काञ्चीमठे
(चन्द्रशेखर-जयेन्द्र-विजयेन्द्र-यतीनां क्रमशः सदाचार-प्रचारं, राज-कोप-सहनम्, उत्तरायणारम्भ-परिष्करणं च ध्यात्वा दत्तात्रेयवद् उत्प्रेक्ष्य - )
सत्त्वं धर्मं धनाद् भ्रंशात्,
धर्म्यां शक्तिं कुराज्यतः।
ज्योतिर्-विद्याम् अविद्यायाः
रक्षन् भिक्षु-त्रयो ऽत्रिजः॥
(सत्य-चन्द्रशेखर-सन्न्यासे, मठस्य संस्कारकन्यापाठशालादि मनसि निधाय)
साङ्गवेदसुरक्षादि
गुरौ शिष्ये समं यथा।
बालसंस्काररक्षादौ
यतिर् यतिं प्रयातयेत्॥
कुदृष्टिः
नीचदृष्टिर् ग्रहो राहुः
सद्भावार्कस्य कुत्सितः।
मत्सरो मूर्त्तिमान् साक्षाद्
अन्धराक्षससन्निभः॥
विस्मयोद्भावकं गर्त्तं
सदाचारभुवि स्थितम्। …
लोभः
प्रकृते ऽसौर् महाव्याधं,
विश्वं तेन मृगी-कृतम्।
हत-प्रायं, फलं तस्मात्
तस्य शास्सि घृणां विना॥