[[उज्जयिनीकाव्यम् Source: EB]]
[
उज्जयिनीकाव्यम्
प्रथमः सर्गः
एकान्ततायाः कारागृहे
सन्ध्या गता मुहुरथोज्जयिनीसकाशाद्
विन्ध्याद्रिसानुगतकाननरम्यवीथ्या ।
कस्माद् भवानिह समागत एकतो मे
जिङ्य़ासया सह मयाप्यनुगम्यमानः ॥ १॥
दृष्ट्वा सुतं विरहतः पुनरागतं सो
म्यागम्यतामिति समार्द्रवचो जनन्याः ।
श्रुत्वा भवानिह मयूरशतस्य कण्ठा
दुद्भिन्नकीचकमनःक्षततो विहङ्गाद् ॥ २॥
उद्गास्यतः कुटजशाखिगतादरण्य
गीतोपमं समवधाय विराजते किम् ।
यात्रा सुदीर्घविपुलेयमहो समाप्ये
त्यालोच्य किं झटिति तिष्ठसि कातरस्त्वम् ॥ ३॥ युग्मकम्
आलोलमाकलितमारुतदोलनोत्क
शाखोज्ज्वलद्बकुलमूलशिलातलेऽस्मिन् ।
क्षीणो निषद्य च भवान् समपोहितुं दू
राध्वक्लमौग्र्यमलसं परितो ददर्श ॥ ४॥
तावत्समाप्य गगने दिनदीर्घयात्रां
सोपानतः समवरोहति भानुमांश्च ।
दूरे तु मालवमथाहितमौनमाप्त
मेघस्
w
अरूपमिव भात्यनुचक्रवालम् ॥ ५॥
श्यामाग्रशिष्टकनकोज्ज्वलपीनभूमि
वक्षोजतुल्यमतितुङ्गगिरिर्विभाति ।
स्रस्तांशुकाभमिह तस्य तटे लसन्ति
चूताः सपल्लवकरा निबिडा मनोङ्य़ाः ॥ ६॥
आरादहो जनकजाप्लवपुण्यतीर्थ
स्नानार्द्रमारुतसुखोच्ह्वसितानि वान्ति ।
शान्तेऽपि रामगिरिपुण्यतमाश्रमेऽस्मिन्
तान्तोऽस्त्यशान्तहृदयश्च भवान् निषण्णः ॥ ७॥
एकान्तविक्लबमुहूर्तनिवारणार्थ
मन्यस्य सन्निहितताप्यलमित्यचिन्ति ।
च्हायां विहाय विवृते मयि तिष्ठतीह
वेगाद् भवानपि ससम्भ्रममन्वपृ
c
च्हत् ॥ ८॥
कस्त्वं दिदृक्षति भवान् गहने कमस्मि
न्नेकान्तबन्धनगृहे विजने निगूढम् ।
अङ्य़ातमेव सविशङ्कमिमं निरीक्ष्य
तिष्ठन्तमञ्जलियुतोऽस्मि भवन्तमारात् ॥ ९॥
उक्तं मयाथ पथिकोऽहमनादिकाल
वीथ्यामिहात्मनि निधाय तु पूजये त्वाम् ।
भीतोऽस्म्यहं च सततं परिपूजकेभ्य
स्तत्रापि राजकृतपूजनमापदेव ॥ १०॥
विश्वास्यतां मयि न मेऽस्त्यधिकारपूजा
निःस्वोऽस्मि ते सुकवितापरिपूजकोऽहम् ।
प्रस्थाय तत्र नगरान्महितोज्ज्
w
अयिन्याः
पद्भ्यां चरंस्त्
w
अमिह रामगिरिं प्रविष्टः ॥ ११॥
युष्मत्प्रयाणमिदमेव किमर्थमेत
दस्वास्थ्यमन्तरिह मां नयतीति सत्यम् ।
अस्वास्थ्यमन्तरिति मां प्रति किन्नु तावान्
बन्धो मिथः क इति वां वद मां यथार्थम् ॥ १२॥
वक्तुं यथावदहमप्रभुरप्यथैतद्
भावस्थिरं च जननान्तरसौहृदं स्याद् ।
कालातिवर्तिकवितानिचयः स मादृक्
पान्थस्य कालपथसञ्चरतोऽस्ति पथ्यः ॥ १३॥
क्लेशातितप्तमथनादुतिता सुधा नु
नैजात्मशोणितभवा तव काव्यपात्रे ।
तत्पानजन्यलहरीधृतदेवभाव
मर्त्येषु कश्चिदहमप्यथ मां वदाशु ॥ १४॥
कस्मात्तवेह विजने भवति प्रवास
श्चैकान्तसीमनि कुतो ह्यभयङ्गतस्त्वम् ।
एकान्तता मम हितेत्यहिता न सापि
निर्बन्धिता यदि सुधापि भवेन्नु तिक्ता ॥ १५॥
यन्मर्त्यजन्मसहजा त्वसहायतैव
सत्यं तदास्यपटविश्लथिता मुहूर्ताः ।
निश्शब्दमेव गलितास्तदनु प्रशान्त
मस्
w
अस्थितोऽप्यधिकतः परिपृच्हसीत्थम् ॥ १६॥
कारागृहं च मयि केनचिदाङ्य़येय
मारोपिता विजनतेति हि मन्यसे किम् ।
सत्यं क्षमस्व सदयं महितोज्जयिन्यां
सार्वत्रिकं सुविदितं ननु चैवमेव ॥ १७॥
राजप्रकोपविषयः सुकविर्बहिष्कृ
तोऽभूदिति श्रुतिरथात्थ च कोऽपराधः ।
जाने न किञ्चिदपि सूक्ष्मतया तथापि
वार्ताः श्रुतास्त्विह भवान् निजसोदरी च ॥ १८॥
प्रेमाकुलाविति नृपः क्रुधयादिदेश
चैकान्ततां किल कवे तव वर्षभोग्याम् ।
सर्पेण दष्ट इव हा सहसोत्थितोऽति
क्षुब्धस्त्वमूचिथ गिरः स्वगतस्वरूपाः ॥ १९॥ युग्मकम्
राजस्वसुः प्रणयिता मम कोऽपमानो
जानन्ति किं कविमनोऽप्यधिकालिदासम् ।
को वापमान इति किं प्रणयोऽपमानः
क्षोभोऽयमन्तरिह तत्स्मरणात् कुतो वा ॥ २०॥
स्
w
अर्गप्रभावलयितामनुचक्रवाल
रेखं विलोकयति वोज्जयिनीं मनोङ्य़ाम् ।
अत्युत्कटव्यथमिह स्थितवानथ त्व
मुन्मत्तवद्वदसि वाचिकमेवमु
c
चैः ॥ २१॥
स्निग्धोऽहमुज्जयिनि हा त्वयि किन्तु नैव
त्वत्प्रोज्ज्वलत्प्रमदपुष्पवनीषु नैव ।
कामाकुलालुलितनेत्रचयेषु नापि
लज्जविहीनमदलोभनपुञ्जितेषु ॥ २२॥
सर्वं मया विगणितं तृणवत् परन्तु
दुःखं व्यधा हृदि ममात्यपमानजन्यम् ।
कस्मात्त्वमुज्जयिनि रागवती जनेऽस्मि
न्नासीः किमेतदिहजन्मनि वक्ष्यसि त्वम् ॥ २३॥
आत्मातपप्रमथितानि च तद्वचांसि
सम्मूर्च्च्हितोत्किरणका भवति त्रिसन्ध्या ।
खद्योतराजिरिह पर्णततौ प्रदीपं
प्राकाशयद्भुवि तते गगने च ताराः ॥ २४॥
क्षोणीधरस्थकटकावृतचूतवाटे
श्यामाभवीचिनिकराः शिथिलीभवन्ति ।
गाधेतरोष्णपरिवाहगणोपरि प्र
शान्ताब्धिवत् कविरिहात्मपदे विभाति ॥ २५॥
सान्त्वोक्तिभिर्न हि कथञ्चन शुष्कभूतो
बाष्पाम्बुबिन्दुरथ सञ्ज्वलतीह जीवे ।
अन्ते परस्परमहो परिवर्धमानं
मौनं विभञ्जयितुमेवमहं त्ववोचम् ॥ २६॥
साक्षीकुरुष्व सदयं भवदात्मताप
सन्तप्तसत्यतपनस्य च मामपि त्वम् ।
शश्वद्भविष्यति पुरी न च विक्रमार्क
भूपालकेन पुनरुज्जयिनी त्वयैव ॥ २७॥
त्यक्त्वा पुरं तदधिकोज्ज्वलमत्र कस्मा
देको भवान् विजनरामगिरिं गतोऽभूः ।
गास्यामि तां तदनु भाविपरम्परार्थ
मुग्रापवाददलितामिह सत्यगाथाम् ॥ २८॥
एवं भवानवधिहीनसुदीर्घदीर्घ
कालाख्यदुर्गमविशालमहापथेन ।
गच्च्हन्तमध्वगमिमं कविपूजकं स
दाशीरनुग्रहगिरा मुदितं कुरुष्व ॥ २९॥
क्षोणीध्रसानुगतचूततरूत्करेषु
गन्धं प्रसारयति पल्लवकुड्मलानि ।
पुष्पाणि पूरितकराञ्जलिकानि सन्ति
पुष्पान्तरप्रसृतरेणुभिरात्तगन्धैः ॥ ३०॥
स्
w
अप्नावलीमधुघटैरृतुराजयात्रा
सत्कारभोजनमहोत्सव आविरस्ति ।
एतत्परं विपरिणाममनोहरास्ते
ग्रीष्मर्तुवासरगणाः परिवर्धयन्ति ॥ ३१॥
ङ्य़ात्वा न किञ्चिदिह यत्परिवर्तते तत्
सर्वं स्थितोऽस्मि निकटे तव जागरूकः ।
काव्यं तदालिखसि मे हृदयावबोध
भूर्जत्वचि प्रवितताखिलभावरम्यम् ॥ ३२॥
काव्यं च तद्विवृतमेव पठामि सम्यग्
भूयोऽप्यहं हृदयशोणितचर्चितार्द्रम् ।
कालश्च तन्निशमनार्थमुपैति भावि
कालोऽपि दत्तहृदयः श्रवणेच्च्हुरास्ते ॥ ३३॥
\\
ह्रुले
*************************************************************
.
द्वितीयः सर्गः
प्रथमकुड्मलाः
एकाकी स नदीतीरे मूले वटतरोरधः ।
भूर्जपत्रे कृशे किञ्चित् स्मारं स्मारं लिखन् स्थितः ॥ १॥
स्फुटति प्रथमं चूतकुसुमे ह्यृतुमङ्गले ।
मणिभृङ्ग इवास्मिन् किं भ्रमत्यस्य विलोकितम् ॥ २॥
प्रचण्डसूर्यसन्तप्तश्चन्द्रिकाशाप्रवर्धकः ।
दिनान्तरमणीयः किं निदाघोष्णस्तपोज्ज्वलः ॥ ३॥
निजात्मनः किमूष्मा किं तरुणारुणकामितम् ।
लिलेख भूर्जपत्रेऽस्मिन्नर्धबोधोऽयमद्य किम् ॥ ४॥ युग्मकम्
तस्मिन्नतिमृदुश्रुत्या मधुरं गायति क्षणम् ।
हृत्तोषमधुबिन्दूनामास्वादनमभूत् किमु ॥ ५॥
अन्यस्य कस्यचित् कर्णे तदालापाय मन्त्रवत् ।
अकामयत् किं पक्षी चेद् गायेद् वीक्ष्य विहायसम् ॥ ६॥
शृणोति गायेत् पक्षी चेन्नादलक्ष्यं नभः सदा ।
शृणोति को वा सदयं तदुक्तं हितसुन्दरम् ॥ ७॥
स्मृतौ स्वगुरुनाथस्य तेजोरूपं विभाति किम् ।
अस्तु ते शुभमित्युक्त्वा यो मे मूर्ध्नि स्पृशन् स्थितः ॥ ८॥
आश्रावयन् मां यः साममन्त्रं मन्द्रगभीरकम् ।
दर्शने गरुडोऽप्यन्तरत्यन्तार्द्रमनाश्च यः ॥ ९॥ युग्मकम्
पठने नावधानेन कदाचित् गुरुसन्निधिम् ।
त्यक्त्वास्मिंस्तटिनीतीरे सायंकाले समागते ॥ १०॥
यदत्र मालवग्रामे धरासौन्दर्यधारया ।
ऋतुलास्यविलासैश्च हृतमानसमास्थितम् ॥ ११॥
यत्पुरा यत्र कुत्रापि चरन्तं शिष्यमञ्जसा ।
नेतुं गुरोर्नियोगेन मित्रेणैकेन चागतम् ॥ १२॥
महाप्रकृत्यात्मपाठशालां सन्त्यज्य सत्वरम् ।
आचार्यसन्निधानं समादरेण गतं च यत् ॥ १३॥
स्खलद्गतिकपादाभ्यां सन्तप्तमनसा सह ।
गुरुकोपानलज्वालादहनार्थं यदास्थितम् ॥ १४॥
कठोरदण्डदानार्थमाङ्य़ापयति यत्तथा ।
प्रशिक्षितेषु सूक्तेषु पाठमर्थं च कस्यचित् ॥ १५॥
वक्तुं क्रमाद्यदाचार्येणाङ्य़ापितमथादरात् ।
पाठश्चार्थश्च सुस्पष्टावुक्तावु
cc
ऐश्च यद् द्रुतम् ॥ १६॥
प्रतप्तप्रस्तराद् गैरेयामोदप्रसरो यथा ।
आचार्येण तदा वात्सल्यामृतं वर्षितं च यत् ॥ १७॥
मालवस्याभिमानस्त्वं भवेति परितोषतः ।
उदितं य
cc
अ कारुण्यान्मूर्ध्नि विन्यस्य पाणिना ॥ १८॥
तत्सर्वं स्मरणे भाति लिखितं यदिहाखिलम् ।
तद् द्रुतं गुरुवर्यस्य सन्निधौ वाचयामि किम् ॥ १९॥ कुलकम्
समस्यापूरणं दृष्ट्वा तमाह गुरुरेकदा ।
विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि ॥ २०॥
आशीर्वादातिरिक्तोऽर्थस्तस्य दृष्टो न केनचित् ।
आचार्यस्य क्रान्तदृष्टेर्वाचमर्थोऽनुधावति ॥ २१॥
मनसः स्मृतिकोणेऽस्मिन् स्वर्णसिंहासनोपरि ।
मृत्यतीतयशोरूपो विभात्यद्याप्यसौ गुरुः ॥ २२॥
अथालिखत्यसौ नत्वा मनसा पादयोर्गुरोः ।
प्रकृत्याः परिणामिन्या वर्षारम्भं पदैः क्रमात् ॥ २३॥
मेघद्विपैश्च विद्युद्भिर्ध्वजैश्च ध्वनिमर्दलैः ।
वर्षाकालः कामिचित्तहर्षं वर्धयतीति यत् ॥ २४॥
वलाहकः श्रोत्रमनोहरारावस्तृषाजलम् ।
सन्तप्तेभ्यश्चातकेभ्यो वृष्ट्वा मन्दं प्रयाति यत् ॥ २५॥
सौदामन्या गुणं कृत्वा शक्रचापं दधद् द्रुतम् ।
प्रवासिजनहृद्भेदि धारापातं करोति यत् ॥ २६॥
प्रोत्थितैः कन्दलीजालैर्वैदूर्याभैस्तृणाङ्कुरैः ।
इन्द्रगोपैश्चोज्ज्वलिता भाति यच्च वसुन्धरा ॥ २७॥
यद् विकल्प्य द्रुमलताः सङ्घर्षेणावरोहणे ।
तत्सुगन्धसमास्वादे भागभाजौ घनानिलौ ॥ २८॥
बालार्जुनप्रसूनानि नवकेसरपल्लवाः ।
केतकीसूचयः श्यामश्वेतारुणसुमान्यपि ॥ २९॥
वाराङ्गनानामभवन् वर्णभूषायितानि यत् ।
तत्सर्वं चित्रितं तेन भूर्जपत्रेषु सांप्रतम् ॥ ३०॥ कुलकम्
जाज्वल्यमानग्रीष्मायां वाचि किं कन्दलोदयः ।
उष्णतप्तप्रवाहायां वाचि शीतद्रवः किमु ॥ ३१॥
मृद्गन्धो वा वचसि किं नूतनासारशीकरे ।
वर्षर्त्वालिङ्गने मह्याः किमेष पुलकोद्गमः ॥ ३२॥
ऋतुस्नानार्द्रवसना प्रसिद्धारम्यकैशिका ।
लज्जावनम्रा काचित् किं मालवग्रामकन्यका ॥ ३३॥
कया वा प्रेरितश्चैवमस्मिन् पत्रे लिखत्यसौ ।
तस्मिन्नुच्चैः पठत्यारात् तिष्ठन्ती का सविस्मयम् ॥ ३४॥
न पश्यन्त्यपि पश्यन्ती किञ्चित्कौतुकमद्भुतम् ।
अभूच्च तूष्णीं तिष्ठन्ती सा किञ्चित् प्रष्टुमुत्सुका ॥ ३५॥ युग्मकम्
ये सन्त्युदयनप्रेमकथाकथनकोविदाः ।
तेषां ग्रामीणवृद्धानां मुख्यस्येयं प्रियात्मजा ॥ ३६॥
त्रियामासत्रगोष्ठीषु यात्रिकानां निरन्तरम् ।
पुरावृत्तसमाख्यानरसिकस्य सुवाग्मिनः ॥ ३७॥
विधुरग्रामवृद्धस्य निधितुल्येयमाबभौ ।
मात्रभावमहादुःखमङ्य़ात्वा वर्धिता च या ॥ ३८॥
पश्यन्ती वल्लरीवृक्षान् निजैकोदरसोदरान् ।
कुशलोक्तीर्वदन्ती या डयतो नीडजानपि ॥ ३९॥
नानल्पं वक्ति या किन्तु स्वीयवाच्यातिरिक्ततः ।
यन्नेत्रहृदयस्योक्तिः स्पन्दते तटिदुज्ज्वला ॥ ४०॥
वातेरितदलच्चूतफले पतति या द्रुतम् ।
सुगन्धि तद् गृहीत्वा प्रदातुं निश्शब्दमुत्सुका ॥ ४१॥
किं ते नामेत्येकदा या परिपृष्टा निरुत्तरम् ।
लिखन्त्यासीद् भूतलेऽस्मिन् चरणाङ्गुलिभिर्मुहुः ॥ ४२॥
परुषैः पिङ्गलैश्चापि मृत्पिण्डैर्न्निर्मिताद् गृहात् ।
बहिरागत्य मन्दं या निकटे तस्य वर्तते ॥ ४३॥
पत्रे लिखितमावृत्य पठनेनोच्चकैः स्वयम् ।
रसमानं तं निरीक्ष्य सा तिष्ठति सकौतुकम् ॥ ४४॥ कुलकम्
वर्षाकालो यथा कान्तो वधूचिकुरराजिषु ।
जातीसुमं च बकुलमालां धारयतीति यत् ॥ ४५॥
नीरमौक्तिकहारेण रोमराजिश्च राजिता ।
कदंबकुसुमैश्चारु कर्णभूषायितं च यत् ॥ ४६॥
तत्सर्वं वर्णयित्वोच्चैर्गायत्यस्मिन् तया स्थितम् ।
अर्थस्य वर्णरेणूनां सश्रद्धादानकृद् यथा ॥ ४७॥
निष्कलङ्कमुखात् प्रश्नः समुदेतीदृशो द्रुतम् ।
न केनापि श्रूयमाणमुच्यते भवता किमु ॥ ४८॥
मया यदुच्यते सर्वं त्वया तच्च्ह्राव्यमेव किम् ।
इत्येवमुक्त्वा शान्तोऽयं सुस्मितं कृतवान् मृदु ॥ ४९॥
असत्यमित्युचूषीवासत्यं तत्स्वदतीव सा ।
प्रसन्नगण्डवदना सलज्जस्मितमास्थिता ॥ ५०॥
नखक्षतानभिङ्य़ातनवपल्लवसन्निभा ।
अनाघ्रातप्रसूनाभा यदा सा निकटे स्थिता ॥ ५१॥
तदासौ स्मृतवान् सेयं मालवस्य प्रियात्मजा
कस्यचिच्च्हैवलावीतलावण्यस्य सरोरुहम् ॥ ५२॥ युग्मकम्
उद्यानवल्लिभिर्वन्दनीया किं वनवल्लिका ।
विभूषणविहीना किमुमा किं भूमिकन्यका ॥ ५३॥
मृगशाबैरेधिता किं मनोङ्य़ा मुनिकन्यका ।
मनस्यस्याश्चित्रमेवं बहुधा परिवर्तते ॥ ५४॥
न किञ्चित् पदमुक्त्वा सा मन्दं मन्दं पदान्यधात् ।
न किञ्चित् सक्तमप्यङ्घ्रौ किञ्चित् सक्तमिवाकुला ॥ ५५॥
निवृत्तगमना तिष्ठत्यन्वेषणपरायणा ।
नित्यदृश्यं किं तदक्षि किमद्येयमपूर्वता ॥ ५६॥
ताते कथाः कथयति परितो निहिता जनाः ।
सर्वं विस्मृत्य तास्वेव लीनचित्ता भवन्ति यत् ॥ ५७॥
तत्तया दृष्टमिष्टश्च पौराणिककथाश्रवः ।
तस्मादलब्धश्चानन्दः कथं लभ्यो भवेदितः ॥ ५८॥ युग्मकम्
पल्लवाढ्यवटस्यार्द्रच्च्हायायामुपविश्य सः ।
पत्रेषु यल्लिखत्येददङ्य़ातं किल यद्यपि ॥ ५९॥
उच्चारितं तच्च्ह्रुत्वा किमपूर्वाह्लाद ईदृशः ।
किन्नु चन्द्रोदयं दृष्ट्वा समुद्रोद्वृद्धिरीदृशी ॥ ६०॥ युग्मकम्
निदाघतप्ते कस्मिंश्चिन्निष्कलङ्कमनस्यपि ।
आद्यमेघासारलेशेनार्द्रहर्षः किमीदृशः ॥ ६१॥
शरत्तथा च हेमन्तशिशिरौ च महीतले ।
सर्वान् चारुतरश्रीकान् कुर्वाणो मधुरेव च ॥ ६२॥
आविर्भावतिरोभावावेषां लिखति पत्रके ।
तस्मिन् वटद्रुशाखायां विद्रुमोऽभूद्धरिन्मणिः ॥ ६३॥ युग्मकम्
प्रभातेऽद्यापि बालातपोत्तरङ्गापगारवे ।
मालवस्य वसन्तर्तुलावण्यं पश्यतो मम ॥ ६४॥
कार्यकारणसंबन्धं ङ्य़ातुं येषामसाध्यता ।
अस्वास्थ्यान्यात्मनोऽगाधतायां जाग्रन्ति तानि किम् ॥ ६५॥ युग्मकम्
पश्चिमाभिमुखीभूतग्रामवीथ्यां निरन्तरम् ।
पार्श्ववृक्षवितानेषु सम्मिलन्त्यत्र यात्रिकाः ॥ ६६॥
उच्चैस्तैरुच्यमानासु भाषासु विविधास्वपि ।
