यावद् वश् चण्डिका-स्तोत्रं
तावत् तादात्म्य-कल्पनम्।
अभविष्यत् तदा सत्यं,
सर्वत्राभ्यभविष्यत॥
यवद् वो महिषादीनां
हतेश् चित्रेषु दर्शनम्।
तावच् चित्तेष्व् अधास्यध्वम्
सर्वत्राभ्यभविष्यत॥
यावज् जुगुप्सा काव्येषु
राक्षसेषु कृता तथा।
देव-द्विट्स्व् अतनिष्यध्वम्
सर्वत्राभ्यभविष्यत॥
यावद् ऋषिषु वः प्रीतिर्
घोषिता, शास्त्र-सम्मतिम्।
अरक्षिष्यत चेद् अर्धम्
सर्वत्राभ्यभविष्यत॥
यावत् प्रकृतिसाहज्यम्
विज्ञाने बहु कीर्तितम्।
तावल् लोके ऽसहिष्यध्वं
सर्वत्राभ्यभविष्यत॥
अथवा देवपूजा वः
पितृश्राद्धं सद्-अर्हणम्।
दम्भमात्रं भवेन्, नैव
भावपूर्णं च सार्थकम्॥