नृत्यद्-दम्पती

कश्चनोद्गारः -

शुद्ध-संविद्, विकल्पश् च
क्रिया, विश्रान्तिर् एव च।
क्रमशो यद्-गतिस् ताभ्यां
नृत्यज्-जाया-पती नुमः

एता हि पद्धतीः पश्यन्,
मध्ये मायां समाविशन्।
आदाव् अन्ते तथाभेदं,
भुक्तिं मुक्तिं समश्नुते

मध्ये-नृत्तं क्वचिद् रम्यं
क्वचिद् घोरं क्वचित् कटु।
माया-जालं समाकीर्य
स्तभ्नात्य् अस्मान् तडिन्-नटी॥

क्षणम् अत्र क्षणं तत्र,
ततो ऽन्यत्र पुनर् नटी।
क्रिया-विकल्प-वर्णैः सा
नटं सञ्छादयत्य् अपि॥

तत्र स्थैर्यं भरत्य् एष
मेघ-श्यामो महा-नटः।
प्रज्ञां प्रत्यानयन् दिष्ट्या,
हर्षं तेन समर्द्धयन्॥

य एवं प्रेक्षते जन्तुर्
दिव्यं नृत्यं विभु स्फुटम्।
स्वात्मानं स पुनर् वेत्ति
स्वतस् त्यागात् तिरोहितम्॥