लघुकौतुकवार्तानां विषयस्तूज्जयिन्यभूत् ॥ ६७॥
उत्तिष्ठन्ती महाकालक्षेत्रघण्टारवैः पुरी ।
प्रत्यहं सा स्वर्गतुल्या यन्नृपः कल्पवृक्षवत् ॥ ६८॥
राजाङ्कणानि सङ्गीतकाव्यालापनवेदयः ।
नृत्तनृत्योत्सवानां च ध्वजारोहो दिने दिने ॥ ६९॥
तत्पुरीदर्शनं मे स्यादित्याशा समुदेति किम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुर्वामनः किमु ॥ ७०॥
सुमनोमिलिते तस्मिन् सदस्यङ्गत्वसिद्धये ।
अर्हः किमु स भूयोऽपि स्मरत्याचार्यभाषितम् ॥ ७१॥
विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि ।
गुरुकारुण्यमेवास्मिन् वचस्यपि भविष्यति ॥ ७२॥
यावदात्मान्तरं स्पृष्ट्वा प्रबोधयति सांप्रतम् ।
तावत्तदीयसृष्टिश्च भवेत् किं वनसूनवत् ॥ ७३॥
चिन्ताप्रवाहपतितः प्रवहत्येव स स्वयम् ।
दूरात्तेन पथा वाहारूढावागच्च्हतां तदा ॥ ७४॥
अन्यस्य वटवृक्षस्य ततच्च्हायस्य मूलके ।
अश्वौ विश्राम्य तावास्तां दृश्यसौन्दर्यदर्शिनौ ॥ ७५॥
आगतावुज्जयिन्यास्तावेतौ किं राजसेवकौ ।
दौत्यं तयोः किमित्येतद् ङ्य़ातुमौपयिकं किमु ॥ ७६॥
स्वच्च्हांबुनीक्षुकाण्डांश्च मधुराणि फलानि च ।
उपदाः कुर्वते ताभ्यां सादरं ग्रामवासिनः ॥ ७७॥
सुप्रीतावलसं देशवीथ्या सञ्चरतो मुदा ।
मन्दं मन्दं ययोः पश्चाद् गच्च्हति ग्रामकौतुकम् ॥ ७८॥
उज्जयिन्यास्त्वधीशत्वमुद्रां यः कोऽपि सेवते ।
सर्वोऽसावादरार्हः स्यान्मालवग्रामवासिनाम् ॥ ७९॥
आस्तामेतत् किमिति सा नागतासीदितोऽवधिः ।
सलज्जा तिष्ठति स्वस्य पश्चाद् गुप्ततनुः किमु ॥ ८०॥
दयार्द्रा वाक् सानुकंपा दृष्टिश्चाभिमुखीकृता ।
ज्योत्स्नायां प्रसरन्त्यां किमसौ चन्द्रमणिर्द्रुता ॥ ८१॥
भावना सा कवेः कस्मात् कन्यकायाः करे मुदा ।
बिसतन्तूनर्पयति कर्णे चारु शिरीषकम् ॥ ८२॥
तस्या मृदुपदन्यासात् पुष्पं वहति वञ्चुलः ।
विजयं प्राप सा नृत्तमत्सरे कुत्रचित् सुखम् ॥ ८३॥
मालवस्यास्य सा भाति निष्कलङ्कप्रभाततिः ।
सैव भूमिं प्रति प्रेम चाप्सरःकन्यकागतम् ॥ ८४॥
जन्मान्तरागतं सानुबन्धि भावस्थिरं च सा ।
स्नेहातुरत्वमेवेति मुग्धासीत् तस्य भावना ॥ ८५॥
केवले कौतुकेऽस्मिन् किं सत्यमस्ति तथापि किम् ।
स्वगतानीदृशानीह वृथैवोदयमाप्नुयुः ॥ ८६॥
गतः कालो हि न ङ्य़ातस्तदा दृष्टा जनावली ।
ग्रामवृद्धगृहस्यास्य द्वारि सङ्गमतां गता ॥ ८७॥
कस्मादत्याह्लादवन्तश्चापूर्वोत्साहिनो जनाः ।
एतन्महाभाग्यमिति प्राहुः किं ते परस्परम् ॥ ८८॥
गृहनाथो ग्रामवृद्धो नृपदूतौ विशेषतः ।
सभाजयामास किं तन्नेत्रे हर्षाश्रुसङ्कुले ॥ ८९॥
मालवस्य ग्रामहृद्यलावण्यप्रतिबिंबिकाम् ।
ददर्श किल तौ तस्य प्रियपुत्र्यां यथागुणम् ॥ ९०॥
उज्जयिन्याश्चक्रवर्ती निस्सारावकरेष्वपि ।
अतुल्यरत्नं दृष्ट्वा चेत् तत् स्वायत्तं करोत्यहो ॥ ९१॥
अङ्के निधाय स्वां बालां मातृहीनां पुपोष सः ।
पाणिर्वा वर्धते पादश्चेत्यतीव समुत्सुकः ॥ ९२॥
तां निजप्रेष्ठतनयां दत्तमादातुमेव तौ ।
राङ्य़ो नियोगं प्रत्यक्षं निवेदयितुमागतौ ॥ ९३॥
सा चोज्जयिन्यां श्वोभाविराङ्य़ीतुल्या विराजते ।
आयास्यन्तीह तां नेतुं जनाः शिबिकया सह ॥ ९४॥
निवेदयामासतुस्तौ यात्रातिथिमुहूर्तकौ ।
आह्लादातिशयस्तत्र प्रतिवेशिमनस्स्वपि ॥ ९५॥
कथानिष्णा ग्रामवृद्धाश्चेक्षुकेदारपालकाः ।
नीवाराणां यवानां च फलेषु मदहर्षिताः ॥ ९६॥
तेषामयं चोज्जयिन्या ग्रामो बन्धुरितःपरम् ।
तदेतत् स्मृतिजो हर्षः सर्वत्र परिनृत्यति ॥ ९७॥
तेषां मध्येऽपि किंमूलमेतत्सर्वमिति स्थिता ।
ग्रीष्मानिलपरिम्लानलतेव स्तम्भितेव सा ॥ ९८॥
क्षेत्रादस्माद् रूढमूलमुन्मूलयति सस्यकम् ।
अन्यत्र पालनार्थं को वेति किं वेत्ति कन्यका ॥ ९९॥
न वेत्येषा ब्रवीत्येवं जनकस्त्वन्तरान्तरा ।
अतिहासः सदाप्यश्रुप्रवाहे पर्यवस्यति ॥ १००॥
आगतेन पथा वाहारूढौ तौ राजसेवकौ ।
क्षमोरसि खुराघातनादमुच्च्ह्राव्य जग्मतुः ॥ १०१॥
जनबाहुल्यहर्षोन्मादावेशेषु न भागभाक् ।
एक एव स्थितः कैश्चिन्नावधेयः कथञ्चन ॥ १०२॥
दूरीभूतखुरध्वानदिशं प्रति झटित्यसौ ।
अस्वस्थ एवावलोक्य कविर्न्निश्शब्दमब्रवीत् ॥ १०३॥
आत्मनि त्वां प्रतिष्ठाप्य समाराधितवानहम् ।
प्रियोज्जयिनि किन्त्वद्य द्वेष्मि त्वां रत्नहारिणीम् ॥ १०४॥
\\
ह्रुले
***********************************************************
.
तृतीयः सर्गः
नीडो न जानाति खगस्य दुःखम्
अङ्य़ातभावार्थकशब्दजातात्
समावृतात् सा ह्यभयार्थिनीव ।
नद्यास्तटं प्राप्य निषीदति स्म
यस्मादियं मातृसमा युवत्याः ॥ १॥
यस्यास्तरङ्गोदितकातरोक्तं
निद्रोचितं गीतमिवानुभूतम् ।
ततस्तरङ्गास्तु त एव तस्याः
कदाचिदासन्नुरुभर्त्सनानि ॥ २॥
प्रहस्य वीचीभिरिहाह्वयन्ती
माश्लिष्य यां मन्त्रयति स्वदुःखम् ।
यामेव चाद्यापि विहासशोक
सन्दिग्धतायां शरणं गतेयम् ॥ ३॥
व्याप्येव शालीनसुमालवीय
ग्रामीणकन्यात्मविषादजातम् ।
श्यामीकृतं व्योम घनेन यस्य
च्हाया नदीमप्यकरोत् सिताभाम् ॥ ४॥
पेतुस्तरङ्गा नटनश्रमेण
गायत्ययं दीनतया खगः कः ।
खगेन तेनाधिगतं स्वदुःखं
कोऽन्यस्तथेत्यस्मरदेव कन्या ॥ ५॥
केऽर्थाः पितुर्मित्रकृताशिषां वा
हर्षस्य तेषां प्रतिवेशिनां च ।
ते मामहो भाग्यवतीं वदन्ति
भाग्यं किमित्याहितविस्मयाभूत् ॥ ६॥
यत्रात्मनः क्रीडनवर्धनानि
नद्यास्तटेऽस्मिन् पुरुपल्लवाभाः ।
नृत्यन्ति चूताश्च पलाशकाश्च
गायन्ति यत्रोन्मदनीडजाताः ॥ ७॥
दूरात् त्रिसन्ध्या वपतीह शालीः
पङ्केषु मग्ना इव या न दृष्टाः ।
तीरागता रत्रितरीति गीतं
तातस्य गानं च विलंबवाचि ॥ ८॥
पितुः कथावाचनमिङ्गुदीप्र
दीपप्रभायामपि सर्वमेतत् ।
इष्टं ममेष्टं हि सदा यदेषां
नष्टं तु किं भाग्यमिति प्रवक्ति ॥ ९॥
विकीर्णनीवारकभक्षणार्थं
गृहाङ्कणप्राप्तकपोतजाताः ।
स्नेहप्रबद्धैणगणस्तटिन्या
स्तीरे रुदच्चातकचक्रवाकौ ॥ १०॥
तमालशाखाप्रविलंबिनील
मालापताकाभमयूरकश्च ।
अरण्यजंबूविवरेण जाल
द्वारेव निर्वर्ण्य कदाचिदेव ॥ ११॥
आलोच्य किञ्चित् कुशलं वदन्ती
शारी च मे केवलसोदरौघः ।
बन्धूनिमान् स्निग्धहृदो विहाय
यात्रापरत्रैव किमु स्वभाग्यम् ॥ १२॥ विशेषकम्
पिता रसादाह कथाः स्ववाटी
तरुव्रजाः सन्ति सुरावताराः ।
ग्रीष्मर्तुसंस्पर्शननिर्वृतोऽयं
द्रुमोत्पलो भाति सुवर्णपुष्पैः ॥ १३॥
पुरा च यो मूलनिषण्णसीता
केशावमर्शप्रसृतस्वहस्तः ।
स शिंशपाद्रुः स्तबकाश्च लंब
प्रदीपतुल्या विलसन्ति यस्मात् ॥ १४॥
पिकाय दत्ते मधु चूतवृक्ष
श्चाविद्धमुक्ता बकुलाः क्षिपन्ति ।
प्रहासतः प्राप्तसुपर्वशापः
पुनर्हसंस्तिष्ठति सप्तपर्णः ॥ १५॥
देवा अपीमे च भवन्ति सन्तो
भूमिप्रियाश्चात्र विरूढमूलाः ।
अंसोपरीमांश्च समुह्य नेतुं
सान्दोलकः प्राप्स्यति नेह कश्चित् ॥ १६॥
सकुड्मला ये कुसुमैश्च युक्ताः
क्षौमं वसाना नटने निमग्नाः ।
आगन्तुकान् बालसमीरणान
प्यव्यक्तगानोत्कविहङ्गमांश्च ॥ १७॥
वदन्ति मां चापि कदाचिदेते
पत्रावलीबन्धुरमर्मरोक्तीः ।
कथं त्यजेयं सुदृढार्द्रबन्ध
मेतं कथं वा कथयामि यात्राम् ॥ १८॥ युग्मकम्
गच्च्हामि यद्येष सखा रसालाः
कस्मै प्रयच्च्हेत् प्रथमं फलं स्वम् ।
मयांबुसेकैः परिवर्धितेयं
लता भवेत् कुड्मलिता कदा नु ॥ १९॥
अमातृकन्याहृदयातपोऽयं
भाषान्तरालेखसमं स्वपित्रा ।
अङ्य़ात एवात्र तदीयरम्य
नेत्रान्त एवास्तमितः क्रमेण ॥ २०॥
उत्थाय तस्मात् तटिनीतटात् सा
मार्गेण तेनैव च गच्च्हति स्म ।
क्षणादहो नातिविदूरदेशे
वटद्रुमोऽभूद्विषयस्तदक्ष्णोः ॥ २१॥
ईषन्नतस्तस्य वटस्य मूले
फालस्थलं पाणितलेऽथवा स्वाम् ।
मनोगतानां धुरमेव खिन्नो
वहन्निषण्णोऽस्ति क एष वा स्यात् ॥ २२॥
स्तब्धा गतिस्तत्र सगद्गदाया
स्तस्याः किमङ्य़ातनिमित्तमेव ।
सोऽयं दिदृक्षाविषयस्तथापि
सन्दिग्धपादा च तथैव तस्थौ ॥ २३॥
गच्च्हाथ तस्मिन् प्रियमानसे त्व
दस्वास्थ्यभारानवरोपय त्वम् ।
गच्च्हेति मन्त्रो ध्वनतीव तन्मा
गच्च्हेति केन प्रतिषिद्ध्यते वा ॥ २४॥
ईषद्दयापूर्णपदप्रयोगात्
परं न किञ्चिन्मम तस्य चास्ति ।
लिखत्यसौ पत्रततौ च किञ्चित्
पठत्यथैतच्च सतालमुच्चैः ॥ २५॥
पाठोऽप्ययं मच्च्ह्रवणार्थमेवे
त्युक्तं च तेनैकदिने ततः किम् ।
न किञ्चिदेवेति न किञ्चिदेवे
त्युक्तिर्हृदः पञ्जरकीरतुल्या ॥ २६॥
परन्तु हा श्रूयत एव हृद्य
स्वरोऽपरस्तुल्यबलो यथैवम् ।
अन्यस्य दुःखानि सहानुभूत्या
जानाति योऽन्यो न भवेत् तवासौ ॥ २७॥
तेजः किमाभाति च तस्य नेत्रे
गानात्मकत्वं च वचस्यपूर्वम् ।
श्रुतं मयात्यल्पवचस्तदोष्ठात्
सदा तथापि श्रवणोत्सुकास्मि ॥ २८॥
गच्च्हेह लज्जां त्यज शङ्कयित्वा
मा तिष्ठ गत्वा तव रागसूनम् ।
तत्पादयोरर्पय किन्तु तस्याः
पादौ कुतश्चित् स्थगितौ सशङ्कौ ॥ २९॥
सोऽयं त्वदप्राप्यविचारणीय
श्रौतोन्नतब्राह्मणगोत्रजातः ।
क्वासौ युवा च क्व पुराकथानां
गातुश्च साधोस्तनया वराकी ॥ ३०॥
कस्मान्मयालोचितमेव चैतत्
सर्वं निषिद्धं खलु धर्मशास्त्रैः ।
एवं पुनश्चिन्तनधर्मशङ्का
कुला च तस्थौ परिशुद्धचित्ता ॥ ३१॥
निवर्तितुं सा न शशाक चैका
न्निमन्त्रणात् क्षोभकरादतीव ।
इष्टानि सर्वाणि यदात्र यस्या
नष्टीभवेयुश्च रहस्तदास्मिन् ॥ ३२॥
उदित्वरामान्तरचित्तकोणे
स्नेहप्रभामात्मन एव मन्ये ।
सूर्यं निजं श्लिष्यति गाढमेव
यावन्मृति प्राघुणिकं हिमाणुः ॥ ३३॥ युग्मकम्
यदेह कन्या न ययौ न तस्थौ
तदा हयानां खुरनादराजिः ।
तद्राजरथ्यां प्रचकंप ताम
प्यान्दोलशब्दाः प्रसरन्ति वायौ ॥ ३४॥
उदेति धूलीपटलः सशब्दो
म्लायन्त्यनुष्णातपरश्मयश्च ।
जनाः समन्तादिह राजवीथ्यां
सोत्कण्ठचित्ताः सह सम्मिलन्ति ॥ ३५॥
कश्चित् खगः संपरिभीत एव
नीडं विशत्यस्य च रोदनस्य ।
रवोऽपि निर्ल्लीयत एव चञ्चौ
नीडो न जानाति खगस्य दुःखम् ॥ ३६॥
गन्धोलिसङ्घश्च यथा कुतोऽपि
कोलाहलैरेति यथा रवौघः ।
आन्दोलिकानां समुपैति यस्य
संवर्धने संवसथो निमग्नः ॥ ३७॥
रवः स मन्दायत एव भूमा
वान्दोलिका साप्यवतीर्यते च ।
दूरे तु कश्चिद् वटवृक्षपत्र
च्च्हायात्तिरोऽभूदपरत्र वेगात् ॥ ३८॥
तद्ग्रामवृद्धाङ्कणके निशायां
गायन्ति तन्मित्रगणाश्च गीतम् ।
अस्त्युज्जयिन्यां सुमहाप्रताप
श्चण्डोग्रसेनाख्यमहीनरेन्द्रः ॥ ३९॥
तस्यैकदासीदभिलाष एकः
प्रियात्मजां वासवदत्तकां च ।
श्रीवत्सराजोदयनेन साकं
विवाहबद्धां च विधातुमेव ॥ ४०॥
प्रयुक्तमेवौपयिकं तदर्थं
प्रीत्या महागीतकलाविदग्धः ।
निजात्मजाचार्यपदं लभेते
त्युक्तं मुदा दूतमुखेन राङ्य़ा ॥ ४१॥
परन्तु तन्नानुससार वत्स
राजोऽभिमानी दृढनिश्चयश्च ।
नेच्च्हा निरर्थाभवदुज्जयिन्या
वत्सेश्वरोऽन्येद्युरिहैव बन्दी ॥ ४२॥
श्रुत्वैवमेषा स्वगृहे कुमारी
कथां विनिद्रं समचिन्तयच्च ।
बद्धामिमामप्युपनेष्यति श्वः
किमुज्जयिन्येवमहो विधत्से ॥ ४३॥
किमित्थमीर्ष्याकुलदृष्टयो मे
वयस्यपुत्रीजनका भवन्ति ।
कस्मात् पितुर्मित्रवराश्च मां श्रा
वयन्ति चान्तःपुरदिव्यवार्ताः ॥ ४४॥
सुवर्णशून्यापि सुवर्णकुम्भी
त्येवं कुतो वा जनकोऽपि वक्ति ।
गीते विषण्णोऽस्ति स वत्सराजः
स्मृत्वा प्रियां स्वां मुहुरेव वाद्यम् ॥ ४५॥
गतेऽर्धरात्रेऽङ्कणगायकास्ते
सुप्ताश्च गानक्लमतः पितापि ।
प्रभाततारेण सहोत्थितुं तत्
क्षोणीतले स्वप्ननिमज्जितोऽभूत् ॥ ४६॥
निशासुमस्यार्द्रतरे गवाक्ष
द्वारा सुगन्धे स्पृशति स्वगात्रे ।
अदृश्यमातुः करशीतसान्त्व
स्पर्शेन रोमाञ्चमधात् किमेषा ॥ ४७॥
सुप्तोत्थिते चारुनिशाविहङ्गे
कलस्वने चालपतीह गाने ।
स्वर्गस्थिताया निजमातुरार्द्र
स्वरं विजानाति किमेतदात्मा ॥ ४८॥
पुरा शकुन्ताः समवर्धयन् किं
प्रसूपरित्यक्तशिशुं मधूल्या ।
किमस्ति चैषा करुणा मनुष्ये
त्यजत्यलं यः किमिहाप्तबन्धून् ॥ ४९॥
निद्रोत्थिता मत्स्यततिस्तटिन्यां
शुक्रोऽप्युदेति प्रसृतेऽन्तरिक्षे ।
नीडाः प्रबुध्यन्ति च स्वस्तिवाचै
रायात्यहश्चात्र सुकुंकुमाभम् ॥ ५०॥
ग्रामोऽखिलो वर्षति वत्सलायां
यात्रामुहूर्ते शुभकामनानि ।
सर्वत्र पत्रेषु तृणेषु नेत्रे
ष्वदृश्यतात्मप्रणयोदिताश्रु ॥ ५१॥
येनात्मजाभाग्यमितीदमुक्तं
तेनापि पित्रा च मुहूर्तकेऽस्मिन् ।
पदं न किञ्चिद् वदितुं ह्यशक्ते
नानीयते हस्तधृता तनूजा ॥ ५२॥
यत्स्वर्णपात्रं तिलकानपेक्षि
सैवेयमस्यै विदधाति भूयः ।
नीराजनं साश्रुविलोचनैः स
ग्रामीणशालीनमहाजनौघः ॥ ५३॥
समागतास्ते नृपकिङ्करास्ता
मान्दोलिकामङ्गुलिभिर्दिशन्ति ।
तातं समाश्लिष्य तु तिष्ठतीयं
विनम्रमीदृग्विरहासहिष्णुः ॥ ५४॥
भ्रमत्यथास्या नयनं भयार्तं
वाटीषु विन्यस्तपदासु बाल्ये ।
स्नेहातुरं चाङ्कणमल्लिकाया
मश्रूदितं किं कुरवोऽरुणाक्षः ॥ ५५॥
आरुह्य मन्दं नतशीर्षकेयं
कर्णीरथे तत्र निषीदति स्म ।
कौशेयवस्त्रावृतपीठकेऽस्मिन्
भूयोऽपि सर्वैरवलोक्यमाना ॥ ५६॥
आमन्त्रणार्थं मुहुरक्षिमात्रे
णासौ स्वतातं सकृदीक्षते च ।
अथापि चान्यं ॥। कमथान्यमारात्
स आगतस्तिष्ठति साश्रु मार्ष्टि ॥ ५७॥
जन्मान्तरं प्रत्यथ गच्च्हतीव
मन्दं चलद्दोलिकया प्रतस्थौ ।
शरीरमात्रं पुरतः प्रयाति
चेतस्त्वनाथं द्रवतीह पश्चात् ॥ ५८॥
मेघैरथागत्य समावृतैः स्व
नेत्रोदितार्कः सहसा तिरोऽभूत् ।
तातः स गेहश्च जनावली सा
ग्रामोऽखिलः स प्रणयैकपात्रम् ॥ ५९॥
तिरोहितं सर्वमभूत् तदन्तेऽ
व्यक्तं तु पारान्तरदृश्यभूतम् ।
आविर्बभूवाथ सुचक्रवाल
प्राकारभित्तिर्दिवमन्तरेण ॥ ६०॥
ग्रामश्च पश्चात् परिदृश्यतेऽयं
समाप्तनाट्याङ्कणवत् प्रशान्तः ।
ममैव रत्नं हृतमुज्जयिन्ये
त्यहो कविर्न्निष्क्रमते च रङ्गात् ॥ ६१॥
\\
ह्रुले
**********************************************************
.
