“नास्तिका मम मित्राणि
स्युर्, म्लेच्छाश् च ततः परम्”।
इत्य् अपेक्ष्यार्यता-शङ्कां
निखातुं त्वरिते नमः ॥
धर्माचारान् परित्यज्य,
काव्यं नर्म पुरः पुरः।
कृत्वा तीव्रं श्रमञ् चैव
दस्यु-प्रीति-कृते नमः॥
राक्षसोपप्लवं दृष्ट्वा
श्रुत्वा चाप्य् अर्घ्य-मर्दनम्।
“कुत्र? नास्ति तथा किञ्चिद्”
इति ख्यापयते नमः॥
“धिक् कस्मान् नु वदत्य् एष
सूचयत्य् अपि धिक् कुतः?
सत्यम् अप्य् अप्रियं तेषाम्”
इति चिन्ताकुलं नुमः॥
“ब्राह्मणः शोभते साधुर्,
विशृङ्गा गौर् यथा, न तु।
क्षत्रोपेत” इति स्वीयं
बन्धुं जुगुप्सते नमः॥
वयं तु दिव्य-वर्त्म-स्था
आर्यं म्लेच्छं जनम् पशुम्।
सत्यं, धर्मं, दिवः प्रीतिम्,
अत्यक्त्वा काशयामहे॥

विस्तारः (द्रष्टुं नोद्यम्)
- विषयः - आर्यत्वं आर्यैस् सह सम्बन्धं च जुगुप्सन्ते ये “तटस्थ"जनाः (ie sickular)।
- स्थूलाक्षराणि पुनःपठनय् इष्टपद्यप्राप्तौ स्वसौकर्याय।
अस्मदीयं पद-त्राणम्
अस्मदीयं किरीटकम्।
तत्-तत्-स्थान-गते हृद्ये
नान्योन्य-पद-पातिनी॥