मत्तो बुद्धिमतां सङ्गे
बुभूषामीत्य् अमत्सरम्।
मुख्यं मे ऽस्ति महाभाग्यं
तेनैकेन कृतीकृतः॥
मत्तो बुद्धिमतां हन्त
तदेवास्ति सुलक्षणम्।
तेन ते दुर्लभा मह्यं
तथाप्य् अस्मि कृती ह्य् अहम्॥
+++(कथम् इति चेत्)+++
सद्भावा जित्वरा लोके
फल-प्राप्तिर् भवेन् न वा।
अन्तःस्थं लोकम् आलम्ब्य
बाह्यलोकः प्रतिष्ठितः॥
स्वास्थ्योत्कर्ष-द्विषो नौमि
यद्-द्वेषोत्तेजिता मम ।
देव-दिव्य-बुधोत्सेध-
रक्षा-योग-स्पृहादयः॥