ब्रह्माण्डं मच्-छरीरेण
स्वात्मानं ज्ञातुम् इच्छति।
अथ वा नर्तका देवा
नृत्यम् इच्छन्ति कारितम्॥
लोक-काव्य-सृजो वापि
मत्त इच्छन्ति कल्पनाः।
इति स्वीय-स्वभावेषु
ब्रह्म-कार्यं विदुर् बुधाः॥
धर्म-कामार्थ-यत्नेषु
तेभ्यस् तेभ्यो निवर्तने।
देव-दत्तः स्वभावो हि
कारको, देवता उत॥
स्वोद्देश-देवताऽऽकाङ्क्षा-
ऽभेदं भद्रं समाश्रितः।
मूर्तिमद्-देवता-भावैर्
भुङ्क्ते भोगान् अनातुरः॥
“अहम्”-प्रतीत्या ऽणु, विभु, स्वदेहो
ज्ञानं, मनः, शून्यम् उतास्तु सत्ता।
सुखाय वो “देव-गण-प्रियत्वाद्
दासोऽस्मि चैवे"ति गृहीतुम् आर्याः॥
त्रिदशादेश-दिव्याब्धि-
कुल्यां+++(=irrigation channel)+++ शास्त्र-तटावृताम्।
स्वभावाख्यां प्रयुञ्जीत
जीवनोद्यान-वर्धने॥
ममकार-विरोधादि-
ध्वंसकेभ्यः सुरक्षिते।
अयुर् नाम लघु-क्षेत्रे
नियुक्तः शेषिभिर्+++(/हीश्वरैर्)+++ मुदे॥
ब्रह्माण्डाख्य-महा-काव्य+++(/वाक्य)+++-
पाठकास् सर्व-चेतनाः +++(←देवा अपि)+++।
जीव-भाव-क्रिया वर्णास्,
तद्-उत्कर्षे प्रयत्यताम्॥
स्वरूप-स्थिति-वृत्तादौ
यतो भूयो नियाम्यता।
अनित्यं देह-लोकादि
नित्य-ब्रह्म-कलेवरम्।
इति दृष्टे विषादाय
जरा-नाशादि नो भवेत् ॥
तद्-भोगाय जगत् सर्वं
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्यभोगी, न हीतरः॥
इति स्व-भाव–शस्त्राभ्यां +++(→पूर्वनिपातः साभिप्रायः)+++
शेषत्वं शेष+++(→रामानुजोऽपि)+++ शिक्षय॥