कविगर्वकुलिशम्

मार्गशीर्षः २०१७
अनाचारं सदाचारम्
अधर्मं धर्ममुत्तमम्।
आत्मानञ्च ऋषिं कुर्वन्
कवे! धिमन्! नमो नमः॥
(सत्कविपक्षेऽपि कुकविपक्षेऽप्य् अन्वेति।)

वयम् परभृता(=कोका) गाने
नास्त्य् अस्माकं समः क्वचित्।
इति गर्वेण नावज्ञा
युक्ता परभृति(=काके) क्वचित्॥