात्कलयन्ति स्वरूपमेतस्य। तथाहि—
कर्तारं कतिचित्किलानुभिमते कार्यार्थमुर्व्यादिभिः
केऽप्याहुः पुरुषस्य यस्य पुरतः सृज्यं प्रकृत्या जगत्।
क्लेशैः कर्मभिराशयैश्च सकलैरस्पृष्टरूपोऽखिल-
प्रज्ञोऽनादिगुरुः स ईश्वर इति व्याख्यन्ति केचित्तु यम्॥१४॥
अपि च।
श्रुतमिति निगमान्तेष्वेकमेवाद्वितीयं
निरवधि परिपूर्णं ब्रह्म सच्चित्सुखात्म।
विलसति किल यस्मिन्विश्वमेतत्तमिस्रे
स्रजि फणिवदबोधादित्थमाहुः किलान्ये॥१५॥
मन्त्री— तत्तादृशमेनमवाङ्मनसगोचरमहिमानं पङ्कजासनपाकशासनप्रभृतयो देवाः प्रणमन्ति भगवन्तम्। अतः सेवावसरं प्रतिपालय क्षणमात्रम्।
राजा— सम्यङ्निरूपितममात्येन।
नमदमरसहस्रमौलिमालापरिगलितैर्भुवि पारिजातपुष्पैः।
अलिकुलमनवाप्तदिव्यगन्धग्रहणकुतूहलि कृष्यते समन्तात्॥१६॥
मन्त्री— अवसरोऽयमखिलसुरासुरगुरोः सरोरुहाकरसंवेशविद्यादेशिककलाशेखरस्य सेवनाय देवस्य। अत एव
संभ्रान्तनन्दिकरघूर्णितवेत्रपात-
भीतापगत्वरगणव्रजवर्जितेन।
एतेन कीर्णकुसुमेन पथा महेशं
सेवस्व भक्तिमददुर्लभसंनिधानम्॥१७॥
(ततः प्रविशति यथानिर्दिष्टः परमेश्वर्या सह परमेश्वरः।)
परमेश्वरः— अयि गिरीन्द्रसुते,
अनितरसाधारणया भक्त्या जीवस्य मामनुस्मरतः।
सपदि मयास्य पुरस्तत्संनिहितं सपरिवारेण॥१८॥
देवी— देव, तुरिअं तुह आगमणं एव्व दंसेदि अणण्णतुल्ले भत्तिमत्तणम्^(१)।
——————————————————————————————————————
१. देव, त्वरितं तवागमनमेव दर्शयत्यनन्यतुल्यं भक्तिमत्त्वम्।
——————————————————————————————————————
राजा— (मन्त्रिणा सह त्वरितमुपसृत्य।)
विधिहरिविषमेक्षणात्मकः सन्सृजति बिभर्ति निहन्ति यो जगन्ति।
तदहममलमेकमेव सचित्सुखवपुषं परमेश्वरं नतोऽस्मि॥१९॥
(इति प्रणमति।)
भगवान— वत्स, मन्त्रिणा सममभिमतेन युज्यस्व।
जीवः— (मन्त्रिणा सहोत्तिष्ठन्। शिरस्यञ्जलिं बद्ध्वा।)
जय जय जगदीश देवासुरवध्यतादर्पवेगोद्धृतत्वत्पदाङ्गुष्ठनिष्पीडनस्तब्धकैलासमूलात्तदोर्विंशति-प्रस्तुतस्तोत्रपुष्यद्दयारक्षितोन्मुक्तलङ्कापते निष्प्रपञ्चाकृते
जननमरणलाभपौनःपुनोदीततद्भञ्जनारब्धघोरव्रतप्रीणितत्वक्कठोरश्रवःप्रार्थनाजातकोपोत्थशापामिष-शीभवत्तापसत्राणकृद्रामरूपग्रह स्वेषु सानुग्रह।
अनुपमितगृहीततारुण्यलक्ष्मीनिरीक्षोन्मिषद्दारुकारण्यनारीव्रतभ्रंशकुप्यन्मुनीन्द्राभिचारोत्थितं तुङ्गनादं कुरङ्गं ज्वलज्ज्वालमग्निं कराभ्यां वहन्दृश्यसे सद्भिरामृश्यसे
