जगत्सर्वं महायन्त्रम्
महाकालेन चोदितम्।
तत्र लग्ने सदाचारैर्
वैराग्यं सहजं मयि॥
रङ्गभूमाव् अमुष्यां मे
पिता भृत्यः पतिर् यथा।
नैकानि तानि पात्राणि
पात्रधारी त्व् अहं स्मृतः॥
आसक्त्य्-अतिशयो मा भूद्
अनासक्तिस् तथैव च।
पात्रे पात्रवतस् सक्तिः
लीलावती भवेत् सदा॥
पात्राभिनयतो जातौ
लाभ-नष्टौ न मामकौ।
पात्रे पात्रवतो मा भूद्
आलेपो मे कदाचन॥