दिनम् - Nov 19 2013
छन्दः - अनुष्टुभ्
शोभते बिन्दुना देवि
त्वल्-ललाटं नु नान्यथा।
छन्नसूर्यदिनं सद्भिर्
दुर्दिनं कथ्यते, स्मर॥
शोभते बिन्दुना देवि
त्वल्-ललाटं नु नान्यथा।
स्मय-युक्त-मुखं भाति
स्मय-रिक्ततया न हि॥
भृशं क्रन्दन्त्व् अनार्यास् ते
“यप्पयप्पे"ति सन्ततम्।
न जहीहि धृतं बिन्दुम्
तिलकं पुरुषा इव॥
किञ् च काकास् तु कूजन्ति
वेदघोषं न कर्हिचित्।
महा-मेधा-भृत-र्षीणां
श्रुणुष्व, ते हि देशिकाः॥
मदिरासु च मा भ्रष्टा
स्म भवस् स-दलङ्कृता।
न युज्यते प्रमादो वै
देवालये यथा तथा॥
नेदम् उक्तम् अतीतं हि
सत्य-बद्धा कृता हि वाक्।
शरीरं संस्कृतं स्यात् ते
बिन्दुना मन्दिरी-कृतम्॥