दिनम् - Nov 14 2013
छन्दः - अनुष्टुभ्
दत्तो गर्भो, स्वजीवश् च
वीरस्वर्गं नु यापितः।
तेन धन्योऽभिमन्युस् सः
धर्म-कामार्थ-साधने॥
ऋण-मुक्तस् सुविख्यातस्
सक्रियश् चैव धैर्यवान्।
धीमान् स भिन्न-शास्त्रेषु -
सर्वस्मै ननु रोचते?
भीष्मे धर्मज्ञतायाः किम्
प्रयोगे ऽधर्म-मर्षणे?
पाण्डौ शून्य-प्रसूतेः किम्?
त्यक्त-राज्यो न कीर्तितः॥