कालः - २०१५
छन्दः - विविधानि
लोकोन्मादः
वसु-चोष–मलोत्सर्ग-
ध्वस्त-वस्त्रा वसुन्धरा।
भ्रष्टं ब्राह्मं, क्षतं क्षात्रम्,
उन्माद-मदिराप्लवः …॥
लोक आलोक-हीनो ऽसौ
जरां मृत्यं च विस्मृतिम्।
धावतीव, यथा नौका
मज्जन्ती काल-सागरे॥
प्रज्ञौन्नत्य-क्षणास् तस्मात्
सङ्ग्राह्या लुब्धकैर् बुधैः।
आजीवाधिष्ण्यपर्यन्तं
ज्ञानं नश्येद्धि सत्वरम्॥
बन्धु-मित्राणि राष्ट्रं च
विश्वं चैवाप्य् अधोमुखम्।
इति दुःखं च क्रोधं च
मूर्खम् एव दहेच् चिरम्॥
वातुलालय-मध्य-स्थः
स्वास्थ्योल्लास-रसोन्मुखः।
अनिराशी न चात्य्-आशी
वैद्यवद् वर्ततां भुवि॥(5)
English
One must live in the world seeking delight and health, as if one were a doctor in a mental hospital - neither too hopeful, nor hopeless.
संसारः सुलभो हन्त,
शुद्धा संवित् तथा न हि।
बान्धवा अतिसामान्याः
शरीरं दोषभाग् अपि॥
एतावत्य् एव सामग्री,
यतो मुक्तिर् न काचन।
लिलया हि प्रयोक्तव्या
ऽऽनन्दौन्नत्याय धीमता॥
पुरुषार्थेषु संसिद्धिं
लभेयैवं द्यु-खेलकाः॥
सद्भावाः
केचिद् भावाः पृषद इव मां तापतप्तं स्पृशेयुः
कश्चिद् सिञ्चेद् रस इह मनश्, शुष्क-धान्यात् कठोरम्।
नृत्येद् देवो नट-पति-निभो नेत्रयोर् अग्रतो मे
नाहं यन्त्रं यदि, भवतु मे हृत्-सरस् तोषवीचि॥
इक्षुर् वै रसवर्जितो भवति चेत् निष्ठीव्यते तत्क्षणम्
कूपी तोयवतीह चुम्बितमुखा शुष्का नु निष्कास्यते।
जीर्णं जीवनमेवमेव शमलं, रत्यादिभिः पूरितः
भावार्द्रो भव येन यास्यसि सदा लोकोत्तरां व्यापृतिम्॥
५/५
“मृत्युस् स्यात् कथम् अप्रियो? ऽमृत-जनैर् ज्ञेयः कथं तत्त्वतः?”
प्रश्नश् चेत् तव जायते स्मर जनं रस्येतरे कर्मणि।
अर्थार्थं श्रम-संहताऽस्मित-मुखं सद्-भाव-शून्यं पशुं,
यन्त्रत्वे न हि जीवनं, क्व नु पुनर् लोकोत्तरा व्यापृतिः॥
५/५
पत्त्रं दूरगतं न तोषणपरं - कौतूहलोद्भावनात्,
नेत्रे लग्नम् इवापि चेद् भवति तत् - पीडाकरं भावितम्।
मध्ये स्थापनम् एव सौख्य-जननं तृप्त्य्-आकरं धीमताम्
ज्ञात्वा सर्वम् इदञ् च किं न कुरुते लोकोत्तरां व्यापृतिम्॥
प्रीति-साधन-सम्पत्तिं
लब्ध्वा को वा महामतिः।
दुःखानि साधयेन्, मुग्धा
यथा लोका इमे बत॥
सम्पश्य तद् यन् नान्ये
द्रष्टुं चक्षुर्भिर् ऊर्जितास् सन्ति।
भावा जीवैर् युक्ताः
कवयन्ति हसन्ति कूर्दन्ति॥
(http://www.imdb.com/title/tt0457430/ इत्यनेन प्रेरितम्।)
भाववैविध्यम्
इन्द्रस्याक्रमणं कुमार-कदनं चन्द्रस्य सौम्यां प्रभां
सौरं तिग्ममयूखवत्त्वम् अनले प्राप्तस्य दीप्तिं यथा।
नाना-देव-भवान् स्व-भाव-घटकान् मन्त्रैस् स्मरन्, दर्शयन्
स्वस्मिन्, देव-समस् स यास्यति चिरं लोकोत्तरां व्यापृतिम्॥
कदाचिन् नटेशः, क्वचित् स्थाणुरद्धा
क्वचिद् भैरवश् चेत्, प्रशान्तः कदाचित्।
भवानीपते रूप-वैविध्यम् एवं
प्रदर्श्य प्रदर्श्य त्वम् ईयास् सुरत्वम्॥
चण्ड-कोप-परिधूत-केसरे
दुष्टदण्डनमनस्विनि स्थिते।
भिन्न-वस्तुनि मृदु स्मिते क्षणं
पूर्णता जनमनो हरेन् ननु॥
वार्ताः
किं ते तत्र विपत्रवीक्षणचण? ज्ञातिप्रवादप्रपा
भावैस् त्वां किमु पूरयेद् उत बत स्वास्थ्यं विनाश्य व्रजेत्।
भावैस् त्वं भव नीयमान इतरैर् गौणैर् न लक्ष्यैः पुनस्
सौहार्दं परिरक्ष येन लभसे लोकोत्तरां व्यापृतिम्॥
वार्ता यान्ति ततस्ततोऽप्यपरतःफेना यथा वीचिगास्
सद्भावाश् च विचारमन्थनभवा मुक्तास् त्व् अहो दुर्लभाः।
बद्धो नो भव नूत्नयन्त्रघटिते जाले ऽथ मीनो यथा
गम्भीरश् चर, निम्नगस्य तव सा लोकोत्तरा व्यापृतिः॥
शुष्का पण्डितता तु धिङ् न कुरुते तृप्तिं भृशं सेविता,
शून्यं तेन मनश्च मन्द-नयने, श्रान्तश् च कण्ठस् ततः।
भक्ष्यं नात्सि हि नीरसं, किमु पुनर् ज्ञानेन रस्यन् न चेत्?
