ब्रह्मवाक्यम्

“अहं ब्रह्मास्मि” वाक्यं वै
भणित्वा ऽनन्तरे क्षणे।
“नमस् त” इति नत्वा वा
तत्त्वं “तत् त्वम् असी"ङ्गितम्!॥

मत्पत्न्या चेष्टितं ह्य् एवं,
तस्याः किं तद् +हसन् मुखं।
ब्रह्म-ज्ञानस्य गोप्तृत्वे
प्रयुक्तं स्यात् कथञ्चन॥