चतुर्थः सर्गः
काव्यपथिकस्य दृश्यानि
पद्भ्यां चरन्तमिह मां पथिकं विचित्र
नानापथाः करपुटेन निमन्त्रयन्ति ।
दूरे परं परिलसन्ति सुचक्रवाला
दङ्य़ाततीरतटिनीगिरिसानवश्च ॥ १॥
च्हत्रैश्च चामरयुतैः परमाधिकार
मत्तानि तानि नगराणि महोज्ज्वलानि ।
मुन्याश्रमाश्च परितः परिपावनास्त
एकाकिनः कतिपये जनसङ्घमध्ये ॥ २॥
द्वीपानि विक्षुभितसागरसंवृतानि
भूमौ मनुष्यहृदयेषु च कालभेदाः ।
एवं नवानि विविधानि मनोहराणि
दृश्यानि मां प्रतिपिपालयिषन्ति दूरे ॥ ३॥ विशेषकम्
ङ्य़ाता मयेयमिह मालवभूश्च रम्य
नीलाब्जवद् विकसदंबरमण्डलं च ।
सम्मीलितेऽक्षियुगलेऽपि च भित्तिचित्र
पङ्क्तीव मन्मनसि सुस्फुटमेव भाति ॥ ४॥
शैलास्तदीयभृगवो रघुवीरपाद
मुद्राङ्कितावयवकाः सुमनोहराश्च ।
कोनालकेरितरुता वनकुल्यकाश्च
नीडोद्यमैर्बलिभुजां कलुषाम्रवाटाः ॥ ५॥
जम्बूलपक्वफलनिर्भरकाननान्ताः
मार्गोपवाटवृतिशोभनकेतकाश्च ।
सीरैः सुकृष्टनवमृन्मदगन्धयुक्त
क्षेत्राणि बालकसमीरणसुन्दराणि ॥ ६॥
पर्णारुणार्द्ररसमज्जितचर्मपाली
शोषप्रदर्शनकवोष्णगृहाङ्कणानि ।
अद्यापि यद्यपि मदिन्द्रियमादिकास्तद्
गन्धश्रुतीक्षणभिदा विविधास्तथापि ॥ ७॥
पूर्वापराब्धियुगलान्तरितं हिमाद्रि
सेत्वन्तदूरसुविशालपथं प्रगच्च्हेः ।
इत्थं हि मन्त्रयति मालवमार्द्ररागं
सुस्वागतं कथयतीह महापथश्च ॥ ८॥ कलापकम्
गङ्गा च धूर्जटिशिरस्थजटाविमुक्ता
वारान्निधेरुरसि गायति किं पतित्वा ।
तत्रत्यतालवनमेचकतीरमेव
गच्च्हत्यबोधत इवात्मपदाब्जयुग्मम् ॥ ९॥
सारावमत्र पतितोत्पतितां च गङ्गां
वारान्निधिं च सुविवेचयितुं त्वशक्यम् ।
गाढात्मविस्मृतियुतं लयनं तयोस्त
दद्वैतरम्यमपि वाङ्मनसोरतीतम् ॥ १०॥
भूयः क्रमादचलतां गमिते तरङ्गे
शान्तिर्विभाति महती स मिमील नेत्रे ।
पूर्णं हरेण हृदयं च तदा समाधि
निष्ठेन वीचिरहितांबुधिसन्निभेन ॥ ११॥
ज्योत्स्नोदिता चलति वीचिरिह क्रमेण
जागर्ति वारिधिरथैष च काव्यपान्थः ।
अस्वस्थमानसतया किल पूर्वतारा
दूरात् प्रकाशयति सा शुभदं प्रदीपम् ॥ १२॥
गच्च्हत्यसौ प्रवहति प्रकृतिप्रसन्न
गीतोपमा च कलमात्र तु दाक्षिणात्या ।
यत्रास्ति किञ्चिदनुरागजमामनस्य
मङ्य़ातवृत्तमपि चित्तलयं समानम् ॥ १३॥
भग्ने निमज्जति मनस्यदसीयभावः
शुद्धो भवत्यथ स गच्च्हति भूय एव ।
संभाषयेय कमृते तु विहायसोऽन्या
दित्येव तिष्ठति महेन्द्रगिरिर्गरीयान् ॥ १४॥
तस्योपरि स्थितवतीह मुनित्वभावे
नोपत्यकोदित इवारव उग्र एकः ।
सम्राज एव पृतना च दिशां जिगीषोः
कस्यापि दक्षिणदिशं त्वरितं जगाम ॥ १५॥
कोऽस्मिन् रथे रघुरिहोदितपूर्वबोधाद्
वंशीयगीतिनिवहः प्रविजागरूकः ।
स्वप्नायितं सकलमेतदितीव किं वा
सर्गव्यथाकिरणकैरभिव्यज्यते वा ॥ १६॥
आजन्मशुद्धिसहिताश्च महाफलान्त
कर्माण एव च समुद्रवृतक्षितीशाः ।
आनाकतो रथचराश्च सविक्रमाश्च
भूमिं ह्यभुञ्जत तथा तदनन्तरं च ॥ १७॥
वार्धक्यमेत्य मुनिवृत्तिमिहापुरेते
वैवस्वतान्वयगता वसुधाधिपालाः ।
जाज्ज्वल्यमानमहिताद्भुतनिर्भरैव
येषां महामहिमपूरितवंशगथा ॥ १८॥ युग्मकम्
भास्वानिवोदयमनूज्ज्वलविक्रमस्य
पूर्वापराह्नसहितोऽस्तमितः स वंशः ।
यद्वर्णने समुचितं लयमाप हृद्य
शब्दाभिधेययुगलं गिरिजेश्वराभम् ॥ १९॥
कश्चिद् वनान्तभुवि हन्त महर्षिधेनुं
सम्राट् स्म चारयति केसरिणं च हिंस्रम् ।
शान्तोऽयमात्मतनुमामिषपिण्डवत् स्वी
कृत्यर्षिधेन्वसुसुरक्षणमार्थयच्च ॥ २०॥
त्राणः क्षतादिति हि रूढिरियं पदस्य
क्षत्रस्य चेति विवृणोति हरिं नृपालः ।
प्राणांस्त्यजामि नहि धर्ममिति प्रतिङ्य़ा
दार्ढ्यम् न कस्य च नमस्कृतियोग्यमस्य ॥ २१॥
उन्मीलतीव नयनं कुलसुप्रभातं
भूपस्य तस्य शिशुराविरभून्मनोङ्य़ः ।
नामापि तस्य रघुरित्यकरोच्च येन
भूमौ च नाकभुवि वंशयशश्चकास्ति ॥ २२॥
आत्मप्रियानिधनतः सुतविप्रयोगात्
साध्वीमणिप्रियतमात्यजनाच्च तीव्रात् ।
दुःखाग्निशुद्धहृदयेषु नृपेषु तेषु
भूमिं यथाविधि परं परिपालयत्सु ॥ २३॥
तद्वंशकीर्तिरपि भूरितरप्रताप
पूर्वाह्नसूर्यवदहो परिभासते स्म ।
अन्तेऽवरोहणमभूच्च गुणौजसां तु
सूर्योऽग्निवर्णसदृशश्चरमाद्रिमेति ॥ २४॥ युग्मकम्
पार्थं शरीरमिह न स्वयशःशरीरं
म्लानेतरं त्वमलिनं परिरक्षितुं च ।
त्यक्तं धनं धनमिति ध्रुवतोऽधिगन्तु
मादानतोऽप्यधिकमन्यकृते प्रदातुम् ॥ २५॥
येऽधारयन् मकुटदण्डयुगं च ते क्व
राजाधिकारमधुमत्तमलीमसाः क्व ।
हा तद्दिलीपचरितादिकमग्निवर्ण
राजप्रमत्तचरितावधिकं दुरन्तम् ॥ २६॥
काव्यं यदा विरचितं परिपूर्णमेव
माचार्यवाग् ध्वनति तद्धृदये पुरोक्ता ।
भावत्कसूक्तिनिवहो रुचिरः कदाचित्
प्राप्स्यत्यसंशयमथोज्जयिनीहृदन्तम् ॥ २७॥ विशेषकम्
प्राप्स्यत्यहो किमथ कोऽस्य निगूढमर्थं
वेत्स्यत्यसौ नृपपुरी ननु रत्नकामा ।
शक्तिः किमस्ति वचसः परिहर्तुमेव
खड्गोग्रनीतिमथ रक्षितुमार्तवर्गम् ॥ २८॥
जाने न वक्तुमुचितोत्तरमस्य सर्व
स्यैतत्तु वच्मि करुणैव कवीन्द्रवाणी ।
आयाहि जानकि पितुर्गृहमाश्रमं मे
देशान्तरस्थमिति भावय मा विषीद ॥ २९॥
एतत्सुभाषितनिदानदयापयोध्यै
आक्रन्दितानुसरणैकहृदे नमोऽस्तु ।
श्लोकोऽभवद्युवकिरातपृषत्कविद्ध
क्रौञ्चाभिदृष्टिजनितः किल यस्य शोकः ॥ ३०॥
एतत्पथे किल रघूद्वहदिग्जयाभि
यानं महोत्सवसमं समतीतपूर्वम् ।
तांबूलपत्ररचिताञ्जलिभिर्निपीय
केरासवं भटजनोऽत्र विशश्रमुः किम् ॥ ३१॥
मार्गं तमेवमनुसृत्य तदा च काव्य
पान्थोऽप्ययं चरति केवलपादचारी ।
नास्त्येव तस्य मनुजोऽनुचरश्च कश्चि
न्नास्त्येव तस्य तु रथश्च तुरङ्गमाश्च ॥ ३२॥
अस्त्यस्य भूर्जतरुपत्रमयोंऽसलंबी
भाण्डस्तु केवलममुं न सभाजयन्ति ।
युद्धे पराजितनृपाश्च परन्तु शुद्ध
ग्रामीणसौहृदमियं प्रकृतिश्च रम्या ॥ ३३॥
पूगैश्च मारुतचलत्फलभारनम्रै
राविःप्रभेण पुरतोऽब्धितटेन यास्यन् ।
सोऽयं समुद्रचुलुकस्मृतिगन्धवाहि
कावेर्युपासिततटैः परिगच्च्हति स्म ॥ ३४॥
आकण्ठमज्जनवतो बहुमुक्तकैः स
न्तुष्टान् करोषि कविते ननु ताम्रपर्णि ।
मुक्तावलीव पतिता सितसैकते सा
चक्षुष्मतां परमनिर्वृतिमातनोति ॥ ३५॥
पश्चात् तदा मलयसानुमतो निमन्त्र
णावाहि चन्दनमरुत् तमुपैति मन्दम् ।
भूयोऽपि तत्परिसरप्रकृतिप्रदत्त
सौन्दर्यपूरितमनाः स तु याति पान्थः ॥ ३६॥
हारीतकैर्डयितमूषणवल्लरीषु
चैलाफलाहितसुगन्धतनुर्नभस्वान् ।
दृश्यौ पुरो मलयदर्दुरपर्वतौ ता
वुर्व्याः स्तनाविव तटार्दितचन्दनौ स्तः ॥ ३७॥
सह्याद्रिपङ्क्तिरथ दृश्यत एव भूम्याः
स्रस्तांशुकोद्धुरनितंबसमानरम्या ।
बालानिलैश्च मुरचीसुखशीतलोप
चारं करोति नवकेतकरेणुगन्धैः ॥ ३८॥
वेलासमीरणसमीरितराजताली
राजिध्वनिं सकुतुकं मुहुरेव शृण्वन् ।
सौन्दर्यधामनि दिशाभुवि दक्षिणस्यां
तीर्थाटकः कविवरः स मुदा प्रयाति ॥ ३९॥
तस्योत्तरायणदिनात् पथिकस्य पूर्वा
रात्रिस्तदैकविपुलोज्ज्वलसत्रशाला ।
अल्पप्रकाशकशिलामयभित्तिदीप
ज्वालापुरोभुवि स जाग्रदवस्थितोऽस्ति ॥ ४०॥
अन्येषु सुप्तिमुपयत्सु स नैजभाण्ड
बन्धं विमोचयति सन्निहितेषु तत्र ।
भूर्जत्वचां शकलितेषु विवृत्य संप्र
त्येकैकमाहितमुदं च पठत्यथोच्चैः ॥ ४१॥
पत्नीवियोगपरिखेदविलोलचित्त
जन्यं श्रुतं तदजदीनविलापवाक्यम् ।
किञ्चित् परं मृदुलवस्तु निहन्तुमत्र
कालः सदा वितनुते मृदुमेव वस्तु ॥ ४२॥
तस्यानुबन्धि कथितं कविना तुषार
सेकाहतं सरसिजं त्विति गद्गदेन ।
सत्राधिवासिषु गतेषु सशब्दनिद्रां
शेते परं कविरपीह विनिद्र एव ॥ ४३॥
कोकस्य दीनरुदितेन समानमेतत्
काव्यं पुनः प्रवहति स्रगियं यदीत्थम् ।
जीवापहा भवति चेत् तदहं कुतो वा
जीवामि योऽधृत हृदि स्रजमेव चैनाम् ॥ ४४॥
पाषाणमप्यमृततां भजते कदाचित्
पाषाणतां व्रजति चामृतमन्यदापि ।
एतत्तु सर्वमपि नैव मनुष्यनिष्ठं
किन्त्वीश्वरेहितमिति प्रजिगाय चोच्चैः ॥ ४५॥
स्नेहातुरस्वरलयात्मकगीतकेऽस्मिन्
पान्थात्मदुःखमथवाजविलाप एव ।
भूषा निरर्थविकला किल शून्यशय्या
जाता ममेति सहसावसिते तु गीते ॥ ४६॥
पप्रच्च्ह कश्चिदथ मित्र विरम्यते किं
कर्तास्य को भवति किं स हि कालिदासः ।
कोऽसावितीह पुनरप्यथ काव्यकारः
कश्चित् तथोत्तरयितुं प्रतिभाति तस्य ॥ ४७॥ युग्मकम्
भूयोऽपि तेन कथितं न हि कालिदासं
जाने न केनचिदुदीरितपूर्व एषः ।
किन्तु त्वदालपिततत्कृतकाव्यखण्ड
संभावनेन मम तृप्तिरहो न जाता ॥ ४८॥
काव्यं तदाशु लिखितुं पठितुं ममाशा
जागर्ति तत् त्वमतिथीभव मेऽद्य रात्रौ ।
क्रोशद्वयं चरति चेद् गृहमस्ति मे तद्
गृह्णीष्व ते सखिनिमन्त्रणमेतदेव ॥ ४९॥
एवं मनोहरसुसंस्कृतभाषणेषु
चात्मावबोधजनकेष्वभिनन्दकेषु ।
विङ्य़ेन काव्यरसिकेन कृतेषु तेषु
श्रोत्रं गतेषु कविरात्मनि तुष्टिमाप ॥ ५०॥
अन्येद्युरस्य सुमनस्सुहृदो निकेते
पीयुषवत् प्रवहति स्म सुकाव्यगीतिः ।
नोक्ता तदापि निजसत्यकथातिथेया
यास्तां कविः क इति काव्यमिदं तु कार्यम् ॥ ५१॥
वाचः स भूर्जदलतोऽनुलिखत्यथ स्व
नाराचकेन सुहृदुत्तमतालपत्रे ।
काव्यं स्वकीयमिह तत् प्रथमं शृणोति
भावार्द्रकं श्रुतिपवित्रमहोऽन्यकण्ठात् ॥ ५२॥
आमन्त्र्य तं तदनु मित्रवरं स काव्य
पान्थः समारभत नैजसुदीर्घयात्राम् ।
भूयोऽपि पर्वतततिस्तटिनीकदंबः
क्षेत्राणि मित्रनिवहस्ततसत्रशालाः ॥ ५३॥
वक्त्राब्जमद्यलहरी यवनाङ्गनानां
यत्राधिकं हरति नेत्रमयं प्रदेशः ।
द्राक्षालतावलिनिकुञ्जवृताजिनेषु
कादंबरीरसरताः सुमिलन्ति यत्र ॥ ५४॥
तेषां मनोहरसुसौहृदसत्कृतीस्ताः
स्वीकृत्य चाप्रकटितस्वयथार्थभावः ।
वैरागिवत् स तु युवा कवनानि कालि
दासस्य कस्यचिदिहालपति प्रकामम् ॥ ५५॥ विशेषकम्
एवं समानहृदयैर्बहुभिर्मनुष्यै
र्नानाविधैः प्रचलिता कथनैरथेयम् ।
वाग्वल्लरी बहुलपक्षशशाङ्कतुल्या
संवर्धितास्य कवितापथिकस्य कीर्तिः ॥ ५६॥
रात्र्यागमे भवति चोत्तरदिग्विभागे
देवालयेऽत्र महितोज्ज्वलकीर्तियुक्ते ।
दीपावली विरलकान्तिरनुक्रमेण
जातास्ति निश्चलतरा प्रकृतीश्वरी च ॥ ५७॥
आराधनोपकृतमन्त्रततिः पवित्र
घण्टोदितध्वनिरपि प्रशमत्वमेति ।
मिष्टान्नभोजनसमेधितचित्तहर्षा
विप्रास्तदग्रवसतिं परितो निषण्णाः ॥ ५८॥
तेषां सुनर्मवचनान्यलसं विशृण्व
न्नास्ते कविः स नितरां विजने यथा स्यात् ।
संभाषणस्य विषयस्तु कवेश्च कालि
दासस्य देशकवितासविशेषतादिः ॥ ५९॥
वङ्गं कलिङ्गमथ कुंकुमदेशमेव
माहुर्जना बहुविधाः कविजन्मदेशम् ।
केचिद् वदन्ति कविजन्म न चैव सप्त
स्वाजन्मपुण्यनगरीष्विति निर्विशङ्कम् ॥ ६०॥
गोपोऽस्ति निस्स्वकुलजः किल मालवस्य
ग्रामस्य सूनुरिति तद्रसने च साक्षात् ।
काल्या कृताक्षरवरप्रविलेखनेन
भेजे कवित्वमिति च प्रवदन्ति केचित् ॥ ६१॥
प्रादुर्बभूवुरिह तस्य च जातिजम््म देशानुबन्धितविचित्रकथाविवादाः ।
वादेन किं फलमनेन जनिश्च यत्र
कुत्रापि वा भवतु सा कविता सुधा नु ॥ ६२॥
सूनं तु न प्रभवति स्वसुगन्धगुप्त्यै
सोऽयं बहिर्गलति निश्वसितच्च्हलेन ।
वायुर्न तन्नियमनाय च शक्तिभूः स्याद्
व्याप्नोत्ययं परिमलोऽपि च वायुमार्गे ॥ ६३॥
भूयोऽपि भूर्जतरुचर्मविलेखनेन
चावर्तनेन हृदुपस्थितिकारकेण ।
अन्योन्यसंविनिमयेन च तानि रम्य
काव्यानि पात्रमभवन् किल कीर्तिराशेः ॥ ६४॥
आसीत् क्रमेण निजभाण्डतलोपशायि
काव्याध्वगस्य नयनं सुकृताश्रुपूर्णम् ।
आयाति यं भ्रमणकौतुकिनं विरागाद्
रागाकुला वरणमाल्यधृतार्द्रपाणिः ॥ ६५॥
आरात् स्वयंवरवधूरिव कीर्तिलक्ष्मी
र्गोपायति स्वयमथाप्ययमात्मना तु ।
शब्दाभिधेययुगलं तदुपासितं च
नृत्यत्यथोज्ज्वलमुमेशवदात्मनीह ॥ ६६॥ युग्मकम्
किञ्चित् तथापि विरहोदितलोलदुःख
मुद्वेलयत्यधिकमेव मनस्तदीयम् ।
कर्णीरथात् तदनु दूरमपागतात् त
द्दृष्टिस्तु तं समुपगच्च्हति दीनदीनम् ॥ ६७॥
\\
ह्रुले
**************************************************************
.
पञ्चमः सर्गः
देवतात्मनोऽङ्कतले
पान्थो न जानाति यानमिदमविराम
मस्यान्तरा सूर्ययानम् ।
उपरिगतमथ कियदितीत्थं
?
