समं विद्ध्वा समागमत्

नीरजप्रेरितः कुन्त
आर्यलोकद्विषां सुखम्।
हिरण्यपदके बाधाः
समं विद्ध्वा समागमत्॥

शत्रु-सीमन्तिनी-हर्षं
स्वदेश-सुन्दरी-मनः।
सुबाहु-क्षिप्त-कुन्तोऽसौ
समं विद्ध्वा समागमत्॥

+++(Rajputana Rifles motto: वीर-भोग्या वसुंधरा, राजा रामचन्द्र की जय।)+++
स्व-सैन्य-गुल्म-सन्दिष्टां
वीर-भोग्यां वसुन्धराम्।
स्थिरं ख्यापयितुं खं कुं+++(=भूमिं)+++
समं विद्ध्वा समागमत्॥

+++(१७६१ इत्यादिषु हता हिन्दुकवीराः।)+++
पानीपत-हताऽप्राप्त-
जयाकाङ्क्षां च हर्षितां।
म्लेच्छानां तत्+++(→पनीपत)+++-सुत-क्षिप्तः
समं विद्ध्वा समागमत्॥

+++(मरून्मत्तलोक-प्रतोषप्रेरितः पाकिस्तानस्पर्धी नदीमार्शदो नीरजकुन्तम् अपजहार। तस्मात् काले नीरजः स्वकुन्तम् प्रत्याप।)+++
नदीमार्शद-तास्कर्यम्
उन्मादौत्स्युक्य-सम्भवम्।
पाकिस्तानध्वजे तारां
समं विद्ध्वा समागमत्॥

चीन-रोगाऽऽकुलाऽस्मेरं
चीनानीक-मुख-स्मितम्।
हिन्दु-सैनिक-विक्षिप्तः
समं विद्ध्वा समागमत्॥

+++(He began training under Uwe Hohn of Germany after 2017. In 2019 as he had to undergo a shoulder surgery, which cast a shadow for his performance at the Olympics. )+++
शूल-मानुष-शिक्षायाः
साफल्ये ऽप्यथ स्वे भुजे।
शस्त्रचिकित्सिते प्रश्नान्
समं विद्ध्वा समागमत्॥

+++(महीन्द्रानन्दो नाम वणिक् प्रीतस् तस्मै महार्हरथं दास्यतीति ज्ञायते ।)+++
देशश्रेष्ठजनप्रीतिं
वणिग्-जन-प्रतोषिणीम्।
रथादि-रूप-सम्भिन्नां
समं विद्ध्वा समागमत्॥

यथैव क्षेपणे स्पर्धि-
प्रत्याशि-स्वप्न-नाशनः।
तथैव रणरङ्गेऽपि
शत्रुस्वापम् प्रदूषयेत्॥

गुणदोषाः

  • पि॑ङ्ग॒लस्य॑ “द्वितीयचतु॒र्थयो॒ रश्चे"त्ये॒तत् सूत्रं॒ नानु॑पालितं लक्ष्यते।