शरणं भव्याद्भुतं भारतम्

दिनम् - मे २०१४
छन्दः - शादूलविक्रीडितम्।
प्रसङ्गः - पद्यपाने पद्यपूरनम्।

“के यूयं?” “ननु पारसीकजनता मौहम्मदैःपीडिताः,
संभ्रान्ताश्च पराजये हतनृपाः” “किं वेच्छथाभ्यागताः”।
“त्वद्राज्ये स्वनिवासभूमिमभयां” “विद्रोहिता स्यान्न वः”
“क्षीरे शर्करवद्भवेम शरणं भव्याद्भुतं भारतम्”॥


(पृष्ठभूमिका – , ।)

“के यूयं?” “खलचीनराज्यदलिताः हैमालयास् तान्त्रिका”,
“अस्मद्राजसु राजनीतिपटुता-ऽभावद्धि सा त्वद्दशा!
सद्यः क्षात्रबले स्थिते तु भवतां‌ रक्षां विदध्मो वयम्”
“हेमे मौक्तिकवद्भवेम शरणं भव्याद्भुतं भारतम्”॥

“के यूयं?” “मरुमत्तसैन्यविहताः वाङ्गास् त्वदीया जना”
“वीर्ये वङ्गनरेशकर्णसदृशाः दानेऽपि तत्प्रेरिताः"।
“युष्मद्धन्तृबलं विनश्य भवतां‌ दद्मस् स्वदेशेऽभयं”
“मालायां मणिवद् भवेम शरणं भव्याद्भुतं भारतम्”॥