पूर्वदिशि पूणेन्दुमुकुटं समुह्य कति
राकानिशाः समायाताः ॥ १॥
चरदश्वनिकरततसैन्धवतटानां
स्फुटितकश्मीरजक्षेत्रनिचयानां
परतः प्रदृश्यते प्रालेयशैलः ।
उन्निद्रमर्मरितहरितपत्रेषु
पुन्नागपुष्पसौरभ्योज्ज्वलेषु
प्रस्तरेष्वत्रत्यमृगनाभिसंस्पर्श
गन्धवद्गिरितटमुपेत्य स निषण्णः ॥ २॥
विकिरति हिमस्तुङ्गशृङ्गतो गायति च
कीचको भ्रमरकृतरन्ध्रः ।
गन्धर्ववल्लकीतुल्या हिमापगा
जागर्ति गानैः कुतश्चित् ।
भूर्जतरुपत्रपुटपालीषु धातुरस
रक्ताभलिपिषु रक्ताभिः ।
विद्याधराङ्गनाभिर्लिखितमन्मथा
लेखाः किमेतेऽब्दशकलाः ॥ ३॥
पुन्नागमन्दारनवपारिजातकैः
संभूय पुष्पिते तस्मिन् भृगौ सदा
प्युन्निद्रमास्ते वसन्तः ।
तप्तातपोग्रशृङ्गे तत्र निष्ठुरं
प्रज्वलत्यूष्मागमर्तुः ।
उन्मुखं चातकं वात्सल्यबिन्दुभिस्
तर्पयत्स्वब्दनिकरेषु ।
अन्तरालस्थलस्यान्तरा नर्तनं
धत्ते च वर्षामयूरः ।
सुन्दरपरागसुमसंकाशहिमधूलि
संकुलेष्वचलकटकेषु ।
आयाति कः शिशिरहेमन्तशारदे
ष्वेते किमायान्ति सर्वे
?
सम्मिलति यत्र हा सर्वर्तुरम्यता
तत्रैव समुपैति पान्थः ।
उत्तुंगहैमवतशृङ्गकूटं समा
रूढवानेकान्तपान्थः ॥ ४॥
स्वर्गायते भूमिरत्र शेते सुखं
स्वर्गः क्षमाङ्कतटमेत्य ।
क्षोणीतलेऽपि विहरद्देवभूस्तुहिन
पूरितोऽयं सानुदेशः ।
श्रूयते पर्णेषु नागभूम्योः सुरत
सल्लापमर्मरनिनादः ।
अत्र हि स्वर्गीयहर्षः ॥ ५॥
धत्ते तुषारकणिकां शंभुभस्म वा
ह्यत्रत्यपर्वतब्यूहः
?
अरुणप्रभोज्ज्वलं हरनिटिललोचनं
प्रोन्मीलतीव मार्तण्डः ।
हरजटायां धवलगिरिकूटकेऽथवा
भासते सितचन्द्रलेखा
?
शृङ्गेषु सान्द्रं समाधिस्थधूर्जटेः
शान्तिपूर्णं महामौनम् ।
तस्मिन् विलीयते हृदयं प्रशान्तम् ॥ ६॥
समुदेति कस्मात् कुतो वानुमात्रं वि
वर्धमानो डमरुतालः
?
श्रीरङ्गके नटननिर्मग्ननटराज
करगतमहाडमरुतालः ।
नासौ दिवास्वप्नमथवा मतिभ्रमो
हृदयनयनेक्षितं सत्यम् ।
आकाशभूम्यौ दिवारात्रकारका
वादित्यचन्द्रौ च सकलभुवनान्यपि
संपूरयन्महाकालनटनं तदा
जागर्ति पथिकस्य पुरतः ।
नयननलिनं परमहर्षेण पूरितम् ।
नवसर्गतालसुस्पन्दितमिदानीं
डमरुरपरो भवति हृदयम् ॥ ७॥
सायन्तने रम्यमन्दारपत्रव
न्नेत्रे निमीलिते मन्दम् ।
तार्तीयनेत्रं समुन्मीलितं येन
पश्यति त्रिभुवनं पान्थः ।
वैराग्यमेत्य कठिने तपसि लीनं
मारारिमात्मनाथं लब्धुमाग्रहात् ।
तीव्रानुरागार्द्रचित्तां तपस्विनीं
पश्यत्यपर्णां स पान्थः ।
गुप्तं निबद्धसुमबाणं मधुप्रियं
लुप्तधैर्यं हरं तार्तीयनेत्राग्नि
तप्तं मृतं पतिं स्मृत्वा कुररीव
चाक्रन्दतीं रतिं
पश्यति मुहुर्मनसि पान्थः ॥ ८॥
परिणामसुन्दरकथायां च तस्यां
शिवपार्वतीविवाहार्थं समागतम् ।
आर्द्राक्षतेन पद्मातपत्रेण मा
ङ्गल्यस्तवेन चाह्लादार्द्रमानसं
लक्ष्मीं च वाणीं च देवीद्वयं यथा
पत्रे लिखत्यसौ स्वयमेव पान्थः ॥ ९॥
गङ्गाकलिन्दजेऽसेविषातां चमर
युक्ते महेशं च पार्श्वद्वयेऽपि ।
निजभूतगणसेवितातोद्यघोषः
समुदेति सर्वतोऽतन्द्रम् ।
किङ्किणीहासरुतवृषभपृष्ठे व्याघ्र
चर्मास्तृतेऽर्धनारीशः पुरोभुवि
आनन्दमूर्तिरायाति ।
नेतुं तमेव निजपत्तनं पर्वता
धीशे समागते श्रूयते गीरियम् ः
भूमेर्दिवश्च संरक्षकमसौ सुतं
जनयिष्यति ध्रुवं स्कन्दम् ॥ १०॥
कल्पद्रुकामधेन्वमृतादि सर्वं
स्वर्ग ते स्वाधीनमेव ।
यस्य परिरक्षार्थमावश्यकं भवति
मर्त्यभुवि कस्यचिद् बालस्य जन्म ॥ ११॥
स्वर्गशप्तानां किमेषा धरित्री
?
मर्त्यस्य भूनिवासः शाप एव किम्
?
सुस्थिरस्नेहबन्धा जन्मजन्मसु
पुष्पिता तिक्तमधुराणि च फलान्यत्र
यच्च्हन्ति लोकान्तरं किमेतादृशं
वर्ततेऽस्मिन् महाब्रह्माण्डभाण्डे
?
पृथिवी ह्युदाररमणीया ॥ १२॥
तीव्रप्रणयोज्ज्वलात्मनां मेलन
सत्रं हि हैमवतभूमिः ।
हेमकूटाचलशृङ्गात् सकौतुक
मायान्ति भूमौ सुरास्ते ।
रङ्गे तु नामस्खलितापराधतो
गुरुशापहेतोः कदाचित्
उर्वशी चागमत् स्वप्नतुल्या
अस्वर्गजां सुधामास्वादयच्च या
विक्रमनृपालहृदयानुरागः ।
अप्सरा अप्यनुभुङ्क्ते स्म मर्त्यस्य
सौहार्दशुद्धदौर्बल्यान्यहो तदा ॥ १३॥
संभ्रमन्मेघमाला पुण्यवाहिनी
हृदयाद् गृहीत्वांबुकणततिं पुनरथ
मार्गान्तरेण प्रयाति ।
एवं स पान्थोऽपि हैमवतभूमेः
सुरभिलशिलाशकलतुल्यं
वंशनालीपूर्णमधुसमानं
हृदये च मधुरानुभूतीः समाहृत्य
सोपानतोऽवतीर्णोऽस्ति ।
पथदर्शिकेयं विभाततारा ॥ १४॥
\\
ह्रुले
*********************************************************
.
षष्ठः सर्गः
पुनरपि मालवे
ज्वलन्ति मार्गोभयपार्श्वभाजः
पलाशपुष्पाग्निकणाः प्रकामम् ।
यद्दर्शनात् सोऽभिललाष पान्थः
प्राप्तुं निजग्राममपूर्वरम्यम् ॥ १॥
परन्तु तत्रास्ति निजं किमेत
च्चिन्तान्तरा तं विमनीकरोति ।
ततः स गूढात्मकहृत्क्षतानां
रक्तार्द्रबिन्दून् परिमार्ष्टि मन्दम् ॥ २॥
तुषारवक्त्रांशुकशारदर्तु
सन्ध्यानिभा केयमुदेति तत्र ।
न किञ्चिदुक्त्वापि यदीयनेत्रं
सर्वं वदत्येव सदा समार्द्रम् ॥ ३॥
शनैः शनैरेव तदीयरूपं
तिरोभवत्यक्षिपथात् कवेः किम् ।
अव्यक्तहेतोः स च तत्कुमार्या
नामाकरोन्मालविकेति हृद्यम् ॥ ४॥
अस्त्यग्निमित्रो विदिशाधिपो यः
सोल्लासमास्ते निजवल्लभाभिः ।
योऽभूत् परं चित्रपटस्थकन्या
लावण्यमाध्वीस्वदनेऽतिसक्तः ॥ ५॥
तत्प्राप्तिसिद्धौ कलिताक्षतन्त्रै
र्विदूषकोपायशतैश्च राङ्य़ा ।
जयार्थमात्तैश्च लघूपजापै
रासूत्रितैर्नाट्यगुरूत्थयुद्धैः ॥ ६॥
अन्तःपुरस्थप्रमदामदैश्च
युक्तं विभक्ताङ्गकमन्तरङ्गे ।
प्रयुज्यते नाटकमत्र सङ्क
ल्पाकल्पिता मालविकैव भाति ॥ ७॥ युग्मकम्
पादांबुजं मालवकन्यकायाः
सखी न वा ते हृदयाभिवाञ्च्हा ।
अलक्तरक्तं मणिनूपुराल
ङ्कृतं च रम्यं च तनोति पान्थ ॥ ८॥
अपुष्पितस्य प्रमदावनस्था
शोकस्य तां दोहदके नियुङ्क्ते ।
देवी दयाधाम च धारिणी किं
पान्थाथवा ते हृदयाभिवाञ्च्हा ॥ ९॥
सकुड्मलः पञ्चदिनान्तरेऽभू
दशोकवृक्षोऽपि नितान्तशोभः ।
भूर्जत्वचीत्थं लिखतस्तवात्र
हर्षाश्रुधारा पतिता मुहुः किम् ॥ १०॥
देवीपदार्हां सुकुमारलोला
मेतां सुकन्यां परिचारवृत्तौ ।
नियुञ्जते ये स्म पुनस्त एव
लज्जावनम्रा ननु संबभूवुः ॥ ११॥
मनोहरोऽयं किल विग्रहः किं
सितेन नीपेन विधीयते स्म ।
संकल्पचित्रादथवा सजीव
स्वरूपमाधाय समुत्थितोऽभूत् ॥ १२॥
यथा विलोलेषु दलेषु मन्द
समीरणस्पर्शविधौ तथास्याः ।
कराङ्गुलीस्पन्दमृदुप्रकम्पो
व्याप्नोति पक्ष्मावृतनीलनेत्रे ॥ १३॥
नृत्यत्पदे ते मणिनूपुराभ्या
मभङ्गुरं तालतरङ्गिते स्तः ।
कदा नु पश्याम्यहमस्वतन्त्रे
त्युक्तं तया किं कविमेव गीतम् ॥ १४॥
वितीर्य भूयश्च्हलिताख्यलास्य
माधुर्यकं मालविके तिरोऽभूः ।
तिष्ठस्यहो किं विदिशाधिपस्यो
ज्जयिन्यधीशस्य पुरोऽथवा त्वम् ॥ १५॥
हरित्तृणोऽयं स्मरतीह भूमौ
नीलं नभो वीक्ष्य शयान एव ।
खगो यदि स्यां शरवेधिलुब्धः
कुतश्चिदस्तीत्यवबोधहीनः ॥ १६॥
उपर्युपर्युड्डयने पतिष्या
म्येकेन रोदेन च मृत्युमेमि ।
असङ्ख्यबाणक्षतजाक्तदेहो
प्यायुर्विवृध्यै ह्यभिलाषुकोऽस्ति ॥ १७॥ युग्मकम्
पृषत्कमञ्चे शयितोऽपि कश्चित्
प्रतीक्षितुं जीवितमीहते हा ।
एकाभिलाषस्तु कवेरिहास्ति
तद्दर्शनं स्निग्धपवित्रहृद्यम् ॥ १८॥
प्रतीक्षया श्यामजडीकृतायां
रात्रौ च दीर्घप्रहराकुलाभाम् ।
सर्वं वृथैवेति हृदन्तराले
मन्त्रे श्रुतेऽपि ध्वनतीव कर्णे ॥ १९॥
अशब्दमप्यत्यधिकं सुशक्त
माह्वानमाप्तं त्विह शून्यतायाः ।
गृहातुरोऽयं पथिकः प्रयाति
तं दक्षिणाशापथमेव पश्यन् ॥ २०॥ युग्मकम्
कच्चित् ततः पृच्च्हति निम्नगाया
वीची स कुत्रास्ति सुहृद्वरो नः ।
कच्चित् प्रतीक्षाभरितः स पान्थ
मश्वत्थवृक्षोऽङ्गुलिभिश्च तत्र ॥ २१॥
आस्ते निमेषाकलनेन कच्चित्
प्रत्युद्गमार्थं च पलाशवृक्षाः ।
तिष्ठन्ति तत्रातिमनोहराभान्
धृत्वा प्रसूनोज्ज्वलसुप्रदीपान् ॥ २२॥ युग्मकम्
वृष्टिर्न वा पर्यवसानमापे
त्याहात्र मृत्सामृदुलोष्णगन्धः ।
प्रहस्य यक्षीव विमुक्तकेशा
स्थितः प्रसूनैः कुटजद्रुमोऽसौ ॥ २३॥
परोक्षतस्तिष्ठति केतकीयं
लज्जानता पुष्पवती मनोङ्य़ा ।
वेश्याकुमारीनिभहेमपुष्पः
किरातिकाभो बकुलद्रुमोऽपि ॥ २४॥
विराजमानौ कुसुमांबराणि
धृत्वा मनोमोहनवाटिकायाम् ।
लोध्रद्रुमो माद्यति पुष्पवृद्धि
हर्षाकुलोऽसौ तिलकस्तथैव ॥ २५॥ युग्मकम्
नभस्वतोऽसावभिलावकाल
श्चिनोत्ययं मालवगन्धराजिम् ।
प्रत्युद्व्रजाभ्यागतमत्र सम्यक्
सदागते वेत्सि जनं किमेनम् ॥ २६॥
यः पूरितोदात्तसुखोग्रताप
चेताश्च योऽदग्धवपुर्निदाघे ।
ग्रस्तोऽपि शीतैर्न जडीकृतो यः
संवत्सरान् यो बहु सञ्चचार ॥ २७॥
सर्गस्थितो यो निजचित्तभारान्
भूर्जत्वचेष्वन्ववतारयच्च ।
दीर्घप्रवासात्परमिष्टतीर्थं
प्राप्येव यो निःश्वसितं करोति ॥ २८॥
मृत्त्वं च तन्मालवदेशकोणे
भाग्यायतिं यो मनुते स्वकीयाम् ।
सोऽयं स्वभाण्डं वटवृक्षमूले
निक्षिप्य तत्रैव सुखं च शिश्ये ॥ २९॥ विशेषकम्
वटद्रुपत्राल्यवकाशतोऽधो
द्रवन्ति किं पुष्करनीलिमानि ।
अनेन चोत्तानशयेन दृष्टं
नभो लसत्येव किमप्यपूर्वम् ॥ ३०॥
बाल्हीकपुष्पास्तृतकोमलाभं
काश्मीरदेशं सुरसिद्धसेव्यम् ।
गङ्गाप्रपातार्द्रहिमाद्रितुङ्ग
शृङ्गं च दृष्ट्वा विनिवर्तमानः ॥ ३१॥
पान्थोऽयमेतस्य मुखावलोकाद्
ग्रामस्य किं जायत एव बाढम् ।
आर्द्राञ्चिताक्षश्च समुत्सुकश्चा
प्यानन्दतालद्रुतमानसश्च ॥ ३२॥ युग्मकम्
पञ्चेन्द्रियैरप्यनुभूयते स्म
चाद्यान्नलावण्यरसोऽत्र नूनम् ।
अत्रैव दृष्टा ह्यृतुपर्ययाणां
शोभाद्भुतैराद्यमथादरैश्च ॥ ३३॥
वर्षैरनेकैस्तमदृष्टपूर्वा
दिदृक्षवश्चात्र हि विस्मयन्ते ।
समावृतैरागत एव कालि
दासोऽयमित्यात्मगतं तदुक्तम् ॥ ३४॥
क्व वा भवान् कालमियन्तमासी
दस्मान् न किं विस्मृतवानसीति ।
क्षेमोक्तयः स्नेहभराद्भुतार्द्राः
श्रुताः परं तेन गृहातुरेण ॥ ३५॥
यात्रासु मध्येऽत्र विशश्रमुर्ये
विद्वद्वरैस्तैर्विषयीकृतोऽभूत् ।
कवीन्द्रमुक्तामणिकालिदास
स्तदीयकाव्यानि च तत्प्रशंसा ॥ ३६॥
कविः स किंदेश्य इति प्रकामं
श्रुतोऽत्र वादप्रतिवादघोषः ।
अत्रत्य एवास्ति स काव्यकार
इत्यात्मतुष्टिप्रभवश्च शब्दः ॥ ३७॥
तत्काव्यखण्डाः प्रथिताः किलासन्
कर्णानुकर्णश्रवणेन चोक्त्या ।
नासौ तदव्याजमुखानि पश्यन्
स्वापह्नवेन प्रभुरत्र वक्तुम् ॥ ३८॥
तस्थौ विनम्रः स यथापराधं
कृत्वा पुनस्तप्तमनाश्च जातः ।
ग्रामीणवृद्धोदितवत्सलत्व
माह्लादमाला हि बभूव तस्मिन् ॥ ३९॥
ग्रामे किमत्रास्ति मदीयमेत
च्चिन्ता तिरोऽभून्निजबन्धवो हि ।
परिस्थिताः स्वस्य कृतेऽभिमान
भाजास्त्विमे ग्रामजना वराकाः ॥ ४०॥
किं नो विहाय त्वमितो गमिष्य
स्येवं हि पृच्च्हत्यथ मित्रमेकम् ।
न नेत्युवाचापि तु चन्द्रकान्त
तुल्यं तदात्मा द्रवतीव भाति ॥ ४१॥
पादे चलत्यर्धविबोधवत्तद्
ग्रामे पुरा वृद्धकुटीं निशाम्य ।
अन्तर्न कोऽपीत्यनुयोगि नेत्रं
श्रुतं च वृद्धः स मृतो बभूव ॥ ४२॥
निजैकपुत्रीविरहाकुलोऽसौ
न कञ्चिदूचे कतिचिद्दिनेषु ।
अथैकदा चोड्डयते स्म पक्षी
शून्यं त्वभूत् पञ्जरमेष गेहः ॥ ४३॥
पुरातनप्रेमकथाश्च काश्चि
न्नीडादितः श्रोत्रपथं प्रविष्टाः ।
किं तत् स्मरन्त्युज्जयिनीसुवर्ण
नीडोपबद्धास्ति विहङ्गबाला ॥ ४४॥
न सन्ति पापानि विमुक्तिसिध्यै
किं तापशान्त्यै प्रभवेन्नदीयम् ।
ग्रामीणसंस्कारवदेतदापः
स्वच्च्हप्रशान्तस्फटिकावदाताः ॥ ४५॥
आकण्ठमस्यां विनिमज्य नद्या
मालापयामास परस्सहस्रम् ।
गायत्रिकां मृत्सघटस्य चान्त
राकाशमस्यानिशमर्कदीप्तम् ॥ ४६॥
तेन प्रकाशेन तु नीयमान
मात्मानमाशंस्य विनीतिपूर्वम् ।
स्थितेऽपि कुत्राप्यभियन्ति नैके
पूर्वे सतीर्थ्याः सममेव भूयः ॥ ४७॥
तेषां कवेः सर्गतपःफलाना
मास्वादकास्ते मिलिता वदन्ति ।
न केवलं सोज्जयिनी त्वदुक्तिं
प्रत्युद्व्रजिष्यन्त्यपि तु त्रिलोकी ॥ ४८॥
अश्वत्थवृक्षे हृदयाकृतिं च
सहस्रशः श्यामलपर्णराजिम् ।
निस्तन्द्रमास्पन्दचलां विलोक्य
निश्शब्दमेवेह कमाह सोऽयम् ॥ ४९॥
अस्वस्थमेतद्धृदयं किलैकं
मर्त्यस्य हा दुस्सहमेव वृक्ष ।
एतान्यहो ते हृदयान्यसङ्ख्या
न्यस्वस्थितान्यत्र सदा भवन्ति ॥ ५०॥
समीरणैरालुलितानि तानि
सर्वाणि सर्वर्तुषु तुल्यमेव ।
दृष्ट्वा निषीदाम्यखिलं तवैत
च्च्हायातटे विस्मितमानसोऽहम् ॥ ५१॥
अस्वास्थ्यमेतन्महदस्तु तेऽह
मिच्च्हामि शान्तिं त्वदनातपेऽस्मिन् ।
सर्गात्मकाविष्करणाकुलस्य
शान्तिस्तु लभ्या मरणेऽथवा स्यात् ॥ ५२॥
ग्रीष्मो गतश्चातकशाबकेन
केकारवेणैति स वर्षकालः ।
पुनस्समायाति वसन्तमासो
वनप्रियाणां मधुरस्वरेण ॥ ५३॥
यदा विकंप्रप्रविलोलचञ्चू
पुटेन मन्दं चटका विरौति ।
तदा समागच्च्हति नग्नपादः
सवेपथुश्चापि तुषारकालः ॥ ५४॥
भजन्ति साक्ष्यं ह्यृतुभेदभावे
खगा इमेऽश्वत्थतरुः कविश्च ।
कवेर्मनस्यार्तवसङ्क्रमांस्तान्
जानन्ति नेमे तरुपक्षिवर्गाः ॥ ५५॥
स्वकीयभाण्डस्थितपत्रखण्डा
वहन्ति तेषां करलाञ्च्हनानि ।
इदं किलैतिह्यमहो कविं तत्
पश्चात्स्थितं पश्यति कस्सचेताः ॥ ५६॥
मूर्तीभवत्प्राक्तननैजपुण्यां
लज्जावनम्रं समुपस्थितां ताम् ।
स्वप्नेषु जाग्रत्स्वपि चार्धबोधे
ष्वयं सदा पश्यति चत्वरस्थः ॥ ५७॥
प्रश्नः स तस्याः प्रथमः स्मितं त
दनुत्तरं हा पुलकप्रदायि ।
निवृत्य सा च स्थितिरप्यपाङ्ग
दृष्टिर्विलज्जाञ्चिततीक्ष्णपाता ॥ ५८॥
आमन्त्रणं दूरविनीतदोला
गवाक्षतोऽक्षिप्रहितं च मूकम् ।
धावद्रथाश्वोत्थखुरारवस्सो
प्यनारतं सन्त्यनुवर्तमानाः ॥ ५९॥ युग्मकम्
संश्रूयते किं स खुरारवोऽद्या
प्येतन्नु किं सत्यमुत स्मृतिर्वा ।
भूयोऽत्र तेऽप्युज्जयिनीमहीन्द्र
दूतास्समायान्ति हयाधिरूढाः ॥ ६०॥
तेषां कुतो वा विजनाङ्कणेऽस्मिन्
पक्षीन्द्रचक्षूंषि परिभ्रमन्ति ।
अत्रैक एवास्ति वटद्रुमूले
समागतास्ते किमिहैव देशे ॥ ६१॥
यथागतं ते प्रतियान्तु वेगा
दित्यानतास्योऽयमिहैव तस्थौ ।
निमीलिताक्षश्च वटद्रुवृद्धे
समर्पिताङ्गोऽर्धसुषुप्तिमाप ॥ ६२॥
आहत्य भूमौ स्वभुजोग्रदण्डे
नैते दृढं तस्य पुरोऽवतस्थुः ।
अलं सुषुप्त्या किमु मूढ कालि
दासः कविः कश्चिदिहास्ति दृष्टः ॥ ६३॥
दृष्ट्वाप्यसौ भूपतिदूतचिह्ना
न्याचारपूर्वं न च तान् सिषेवे ।
अयं तु निश्शेषनिवीतभीत्या
दराक्ष इत्यद्भुतमाप्नुवंस्ते ॥ ६४॥
कोऽयं विमूढो बधिरोऽथ मूकः
प्रष्टुं च तेऽन्यत्र जवेन जग्मुः ।
प्रत्यागमिष्यन्ति किमेत एव
दूता मुदा ग्रामजनोपनीताः ॥ ६५॥
तं ते क्षमस्वेत्यभिवन्द्य भूप
सन्देशमित्थं कथयांबभूवुः ।
उत्तिष्ठमान प्रियसत्कवे त्वा
मिहोज्जयिन्यां विनिमन्त्रयामः ॥ ६६॥
आचार्यवाक्यं ध्वनति स्म भूयो
प्येतत्स्मृतौ मन्द्रगभीररम्यम् ।
अबोधतः साञ्जलिरन्तरासौ
गुरुस्मृतौ पुण्यजले निमग्नः ॥ ६७॥
न काञ्चिदूचे प्रतिवाचमेष
स्वकीयरत्नं तु जहार पूर्वम् ।
अवन्त्युदारा च किमर्थमेत
च्चिन्तोत्तरङ्गं हृदयं बभूव ॥ ६८॥
नैवागमिष्याम्यहमेवमेव
वदेति वक्त्यान्तरधर्मरोषः ।
निमन्त्रणं विक्रमभूपदत्तं
न त्याज्यमत्रैव शृणोति चेत्थम् ॥ ६९॥
जाज्ज्वल्यमानज्वलनद्विपार्श्वो
यथा महाघोरवने तथायम् ।
तस्थौ कविस्तद् घनमौनजन्य
प्रत्युत्तराशङ्कितमानसेषु ॥ ७०॥
अस्वस्थितेषु क्षितिपेन्द्रदूते
ष्वेवं निजग्रामसुहृत्सु चात्र ।
तिष्ठत्सु मा गच्च्ह विहाय चास्मा
नित्युक्तपूर्वश्च सुहृद्वरो यः ॥ ७१॥
स एव चागत्य पुरोऽद्य वाच
मूचे कविं तं विनिरुद्धकण्ठः ।
गन्तासि चेन्नस्त्वभिमान एव
ग्रामीणशैलीयमहो विशुद्धा ॥ ७२॥ विशेषकम्
पुष्प्यत्यशोकः किल दोहदेन
तथा कवेरङ्कुरिता प्रतीक्षा ।
द्रष्टुं मुखं तत् सकृदप्यहं किं
शक्नोमि यद्युज्जयिनीं गतश्चेत् ॥ ७३॥
अथाह नैजोज्जयिनीप्रयाण
वाञ्च्हां कविः स्वल्पवचोभिरेव ।
तदा च तद्ग्राममनोऽभिमान
हर्षैस्तरङ्गायितमेव बाढम् ॥ ७४॥
स्नेहातिवर्षेण समार्द्रचित्तो
स्त्येषां च निर्व्याजहृदां तथापि ।
शङ्कावशिष्टा भवतीह पारं
पराजितोऽस्मीति नितान्तशल्या ॥ ७५॥
पराजयं चाप्यसकृद् वरिष्ये
यदीहजन्मन्यतुलप्रियार्द्रम् ।
प्रियामुखाब्जं सकृदप्यहो तद्
भवेन्मुहुर्मे नयनस्य पात्रम् ॥ ७६॥
गत्वोच्यतां दोलकसेवकादि
वृन्दं विना यास्यति कालिदासः ।
प्रशान्तिमाप्नोत्यपराह्नसूर्या
तपोऽनिलः सान्त्वयतीव मन्दम् ॥ ७७॥
\\
ह्रुले
************************************************************
.