कलशभवमहर्षिवातापिनिर्वापणादक्षिणोर्वीभरापादनाविन्ध्यसंस्तम्भनासिन्धुनाथाम्बुनिःशेषनिष्पान- शक्तिप्रदायिस्वपादाम्बुज-ध्यानमाहात्म्य शंभो नमस्ते नमस्ते॥२०॥
पुनः
प्रसूनशरदाहिने प्रबलकालकूटाशिने
कृतान्तपरिपन्थिने त्रिपुरगर्वनिर्वासिने।
जटापटलयन्त्रितामरतरङ्गिणीस्रोतसे
प्रपन्नभयहारिणे प्रमथनाथ तुभ्यं नमः॥२१॥
निष्क्रियस्यापि देवस्य जगत्सृष्ट्यादिकर्मणि।
प्रवृत्तिं कुर्वतीं देवीं प्रपद्ये भक्तवत्सलाम्॥२२॥
देवी— णाह, इमस्स मणोरहं पुच्छिअ झत्ति तं णिवत्तेहि41।
भगवान्— प्रिये, किमत्र प्रष्टव्यम्। विदितमेव। यक्ष्मराजः कैश्चिदसाध्यरोगैः सहानुगतो विकुर्वाणो निर्मूलं छेत्तव्य इत्येतस्य मनोरथ इति तत एतस्मै योगसिद्धिमुपदिश्य निर्जितनिखिलरोगं ब्रह्मरन्ध्रस्थित-चन्द्रमण्डलनिःष्यन्दमानामृतप्लुतशरीरं निजानन्दानुभवतुच्छीकृताखिलप्राकृतसुखान्तरं सफल-मनोरथमेनं कृतार्थयिष्यामि।
देवी— (सहर्षम्।) सरिसं खु एदं तुम्हकेरस्स मत्तवच्छलस्स42।
भगवान्— वत्स जीव, योगसिद्धिमुपदिशामि ते।
जीवः— भगवन्, को नाम योगः कीदृशी वा तस्य सिद्धिः।
भगवान्— वत्स, श्रूयताम्। योगश्चित्तवृत्तिनिरोधः। चित्तं नामान्तःकरणम्। यच्चक्षुरादिकरणद्वारा बहिर्निगच्छद्विषयाकारेण परिणमति। यत्तादात्म्यापन्नो द्रष्टापि तद्रूपाकार एव परिभाव्यते। तदुक्तम्—
**‘ध्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च।
बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिसाक्षिणि॥’ इति। **
‘ध्यायतीव लेलायतीव’ इति श्रुतिः। तस्य वृत्तयो नाम कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्याद्याः श्रुतीरिता आन्तराः, बाह्याश्च शब्दस्पर्शादिविषयग्राहिण्यः। सत्त्वरजस्तमो-रूपगुणत्रयात्मिकानां च तासां दैवासुरसंपद्रूपत्वेन द्वेधा विभाग उक्तो गीतायाम्—
‘अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥’
इत्यादिर्दैवी संपत्। ‘दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च’ इत्यादिरासुरी संपत्। तत्र दैवी संपत्सात्त्विकी। आसुरी तु रजस्तमःप्रधाना। ‘दैवी संपद्विमोक्षाय निबन्धायासुरी मता’। तासां च सर्वासामान्तरीणां बाह्यानां च चित्तवृत्तीनां निरोधो नाम स्वविषयेभ्यः प्रतिनिवर्त्य क्वचित्सगुणे निर्गुणे वा वस्तुनि चित्तस्य समवस्थानम्। तच्च दृढतरवैराग्यसत्कारनिरन्तरसेवनाभ्यां सबलेन लभ्यते। तदुक्तम्—
‘असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥’ इति।
एतादृशस्य योगस्य सिद्धिर्नाम ध्येयवस्तुसाक्षात्काररूपावस्थितिः।
मन्त्री— भगवन्,
