अलौकिकानुभवान् न साधुता

दिनम् - Nov 14 2013 छन्दः - अनुष्टुभ्

प्राणायामेषु बन्धेषु
ह्य् आसनेषु तथैव च।
नुपुणास् सत्यम् ऊचुर् यत्
सुलभं‌ शक्ति-चालनम्॥

शक्तिः कुण्डलिनी-जाता
पूजयापि नु साधिता।
तन्त्र-मन्त्रैस् सुसाध्या सा
रावणेनापि साधिता॥

अहङ्कारो न नश्येत
यस्य कस्यापि धीमतः।
मरून्मत्तो महा-मत्तो
मुहम्मदोऽत्र गृह्यताम्॥

कर्मणां पूर्णतस् त्यागं
दृष्ट्वा दोलयते मनः।
मुक्तिर् एषा ऽथवा व्याधिर्
दस्युता ऽस्त्य् अथवार्षता॥