सप्तमः सर्गः
उज्जयिनीं प्रति
किमाद्यदृष्टिप्रणयोऽत्र शिप्रा
पुरोऽवतस्थौ कविरार्द्रचित्तः ।
शीतानिलस्याथ निमन्त्रणेन
स्नेहोदये तत्र च गाहते स्म ॥ १॥
क्लमः क्रमाल्लीयत एव शैत्ये
स्नात्वोपविष्टोऽस्ति शिलातलेऽस्मिन् ।
शीतोपचारं कुरुते स शिप्रा
वातोऽब्जगन्धाकलितांबुबिन्दुः ॥ २॥
अङ्य़ातमेतं पथिकं च कस्मा
ज्जन्मान्तरस्थापितगाढबन्धात् ।
स्वप्रत्यभिङ्य़ाविषयीकरोषि
त्वमुज्जयिन्युज्ज्वलरम्यहर्म्ये ॥ ३॥
दीर्घायते पत्तनराजवीथी
पार्श्वस्थसौधेषु समुत्पतन्ति ।
संगीतवाद्यध्वनिभिश्च सार्धं
नृत्तान्तरे नूपुरशिञ्जितानि ॥ ४॥
धूपेन कालागरुचन्दनाभ्यां
सुसंस्कृतेनोष्मलचुम्बनौघैः ।
संवृण्वता कामपि केशिनीं तै
र्गवाक्षरन्ध्रैर्निभृतं गते तु ॥ ५॥
व्याप्नोति को मादकगन्धपूरः
सङ्क्रीडयन्ती गृहशारिका का ।
उदेति देवेन्द्रधनुर्वलभ्यां
मयूरपिञ्च्हाचलनैर्मनोङ्य़म् ॥ ६॥ युग्मकम्
भूमावयं गच्च्हति पादचारी
स्वर्गस्य वक्त्रं पुरतो विभाति ।
स्वर्गोऽत्र सक्त्या समुदेति तत्र
वैराग्यचन्द्रोदय एव भाति ॥ ७॥
दयैव गङ्गा मदभङ्गरूपो
वह्निश्च नित्यं शरणं प्रयातः ।
यन्मस्तकं यस्य च वीर्यबिन्दौ
शेते विशालं गगनं सुखेन ॥ ८॥
सुधायते यस्य गले विषं च
तस्यालये चण्डमहेश्वरस्य ।
प्रभातपूजासु च घण्टिकायाः
श्रोत्रं गतो मन्द्रगभीरनादः ॥ ९॥ युग्मकम्
विन्यस्य पादं शिशुवत् सलीलं
सोपानमारुह्य यथाक्रमेण ।
जगत्पितुस्तस्य पुरः स्थितोऽसौ
कृताञ्जलिर्मीलितलोचनोऽभूत् ॥ १०॥
मुखे च या सृष्टिरुदेति मन्द्र
स्थाय्यां शुभाशीर्विशदाक्षरा सा ।
पुनः स साक्षात्कुरुते त्रिलोकी
सम्राजमाकाशमहाधिपं तम् ॥ ११॥
गन्तुं ततो विक्रमराजधानी
मैच्च्हत् कविस्तं प्रतिपालयन्तीम् ।
सूक्तिः पुरैवोज्जयिनीं गता ता
मन्वेति कर्ताद्य यथागुरूक्ति ॥ १२॥
पुष्पाङ्कणं प्राप्य स गोपुरेण
मुख्यस्य सौधस्य पुरो जगाम ।
द्वाःस्थस्तदा तत्पदचारिपान्थ
क्षीणार्तभावं तु निरीक्षते स्म ॥ १३॥
स्नानेन शुद्धोऽपि कुचेलकोऽयं
को वा भवेदंसविलम्बिभाण्डः ।
अथागतश्चाह नृपाय कालि
दासं पुरद्वारि वद स्थितं माम् ॥ १४॥
किं कालिदासः श्रुतपूर्वमेव
तन्नाम नामैव ततोऽधिकं न ।
अथान्तरानीतकविः स राज
दूतानुयातश्चरतीह मन्दम् ॥ १५॥
गच्च्हत्यसौ पक्षिमृगादिशिल्प
हृद्योन्नतस्तूपशतानि तानि ।
पुस्तानि चित्राञ्चितपार्श्वभित्तीः
पश्यन् सुवृत्तान्तररम्यवीथ्या ॥ १६॥
संपूर्यते वेणुमृदङ्गवीणा
नादैः श्रुतिः सिक्तमथाक्षि वर्णैः ।
दृष्टं च सर्वं रमणीयमेव
श्रुताश्च सर्वे मधुरार्द्रशब्दाः ॥ १७॥
ग्रामप्रियोऽयं तु तथापि राज
हर्म्यं जनाकीर्णमिदं गभीरम् ।
घोरानलेनावृतवासगेह
समानमेवेति विमन्यते स्म ॥ १८॥
जालं किलेदं परपुष्टनाम्नो
प्यतन्त्रसञ्चारिविहङ्गमस्य ।
तथापि नाकानुकृतिः पृथिव्यां
मनुष्यसृष्टेयमनन्यरम्या ॥ १९॥
सुदीर्घमार्गक्लमतप्तपादः
स वेत्रवत्याऽऽदरतोऽनुयातः ।
उपैति सोपानमशेषविद्व
दभ्यर्चितं मण्डपसन्निधिस्थम् ॥ २०॥
तिष्ठत्यसौ विस्मितनेत्रयुग्मः
कविः परं विक्रमचक्रवर्ती ।
सिंहासनस्योपरि सन्निविष्टो
विराजते सूर्यसमानतेजाः ॥ २१॥
स्वर्णच्च्हदैः केसरिभिश्चतुर्भि
र्धृतं हि सिंहासनमस्य पश्चात् ।
शुक्लाभ्रशुभ्राभसुवर्णदण्ड
च्च्हत्रं च शैत्यप्रदचामरे च ॥ २२॥
सुचित्रितं येन रसार्द्रवाचा
रघूत्तमानां चरितं सुधीरं ।
कविः स पश्यत्यधुनैव कञ्चि
न्महीपतिं ह्येष तु विक्रमार्कः ॥ २३॥
शकारिमेतत्सदृशं व्यचिन्ति
पूर्वं तथा नेत्यवधार्यतेऽद्य ।
अयं न तीक्ष्णव्रतवान् दिलीपो
रघुर्न यो दिग्विजयी यशस्वी ॥ २४॥
अजोऽपि नार्द्राकुलमानसस्तत्
पुत्रोऽपि नो यः प्रियवल्लभायै ।
गृहीतमृत्युर्भवति स्म नैव
त्यागैकशीलः स च रामचन्द्रः ॥ २५॥
अनन्वयो विक्रमभूमिपाल
स्तथापि कामप्यकलङ्ककन्याम् ।
स्वीयां व्यधाद् यो विनिगूढतन्त्रै
स्स चाग्निमित्रः स्मरणे प्रविष्टः ॥ २६॥ कलापकम्
एषा कथा यद्यपि विक्रमार्क
कीर्तीन्दुमध्येऽस्ति कलङ्करेखा ।
तथापि हस्ताहितचामराभि
स्तन्वीभिरुत्पक्ष्मलतूलिकाभिः ॥ २७॥
अदृश्यपत्रेषु शकोग्रयुद्धे
विजेतुरेतन्नृपविक्रमस्य ।
प्रतापशौर्यादिकथाविशेषो
विलिख्यतेऽद्यापि निरन्तरालम् ॥ २८॥
नक्षत्रमालाधवलान्तरीक्ष
मध्ये यथा पूर्णशशाङ्कबिम्बम् ।
विभाति तद्वत् खलु विक्रमार्क
राजाधिराजः स हि भीमकान्तः ॥ २९॥
जानाति नाचारमसौ तथापि
राङ्य़े जयाशीर्वचनानि दत्वा ।
आनम्रशीर्षः कविरत्र तस्थौ
शुभाय वा प्रार्थितवान् महेशम् ॥ ३०॥
जयालुराद्योज्जयिनीपुरीयं
यस्याः शिरो वा मन एव राजा ।
स्मश्रुप्रवृद्धे क्षितिपालवक्त्रे
स्मितं तु किञ्चित् समुदेति मन्दम् ॥ ३१॥
यथाम्बरे श्रावणमेघपुर्णे
मनोहरा चन्द्रकलावतीर्णा ।
दृष्ट्वैतदस्मिन् कविमानसेऽपि
विश्वासलेशः स्फुटितः क्रमेण ॥ ३२॥
रजःप्रभावोडुविलोचने ते
नवागतं तं स्पृशतः सुखेन ।
आरोढुमत्रोन्नतपीठमेनं
निमन्त्रयत्याङ्ग्यवशात् सभायाम् ॥ ३३॥
क्षीणः कविर्नम्रशिराः स नन्द्या
समग्रहीदासनमादरेण ।
शरीरमेतद्दयनीयमस्य
वेषश्च भूषाप्यपरिष्कृता च ॥ ३४॥
सुसंस्कृतः किं परमात्मदीपः
प्रकाशते वा लघुमृद्घटेऽस्मिन् ।
दत्तो वरोऽयं कविकीर्तिरूपः
केनोन्मिषद्यौवनधारिणेऽस्मै ॥ ३५॥
जानीमहेऽत्राद्य चरन् सुदूरं
समागतो मालवदेशतस्त्वम् ।
तद् गच्च्ह विश्रामय चाविलम्बं
स्वच्च्हन्दमित्याह नृपः पुनश्च ॥ ३६॥
नैवातिथिस्त्वं मम राजधान्यां
मदात्ममित्रं भवसीति विद्धि ।
मैत्री कथं निस्समचित्तयोरि
त्यन्तः कवेश्चिन्तितमस्ति कस्मात् ॥ ३७॥ युग्मकम्
क्व चातपत्रस्य च चामरस्य
च्हायां गतोऽधीशपदाधिकारात् ।
उन्मत्तचित्तो नृपतिः क्व चायं
कविः कलालोलमनाश्च निस्स्वः ॥ ३८॥
शान्तिं न काञ्चिल्लभते च चित्त
मस्मिन् निकेतेऽधिकशान्तिलक्ष्ये ।
क्षौमास्तृतेयं मृदुरम्यशय्या
विचित्रपर्णान्युपबर्हणानि ॥ ३९॥
वितानकालंकृतमञ्जुमञ्चः
पीठानि रूप्यावपनेषु तत्र ।
माधुर्यधुर्याणि फलानि नैक
मद्यानि च स्फाटिकभाजनेषु ॥ ४०॥
कविं शुभाशंसनया च साकं
प्रलोभकानि प्रतिपालयन्ति ।
किन्त्वत्र चेतो विजनेऽत्यगाध
दुःखह्रदे हा पततीव भाति ॥ ४१॥ विशेषकम्
सत्रे निशायां च वटद्रुमूले
प्यबाधनिद्रासुखमार्जितं किम् ।
भद्रेऽत्र कोष्ठे मृदुमञ्चकेऽस्मिन्
निश्शब्दरात्रेऽप्यमलप्रशान्ते ॥ ४२॥
निद्रां विदूरीकुरुते च को वा
निस्तन्द्रमस्वास्थ्यमिहान्तरा किम् ।
अशान्तचित्तस्य कुतः सुखं किं
मथ्नाति चास्वस्थमनोऽवशं वा ॥ ४३॥ युग्मकम्
कवेर्मनो योऽत्र समाचकर्ष
निश्शब्दमोहो विफलः स किं स्यात् ।
करोषि किं ग्रामसुते मनोङ्य़े
ह्यन्तःपुरेऽस्मिन् कुहचिद् वसन्ती ॥ ४४॥
क्व वाधुना त्वं सुमवाटिकायां
लीलागृहे वा प्रमदावने वा ।
किं ते स्मृतौ ताः कनकाभसन्ध्याः
ग्रामापगासैकतशीतवाताः ॥ ४५॥
अपि स्मरस्येकवटद्रुमं त
च्च्हायागतं तं कतिचिल्लिखन्तम् ।
दिदृक्षसि त्वं सकृदप्यहो त
न्मुखं तवेक्षाविहितानुयात्रम् ॥ ४६॥
चित्तं कवेरात्मगतेष्वशान्ते
ष्वामग्नमद्धा पुनरुत्थितं तत् ।
स्पृष्टाररः कश्चिदिहार्धबोधे
नान्तःप्रवेशाय कृतानुवादः ॥ ४७॥
द्वारं विवृत्य प्रविवेश सौम्यो
दारस्मितः साञ्जलिरन्तरासौ ।
शुश्रूषणार्थं च कवेर्नियुक्तो
नृपेण योऽग्र्यो वयसा दयावान् ॥ ४८॥
स्नेहार्द्रवाग्दर्शनसेवनाद्यौ
त्सुक्यं कविं तोषयति स्म यस्य ।
सप्रश्रयं पल्लवनामकोऽह
मित्यब्रवीद् योऽथ तमन्वियेष ॥ ४९॥
अभीष्टभोज्यानि च नित्यनैमि
त्तिकानि कर्माचरणानि तस्य ।
स्मितेन मौनं स समाचरंस्त
दनन्तरं गौरवयुक्तमाह ॥ ५०॥
न तानि वक्तुं प्रभवाम्यहं तु
ग्रामीण एवात्र च पार्थिवानि ।
धान्यानि मूलानि फलानि सर्वा
णीष्टानि मेऽन्यत् किमिति ब्रवीमि ॥ ५१॥ विशेषकम्
क्षणं विचिन्त्याह कविः सदापि
द्रष्टुं च मामर्हसि पल्लव त्वम् ।
तस्येष्टकार्याणि सदानुतिष्ठन्
स पल्लवोऽभूत् कविमित्रमाप्तम् ॥ ५२॥
अन्यत्वबुध्या प्रतिभान्तमेतं
राजालयं मामिह पल्लवोऽयम् ।
बध्नाति यस्तं निजसन्निधानं
नेतुं नृपाङ्य़ां विनिवेद्य तस्थौ ॥ ५३॥
प्रणम्य भूपं कविरास्त नाना
रत्नाञ्चितेऽन्यत् सदसीव रत्नम् ।
नान्दीं महाकालपरां जिगाय
कोऽन्यः कवेरस्ति च वन्दनीयः ॥ ५४॥
अत्युन्नतैश्वर्यधरोऽपि सर्वं
दत्त्वाश्रितेभ्यो धृतकृत्तिवासाः ।
कान्तार्धदेहोऽपि विरक्तचित्तो
यतीश्वरोऽष्टाङ्गकलेबरेण ॥ ५५॥
बिभ्रत्प्रपञ्चोऽप्यभिमानहीनो
महेश्वरो मङ्गलसत्पथेषु ।
निरुध्य वृत्तिं च तमोमयीं वो
नयत्विति प्रोच्य समापयत् सः ॥ ५६॥ युग्मकम्
ईशस्तवेऽप्यत्र किमान्तरार्थः
कटाक्ष्यतेऽचिन्ति न कैश्चिदेवम् ।
नृपोऽपि धन्योऽद्य तु कालिदास
सूक्त्या सभा मे समलङ्कृतेति ॥ ५७॥
द्वेधा सभां मे नवरत्नभूता
मलङ्कुरु त्वं विदुषां मनोङ्य़ाम् ।
एवं नृपे वक्तरि साधुवादैः
सभातलं हर्षसमृद्धमासीत् ॥ ५८॥
असौ तु भाग्यप्रणयैकपात्रं
वाणीप्रसादं कथमेष लेभे ।
वागस्य मायाशिखिबर्ह एवे
त्यासीत् सभा मिश्रविकाररम्या ॥ ५९॥
पप्रच्च्ह राजा कविनोक्तपद्यं
कस्मिंश्च काव्ये भवतीत्यथेदम् ।
स्वनिर्मिते नूतननाटके च
नान्दीत्यवोचत् कविरादरेण ॥ ६०॥
तद्दर्शनायात्तकुतूहलोऽसा
वाह प्रयोगः क्रियतां च तस्य ।
आगामिचैत्रोत्सव एव तत्रा
स्त्याङ्य़ा न वाशीर्वचनं च राङ्य़ः ॥ ६१॥
भासादिपौराणिककाव्यकर्तॄन्
विहाय किं स्निह्यति कालिदासे ।
सभेयमित्यस्ति कवेर्विशङ्का
सभासदां चापि नृपस्य नैव ॥ ६२॥
स्मरान्तराचार्यवरं विनीतो
वन्दस्व चेत्यात्मनि मन्त्रिते तु ।
कविर्निजस्थानगतोऽस्ति काव्यं
ध्वनिप्रदीप्तं ललितं यथा स्यात् ॥ ६३॥
उद्यत्समाह्लादसुपूर्णिमाया
मप्यस्तशक्ता हसितुं यथाब्धिः ।
सर्वात्महृष्टः कथमातपत्र
च्च्हायागतश्चामरवातशीतः ॥ ६४॥
कक्ष्याप्रदीपं निभृतं प्रकाश्य
शुश्रूषिकायां तु बहिर्गतायाम् ।
आयाति देवाहुतिधूमगन्धे
सन्दृश्यते हा स्मृतिसानुसीम्नि ॥ ६५॥
अपुष्पिताशोकतरोरधस्ता
न्मञ्जीरशिञ्जामनु पुष्पमेला ।
अस्त्यत्र सर्गात्मकभद्रमूर्ति
श्चित्तं तु भग्नं व्यथितं च यस्य ॥ ६६॥ युग्मकम्
\\
ह्रुले
*************************************************************
.