एवंभूताः क इव घटते चित्तवृत्तीर्निरोद्धुं
वैराग्येणाभ्यसनविधिना स्याच्चिरात्तन्निरोधः।
जेयः शीघ्रं रिपुरपरथा न स्थितिर्नः पुरेऽतो
योगे सिद्धिर्भवति च यथानुग्रहस्ते तथास्तु॥२३॥
जीवः— भगवन्,
स्मृतिस्ते सकलाभीष्टं दत्ते किमुत दर्शनम्।
तत्प्राप्तमभितैः पुण्यैः सद्यः सिद्धिं ददातु मे॥२४॥
देवी— (सदयम्।) देव, संकप्पादो जेव्व से जोअसिद्धी होदु त्ति अणुगेह्नीअदु एसो^(१)।
भगवान्— वत्स, देव्यैवमनुगृहीतोऽसि। संकल्पादेव ते योगसिद्धिर्भवतु।
मन्त्री— राजन्, भगवत्या भगवता च संकल्पादेवाखिलयोगसिद्धिरनुगृहीता। तत्सर्वथा कृतार्थाः स्मः।
राजा— (सप्रणामम्।) अनुगृहीतैवेयम्। यतः।
या प्रत्यक्षपदार्थमात्रविषया सा योगसंस्कारतः
संस्कारान्प्रतिबध्नतीतरकृतान्धीः कापि मे जृम्भते।
सूक्ष्मं यत्तु विदूरमव्यवहितं सर्वान्विशेषान्स्फुटं
पश्याम्येष यथावदद्य परमार्थोद्भूतया प्रज्ञया॥२५॥
आश्चर्योऽयं भगवत्प्रसादमहिमा।
भगवान्— देवि, एवं संप्रज्ञातसमाधिरेतस्य प्रादुर्भूतः, य एवमालम्बनामनुभवति ऋतंभरां नाम प्रज्ञाम्। अतः परं निर्बीजयोगसंज्ञमसंप्रज्ञातसमाधिमस्यानुगृह्णामि।
——————————————————————————————————————
१. देव, संकल्पादेवास्य योगसिद्धिर्भवत्वित्यनुगृह्यतामेषः।
——————————————————————————————————————
देवी— अणुरोह्नीअदु अप्पणिव्विसेसो एसो^(१)।
जीवः— (सहर्षोल्लासरोमाञ्चम्।) आश्चर्यमाश्चर्यम्।
भगवन्करुणासमित्समिद्धे दृढनिर्बीजसमाधियोगवह्नौ।
प्रविलापितसर्वचित्तवृत्तिः परमानन्दघनोऽस्मि नित्यतृप्तः॥२६॥
भगवान्— देवि, झटिति विघटिताखिलपरावृत्तिः प्रत्यगात्मैक्यानुभवरूपोऽसंप्रज्ञातसमाधिराविर्भूतो वत्सस्य। यत एवमनुभूतमर्थमनुवदति।
देवी— देव, किदत्थो खु एसो जो एवंविधस्स देवाणुग्गहस्स भाअणं जादो^(२)।
भगवान्— संप्रत्येनं व्युत्थाप्य प्रकृतकार्यप्रवणं करोमि। (जीवं प्रति।) वत्स, अन्यदपि किंचिदनुशासनीयोऽसि।
जीवः— (व्युत्थाय।) भगवन्, अवहितोऽस्मि।
भगवान्—
प्राचीनः सचिवः प्रियस्तव सुहृद्यो ज्ञानशर्मा मुनिः
सोऽन्यस्यापि सुदुर्लभः स भवता मान्यः सदाहं यथा।
श्रेयःसंघटनाय हन्त भवतः सत्यं स एवार्हति
प्रेयस्त्वैहिक्रमातनोतु सततं विज्ञानशर्मापि ते॥२७॥
शश्वञ्ज्ञानादभिन्नः सन्विज्ञानमपि मानय।
एवं सति घटेयातां भुक्तिमुक्ती करे तव॥२८॥
राजमन्त्रिणौ— (साष्टाङ्गं प्रणम्योत्थाय।) अनुगृहीतौ स्वः।
देवी— सुमरणमेत्तसंणिहिदं णाणसम्माणं सचिवं विष्णाणेण समं मुत्तविरोहं करिअ दुवे वि मन्तिणो रण्णो हत्थे समप्पअन्तेण भअवदा बहुलीकिदं भत्तवत्सलत्तणम्^(३)।
