उज्जयिनी

कालः - २०१६

अवन्ती डमरू रौद्रः कालमन्दिरकेन्द्रितः ।
तन्मणी वेदकण्ठौ द्वौ शिवानिमेषसंज्ञकौ+++(=तन्नामकौ वेदपाठिनौ मन्मित्रे)+++॥

डमरुः कालकालस्य श्रावितस् तच्छ्रमेण मे।
अवन्ती-भूमि-कैलास-पुण्यपद्धति-बोधकः॥

पादस्पर्शाभिनीतैर् यः शूद्रवृद्धैः प्रदर्शितः +++(भावः)+++।
तर्जितस् तेन धर्मेण द्विजो ऽभूद् अर्हताभ्रमात्॥
+++(तत्र कश्चित् खलु शूद्रवृद्धो माम् स्वद्विचक्रिकायां क्वचित् प्रापयत्।)+++