छन्दः - अनुष्टुभ्
रौद्रं वीर्यं भयं हास्यं
बीभत्साद्य्-अखिलं रसम्।
यथामात्रं यथास्थानम्
उल्लासाय लभेमहि॥
रौद्रादि
प्रीति-पात्रम् पुरस् कृत्य
तद्-विरुद्धस्य निग्रहे।
द्वेषो गुणी-कृतश् चेत् स
तक्रे लवणवद् भवेत्॥
प्रीति-विस्मृति-विद्वेषः
स्यात् समुद्राम्बुवत् ततः।
स्वादु तक्रं सदा ऽस्माकम्
आराधने नियुज्यताम्॥
न क्रोध-यन्त्रितोऽहं स्यां
कोधस् स्यान् मन्नियन्त्रणे।
होमाग्निः परिधौ बद्धः
शोभते न तथा ऽन्यथा॥
+++(२०१६)+++
अनग्नेर् न हि पाकस् स्यात्
न दैव्याहुतयस् तथा।
एवम् ऐकान्तिकाक्रोधः
कथं शोभेत सज्जने॥
चमत्कृतिः
तृप्ति-दायक-भक्ष्याशे
मुखे चमत्कृतिर् यथा।
चमत्-चमत्-कृतिस् स्यान् मे
रसिकस्य पुनः पुनः॥