द्राविडदेशः

कालः - २०१६

वेणुगोपालवाग्वेणुध्वनिर्धर्म्याध्वदर्शकः । श्रुतः प्रयत्नतो लब्ध्वा मीनम्बके ऽल्पदर्शनम् ॥

चिन्ताव्यालशिरोरत्नदीप्तपादेन तेन हि। दर्शितः सुखदो मार्गः महामल्लपुरं प्रति॥

महाबलिपुरे दृष्टम् शिल्पम् स्फोरणप्रकृति । यस्य प्रेरणया नूनम् तत्रत्यः शिल्पशास्त्रधीः॥

मद्रपुरे वासः

यवनानां छलम् पश्य यदाङ्ग्लिकैर् हि नामभिः । गोपयन्ति गृहान् स्वेषां यात्रिमत्स्यामिषान् बहून्॥

यमपाशगता राज्ञी द्राविडानामभूत्तदा। तद्भक्तपाशगं राज्यं समार्गाशनशालकम्॥

भोक्तुं नासीत् किमप्येव बहिर् यानं भयावहम्। प्रवाहिकोदरस्याभूद् धिक् किङ्कर्तव्यता मम॥

बन्धुस्निग्धो ऽभवद् दाता शुद्धान्नस्य ततो मम। बन्धुबन्धुस् ततः पश्चाद् पत्न्यायाश्रयदायकः॥

बान्धव्यं यत्नतो लभ्यन् धीमता क्षेममिच्छता। रक्ततः स्नेहतो वित्तात् बन्धुमानर्थसिद्धिमान्॥