अकारः सर्वभूतानाम्
भकारोऽपि य उच्यते।
भावस्य स्वास्थ्यमूलस्य
सौष्ठवम् परम् ईमहे॥
विश्वास-टिप्पनी
बुद्धिव्यापारात् पूर्वमेव संस्कारजन्यः सद्भावनाचयः स्याद् इति।
ततो बुद्धिव्यापारस्तरे विवेकः प्रधानः, ततः बुद्धिसाधारणम्।
विवेकिन एव सद्भावपूर्णताया महत्त्वम् अलम् अवगच्छन्तीति तु सत्यम्।
किन्तु केचन “एतत् समीचीनम्, एतन्ने"ति लोके विविकं कुर्वन्तो ऽपि तेनैव दौर्मनस्यम् आप्नुवन्ति।
इकारस्थानतः को वा
विवेकम् परिकम्पयेत्।
यत्कैङ्कर्ये स्थिता बुद्धिः
पोषयेन् न तु नाशयेत्॥
उकारे सज्जनाप्तिः स्याद्
विवेकाऽपाय-पूरणी।
सौमनस्योत्पल-ज्योत्स्ना
नौका शोकमहोदधौ ॥