अष्टमः सर्गः
रङ्गोत्सवस्य ध्वजारोहः
लतानिकुञ्जे रसिकोऽङ्गनानां
पुंस्कोकिलो गायति लीनदेहः ।
अन्तःपुरान्तात् प्रवहन्ति तन्त्री
लयान्वितप्रेमसुगीतकानि ॥ १॥
नवीनवासन्तमहोत्सवस्य
ध्वजाधिरोहं दधतेऽतिमोदाः ।
सपल्लवाशोकपलाशचूता
स्तदोज्जयिन्यस्ति वसन्तरथ्या ॥ २॥
सुगन्धतैलज्वलदग्निदीपा
वसन्तपुष्पाण्यभवन् निशायाम् ।
आतोद्यगीतानि च नाट्यगेहे
नान्दीं ब्रुवन्त्यत्र महोत्सवस्य ॥ ३॥
सर्वेन्द्रियामोदविशेषहेतुः
सामाजिकानां च सतां मनोङ्य़म् ।
प्रयुज्यतेऽद्य प्रथमं हि कालि
दासप्रणीतं नवनाटकं तत् ॥ ४॥
राजाधिराजः पुरतो निषण्णः
पश्चात् कलातत्त्वविदो रसङ्य़ाः ।
आर्द्राशयाश्चान्यसुखासुखङ्य़ाः
शङ्काविलोलाः सुसमानचित्ताः ॥ ५॥
नव्येषु सर्वेषु पराङ्मुखाश्च
भवन्ति दोषैकदृशश्च केचित् ।
प्रतिक्षणं वर्धत एव कौतू
हलं तदेकाग्रलयं विचित्रम् ॥ ६॥ युग्मकम्
यदाग्निमित्रस्य पुरो निजात्मा
र्पणं पदं मालविका विगीय ।
नृत्तं विधत्ते च तदा प्रहर्ष
वर्षः कियान् विक्रमभूपचित्ते ॥ ७॥
इयं पुरो मालविकापरास्ति
निवेदयन्ती पदमेव तन्मे ।
चिन्ताकुलोऽभून्नृपतिस्तदायं
कवीश्वरः किन्नु परेङ्गितङ्य़ः ॥ ८॥
यतो ह्यहं मालविकानुरक्त
इत्येतदत्यन्तनिगूढमेव ।
राजालयस्थं च रहस्यमेवं
कविर्विजानाति कथं न जाने ॥ ९॥
कवेस्तृतीयं नयनं चकास्ति
येनैकहस्तामलकप्रकाशम् ।
जगत्त्रयं पश्यति यस्य सर्व
मन्तर्निविष्टं सुतरां सुतार्यम् ॥ १०॥
मदीयसत्यान्यत एव मन्ये
मम प्रियस्वप्नशतानि चासौ ।
कविः समाविष्कुरुते यथा मे
हृदि प्रविष्टोऽतिनिगूढदेहः ॥ ११॥
पुरोऽत्र चेटी बकुलावलीयं
राङ्य़ीप्रदत्तेन च नूपुरेण ।
करोत्यलं मालविकापदाब्ज
मालक्तकार्द्रारुणकोमलाभम् ॥ १२॥
अनुक्षणं सर्वमिदं विलोक्य
तिष्ठत्यसौ वृक्षलतानिलीनः ।
नृपोऽग्निमित्रस्तरलाकुलाङ्गः
सभास्थितोऽयं च नृपस्तथैव ॥ १३॥
सूक्ष्माणि रङ्गे चलनानि नाना
सभासदां च प्रतिभावभेदान् ।
समं निरीक्ष्य क्वचिदत्र कोणे
कविर्निषण्णो विनिगूढहर्षः ॥ १४॥
तथापि गूढं निहितं यदन्त
र्दुःखं बहिस्तत्प्रवहत्यबाधम् ।
इयं च मे मालविकाऽवरोधे
विभाति या मालवरम्यशोभा ॥ १५॥
विराजतेऽसौ हिमशुभ्रपुष्पं
राङ्य़ी च धारिण्यतिमात्रशुद्धा ।
इरावतीयं मधुमत्तलोला
चाम्पेयसूनं प्रविलोभनीयम् ॥ १६॥
एतत्प्रसूनद्वयमग्नचित्तो
नृपालभृङ्गः कलिकां नवीनाम् ।
कन्यामिमां मालविकां विलोक्य
गुञ्जन्निहास्ते मधुलोलुपोऽयम् ॥ १७॥
यदा मयैतद्विटभृङ्गमोहः
प्रशंसितोऽभूद् विमलानुरागः ।
तदाहमात्मानमनिन्द्यमेवे
त्यवैमि निष्पक्षविमर्शनेन ॥ १८॥
अतीव निन्द्या विटवृत्तिरेषा
साधारणानां यदि मानवानाम् ।
ग्राह्यो हि धर्मो विहितो हितश्चा
साधारणानां धरणीपतीनाम् ॥ १९॥
अहो वसन्तोत्सव एव तेषां
राङ्य़ामिदं जीवितमस्ति यस्मिन् ।
न केवलं चैकसुमेन देया
माध्वी सहस्रैः कुसुमैः परन्तु ॥ २०॥
प्रत्यक्षदृश्यं त्विदमेव चातः
परं विशेषान्तरिकार्थजातम् ।
जानन्तु तेऽङ्य़ातवचांसि चैवं
सत्यस्य तास्ताः परभागशोभाः ॥ २१॥
उद्यानरङ्गे परितोऽग्निमित्रो
भ्रमत्यलं कामविकारमूढः ।
कर्तुं मनश्शान्तिविभङ्गमस्मिन्
स्मरोऽद्य किं पातयति प्रकामम् ॥ २२॥
मन्दारजातीसहकारपुष्प
बाणानथास्या निशितान् कटाक्षान् ।
कामातुरो मालविकापदाब्ज
स्पर्शामृतं प्रार्थयते नरेन्द्रः ॥ २३॥ युग्मकम्
विन्ध्यं च विद्युल्लतया निहन्तु
मभ्युद्यतेवाम्बुदमालिका सा ।
इरावती रोषकषायिता स्व
काञ्च्या नृपं ताडयितुं प्रवृत्ता ॥ २४॥
तस्यास्तु पादग्रहणेन राजा
मां दण्डयेत्याह शमाभिलाषी ।
गृह्णीष्व तौ मालविकापदावि
त्युक्त्वा गता सा ज्वलदग्निकल्पा ॥ २५॥
पश्यामि नाट्ये मुकुरे मदीयं
सत्यं किलेत्येवममंस्त भूपः ।
निर्वर्ण्य रङ्गं त्विदमात्तहर्षा
सभापि हृष्टं च कविं करोति ॥ २६॥
यथानृपेच्च्हं तरुणीं विवोढुं
करोत्युपायान् बहुधा रसेन ।
यो गौतमो नर्मसुहृत् स एवे
त्यलं विजानाति नृपालवर्यः ॥ २७॥
विना तु गत्यन्तरमत्र राङ्य़ो
नवेष्टवध्वै प्रियधारिणी सा ।
सुस्वागतं वक्ति सशङ्खनादं
समाप्यते चान्तिमपञ्चमोऽङ्कः ॥ २८॥
तत्सूचको मङ्गलमञ्जुगाना
लापश्च हृद्यो विदुषां समाजे ।
समुत्थितं तत् करघोषणं च
सन्तोषयामासतुरद्य भूपम् ॥ २९॥
अन्विष्यते सर्वजनैः कवीन्द्रो
राङ्य़ापि सार्द्रस्वरभावभाजा ।
आनीयतेऽयं पुरतश्च तस्य
संतृप्तिसंपूरितनेत्रयुग्मः ॥ ३०॥
करेऽस्य राजा नवरत्नरम्यां
सुशृङ्खलामर्पयति द्रुतं सा ।
पतत्यथात्मन्यतिगूढमस्मिन्
भुजेऽथवेति क्षणमालुलोच ॥ ३१॥
आस्तां न जानातु कदाचिदस्य
भारं निषण्णोऽस्ति कविर्विनम्रः ।
आभूष्यते किं मकुटेन तस्य
शीर्षः प्रकामं विनयाभिधेन ॥ ३२॥
आराधनाप्रोज्ज्वलनीलनेत्रै
र्निराज्यतेऽयं तरुणः कविः किम् ।
दग्धाः किमीर्ष्याघनसारखण्डाः
सविस्मयालोकनभाजनेषु ॥ ३३॥
हर्षातिरेकेषु सभाखिला सा
निमज्जनोन्मज्जनमातनोति ।
ततः समुद्भूय चिराद् ध्वनन्त्य
विच्च्हिन्नधारोज्ज्वलहस्तघोषा ॥ ३४॥
नवागतो नाटककृत् तथापि
तन्नाटकं प्रीतिदमाबभूव ।
विद्वज्जनानामिति नाट्यकाराः
परस्परं संप्रति मन्त्रयन्ति ॥ ३५॥
प्रीता वयं सांप्रतमित्यवादी
न्नृपालको यन्महती प्रशंसा ।
प्रसादरूपेण विराजते स्म
प्रत्यक्षमेवास्य विलोचनान्ते ॥ ३६॥
रङ्गे स्थितां नाटकनायिकां स
दृष्ट्वा तु राजा ललिताशयां ताम् ।
प्रोवाच नृत्तं छलितं तवेदं
द्रष्टुं च भूयोऽपि ममाभिलाषः ॥ ३७॥
कृताञ्जलिर्मन्दमथो जगामै
वाधोमुखी सा न विलोक्य कञ्चित् ।
अन्तःपुरं प्राप नृपालको नि
श्शून्यस्त्वभून्नाट्यगृहाङ्कणोऽपि ॥ ३८॥
एकान्तसङ्केतमवाप नैजं
चिन्तान्तरं वा स कविः किमर्थम् ।
सन्दिग्धचित्तोऽभवदेष तस्यां
संवृत्य दृष्ट्वेममिह स्थितायाम् ॥ ३९॥
अचिन्ति यन्मालविका ममेयं
किमु क्षणात् प्राक् तदभूद् यथार्थम् ।
यद्येकमत्रानुविचारयेत् त
मेवाथ पश्येदिति किन्नु माया ॥ ४०॥
इयं च ते मालविकेति गूढं
दौत्यं वहन्ती च कपोतिकैका ।
समेत्य सन्मानसनीडकं तत्
प्रविश्य सञ्जल्पति किं मनोङ्य़म् ॥ ४१॥
हर्षस्तदाकस्मिकदर्शनेन
खेदोऽथवा तत्क्षणिकत्वदृष्टेः ।
न किञ्चिदूचे मिथ इत्यतुष्टि
र्दृष्टोऽप्यभिङ्य़ात इवेति शङ्का ॥ ४२॥
अपश्यदित्येव यथार्थमित्थं
विभिन्नचिन्तामथनेन जाते ।
दन्दह्यमानो ज्वलनेऽतिघोरे
लाक्षागृहोऽभूत् कविचित्तमद्य ॥ ४३॥ युग्मकम्
अस्मादशक्यं तु पलायनं हा
तपैवमेकान्तदुरन्ततायाम् ।
भाग्यातिरेकं मम चिन्तयित्वा
निद्रां त्यजेयुर्बहवोऽत्र रात्रौ ॥ ४४॥
एकान्तनिर्भाग्यहतोऽस्मि निद्रा
विहीन एवेति न कोऽपि वेत्ति ।
द्वारेऽस्ति कः पल्लव एहि किं वा
स्वरे तु कातर्यमबोधपूर्वम् ॥ ४५॥
अस्त्यद्य युष्मद्दिनमुज्जयिन्यां
सार्वत्रिकं ते शुभनाम चैव ।
गतेषु सभ्येषु समेषु कर्णे
ध्वनत्यसौ हर्षरवो गभीरः ॥ ४६॥
किमेतदास्ये न स हर्षराशिः
किमत्र चिन्ताकुलितस्त्वमास्से ।
तदापि दृष्टो न च मन्दहासो
भवन्मुखे कश्चन यन्मुहूर्ते ॥ ४७॥
अस्मिन् करे विक्रमभूमिपेन
समार्द्रचित्तेन दयाधिकेन ।
विभूषिते वीरसुशृङ्खलेन
भवानभून्मुख्यविशिष्टरत्नम् ॥ ४८॥
विद्वत्सभायां महितोज्जयिन्यां
तथाप्ययं गौरवभाव एव ।
इत्याह वेलातटमेत्य फेनान्
भिन्दन्निवोर्मिः स च पल्लवोऽपि ॥ ४९॥ विशेषकम्
गते मुहूर्ते तु नितान्तमूके
सस्मार दीनं कविराकुलात्मा ।
अस्मिन् रहस्ये किल भागभाक्त्वं
कोऽन्यो भजेत् पल्लवतोऽप्यमुष्मात् ॥ ५०॥
राङ्य़ा नियुक्तो मम सौख्यचर्यां
निर्वोढुमेवायमतःपरं यः ।
मदिङ्गितङ्य़ोऽभवदेष मे य
ज्जानातु तद्दुःखजमान्तरार्थम् ॥ ५१॥
अथाह मन्दं स तु पल्लवस्या
काङ्क्षां प्रगाढां शमयन् कवीन्द्रः ।
निजप्रियग्रामटिकासुतायाः
कथां स्वकीयां च विकाररम्याम् ॥ ५२॥
कथानुबन्धः कविनोच्यतेऽय
मिहैव जन्मन्यनुरागमुग्धम् ।
द्रष्टुं सकृत् तन्मुखपद्ममेत
न्निमन्त्रणं स्वीकृतमुज्जयिन्याः ॥ ५३॥
सर्वाभ्यसूयापदमद्य सर्वैः
समादृतोऽसौ कविरेव किं वा ।
अगाधतायां बडवाग्निदग्ध
समुद्रवच्छान्तमना इवास्ते ॥ ५४॥
विश्वास्यभूमेरतिवर्तते हा
सत्यस्य नानाविधसूक्ष्मतत्त्वम् ।
स्मृत्वा परं पल्लव आह भूयः
कथाविशेषं तमनुक्रमेण ॥ ५५॥
स्मरामि पद्मेव मनोङ्य़कन्या
काचित् ततो मालवतः कदाचित् ।
अन्तःपुरस्याङ्कणसीम्नि चास्मि
न्नान्दोलिकातोऽवततार मन्दम् ॥ ५६॥
स्मरामि चाद्यापि मुखं तु तस्या
लुब्धेन पश्चादनुधावितायाः ।
मृग्या इवोपेतभयं न चान्या
नृत्तं चकार च्छलिताभिधानम् ॥ ५७॥
अभ्यस्य नृत्तं ललितं च गीतं
वने लतोद्यानलता च जाता ।
एवं च सा नेत्रकनीनिकाभू
न्नाट्योत्तमाचार्यपरम्पराणाम् ॥ ५८॥
अन्तःपुरे नृत्तखलूरिकाया
मेकाकिनी सा निषसाद नित्यम् ।
तस्थौ परासां बहुनर्तकीनां
मध्ये च निश्शब्दतरङ्गतुल्या ॥ ५९॥
कमप्यसौ पश्यति नो तथापि
सम्पश्यमाना भवतीह सर्वैः ।
अनन्तरं पल्लव आह मन्द
मेतत्सुकन्यामुखदर्शनेन ॥ ६०॥
स्वप्नद्रुमः पल्लवितो बभूव
श्रीविक्रमस्येति तु किंवदन्ती ।
पाषाणभित्तेरपि चास्ति कर्णो
रहस्यवेदीह समीरणोऽपि ॥ ६१॥ युग्मकम्
कविः स मौनं न बभञ्ज साल
भञ्जेव निश्चेष्टशरीरमास्ते ।
स पल्लवः स्नेहविलोलमंसे
स्पृशन् करेणैवमुवाच हार्दम् ॥ ६२॥
करोमि किं वा वद मां यथेष्टं
ममाभिलाषस्त्वयमेक एव ।
तया सहैकान्तभुवि स्थितस्तां
सम्भाषितुं केवलमीक्षितुं वा ॥ ६३॥
जानाति योऽन्तःपुरगं च सर्वं
स पल्लवस्तं कविमेवमूचे ।
सम्भावये स्नेहमिमं पवित्रं
त्वदीयदौत्यं च वहामि भद्रम् ॥ ६४॥
नवं च रत्नं नवसूज्ज्वलं च
रत्नेषु तेऽस्म्युज्जयिनि प्रकामम् ।
कीर्त्यैतया वक्ष्यसि लब्धवाने
वास्मिन्नसूयानिशितान् पृषत्कान् ॥ ६५॥
भवद्यशोरत्नमनोङ्य़पेटा
मेवं सदा पूर्णतरां विधातुम् ।
तमस्यनेके प्रविनष्टसर्वा
श्चरन्ति निश्शब्दविलापपूर्णाः ॥ ६६॥
सर्वेऽप्यदृश्यायतशृङ्खलाभि
र्बद्धा बलान्निष्ठुरबन्धनेऽस्मिन् ।
एतेषु मध्येऽन्यतमोऽप्यहं चे
त्ययं कवीन्द्रः शयने पपात ॥ ६७॥
स्वच्छन्दसञ्चारसुखेच्छुरात्मा
योऽस्यैव साक्षादसहायतासौ ।
कञ्चिन्निधिं हा परिपालयन्तः
स्नेहेन वीथ्यां तु लसन्ति दीपाः ॥ ६८॥ युग्मकम्
\\
ह्रुले
*************************************************************
.
