दोषज्ञाः

कर्म ध्वंसयितुं प्राप्ता
विद्वांसो ब्रह्मराक्षसाः।
दोषान् दमयितुं तेऽन्ये
विद्वांसो ब्रह्मबृंहकाः ॥

ब्रह्मणो बृंहके केचिद्
ब्रह्म-राक्षस-दर्शिनः।
दुराचार-परा मान-
रक्षो-भक्षं स्वयं गताः॥

शिष्टता-मान्यता-प्राप्त्यै
केचिद् दोष-प्रदर्शकाः।
उच्छिष्टता-प्रियास् ते ऽन्ये
हठाद् दोषे प्रतिष्ठिताः॥

छन्दः पद्ये, गतिं नृत्ये
गीते रागं, स्वरे स्थितिम्।
शब्दे व्याकृतिम् अप्य् आप्त्वा
कल्पे शिथिलता कुतः॥