——————————————————————————————————————
१. अनुगृह्यतामात्मनिर्विशेष एषः।
२. देव, कृतार्थः खल्वेष य एवंविधस्य देवानुग्रहस्य भाजनं जातः।
३. स्मरणमात्रसंनिहितं ज्ञानशर्माणं सचिवं विज्ञानेन समं मुक्तविरोधं वा द्वावपि मन्त्रिणौ राज्ञो हस्ते समपर्यता भगवता बहुलीकृतं भक्तवत्सलत्वम्।
——————————————————————————————————————
(नेपथ्ये।)
जीवे शिवप्रापितायोगसिद्धौ कालो जनान्ध्येन समं तमोवत्।
पापो विषूच्या सह राजयक्ष्मा गदैरसाध्यैः सह नाशमेति॥२९॥
ईशानस्य निदेशात्प्राप्ता साप्यत्र शांकरी भक्तिः।
चत्वारोऽपि पुमर्थाः पुंभिर्यस्याः प्रसादतो लभ्याः॥३०॥
मन्त्री— (आकर्ण्य।) प्रियं नः प्रियम्। भगवान्काल एक एवं नः प्रियमाचष्टे।
राजा— (सहर्षोल्लासम्।)
मूर्धन्यमण्डलनिकेतसुधांशुबिम्ब-
निःष्यन्दिशीतलसुधास्रुतिनिर्वृताङ्गः।
मेघावृतिव्यपगमे गगनं यथाच्छं
चैतन्यमावरणवर्जितमस्मि तद्वत्॥३१॥
मन्त्री— एवमेवायं जीवो राजा भगवतोः प्रसादान्नीरोगो नित्यमुक्तो निराबाधो बहुकालं जीयादिति प्रार्थये।
भगवान्— तथैवास्तु।
देवी— तह होदु43।
राजा— (सहर्षविस्मयं मन्त्रिणं प्रति।)
मन्त्रिञ्जन्मैव दोषः प्रथममथ तदप्याधिभिर्व्याधिभिश्चे-
ज्जुष्टं कष्टं वतातः किमधिकमपि तु त्वन्मतेर्वैभवेन।
देव्या भक्त्याः प्रसादात्परमशिवमहं वीक्ष्य कृच्छ्राणि तीर्णः
सर्वाणि द्राक्तदत्यद्भुतमिह शुभदं संविधानं तवेदम्॥३२॥
मन्त्री— राजन्,
बहुजन्मार्जितैः पुण्यैस्तावकैरेष तोषितः।
सर्वाभीष्टं ददातीशः संविधानं किमत्र मे॥३३॥
भगवान्— वत्स, किमतः परमन्यत्तव प्रियं कुर्मः।
राजा— देवदेव भगवन्, सर्वमपि प्रियमाचरितमेव।
सर्वेऽपि मे प्रशमिता रिपवः पुरेऽभू-
दारोग्यमैक्षिषि भवन्तमुमासहायम्।
योगं ततस्त्वदुपदिष्टमवाप्य जीव-
न्मुक्तोऽस्मि ते करुणया किमतः प्रियं मे॥३४॥
तथापीदमस्तु भरतवाक्यम्।
पर्जन्यः समयेऽभिवर्षतु फलं वाञ्छानुरूपं महीं
प्रौढामात्यनिरूपिते पथि महीपालाः पदं तन्वताम्।
कर्णालंकृतये भवन्तु विदुषां कान्ताः कवीनां गिरो
भूयादस्य कवेश्चिरायुररुजो भक्तिश्च शैवी दृढा॥३५॥
(इति निष्क्रान्ताः सर्वे।)
कृतिरियं श्रीमद्भारद्वाजकुलजलधिकौस्तुभस्य श्रीनरसिंहरायमन्त्रिवरनन्दनस्य
श्रीमदा^(१)नन्दरायमखिनः।
समाप्तोऽयं ग्रन्थः।
—————
——————————————————————————————————————