नवमः सर्गः
श्यामयामाः
श्यामपक्षे किमेतस्मिन् ज्योत्स्नागमविलम्बनम् ।
यामिनीहृदयं व्यग्रं तितिक्षारहितं यथा ॥ १॥
पर्णराजिर्निश्चलास्ति कुत्रागच्छत् समीरणः ।
प्रदीपाश्चान्तरालेषु निमिषन्ति मुहुर्मुहुः ॥ २॥
अन्तःपुरं च निद्रालु प्रशान्तं सुखसान्द्रितम् ।
तथापि कविरेकाकी निद्राहीनो निषीदति ॥ ३॥
अङ्य़ात्वा भूतलेनापि पादं विन्यस्य कश्चन ।
आगत्य कविमेवं तत्कर्णे मन्त्रयते किमु ॥ ४॥
उत्थिष्ठागच्छ गच्छावो मामेवानुव्रज क्षणम् ।
सुङ्य़ातः पल्लवस्येह मार्गः सर्वोऽपि दुर्गमः ॥ ५॥
अन्तःपुरेऽल्पविवृतं गवाक्षं च तदन्तिके ।
कविं द्रष्टुं तरलितं नेत्रं विन्यस्य साऽऽधुना ॥ ६॥
प्रतिपालयतीत्युक्तेः पूर्वमेव समुत्थितः ।
अविश्वासप्रतीत्येव कविस्तत्रैव तिष्ठति ॥ ७॥
वर्धितैर्हृदयस्पन्दैर्दीर्घैर्निःश्वसितैरपि ।
मन्दं मन्दं स चलति पल्लवेन समं कविः ॥ ८॥
तिष्ठत्स्वपद्गजवरवृन्दवन्निश्चलाभया ।
वृक्षपङ्क्त्या विचित्राभिर्विशालाङ्कणवीथिभिः ॥ ९॥
आलेखितानेकवर्णच्छायाचित्रमनोहरैः ।
लताकुटीरैर्युक्ताभिरन्तरङ्कणवीथिभिः ॥ १०॥
सञ्चरन्तौ नोदितायां चन्द्रिकायां पुरोभुवि ।
अन्तरिक्षप्रभादृष्टमार्गेणेह कथञ्चन ॥ ११॥
शिलाशृङ्खलिकादीर्घराजगेहसमुच्चये ।
गेहस्यैकस्य पृष्ठान्ते तस्थतुस्तावुभावपि ॥ १२॥ कलापकम्
तत्र भित्तिषु सर्वत्र व्याप्तपुष्पितवल्लिका ।
तयोर्निगूढस्थित्यर्थं छायागृहमभूत् किमु ॥ १३॥
कुटजानां पुष्पितानां सुगन्धेनाखिलं नभः ।
सुवासितं च चित्ते तु सप्तसिन्धूच्चलद्ध्वनिः ॥ १४॥
सोत्कण्ठितं कविस्तस्थौ सान्द्रच्छाये स पल्लवः ।
निरीक्षते क्व वा दृश्यमीषद्विवृतजालकम् ॥ १५॥
तनुक्षौमेनावृतं तत् पुरतो दृश्यते किमु ।
प्रतिपालयिता पश्चात् कविदृष्टिप्रलोभिनी ॥ १६॥
गवाक्षसुषिरेणाथ कञ्चिद् गुप्तं दिदृक्षुणी ।
दृश्येते तारकादीप्तमनोहरविलोचने ॥ १७॥
छायारूपं पल्लवस्य प्रत्यभिङ्य़ाय सा द्रुतम् ।
पप्रच्छोद्वेगसहिता सोऽयं मौनमथाचरत् ॥ १८॥
आह्वयेऽत्रैवास्ति पश्चादित्यस्मिन्नुक्तवत्यहो ।
धूमायितनिशालोके चान्वियेषाक्षियुग्मकम् ॥ १९॥
पुनःसमागमारम्यसन्मुहूर्तपरम्परा ।
वर्णिता येन सोऽधीरो जायतेऽस्मिन् मुहूर्तके ॥ २०॥
पुरा वटद्रुच्छायायां किञ्चित् स्वस्मिन् लिखत्यहो ।
आरादुपेत्य तस्थौ या प्रियकौतुकसन्निभा ॥ २१॥
नीवारस्तम्बकाकीर्णकेदारक्षेत्रसीमसु ।
नदीतीरेऽपि शारीव भ्रमति स्म तदा च या ॥ २२॥
नष्टीभूतपितृस्नेहवात्सल्यमधुकङ्गुका ।
सन्त्यज्य या प्रियं सर्वं ग्रामादिह समागता ॥ २३॥
सास्मिन्नन्तःपुरोदाररम्यकाञ्चनपञ्जरे ।
अन्यैव तिष्ठतीदानीं मिथोदर्शनमीदृशम् ॥ २४॥ कलापकम्
कवौ तस्य गवाक्षस्य छायामाश्रित्य तिष्ठति ।
स्फुटितं किं चन्द्रिकायाः प्रथमं मालतीसुमम् ॥ २५॥
स्तब्धनिःश्वासवेगा सा बद्धाञ्जलिरवस्थिता ।
अश्रुपूर्णं तन्नयनमुन्मिषत्येव सस्पृहम् ॥ २६॥
ततो मन्दं पतन्नीहारार्द्रपत्रनिभं वचः ।
गलितं विस्मृतैवाहं भवतेति व्यचिन्तयम् ॥ २७॥
विस्मर्तुं नैव शक्नोमि त्वामित्यस्मत्सुदुर्गतिः ।
इत्युवाच कविश्चित्तनिर्गतं श्वसितं यथा ॥ २८॥
दीप्तयोर्नेत्रयोस्तस्याः पश्यन् तिष्ठत्यसौ कविः ।
तत्र तस्थावियं किञ्चिदविश्वास्याद्भुतं यथा ॥ २९॥
निजमानससन्तानभूता मालवकन्यका ।
रङ्गस्था दीपिका साक्षान्नैव च्छाया न संशयः ॥ ३०॥
पुरा वराकी या ग्रामकन्यका नैव साऽऽधुना ।
यथाशास्त्रं समभ्यस्तनृत्तगीतेयमङ्गना ॥ ३१॥
इतिवक्तव्यतामूढो नैव किञ्चिदुवाच सः ।
ततः सा कन्यकातीव विषण्णा परिपृच्छति ॥ ३२॥
अथ किं जनको दृष्टः न चोत्तरमयं ददौ ।
पितुरन्त्यं चिन्तयित्वा नम्रैवाश्रु मुमोच सा ॥ ३३॥
एकतारां समाश्लिष्य वक्षसि श्रुतिनिर्मलम् ।
दुरन्तप्रेमचरितं गायन्तं तं वयोऽधिकम् ॥ ३४॥
एकपुत्रीवियोगोत्थसन्तापेनास्थिमात्रकम् ।
अपश्यदन्ते यत् स्मृत्वा तेन निःश्वसितं तदा ॥ ३५॥ युग्मकम्
अशक्तः सान्त्वनायासौ कविस्तत्रैव तिष्ठति ।
भाषाया निस्सहायत्वमाद्यं जानन्निव क्षणम् ॥ ३६॥
अत्रैव स्यात् किमु भवान् यद्येवं तु कदाचन ।
द्रष्टुं लभ्येत सन्दर्भश्चेति मौनं बभञ्ज सा ॥ ३७॥
त्वद्दर्शनाभिलाषेणैवोज्जयिन्या निमन्त्रणम् ।
मया स्वीकृतमद्यैतत् सुकृतं मे वचः कवेः ॥ ३८॥
सुकृतं तन्ममेत्युक्त्वा सहसा पुनराह सा ।
यत्त्वया लिखितं तस्य श्रवणेऽर्थावबोधनम् ॥ ३९॥
नासीन्मे किन्तु कुतुकात् तत्र तस्थौ पुनर्मया ।
तदर्थबोधे हृदयमर्पितं त्वयि सादरम् ॥ ४०॥
दर्शं दर्शं त्वन्मुखं तत् काव्यं श्रोतुमतःपरम् ।
न स्यात् सौभाग्यमित्येव मत्वा चाहमरीरुदम् ॥ ४१॥
एकदा यत् त्वमागच्छस्तन्मे सुकृतमेव किम् ।
शब्दं तव शृणोमि स्म गुप्ताहं पुनरप्यमुम् ॥ ४२॥
भावत्कभावनासृष्टकन्यकात्वेन सांप्रतम् ।
रङ्गेऽतिष्ठं तदा यत्तदपि मे सुकृतं न किम् ॥ ४३॥
एकश्वासेनैवमुक्त्वा स्वस्तिकेन निजोरसि ।
स्थिता सा पञ्जरगता शारिकेव मनोहरी ॥ ४४॥
तदीयं वचनं स्नेहसान्द्रं कर्तुमजायत ।
योऽसौ तपति नैजस्निग्धात्मनः पुरतः स्वयम् ॥ ४५॥
दर्शने पुनरप्याशा दर्शनायेति कन्यका ।
कियन्तं कालमेतन्मे दर्शनं प्रत्युवाच सः ॥ ४६॥
नष्टस्नेहप्रदीपैकवर्तिकादीप्तिवत् तदा ।
आगता चन्द्रिका त्यक्तनिद्रा रत्रिरिवोज्ज्वला ॥ ४७॥
आच्छाद्यतां गवाक्षोऽत्र ज्योत्स्ना सर्वत्र संसृता ।
केवलं पल्लवोऽयं नौ सहायः साधयाम्यहम् ॥ ४८॥
असह्यो विरहः किन्तु विरहस्य मुहूर्तके ।
पुनर्दर्शनसौभाग्यं मनसा प्रार्थयत् कविः ॥ ४९॥
छायानुगामिनं यत्तं कविमेवानुवर्तते ।
तदार्द्रनेत्रं गण्डेऽस्या मुक्ताबिन्दूनधारयत् ॥ ५०॥
चारचक्षुरगम्येन मार्गेण विचरन् कविः ।
उवाच पल्लवं तेऽहं कृतङ्य़ोऽस्म्येव सर्वदा ॥ ५१॥
कति साहसकर्माणि कृतानि सुहृदा त्वया ।
निस्सारं तदिति स्नेहपारस्पर्यं मनोहरम् ॥ ५२॥
पल्लवे गच्छति कविरेकः शय्यागृहं गतः ।
कथमायाति वा निद्रा चिन्तामग्ने तु मानसे ॥ ५३॥
ईई
पुनश्च कृष्णपक्षास्ते बहुवारं समागताः ।
श्यामयामेषु भूयोऽपि बभूवुस्तत्समागमाः ॥ ५४॥
सान्त्वनातीतदुःखस्य मूर्तिमद्भावसम्मिता ।
तिष्ठतीयं समागत्य मन्दं वातायनान्तिकम् ॥ ५५॥
रक्ष मामिति तन्नेत्रे प्रार्थना किमु विद्यते ।
का रक्षेति न जानानः कविस्तिष्ठति दुःखितः ॥ ५६॥
यदास्या नृत्तगीतेषु यथाविध्यनुशीलनम् ।
पूर्तीकरोति भूपस्तद्दिनमेव प्रतीक्षते ॥ ५७॥
तदनन्तरमस्यान्तःपुररम्यवधूगणे ।
लप्स्यते सापि पदवीमित्येषा तु जनश्रुतिः ॥ ५८॥
नृपस्य प्रीतिपात्रं त्वमित्याचार्योऽन्तरान्तरा ।
तं ब्रवीत्यभिनन्दोक्तिस्वरेण प्रीतिपूर्वकम् ॥ ५९॥
साक्षाद् ददर्शैव तस्या नृत्तं विक्रमभूमिपः ।
हृद्यं छलितनृत्तं तदभिनन्दितवांश्च सः ॥ ६०॥
कथाः सर्वाश्च शुश्राव कविस्तस्या मुखात् परम् ।
हृदयं दर्शयन्तीव सर्वमेवाब्रवीदसौ ॥ ६१॥
विद्वत्सभासु सर्वत्र जयशीला गिरस्तदा ।
अन्तर्लीना इवाभान्ति कवेर्मूकं तु तिष्ठतः ॥ ६२॥
दर्शनेऽस्या विषादोऽस्ति दिदृक्षैव ततः परम् ।
तदन्तरे सम्भवेयुः स्वल्पमात्रसुखानि च ॥ ६३॥
कदाचित् कविराह ह्यः स्वप्ने त्वां दृष्टवानहम् ।
कण्वपुत्रीवेषभूषाधारिणीं सुमनोहरीम् ॥ ६४॥
स्वप्नो यथार्थतामाप ह्यनन्तरमहामहे ।
शाकुन्तलप्रयोगोऽभूद् राजाङ्य़ानुसृतं तदा ॥ ६५॥
मृगैश्च साकं संवर्धमानां तापसनन्दिनीम् ।
तस्यामात्तपुनर्जन्मां दृष्ट्वाश्रूणि ममार्ज सः ॥ ६६॥
विटे मधुकरे तस्याः समागम्य मुखाम्बुजम् ।
स्पृष्ट्वाऽस्पृष्ट्वा च संभ्रम्य धिक्कृतिं परिकुर्वति ॥ ६७॥
दुष्यन्तमेवाक्रन्द त्वद्रक्षणे केवले त्विमे ।
एवं सख्योर्हसत्योः स कविर्नम्रमुखो बभौ ॥ ६८॥
विटाद् रक्षितुमाक्रन्देन्नृपमेव सुरक्षकम् ।
नृपोऽपि विट एवात्र जहास कविरन्तरा ॥ ६९॥
तुषारबिन्दुवच्छुभ्रलावण्यद्युतिवत् तथा ।
समायान्तीं मुनिसुतां स्वान्तिकं सुकुमारिकाम् ॥ ७०॥
दृष्ट्वाश्रुपूर्णनयनः पीतचिन्तामधुद्रवः ।
निषीदति स्म भूपालः सदस्यग्रासने रसात् ॥ ७१॥ युग्मकम्
स्वकीयमबलाजन्मैवास्य दुःखस्य कारणम् ।
निन्दावमानयोश्चेति क्रन्दत्येषा कुमारिका ॥ ७२॥
गृह्णीष्व मातर्मामेवं भूमिदेवीं प्रति द्रुतम् ।
हस्तं प्रसार्याश्रुपूर्णनेत्रा चोच्चैः प्ररोदिति ॥ ७३॥
तदामंस्त कविः कण्वपुत्री चात्रैव तिष्ठति ।
इमां न कापि स्वीकर्तुमप्सरा ह्यागमिष्यति ॥ ७४॥
नाटकेऽवसिते राजा साक्षीकृत्य सभासदः ।
कालिदासमलञ्चक्रे स्वर्णशृङ्खलया करे ॥ ७५॥
हस्तनिर्घोषमुखरं नाट्यगेहमभूत् तदा ।
अथ क्रमात् सदस्येषु गतेष्वस्तमितो रवः ॥ ७६॥
राजसन्निधिमानीता नाट्याचार्यैर्यथाक्रमम् ।
अभिनेतृवरा येऽवतस्थुः साञ्जलयस्त्विह ॥ ७७॥
धृतकण्वसुतावेषामभिनेत्रीं नृपालके ।
अभिनन्दति सस्नेहं तस्थौ निस्सङ्गमेव सा ॥ ७८॥
भयं किं वा परिभ्रान्तिरिति ङ्य़ातुमशक्नुषी ।
सादरं साञ्जलिकरा सालभञ्जीव सा स्थिता ॥ ७९॥
कटाक्षवीक्षणेनापि तन्मुखं न ददर्श सा ।
पतगः पतितः किं वा नृपान्तर्नयने तदा ॥ ८०॥
निरीक्ष्य सर्वमुत्तस्थौ न निरीक्ष्येव शीघ्रतः ।
निद्रागारमवाप्तुं स निश्चक्राम च भूमिपः ॥ ८१॥
ईईई
ज्योत्स्नाकणविहीनायां निशायामपि गच्छति ।
अशान्तोऽपि कविस्तेन पथा शीलवशात् स्वयम् ॥ ८२॥
अदृश्यरात्रिकुसुमतप्तनिःश्वाससौरभम् ।
अन्धकारेऽपि सान्निध्यं प्रसारयति सर्वतः ॥ ८३॥
प्रकाशनेच्छुरप्यन्धतामिस्रे स्थितये विधिः ।
अत्रास्म्यहमिति प्राहेवार्द्रगन्धप्रसारणात् ॥ ८४॥
कञ्चित् प्रतीक्ष्यान्धकारे तिष्ठदक्षीव वर्तते ।
गवाक्षो विवृतो यस्य मूकशान्ते पुरोभुवि ॥ ८५॥
कविस्तिष्ठति तद्दीर्घनिःश्वासोष्मलमारुते ।
किञ्चिच्चञ्चलितं किं वा विलोलं जालकांशुकम् ॥ ८६॥ युग्मकम्
अप्रख्यापितमप्यस्यागमनं प्रतिपाल्य सा ।
निर्वापितप्रदीपा तदाह्वानोत्का स्थिता नु किम् ॥ ८७॥
न विशेषः कश्चिदत्रागन्तुमैच्छम् उवाच सः ।
नूनमायास्यसीत्येव भाति मे स्मेति सा द्रुतम् ॥ ८८॥
पूर्णमौनेषु निःश्वासैर्व्रणितेषु कथञ्चन ।
सहसास्याः कण्ठनालाद् वचोधारा प्रसारिता ॥ ८९॥
असूयालुभटौघेन परीतो वर्तते भवान् ।
गूढतन्त्रैर्विजेतुं त्वां यो मुहूर्तं प्रतीक्षते ॥ ९०॥
सन्ति कापट्यगर्तानि भवन्मार्गेषु सर्वतः ।
यदि काचिद् विपत् स्यात् तामशक्ता स्मर्तुमप्यहम् ॥ ९१॥
न हि शक्नोषि मां त्रातुं मम जन्मेदृशं किल ।
हविरस्मि मदर्थं मा जुहोत्विह भवान् स्वयम् ॥ ९२॥
गच्छ त्वं यत्रकुत्रापि न चिरान्मा विशङ्कया ।
त्वत्पादरेणुस्पर्शार्थी देशः को वा न विद्यते ॥ ९३॥
भवतो हृदयस्यास्य महासाम्राज्यसीम्नि मे ।
स्नेहसिंहासनं दत्तमेकमित्यस्ति धन्यता ॥ ९४॥
इतःपरं काम्यमस्य वनपुष्पस्य किं प्रभो ।
अग्निदग्धमिमं गेहं त्यक्त्वा यातु भवान् द्रुतम् ॥ ९५॥
घनवर्षवदुच्चैः सा प्ररुरोद ततः करम् ।
प्रसार्य जालरन्ध्रेण तस्थौ सा भावनिर्भरा ॥ ९६॥
स्पृष्ट्वासौ मृदुलं हस्तमस्या मन्दं परामृशत् ।
कवेस्तदङ्गुलीस्पर्शः सुधावर्षोऽभवत् तदा ॥ ९७॥
न भविष्यति किञ्चिन्मे कस्मात् तेऽशुभचिन्तितम् ।
किञ्चिन्निःश्वस्याब्रवीत् सः त्वां हित्वा कुत्र याम्यहम् ॥ ९८॥
विन्यस्योपरि तत्पाणिपल्लवं निटिले तथा ।
मुखेऽपि निखिले तस्थौ चित्सुखामृतपो यथा ॥ ९९॥
समीपे न विदूरे न पादन्यासरवः किमु ।
अन्धकारो वैरिणोऽपि बन्धुः स्यादित्यमन्यत ॥ १००॥
स्तब्धं मनस्तथाप्यन्तर्न्ययच्छन्निजसंभ्रमम् ।
वातायनं पिधेहीत्थमुक्त्वामन्त्र्य जगाम सः ॥ १०१॥
पुनर्दर्शनसौभाग्यं नाशशंसोपचारतः ।
पादचारेण सङ्केतं प्राप शीघ्रमसौ कविः ॥ १०२॥
उत्कण्ठया तदा यत्र द्वारि तिष्ठति पल्लवः ।
भयं भवति तद्दृष्टौ कोऽपूर्वोऽयं परिभ्रमः ॥ १०३॥
\\
ह्रुले
************************************************************
.
