काव्ये नृत्ये तथा शिल्पे
भूतज्ञाने ऽपि विस्मतैः।
सगुणं पूज्यते ब्रह्म
निर्गुणस्य स्मृतेः किमु॥
प्रियान् गुणान् पुरस्-कृत्य
गौणी-कृत्येतरान् तथा।
तोष-वृक्षेषु संसक्ता
नाम्ना नैर्गुणिका अपि॥
स्तुवन्ति निर्गुणं ब्रह्म
तृप्तिं सगुणतः सदा ।
लभमानाश्, चमत्कारो
वैष शब्द-गुणोद्भवः?॥
किमु स-गुण-संसार-
व्याधेर् नैर्गुण्य-भेषजम्।
उताकृतिविशेषाति-
सक्त्य्-उन्माद-निवारणम्॥
स्यात् तथा कस्यचित् प्रीत्यै,
न चेद् अध्वान्तर-ह्नुतिः।
सगुणोपासनेनापि
व्यक्त–सत्-तुष्टि-सन्ततेः॥