नयनशक्त्युपासनम्

छन्दः - द्रुतविलम्बितम्।

दिनम् - 2013 Dec 27
प्रेरणा - श्री-बलराम-शुक्लस्य सुन्दरीनेत्रयोः पद्यम्
[ शृङ्गार-शान्त-रसौ च रति-भक्ति-भावौ लक्ष्यन्ताम्। ]

तव सुनेत्र-कृतेन हि रज्जुना
कृतवती सुदृढं मम बन्धनम्।
नयन-गर्त-निपातन-कारिणि
शिव-किरात-भृता त्वयि राजते॥
[ शिव-किरात-भृता = आदिकिरातस्य शिवस्य भार्या।
तस्याः‌ कान्ताकाये अभिज्ञानं वा आवहनम्। ]

प्रथम-तस्कर-भार्यतया कृतम्
मम हृदः‌ कुशलं खलु चोरणम्।
परम-सौख्य-गतेर् असि दायिनी
परम-शक्तिर् अहो त्वयि संस्थिता॥
[ प्रथमतस्करः = तस्कराणां पतिः परमेश्वरः।
पुनरेव आदिशक्त्याः प्रस्तुतमूर्ताव् अभिज्ञानम्। ]

रतिमयी त्वमसि त्वयि, चुम्बिके
दृढरतिं भजते हृदयं मम।
सहजता त्वयि चित्तनिमज्जने,
प्रचुरपूजनम् अर्हसि तान्त्रिकम्॥
[रतिर् इति भावोऽपि देव्यपि।
चुम्बिकेति चुम्बक-लोह-वाचकम् चापि चुम्बनकर्तृवाचकम्।
ध्यानमूर्त्या औचित्यकथनम्। अर्चासङ्कल्पश् च।]

नियम-पालन-याम-सुसम्भ्रमौ
तव कृते हि करोमि दृढं चिरम्।
अथ ममासनवायुनियन्त्रणे
तव हि सेवन-भाग्य-सुसिद्धये॥
[यम-नियम-आसन-प्राणायामादयो ऽष्टाङ्गयोगे प्राथमिकान्य् अङ्गानि।
अर्चकस्य अर्हतायास् स्मरणम्।]

नयनयोः प्रविशन् तव हृद्-ह्रदम्
परम-पावनम् अद्भुत-गोचरम्।
अनुपतन्नधुनैव समाप्नुयाम्
जटिल-पाप-कलङ्क-विनाशनम्॥
[प्रयोजनस्य स्मृतिर् इह।]

पशुपतेः‌ खलु भार्यतया कृता
पशु-नियन्त्रण-युक्तिवती सदा।
नयनयोः पतितं पशु-सन्निभम्
स्वदशनाद्धि कुरुष्व सुरक्षणम्॥
[शरणागतिः, प्रत्याहारः।]

त्वयि निलीनतमस्य तु कम्पनं
तव पयोधरयोः मम शम्यताम्।
जगति मोहमये बहुभीकरे
ललिततां हृदि मे कुरु सुस्थिराम्॥
[शरणागतिः, प्रत्याहारः।]

अखिल-नाड-गता ननु सञ्चर
प्रगत-कुण्डलिनी मम जागृतात्।
निखिल-चक्र-गता भव सत्वरं
भव सहस्र-दलं शिखरे मम॥
[ नाडः = नाडी।
सहस्र-दलं भव = सहस्रारपुष्पं मूर्धस्थं भव।
पूजासहजःशक्तिसञ्चारः।]

मम च हृत्-सरसि क्रियतां गृहम्
मृदुल-हंसिनि! कोमल-सुन्दरि!
तव समर्चकता मयि दीयताम्
पुलकितो भवितास्मि सुपादयोः॥
[अन्ते उद्वासनम्/ हृदि पुनर् निवेशनम्।]