विश्वास-नित्य-स्मृतिः

विस्तारः (द्रष्टुं नोद्यम्)

कालः - २०१७ त आरब्धम्, ततो नित्यस्मृतौ प्रयुज्यमानम्, काले काले परिवर्त्यमानं च।

आनन्द-भागः

“कुतो जीवः? कुतः कष्टम्?”
इत्य्-अत्रास्मत्-प्रतिक्रिया ।
“कुतो ऽजीवः? कुतो ऽवीर्यम्?
कुतो ऽतोषस् स्वतः स्वतः?”

विश्वास-टिप्पनी

Some may ask -

“Why are you alive? Why all this trouble? Why put up with sadness?”

to which the proper answer would be to add context:

“Why should one not be alive? Why should one not act heroically like the ancients? Why not enjoy life? Especially given that it comes so naturally to us?”

बाह्येन्द्रियैः स्मृतेर् बुद्ध्या
विषैर् वैव मनस्-तुदैः।
प्रीतिर् लभ्या तनौ बद्धैश्,
चेयं योग्यं बुधैस् ततः॥

प्रीति-पात्रम् पुरस् कृत्य
तद्-विरुद्धस्य निग्रहे
द्वेषो गुणी-कृतश् चेत् स
तक्रे लवणवद् भवेत्

अहम् ईदृङ्, मदीयास् ते,
तादृशा, मां न मन्वते
इद्य्-आद्य्-अभिमति-स्फोट-
दीप्ति-धूमौ सुखासुखे॥

अभिमानोपनेत्र-स्थ-
दुःख-बीज-प्रमार्जनैः।
सन्ततैर् लक्ष्यतां व्याप्तं
सु-खं श्याम-मनो-हरम्॥

दुःख-मूलत्व-मिश्रत्वे
बृहताम् बाधके ऽधिकम्।
दुःखोदर्को न चेद् ग्राह्यो
ऽल्पोऽस्थिरस् तुष्टये बुधैः॥

ब्रह्माण्डाख्य-महा-काव्य(/वाक्य)-
पाठकास् सर्व-चेतनाः (←देवा अपि)
जीव-भाव-क्रिया वर्णास्,
तद्-उत्कर्षे प्रयत्यताम्॥

स्मराणि यत् कार्यम् उपैति किञ्चिद्
उपायनं चोपहृतं कृतं च ।
स पादुकाभ्यां प्रथमं निवेद्य
कैङ्कर्य-राज्ये भरतो जहर्ष

विस्तारः (द्रष्टुं नोद्यम्)

प्रेरणम् (रामायणम् - अयोध्या-काण्डम् ११५-२७)

स्वभावः

पराङ् निरृच्छतीं बुद्धिं
प्रत्यग् वर्तयताधुना
येन जीवं विजानीयां
तज्-जीवांश् च दिवौकसः॥

कोशे काये समाजे ऽपि
लक्ष्य आत्मा यदि स्फुटम्
प्रत्यक्त्वम् आनुकूल्यं चै-
कत्वं कायाभिमानिता॥

इदम् अन्तर् इदम् बाह्यम्
इति भेदाच् छरीरजात्।
स्व-स्वीय-रक्षणे जीव-
मूलासक्तिस् स्फुटा मयि॥

स्वरूप-स्थिति-वृत्तादौ
यतो भूयो नियाम्यता।
अ-नित्यं देह-लोकादि
नित्य-ब्रह्म-कलेवरम्।
तद्-भोगाय जगत् सर्वं
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्य-भोगी, न हीतरः॥
इति स्व-भाव–शस्त्राभ्यां
शेषत्वं शेष शिक्षय

व्याधो व्याघ्रादि-सङ्काशो
ऽव्यक्ताद् व्यक्तः पुरा महान्।
क्वचिद् वेगं क्वचिन् मान्द्यं
बुद्ध्या कायेन दर्शयन्
उच्छृङ्खलोऽपि न व्यालो
रूक्षो ऽपि न च राक्षसः।
सभ्यता-वाससा छन्नो
जाङ्गलो जामदग्न्य-वत्।
इत्थं व्यक्त-स्वभावः स्यां,
स्फोरयाशीविषाशन

GuruAnaerobic-ब्राह्मणम्

Wild, but not savage.

“The closest to a wild environment is being in a Street Gang, with its periods of inaction and intense action, adrenaline, and psychological danger. This is because young people are still wild. Yet people say that is wrong. Society doesn’t like wildness. It’s scared by it. It will stop you from being wild. It wants you to conform, but as soon as you conform, your life-force and spirit is dead.”

“उच्छृङ्खलोऽपि न व्यालो रूक्षो ऽपि न च राक्षसः।” इत्यत्र शब्दचितौ शशिसुहासौ साहाय्यम् अकुरुताम्।

🦅🦍…🐒🐍
🦅🦍…🐒🐍
...{Loading}...
"...{Loading}..."

लोके वृत्तिः

स्वप्न-साम्येन बन्धुत्वं
तद्-भेदेनान्यता मिता
इति स्वीय-पर-ज्ञैस् स्याद्
रक्ष्या पर्ज्ञा चिरम् बुधैः॥

वातुलालय-मध्य-स्थः
स्वास्थ्योल्लास-रसोन्मुखः।
अनिराशी न चात्य्-आशी
वैद्यवद् वर्ततां भुवि॥

English

One must live in the world seeking delight and health,
as if one were a doctor in a mental hospital -
neither too hopeful, nor hopeless.

स्यात् स्वावस्थासु संतृप्तिर्
व्याधिभिश् चापराजितिः।
जीवनोद्देश एवं सन्न्
असाध्यश् चेद् वरा मृतिः॥
इति निश्चित्य जीवेयम्
म्रियेयोत पुनर् यम।

" अद्य प्रभृति हे लोका
यूयं यूयं वयं वयम् ।
अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥"
नास्ति सङ्गतिर् अस्माकं
युष्माकं च परस्परम् ।
वयं तु किङ्करा विष्णोः
यूयम् इन्द्रिय-किङ्कराः॥

व्यास-वाल्मीकि-भृग्व्-आद्यास्
सम्बन्ध्या नः कुले तु ।
तद्-द्वेषार्त्ति-हताः क्षुद्रा
भ्रातृव्या बान्धव-ब्रुवाः॥

अनित्यता

जरा-मृत्यू न वार्यौ स्तः
भुवि सूर्ये ऽण्डके ऽप्य् उत।
व्यक्ति-सन्तति-राष्ट्रेषु
स्यातां किञ्च न कुत्सितौ