दिवो दास्यम्

भक्तिस् स्व-रूप-सिद्धा या
देवादि-स्मृति-सन्ततिः।
षष्ठ-प्राण-निभं मे स्याद्
उल्लासाय जयाय च॥

त्वयि प्रीतेः परीवाहो
न्याय्या किङ्करता मम।
क्वात्म-प्रीति–स्वरूपाप्ती
लोक-भुक्! स्यात् तद्-अन्तरा॥

मयि पूर्त्यै त्वयि प्रीतेः
कुत्र कुत्र न भाससे
कायात् काव्यं जगत् सर्वं
जुष्टं हृष्य-गुणैर् यतः॥

प्रीतेः पूर्ति-परीवाहौ
वर्तेतां चक्रवद् यतः।
स्यन्देत जीवितं देव-
यानी-भूतं मुदाऽध्वनि॥

अभिगतिर् उपादानम्
इज्या स्वाध्याय-योगकौ।
पञ्च कालास् सुसंकॢप्ता
दासस्योत्साह-पूरकाः

सर्वं श्मशान-कल्पं यद्
विष्णोः सम्बन्धम् अन्तरा।
झटित्य् उत्कृष्टतां याति
तादर्थ्यावगतौ बत॥

यावन् मांस-जनास् सत्यास्
तावद् देवास् ततो ऽथ वा।
इत्य् एवं मन्यमानस्य
हृष्टाः पुष्टाः क्रियास् तताः

शेषत्वं दिवि पूर्वम् एव घटितं, तस्मिन् रसात् सन्तता
तुष्टिश् चेद्, रसिता कथं भवतु चेत् तत्रेयम् अस्मद्-गतिः
ब्रह्माण्डादि-चमत्-कृतिं कलयतां, तत्-कर्तृ-तोषं ततः,
प्रीत्य्-अब्धेः परिवाह एक-रसता कैङ्कर्य-राज्याभिधा॥