सङ्कल्पः
फ़्लोरिडायामभूद्या मे यात्रा तस्यां वदाम्यहम्।
आदित्य मकरारूढ तत्र देह्यवलम्बनम्॥
प्रायो यात्रासु यन्मुख्यं तीव्रसद्भावचोदनम्।
कलनीयं तदित्येवं रच्यते पद्यमीदृशम्॥
गेटोर्लाण्ड्-गोधाः
आदौ मकरसाम्राज्यं गेटर्लाण्ड् दृष्टमद्भुतम्।
अहो प्रकृष्टा तत्रत्या पशुमानुषमित्रता॥
गोपालैर् मकरैस् साकं मल्लयुद्धं प्रदर्शितम्।
तत्कषाजन्यशब्दोऽभूद् ग्राहवालाद्धि भीकरः॥
भूकम्पकमहावंशा-ऽवतंसा यद्विहङ्गमाः।
महाग्राहेषु निर्भीका तन्मांसं खल्वचोरयन्॥
(भूकम्पकाः = dinosaur। पक्षिणः प्रायेण तद्वंशीया इति विज्ञानिनः। अनुचितनामवारणे मानसतरङ्गिणीकारेणोपकृतो ऽस्मि।)
वनवर्णनम्
कच्छभूमौ च तत्रासन् घर्मकीटाम्बुभिस् तथा।
व्यालैर् ग्राहैस् सुगुप्तानि वनानि वरुणालयाः॥
तत्र वृक्षा बहूत्तुङ्गा जलादूर्ध्वं समुत्क्षिपन्।
जानवो मूलतः किञ्चिद्+आधारस्येव शङ्कया॥
देवदारुविकारं तं वर्धयन्त्य इवाभवन्।
वृक्षेषु वर्धमानास् ताः लताश् श्मश्रुनिभाः पुनः॥
तापः
स्वेदवृष्ट्या च घर्मोऽभूज् जनैः कृष्णघनप्रभैः।
अच्छवस्त्राशनिस्पृष्टैः देवराडिव भूगतः॥
तद्भक्त्येव ममाभूत् तत् भारतीयं च वेष्टनम्।
तापतप्तैर् हि यत् क्लृप्तं मम तपस्विपूर्वजैः॥
वसतिगृहाणि
यात्रिकावासवैविध्यं चन्द्रभास्करसन्निभम्।
दृष्टावविरभूत् किञ्चित् तत्रत्यं विस्मयान्वितम्॥
एकत्रात्यन्तमुत्तुङ्गं भवनमाढ्यसेवितम्।
व्यायामागारकुण्डैश्चा-रामै रम्यापणैस्तथा॥
वृतं वन्यमृगारण्यैः कृत्रिमैः वीथिभिर् भृशम्।
स्वच्छं स्वलङ्कृतं रस्यं कलापूर्णमभासत॥
इन्द्रप्रस्थ इव स्वर्ग इवाथवेति यत्कृते।
विवादा हि भवेयुस् ते मयत्वष्ट्रादिमेलने॥
अन्यत्रानाढ्यसम्बाधम्+अनासक्तैर् हि पालितम्।
शंसदत्यन्तनिर्वेदं छिन्नयन्त्रमुखैरिव॥
मालिन्येन च संसिक्तं धूमदुर्गन्धसङ्गतम्।
पाप-पादप-पुष्पाभ-तमाखुदण्डदूषितम्॥
गृहं यद्वसतौ प्राज्ञो स्वास्थ्यापायेऽस्तु जागृतः।
स्तनन्धयस्य किं ब्रूमो मलवेगोऽस्ति निश्चितः॥
डिस्नि-प्रदर्शिन्यः
डिस्नितोऽत्र प्रदर्शिन्यो लसन्त्युल्लासहेतवः।
यत्सम्बाधजयार्थं हि प्रेक्षकाः पुस्तकाश्रयाः॥
वृद्धो बालायते यस्माद् विस्मयोऽत्रैव पूजितः।
कथाक्लृप्तेः समुल्लासे तत्समा अद्य दुर्लभाः॥
अस्य देशस्य को भावः किं वाद्यं के च जीविनः।
उक्तं क्रीडाविहारैश्च रङ्गभूरचनादिभिः॥
तत्तद्देशजना जीवा अन्येऽप्यानीय दर्शिताः।
विस्मयोद्भावने नूनं दीक्षिता डिस्निसेवकाः॥
विज्ञानवैभवं चैव दर्शितं बालबोधने।
वृद्धा अपि च तल्लीना भवन्तीति न संशयः॥
तत्र रोमाञ्चनं लब्धं भीकरावाहितेष्वथ।
मनःशान्तिकषास् ते मे दर्शनानुगुणं जगत्॥
[आवाहितम् = (thrill) ride]
समुद्रतीरः
अब्धितीरेषु तद्देशे ऽसत्यभावे प्रयत्नतः।
प्रसन्नाम्ब्विति संज्ञातं यथार्थं हि मया गतम्॥
वामनैर् हि तरङ्गैश्च कवोष्णैरम्बुभिर् युतम्।
अगम्भीरं सुदूरेऽपि जनानन्दस्य कारणम्॥
रम्यं तत्रत्यसूर्यास्तं सायंकर्मप्रचोदकम्।
दृष्टं सौभग्यतो हृद्यम् धियो नश् च प्रचोदितम्॥
पूर्वतीरेषु दृष्टं यद् एकं स्थाल्योदनं यथा।
दर्शयल्लवणाधिक्यं भीमवीच्यम्बुधेश् चिरम्॥
नासा
तत्र समुद्रतीरेऽस्ति नासा-प्रक्षेप-पट्टनम्।
सुख्यातं बहुविस्तारम् सुव्यवस्थितमुत्तमम्॥
[नासा = NASA प्रक्षेपः= rocket]
महाप्रक्षेपनिर्माणे योग्यस् स्यादालयो महान्।
तद्यात्रा च भवेत् साध्या महारथैर्हि नान्यथा॥
महाराष्ट्रेण तत्कॢप्तिः न क्षुद्रेण कदाचन।
धैर्यं वीर्यं तथा ज्ञानम् अस्मत्तुल्यं च दुर्लभम्॥
इति ब्रुवाणमत्यर्थं भारतानिव चोदयत्।
भिन्नप्रदर्शनैर् दक्षैर् अद्भुतैर् विभ्रमस्फुरैः॥
मङ्गलम्
सत्कृत्येषु महावीर्यं कामे नन्दं च सत्वरम्।
छिन्नमस्ता दिशेत् प्रीता घोरनृत्यविलासिनी॥
यात्राकुण्डं यदस्माकन् तोषपद्मैस् सुपूरितम्।
दुर्वृत्तावर्त्तसन्त्यक्तं लसेदायुर्गिरौ क्वचित्॥