खले हासः

काय-पीडा तपोऽङ्गत्वे
ऽस्माकं दृष्टौ स्थिरा यतः।
खल-यत्नैः कृता किं न
पीडा हासाय नो भवेत्?

कलहो जीवनस्याङ्गं
लोकः शाठ्यं विना कथम्।
दुःखं दोषा भवेयुश् चेत्य्
अव्यग्रो ऽव्याकुलो हसन्
सोत्साहस् सत्त्वसम्पन्नो
ब्रह्माण्डाङ्गं च भावतः।
यथा भूयात् तथा च्छिन्न-
मस्ते देहि मतिं जने॥