गुरु-नुतिः

पलवेरि-लक्ष्मीनृसिंहः

अहोबिल-बिलोद्भवं गुरु-कुलं हरिं साम्बुजं
स्व-नाम-वचनात् पुनः प्रवचनैर् हृदि स्फोटयन्।
पितुश् च पलवेरितश् चरित-शास्त्र-भासैधितो
हिताय स विभाति नो भृगुषु चाक्रवर्त्योऽनलः॥