ऋतम्भरः

कालः - २०१५

ब्रह्मजालगतसूत्रता हि या
सूर्यचन्द्रपवनेषु सा त्वयि।
प्रेरितास् स्युरथ भावनास् ततो
धर्मकामविषया ऋतम्भर॥

(रथोद्धता)


ईश्वरस्य हृदयस्य कम्पनम्
मन्यतामृतमतीवशान्तिदम्।
तन्मृदङ्गमनुनृत्यतो भवेद्
लास्यताण्डवविधिज्ञतोत्तमा॥

धर्मे तिष्ठेत् तथा वाङ् मे
वसिष्ठे ऽरुन्धतिर् यथा।
अधर्मे स्यात् तथा सीता
दशग्रीवेऽभवद् यथा ॥

चलनाद् वलनान् नृत्यं गानं
क्वणनाद् वचनात् काव्यं यस्याः।
लीले संस्कारेणाक्ता त्वं
व्याप्ता स्थेयास् सर्वस्वे मे॥

सूर्य एष खलु जागृतोऽधुना
स्वप्नलोकम् अधुना प्रयाति सः।
पक्षपूर्तिर् अधुनेति वा सदा
विस्मयोऽस्ति ऋतुचक्षुषाम् मुदे॥