१. भयं जीवानन्दनप्रणेता श्रीमदानन्दरायमखी नृसिंहरायाध्वरिसूनुस्त्र्यम्बकदीक्षितस्य भ्रातृव्यस्तञ्जौरनगर-महीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्रीशाहराजस्य मन्त्रिप्रवर आसीदित्यादि सर्वं जीवानन्दनस्यैतत्प्रणीतस्यैव विद्यापरिणयनाटकस्य च प्रस्तावनातः प्रतीयते, स च शरभमहीपतिः ख्रिस्ताब्दीयसप्तदशशतकपूर्वार्ध आसीदिति स एवास्य समयः, एतत्कृतिषु जीवानन्दनं विद्यापरिणय चेति नाटकद्वयमस्माभिरुपलब्धम्, जीवानन्दने यद्यपि नास्ति कवित्वचमत्कारस्तथापि संविधानकमनुच्छिष्टं चिकित्साशास्त्रानुकूलमिति कृत्वैवास्य काव्यमालायां प्रवेशः, तत्र जयपुरराजगुरुकुलप्रसूतभट्टश्रीकृष्णकुमाराणां संग्रहादेकमेवास्य शुद्धं पुस्तकमुपलब्धम्, चिरं विहितेऽप्यन्वेषणे पुस्तकान्तरालाभात्तस्मादेव पुस्तकादेतन्मुद्रणमकारीति भद्रम्।
——————————————————————————————————————
]
-
“एषा विपक्षजनपक्षपतिनीति गोपनप्रकार एषः।” ↩︎
-
“कथमेतदापतितम्। भवतु। योगिन इवासिकां कृत्वा अमात्यं वञ्चयामि।” ↩︎
-
“अतिधृतय एकोनविंशतिः” ↩︎
-
“समुद्रे” ↩︎
-
“मृगभेदान्” ↩︎
-
“स्पशश्चरः” ↩︎
-
“अये, दास्याःपुत्रैः सामन्तराजैर्ममोत्साहभङ्गः कृतः।” ↩︎ ↩︎ ↩︎
-
“दीर्घायुर्भव।” ↩︎
-
“आज्ञापयतु महाराजः।” ↩︎
-
“इत इतो भवान्।” ↩︎
-
“अथ किम्।” ↩︎
-
“कः संदेहः।” ↩︎
-
“जयतु जयतु देवः।” ↩︎
-
“भगवति, अवहितास्मि।” ↩︎
-
“देव, एषोऽमात्यो भुक्तवता विदूषकेणानुगत आगच्छति।” ↩︎
-
“देव्या बुद्धया साधुपरिवेषणं कृतं यथामनोरथमुदरं पूरितम्।” ↩︎
-
“जयतु वयस्यः। देवि, स्वस्ति भवत्यै।” ↩︎
-
" किमुत्कण्ठितो भवान्दोलाविहाराय।" ↩︎
-
“युज्यते।” ↩︎
-
“एतस्य पद्यस्यार्थो वर्ण्यते।” ↩︎
-
“अहमपि।” ↩︎
-
“अवहितास्मि।” ↩︎
-
“अत्र कार्येऽहमेव दौवारिकः।” ↩︎
-
“वयस्य, मया गृहीतार्थः कृतोऽमात्यः।” ↩︎
-
“इदानीं वयस्य, त्वमेव मम शरणम्। यत्कुपितोऽमात्यः।” ↩︎
-
" आर्य, क एषः।" ↩︎
-
“किमेषा वातालीव ममाक्षिणी आकुलयति।” ↩︎
-
“किं मूढ इव पश्यसि। कुर्वेतेषां प्रतीकारम्।” ↩︎
-
“कथं स्त्री अपि शूरायते।” ↩︎
-
“अद्यैतद्भवतु युद्धदर्शनम्। पश्यतु भवान्पुरःस्थितमाश्चर्यम्।” ↩︎
-
“कथं सान्त्वमुक्तवान्पाण्डुः।” ↩︎
-
“एषा ताडकेव भीषणानुवर्तते।” ↩︎
-
“अहमपि कौशिक इव।” ↩︎
-
“दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम्।” ↩︎
-
“एष शोकेन प्रलपन्निव दृश्यते।” ↩︎
-
“नाथ, अस्य मनोरथं पृष्ट्वा झटिति तं निर्वर्तय।” ↩︎
-
“सदृशं खल्वेतद्युष्मादृशस्य भक्तवत्सलस्य।” ↩︎
-
“तथा भवतु।” ↩︎