वार्ताम् आर्द्र-मना हि भुङ्क्ष्व ननु सा लोकोत्तरा व्यापृतिः॥
शतायुततमं पृष्ठं
पुस्तके बहुनीरसे।
पठतस् तव को लाभः
क्षुद्रजाले पतेः कुतः॥
कार्यवृष्टिहतचेतसस् तव
स्यान् न चेन् मनसि भावपूर्णता।
सोम-वल्लि-परि-संग्रहात् परं
तत्-सवेऽज्ञ इव कीर्त्यते भवान्॥
(महानुभावेनSthaneshwareNa प्रेरितम्।)
देवैर् योगः
धिग् दृश्यं न हि लभ्यते भगवतस् तीर्थे प्रसिद्धे क्षणाद्
ऊर्ध्वं, नैव च पीठ-भूषित-यतिर् भाष्यो भटैस् संवृतः।
इष्टा वा तव सार-शून्य-घनता, सत्त्वं, जनैर् वा स्तुतम्?
पक्षे स्याद् बत दम्भिता ऽप्य्, अपरतो लोकोत्तरा व्यापृतिः॥
सद्भावाद्रेस् तुङ्गशृङ्गाण्य् अजस्रं
यायं यायं यत्नतस् साधकस् स्यात्।
दिव्यास्त्रौघैश् शातयन् स्वास् समस्या
देवत्वाप्त्या ऽमोघघस्रः सजीवः॥
कौशलम्
एतन् मेऽस्ति सुशोभनम् बहुमतं धर्म्यं यशस्यं प्रियञ्
चेत्य् एवं स्वभिमानिता यदि भवेत् काये ऽथ वृत्ताव् उत।
तत्-तत्-कौशलपोषणे भवति यो यत्नोऽनपेक्षोऽपि सन्
स्वप्रीत्यैकफलो ऽमलस् स हि न वा लोकोत्तरा व्यापृतिः॥
क्लिष्टे मन्त्रजपे यथाऽपि कुरुते दोषान् बहून् वेगवान्
मान्द्यं छिद्र-हरं भवेन् मधुरता-संवर्धकोल्लास-दम्।
रंहो रंह इति ब्रुवाणम् अधिकं मौनं जगद् दिश्यताम्,
लोकोऽयं खलु गुप्ततां न हि नयेल् लोकोत्तरां व्यापृतिम्॥
(अस्मिन्चलच्चित्रे Hayao Miyazaki महाभागेन पात्रमुखेन प्रदर्शितैर् मसृणैर् मन्दगतिकैर् आस्वादनानुभवैः प्रेरितमिदम्। )
परैर् व्यवहारः
“मूर्खो ऽसाव्” इति तर्जनेन न हि तद्-वृत्तिᳶ परामृश्यते
दृष्टिः का तनुते ऽप्रियं मम दृशा तस्येति न ज्ञायते।
संवृद्धिं हृदि काङ्क्षसे यदि जने दोषस्य वा मार्जनं
मौर्ख्यम् मा भण, सूक्ष्म-दर्शनपटोर् लोकोत्तरा व्यापृतिः॥
सन्दर्भो ऽत्र विवृतः।
काष्ठं बोधयते, स्रुवं, स्रुचम् अपि प्रीत्वा ऽहुतौ वर्तते,
वत्सान् मन्त्रयते, ऽग्नि-कुण्डम् अपि तत् संस्कार-युक्तायते।
वेद-ज्ञा इव चोदयन् स्ववचनैर् यन्त्रादि-देवान् भवान्
भावार्द्रो भवताच् चिरं च लभतां लोकोत्तरां व्यापृतिम्॥
गुप्तौ गुप्तौ नाशं यास्यद्
दाने स्तेये वृद्धिं याति।
यस्मान् नास्ति श्रेयो लोके
चित्रं वित्तं हृद्वित्तं तत्॥
ऐश्वरी दृष्टिः
ईश्वरेण परिकल्पितं जगत्
क्रीडनाय हि मया ऽङ्गनं बृहत्।
पुत्र-शत्रु-गुरु-भर्तृ-भृत्यकाः
पुत्तला मधुर-नर्म-कर्मणे॥
तद् +धास्यं, रुदितं, प्रकोपनम् अपि, क्रीडाऽपि, तद् भाषितं,
तत् पत्त्रं, जलजं, जलं, खमपि, सा योषिद्वरा, वाहनम्।
कॢप्तं, वास्तविकं, स्वकं, परगतं, द्रव्यं, गुणः, कर्म वा
संमर्ष्ट्रे ऽनिशम् एव विस्मित-हृदे मोदाय किं नो भवेत्॥
एतावद् एव संसारं
दृष्ट्वा मूर्च्छाम् उपैम्य् अहम्।
कथं देव समस्तं त्वं
पश्यन् नन्दसि तं चिरम्?
उत्तमानां हि चेतांसि
गाहसे वातिबन्धुरम्।
तद्-व्यक्त्यै हि सृजन्न् अन्यद्
दुष्टं क्षुद्रं प्रियेतरम्॥