पञ्चसु महायज्ञेषु ऋणप्रज्ञा
कालः - २०१६ आश्वयुजमासः
विश्वास-टिप्पनी
“उपचित्रा (वृत्तरत्नाकरः)
पञ्झटिका (छन्दोमञ्जरी)”
वैश्वदेवे पञ्जमहायज्ञेषु च भावजागरणार्थम् -
सूर्यं सन्ध्यां चन्द्रं तारा
दृष्ट्वा दष्ट्वा पीत्वा गीत्वा।
धर्म्यान् देवान् पूर्वान् प्राज्ञान्
भूतमनुष्यान् के न नमेयुः॥
औपासनाग्नि-ध्यानम्
कालः - २०१६ सेप्टेम्बरमासः
धर्मस्य मूर्तिः पितृभिः प्रदत्ता
मुखं सुराणाञ्च विवाहसाक्षी।
रक्षोघ्न एवाथ किमद्भुतं यत्
न दम्पती त्वं हि गृहस्य केन्द्रम्॥