दिनम् - Mar 20 2014
छन्दः - त्रिष्टुभः उपजातिः
प्रसङ्गः - वसन्तसमये पद्यपानवृन्दस्य पद्योत्सवः।
उत्क्षिप्तपद्यैर् बहुधा विभक्तैः
संमिश्रितैर् वै रसिकास्यसक्त्या।
विस्मायितास्यैः कविभिस्तथैव
पद्योत्सवो होलिकया सुतुल्यः॥
[वसन्तोत्सवस्य होलिकायाः सन्दर्भे पद्योत्सवोऽयम् आचर्यते खलु!]
रागार्यकेन्द्रं परितो भ्रमन्ति
तद्वाणिवेणोर् वशगा भवन्ति।
तत्काव्यनृत्यैर् ननु शङ्क्यते यत्
पद्योत्सवो माधवरासलीला॥
[आर्य गणेशोऽवधानी रागाख्यः खलु पद्योत्सवकेन्द्रसन्निभः!]
पद्यैर्हि हृत्क्षेत्रविदारणञ्च
क्षात्रोपमः काव्यकृतां सुहासः।
अभ्यासशक्तिस् स्फुटयुक्तिर् एभिः
पद्योत्सवस्त्वाहववद् विभाति॥