पौषः २०१७
स्खालित्येन विपश्चित्त्वं
सम्पाद्य रक्ष्यते क्वचित्।
पराजयं विनाऽज्ञानं
ज्ञातुं स्वीयं हि दुष्करम्॥
मुखं पिधाय यः कोऽपि
मूर्खो विद्वान् इवाचरेत्।
मुखम् उद्घाट्य केचित् तु
धीरा विद्वत्त्व-रोहिणः॥
विपश्चितो न वा कस्य
स्खालित्यं विद्यते बत।
शतावधानिनः पश्याऽऽर्या-
क्रान्त्य्-आदि-कुखण्डनम्॥
दोषज्ञं पण्डितं पूर्वे
सूरयो ह्यवदन् ननु।
दोषेषु स्वीय-दोषाणां
ज्ञानं मुख्यं च मेनिरे॥
प्रपञ्चम् आन्तरं बाह्यम्
आक्रम्योत्पादयद् भ्रमम्।
क्वचित् तोषं क्वचिच् छोकं
विज्ञाने जनयत्य् अहो॥