नवकाश्मीरकः

मूर्खो रत्नायते कस्माद् दत्त्वा जायां पराय धिक्।
दत्त्वा भूमातरं वापि श्लाघते यस् सहिष्णुताम्॥

शारदा मूढतान् धत्ते भैरवो भीरुताम् पराम्।
वैष्णवी व्यभिचारञ् च नव-काश्मीरके कथम्?॥

गृहीत्वा कय्यटं ह्यग्रे लेखे दत्तेऽपशब्दताम्।
क्षेमेन्द्रम् पुरतः कृत्वा छन्दोभङ्गे कृतः श्रमः॥

नत्वैव कल्हणञ् चापि मरून्माद-प्रतोषकः।
डिम्भः काश्मीरको दम्भी नष्टो भ्रष्टः पुनः पुनः॥