दशमः सर्गः
रत्नपरीक्षा
श्यामयामैरत्र सूक्ष्मचारनेत्राणि तान्यपि ।
तयोः समागमानां समभवन् गूढसाक्षिणः ॥ १॥
मरुत्तरङ्गिते पत्रव्राते मर्मरसन्निभम् ।
कर्णाकर्णिकया सा च वार्ता प्रचलिता द्रुतम् ॥ २॥
सचिवेष्वन्ततो गत्वा सत्यं तन्मन्त्रयत्यहो ।
अशक्नुवन् विश्वसितुं तस्थौ तत्रैव भूमिपः ॥ ३॥
यस्य सत्कीर्तिचन्द्रस्य शीतरश्मिशतैरभूत् ।
धवलोज्ज्वलवर्णाभा स्वकीयोज्जयिनीपुरी ॥ ४॥
तस्य काव्यकृतस्तन्वी सा किं प्रणयभाजनम् ।
तथापि विक्रमार्कस्य सा कथं विस्मृता भवेत् ॥ ५॥ युग्मकम्
स्वमनोहारिणी कन्या पक्षे तिष्ठति सांप्रतम् ।
प्रतिपक्षे तु धन्योऽसौ कविमित्रं च तिष्ठति ॥ ६॥
अनयोस्तु परित्यक्तुमेकं शक्नोमि हा कथम् ।
इति धर्मव्यथामग्नो मध्ये तिष्ठति भूपतिः ॥ ७॥
केवलं ग्रामकन्या सा तथापि सुरमार्गतः ।
अप्सरा इव चान्दोलादस्मिन् राजाङ्कणे यदा ॥ ८॥
अवतीर्णा तदारभ्य तस्यां सक्तं मनो मम ।
निरक्षरा साद्य पुनर्नाट्यसङ्गीतकोविदा ॥ ९॥ युग्मकम्
तादृशीं तां वधूकर्तुं प्रत्युद्गन्तुं यथाविधि ।
शुभावहां तिथिं राजा मुहूर्तं च प्रतीक्षते ॥ १०॥
कथामिमां राजधान्यां को न जानाति पूर्णतः ।
अङ्य़ात्वा हि कवेश्चित्तं तत्सक्तं नृपमानसम् ॥ ११॥
अत्युदारमना भूत्वा यमसौ समभावयत् ।
स एव कविरत्रैवमवजानाति भूमिपम् ॥ १२॥
इदं तु सर्वं जानन्नेवैकान्ते च तया सह ।
समागमाय धिक्कारं कुर्वन् योऽसौ सुहृत् कथम् ॥ १३॥
रत्नं सा स कवीन्द्रोऽपि रत्नं वर्धितमूल्यकम् ।
अतस्तं मा त्यजेत्येतदुपदेशोक्तिसान्त्वनम् ॥ १४॥
विक्रमार्कस्य कर्णे तु कुर्वन्ति सचिवाः सदा ।
सामदानाद्यतिक्रम्य दण्डः किं नु विचार्यते ॥ १५॥ युग्मकम्
सचिवैस्तन्त्रनिपुणैर्मनःसन्तुलनान्वितैः ।
मन्त्रयन्मोचनोपायं पश्यत्यवनिपालकः ॥ १६॥
न किञ्चिदपि जानामीत्येवंभावनया नृपः ।
आसनस्थोऽभवद् यस्य पुरतो नीयते कविः ॥ १७॥
विश्वासशीतलज्योत्स्नां हृदये संप्रसारयन् ।
कुशलं पृच्छति कविं राजा स्मेरमुखाम्बुजः ॥ १८॥
श्रोतुं वार्तामतिक्रूरां स्वीकर्तुं दण्डनं तथा ।
पीडनं चानुभोक्तुं निस्सङ्गभावेन चेतसा ॥ १९॥
सन्नद्धः काव्यकारोऽत्र निषण्णो राजसन्निधौ ।
सन्ने यस्य मुखे नासीत् किन्तु मन्दस्मितोदयः ॥ २०॥
अकालसम्भवत्कालमेघवर्षो यथा तथा ।
अभिनन्दनवाग्धारां वर्षत्यस्मिन् कवौ नृपः ॥ २१॥
छत्रस्याधश्चामरस्य वातो मे वाति पार्श्वतः ।
तथापि मित्र ते स्नेहशैत्यमेवाभिकामये ॥ २२॥
कवेः स्वच्छन्दवासोऽत्रैवेति मे पुलकप्रदम् ।
तुष्ट्या तृप्त्या किन्तु सर्गास्वास्थ्येनेह समावस ॥ २३॥
पुनराह नृपः श्रीमन्नगायत पुरा भवान् ।
अहैतुकीं प्राणवतामव्यक्तमधुरां व्यथाम् ॥ २४॥
आत्मानुभूतं सत्यं तत् किं ते तस्माद् विमुक्तये ।
प्रयतेऽहं किं करोमि तदर्थं सदयं वद ॥ २५॥
विमूकं पुनरप्यत्रोपविष्टं कविकुञ्जरम् ।
निमिमीते निर्निमेषं राजाथोवाच सुस्मितम् ॥ २६॥
भवतोऽयं पुरीवासो भवतूल्लासवान् सदा ।
रम्यवस्तूनि नान्विष्यस्येतैस्त्वन्विष्यसे परम् ॥ २७॥
उपहारान्तरं वीरशृङ्खलाधिकमोहनम् ।
समर्पये करे चास्मिन्नचिरेण महाकवे ॥ २८॥
एतेषां श्रूयमाणानामङ्य़ात्वार्थमसौ कविः ।
किमु वक्तव्यमित्येतदपि नो वेत्ति किञ्चन ॥ २९॥
सामगानसमं राजभाषणं तन्निशम्य सः ।
आदरेण समामन्त्र्य जगाम वसतिं कविः ॥ ३०॥
उपहारान्तरं वीरशृङ्खलाधिकमूल्यकम् ।
किं स्यात् परीणामगुप्तकथेव प्रतिभाति तत् ॥ ३१॥
तदुत्तरं प्रतीक्ष्यास्मिन् कवौ तत्र निषीदति ।
विलीयतेऽन्धकारे तत्कक्ष्यागतदिनप्रभा ॥ ३२॥
कवाटस्यार्धपिहितस्योद्घाटनरवस्तदा ।
श्रूयते पादनिःस्वानं कङ्कणक्वणितं तथा ॥ ३३॥
नापृच्छत् केयमित्येष मणिनूपुरशिञ्जितम् ।
स्फुटं वदति नैवेयं स्वकीयपरिचारिका ॥ ३४॥
अथेयमस्ति वा कन्या रम्या सा प्रियमानसा ।
नैवेयं सेत्याह सर्वव्यापीदं मदसौरभम् ॥ ३५॥
कस्या वस्त्राञ्चलस्यायं शब्दो विलुलितस्य वा ।
कस्या वा तरलोल्लोलवलयोदितशिञ्जितम् ॥ ३६॥
कस्या वा विकिरन्त्यत्र निःश्वासार्द्रदलान्यहो ।
पस्पर्श का कवेरस्य मनःसूनरजःस्वपि ॥ ३७॥
कविः क्रमेण तां नीचामुद्दीपयति वर्तिकाम् ।
पुरतो दृश्यमानेयं का पुनर्मेनका किमु ॥ ३८॥
अग्निपञ्चकमध्यस्थामद्रिकन्यां तपस्विनीम् ।
अचञ्चलाग्न्यन्तरवदस्मान् योऽदर्शयत् पुरा ॥ ३९॥
कल्पद्रुपतितोत्फुल्लपुष्पायाप्सरसे पुरा ।
वाङ्मयेन पुनर्जन्म ददौ योऽतीव सुन्दरम् ॥ ४०॥
अन्यस्यामप्सरःपुत्र्यां पृथिव्याः परिशुद्धताम्
लावण्यं च समन्वीय प्रादर्शयदिहैव यः ॥ ४१॥
स कविश्चिन्तयामास साक्षादेवाप्सरास्त्वियम् ।
कस्याङ्य़येयमागच्छदत्र किं वास्य कारणम् ॥ ४२॥ कलापकम्
नैवात्र विक्रमो नैव विश्वामित्रोऽपि तापसः ।
वर्ततेऽत्र वराकोऽयं कविरेव हि केवलम् ॥ ४३॥
वश्येन सुस्मितेनेह तिष्ठतीयं मनोहरी ।
निस्त्रपं स्वयमेवास्मै समर्पयितुमुद्यता ॥ ४४॥
राजोपहारोऽमूल्योऽयमिदानीमेव चाभवत् ।
स्पष्टा कथापरीणामगुप्तिरासूत्रिता तदा ॥ ४५॥
राजधान्यां विशिष्टानामतिथीनां महीभृताम् ।
सत्काराय सुनैवेद्यं विक्रमार्कनृपाहृतम् ॥ ४६॥
प्रांशुलभ्यं फलमियं तिष्ठतीह कराञ्चले ।
कविं प्रणम्य सा प्राह दासीयं तव गृह्यताम् ॥ ४७॥ युग्मकम्
सुहृद्राजवरैस्तुल्यं कविमेनं च निर्धनम् ।
साक्षात् स विक्रमादित्यः सत्करोतीह सादरम् ॥ ४८॥
अतःपरं चारितार्थ्यप्रदमन्यत् किमस्ति हा ।
अभिनन्दनसम्मानमप्यन्यत् किमु विद्यते ॥ ४९॥
इत्थं सन्तोषधवलज्योत्स्ना नोदेति तन्मुखे ।
तत्र प्रत्युत रोषोऽभिमानजः समुदेति किम् ॥ ५०॥
अन्तःक्षोभं तु संयम्य कविरास्ते विमूकवत् ।
चिन्ताब्धिवीचीः शमयन्नात्मशक्तिं च वर्धयन् ॥ ५१॥
सुतार्यक्षौमवासोऽस्याः स्रस्तं भवति च स्वयम् ।
स्पन्दते तदुरःकञ्चुकावृतं कोरकद्वयम् ॥ ५२॥
द्रवितुं स्वयमेवात्र सवितुः किरणोष्मणि ।
हिमशीकरनिर्मुक्तविकसत्सुमसन्निभम् ॥ ५३॥
स्वविग्रहं सुनिर्माल्यं विधातुं स्वयमेव सा ।
निजसौवर्णभूषास्ता विनिर्मोक्तुं समुद्यता ॥ ५४॥ युग्मकम्
अथ मेति प्रशान्तं तन्निषेधति कविस्तदा ।
समेत्यालसमस्योपस्थितिमाप विलासिनी ॥ ५५॥
तटभित्तटिनीवीचीसमाङ्य़ातविलोभिनी ।
साह राजनियुक्ताहं भवत्प्रियहितैषिणी ॥ ५६॥
पानपात्रं पूरयेऽहं केन द्राक्षारसेन वा ।
देवप्रियेण किं ब्रूहि साक्षात् सोमरसेन वा ॥ ५७॥
केन रागेणालपामि मदशक्तिप्रदेन वा ।
केन नृत्तेन मायूरपिञ्छिकां वितनोम्यहम् ॥ ५८॥
अलौकिकं मादकं किमैन्द्रियस्वर्गगोपुरम् ।
प्रोद्घाटयाम्यहं हर्षाद् भवदर्थं प्रभो वद ॥ ५९॥
सारङ्गीमधुरे तस्मिन् स्वररागसुधाझरे ।
क्षीरे सितेव मृदुलं मनो लीयेत कस्य वा ॥ ६०॥
ध्यानलीनं महाकालमुपास्ते यत् सदैव तत् ।
आनन्दलयमग्नं न त्वलीयत मनः कवेः ॥ ६१॥
दृढदीप्तेन नेत्रेण निर्वर्ण्याह कविः स ताम् ।
सर्वसम्मोहनं रूपमेतत् प्रत्यङ्गसुन्दरम् ॥ ६२॥
उन्मादकं विशालेऽस्मिन् प्रपञ्चहृदयान्तरे ।
वश्यवाङ्मयरूपेणालिखितं चासकृन्मया ॥ ६३॥
प्रमादोऽभूत् तवायं न तेषां येऽस्मिन् निशामुखे ।
प्रैषयन् पुरतो मे त्वां सत्यं मे जानते न ते ॥ ६४॥
रुदन्ति यदि मे दीनं प्रत्येकं परमाणवः ।
परित्यजेयुर्मां तेऽपि स्नेहार्द्रायात्मनः कृते ॥ ६५॥
सुवर्णनिर्मितो रत्नखचितश्च कृपाणकः ।
मारकः किं पातितश्चेत् सुदृढेऽपि हृदन्तरे ॥ ६६॥
अधिकारोग्रहस्तेन क्षिप्रं मां प्रति सम्प्रति ।
विद्युल्लतोज्ज्वलं शस्त्रं त्वमिति प्रतिभाति मे ॥ ६७॥
एतस्मादुद्भविष्यन्ती क्षतिर्मे खलु दुर्गतिः ।
जीवतो मृतिरेवात्महतिरेवेति मन्मतम् ॥ ६८॥
क्षत्रवीर्याण्यनेकानि निर्जितानि यया पुरा ।
नग्नसौन्दर्यशक्तिः सा निःसहाया निराकृता ॥ ६९॥
ततो दुःसहदुःखेन प्रतिगन्तुं समुद्यता ।
तिष्ठेति कविनोक्ता सा तस्थौ श्रुत्वेव तद्वचः ॥ ७०॥
कविराहार्द्रमेनां न त्वय्यनादृतिरस्ति मे ।
त्वामिह प्रैषयन् ये ते वाच्या विनयपूर्वकम् ॥ ७१॥
त्वयि संप्रीतिमांश्चाहं सुतृप्तो लीन एव च ।
दौत्यं ते सफलं सम्यक् त्वया निर्व्यूढमित्यपि ॥ ७२॥
निवृत्य सा निमेषार्धं निर्वर्ण्य च कवेर्मुखम् ।
शान्तेन सुदृढेनापि स्वरेणैवमभाषत ॥ ७३॥
असत्यकथनायेमां मा निर्दिश महाप्रभो ।
कुलकर्मण्यसत्यत्वं नाद्यावधि कृतं मया ॥ ७४॥
राङ्य़ो दासीयमाङ्य़ानुसारिणी नाभिसारिणी ।
इति सत्योदिता वाचो हृदयान्निर्गता इव ॥ ७५॥
अथारुदत् संवृतास्या कविश्चाभूत् सविस्मयः ।
नवबोधोदयेनेव तीक्ष्णसत्योपदर्शनात् ॥ ७६॥
क्षमस्व भद्रे सदयं यद्यहं त्वामखेदयम् ।
अथाशक्त्या न किञ्चित्तामवदत् कविकोविदः ॥ ७७॥
तस्यां गतायां तद्दास्यदैन्यनिन्दनकर्मणि ।
पश्चात्तापेन दग्धोऽभूत् कविः कारुण्यवानसौ ॥ ७८॥
नासत्यवादिनी सैषा तेन यत् सुतिरस्कृता ।
तदप्यवनिपेन्द्रः श्वो ङ्य़ास्यत्येव न संशयः ॥ ७९॥
तस्मादाविष्करिष्यन्ति ते राजपुरुषादयः ।
कथाविशेषान् विविधान् सामदानवृथात्वतः ॥ ८०॥
रोषोदयो भवेच्चक्रवर्तिनश्च भवत्वयम् ।
सर्वं किलात्र हा छत्रचामराङ्य़ानियन्त्रितम् ॥ ८१॥
निद्रां गच्छेत् पल्लवोऽत्र निशापि बहुशो गता ।
प्राप्यस्थानं नास्ति नैव श्रोतव्यः कश्चनापि वा ॥ ८२॥
कक्ष्याद्वारं विधायान्तरालवीथ्या सुदूरतः ।
विना लक्ष्यस्थलं मन्दमन्दं गच्छत्यसौ कविः ॥ ८३॥
नृत्यद्वातोऽपि निद्रापि वृक्षशाखासु किं शनैः ।
गायकः कृकराटः किं क्षीणो मौनं भजत्यसौ ॥ ८४॥
जगामान्विष्य पिहितं गवाक्षं कामुकः कविः ।
कुत्र वा कामिनी सा स्यात् प्रतीक्षानिर्भराशया ॥ ८५॥
अर्धबोध इवात्रत्यराजवीथ्या स गच्छति ।
अङ्य़ातलक्ष्यं भूयोऽपि गच्छत्येव कविः स्वयम् ॥ ८६॥
भवन्ति निद्राहीनानि ज्वलद्दीपयुतानि च ।
गणिकानां गृहाण्यत्र पार्श्वयोरुभयोरपि ॥ ८७॥
वीणा च तन्वीकण्ठश्च सम्भूयैकं सुगीतकम् ।
गातुं स्पर्धां करोतीव कुत्रचिद् भवनातरे ॥ ८८॥
अन्यत्र कामुकोन्मादो हसत्युच्चैश्च गर्जति ।
कस्याश्चिन्नृत्तसुन्दर्या नूपुराशिञ्जितैः सह ॥ ८९॥
पुरो मकररथ्या सा बोधहीनेव वर्तते ।
कामाग्निदग्धबलिपुष्पाणां गन्धेन सन्ततम् ॥ ९०॥
नेति नेतीति मनसा मन्त्र्यते वीथिका तु या ।
मृग्यते कविना सान्या दूरे किमनलप्रभा ॥ ९१॥
चिता प्रशान्तज्वालासौ ख्याता पितृवनाख्यया ।
यत्रान्ते प्राप्यते सर्वैरर्धरात्रे मयाप्यहो ॥ ९२॥
सक्तोऽसक्तो नृपो दासश्चैकतल्पं भजन्निह ।
शान्तिं गच्छेत् साम्यदृष्टिसारसौन्दर्यसद्मनि ॥ ९३॥
अत्रैव सर्वदुःखानि विस्मृत्यानन्यचिन्तया ।
तिष्ठत्युन्मीलितेनान्तर्लोचनेन महाकविः ॥ ९४॥
कालमेघजटाजूटादर्धचन्द्रस्त्वधस्तलम् ।
निरीक्षते तदा भूतिं ज्योत्स्नाभस्म विलिम्पति ॥ ९५॥
पावकनेत्रं मीलय सदयं
हे हर वर्षय चन्द्रमरीचीः ।
चितासमीपे तस्थौ कविरु
न्नम्य करौ च प्रर्थयतीव
महेशपावकनेत्रनिमीलन
तुल्यं चित्यामनला विगताः ।
तरवः पितृवनसीमनि जाता
श्छाया ज्योत्स्ना तदन्तराले ।
शकलीभूयाकाशस्यान्ते
बोधाबोधतलानि मिलित्वा ।
भङ्ग्यान्योन्यं लिखितमपूर्वल
यस्यालेख्यमिवास्ति मनोङ्य़म् ॥ ९६॥
कस्मिन् पटहे चोच्चैः श्रुत्या
कालं को वा परिमात्यत्र
आदिविलम्बिततालमनुक्षण
माहा चटुलद्रुतगतिरास्ते ।
पवनालुलितजटा इव वटतरु
शाखास्तत्र विलुलिताः सन्ति ।
कृष्णभुजङ्गफणोन्नयनेन स
मं तदनातपनटनं लसति ।
शिवतेजोमयरूपं विकसित
मथ हा गगनापूर्णं दृष्ट्वा ।
कविरिह गायति मम हृदयेन तु
रसितोग्रं कुरु नटनं भगवन् ॥ ९७॥
नृत्तं कुरु नटनायक भवदा
नन्दश्रीनटनद्रुततालः
काननवृक्षलतास्वथ नीच
स्थिततृणकोटिषु सर्वास्वपि च ।
आर्द्रमनस्स्वनुशासननिर्दे
शाङ्य़ानामविधेया ये वा
तेषां हृदयेष्वपि च सिरासु च
नित्यस्पन्दं कुरु तव चरण
ध्वनिरिह मृत्युञ्जयमन्त्रध्वनिः ॥ ९८॥
अर्धोक्तौ विररामेदं गानमेष कविस्त्विह ।
भूमावुत्तानतः क्षीणशरीरो निपपात हा ॥ ९९
\\
ह्रुले
************************************************************
.
एकादशः सर्गः
आमन्त्रणमुज्जयिन्यै
विभातमायाति कवेश्च सम्यग्
बालातपश्चुम्बति फालदेशम् ।
निद्रोत्थितोऽयं त्वचिराद् विजाना
त्यात्मानमेतत्पितृकाननस्थम् ॥ १॥
सुपुष्पितोऽसौ तरुणार्कवृक्षः
सदागतिस्तप्तमरुद्विशेषः ।
भस्माकुलेयं भयदा चिता च
काव्याध्वगं प्रश्नमिमं त्वपृच्छत् ॥ २॥
अकाल एवात्र किमागतस्त्वं
स्वयं तदावर्तनलोलुपोऽभूत् ।
विभ्रामकस्वप्न इवेह कस्मात्
पूर्वेद्युरागच्छमहो निशायाम् ॥ ३॥
उपैति कश्चित् सुगभीरघण्टा
नादोऽत्र शिप्रासरिदम्बुपायी ।
श्मशानसंश्लेष्यनिलोपनीतो
घुष्यन्महाकालसमर्चवेलाम् ॥ ४॥
चितान्तरालादिव मन्दमन्दं
समुत्थितो याति कविस्त्वतान्तः ।
अथेह शिप्रापरिमज्जनेन
शैत्यं भजेतां तनुमानसे ते ॥ ५॥
अबोधतो मे हृदये चितैका
कृताद्य निर्वापय तां तु शिप्रे ।
भवत्करस्पर्शवशाद् दयार्द्रा
च्छान्तिं भजेत् तापशतानि भद्रे ॥ ६॥
निमज्जयामास कविश्च शिप्रा
स्नेहार्द्रशीताम्बुषु नैकवारम् ।
सर्वंसहे यं नियतेर्नियोगं
भयं विनेत्याप सुधीरतां च ॥ ७॥
स्मृताविवानातपकान्तिपूरे
शनैः शनैर्गच्छति काव्यकारे ।
अन्विष्य गन्तास्मि भवन्तमेवं
वदन् पुरस्तिष्ठति पल्लवश्च ॥ ८॥
शब्दोपलब्धिर्न भवेद् विकारै
र्हृदन्तराले परिपूरिताभे ।
परस्परं यौ मनसैव वित्त
स्तयोस्तु मौनं बहुलार्थपूर्णम् ॥ ९॥
स पल्लवस्तेन कवीश्वरेण
साकं स्वसङ्केतगृहं जगाम ।
उपेत्य सैषा परिचारिकापि
खाद्यान्नपेयं रुचिरं निनाय ॥ १०॥
समश्यतां प्रातरिहाशनं द्रा
गिहैव विश्राम्यतु चित्सुखेन ।
बालं यथैवं प्रियवाचमुक्त्वा
ततो जगामाशु स पल्लवोऽपि ॥ ११॥
प्रकम्पनः कश्चिदिव प्रशान्तः
कश्चिद् घनासार इवान्त्यमाप्तः ।
सर्वं बहिः शान्तमिव प्रतीतं
भवेदिदं वा प्रतिभासमात्रम् ॥ १२॥
स्फुटत्स्मृतेर्गन्धशतानि भूयो
प्याश्लेष्टुकामं मन एव शत्रुः ।
सर्वर्तुसौन्दर्यविलेखनार्थं
वटद्रुमूले मयि सन्निविष्टे ॥ १३॥
मार्गेण तेनैव किमर्थमायात्
सा मे मनः सोत्कमभूत् किमर्थम् ।
श्रोतुं च काव्यं मम सन्निकर्षे
तस्थौ किमर्थं नु निरक्षरा सा ॥ १४॥ युग्मकम्
कमप्युदारप्रणयार्द्रबन्धं
विनार्थबोधं धृतवान् कुतोऽहम् ।
द्रक्ष्यामि नैवेति सुनिश्चितं तद्
वक्त्रं किमर्थं पुनरप्यपश्यम् ॥ १५॥
सुवर्णनीडे स्वयमेव कस्मात्
प्रवेशयामास विचारशून्यः ।
नीडान्तरस्थस्य खगस्य दैन्य
ङ्य़ानं विना लब्धमनेन किं स्यात् ॥ १६॥
भित्वार्गलं प्रोड्डयनेऽपि शिष्टा
न्यथार्गलान्यत्र बहूनि सन्ति ।
सर्वोऽपि दासः क्रियते विलोभै
स्तिक्ताम्लकान्तैर्मधुभिः फलैश्च ॥ १७॥
दासेतरोऽस्मिन् भुवने समेऽपि
राजाधिराजोऽस्ति स एक एव ।
प्रत्यक्षतो ङ्य़ानमिदं च सर्व
मन्तेऽखिलं यत् खलु दिव्यदुःखम् ॥ १८॥
काव्यानि सर्वाणि च जीवरक्त
जन्यानि भूर्जत्वचि भावितानि ।
सञ्चित्य नैजे तु पुराणभाण्डे
कवीश्वरो निक्षिपति क्रमेण ॥ १९॥
समृद्धपुष्पैश्च पलाशवृक्षै
रुपेतपार्श्वद्वयया सरण्या ।
सुकेतकीसूनमनोहरेण
नीवारकेदारहृदन्तरेण ॥ २०॥
मधुद्रवार्द्रं सहकारपुष्प
गन्धं स पीत्वा ललितं यथेष्टम् ।
मुदा चरन्मारुतसन्निभोऽयं
कविश्च भूयोऽपि चरिष्णुरासीत् ॥ २१॥
नामन्त्र्य राजानमितोऽगमिष्यद्
भीरुप्रवृत्तिश्च तदाभविष्यत् ।
अतोऽस्य सन्दर्शनसम्मतार्थं
स पल्लवः प्रेषयितव्य एव ॥ २२॥
गच्छामि भूयोऽप्यनिवार्यधार्यं
दुःखं वहन्नेव विधेर्नियोगात् ।
तदा मदीये हृदयेऽभविष्यत्
सदाप्यनिर्वापितमग्निकुण्डम् ॥ २३॥
दिदृक्षिता सा सकृदप्यहो न
जन्मान्तरेष्वप्यसकृत् सहर्षम् ।
निशाम्य चामन्त्रयितुं प्रियां तां
शशाक नेति व्यथितं मनो मे ॥ २४॥
शनैः कवाटो विवृतश्च चेतो
गतं यथा पल्लव आगतोऽभूत् ।
आगच्छ किञ्चिद् गुरु वक्तुमस्ती
त्येतन्मुखं मौनगिरैव वक्ति ॥ २५॥
विचार्य कार्यं विविधं सुदीर्घं
मन्त्रिप्रवेकैः सह भूमिपालः ।
अन्तर्गृहं सम्प्रति सन्निविष्टः
प्रतीक्षते तत्र कविं भवन्तम् ॥ २६॥
समागमो यश्चिरकाङ्क्षितः स
फलीकृतश्चापि जवेन किन्तु ।
गच्छाग्रतः सूक्ष्मतयेति चेतः
पुनःपुनर्मन्त्रयतीव गूढम् ॥ २७॥
वक्ष्यामि नासत्यमिति स्मरामि
भूयो दृढं तद् गणिकोक्तवाक्यम् ।
स्नेहोपहारं विनयेन दत्तं
तिरस्कृतं ङ्य़ापितवान् नृपः स्यात् ॥ २८॥
परीक्षितो मे सुदृढानुराग
स्तेनात एवासममर्षपात्रम् ।
कारुण्यशून्यो भविता च दण्ड
स्तस्य श्व इत्येव बलाद् विशङ्के ॥ २९॥
प्रजाधिपोऽन्विष्यति चेत् कवीन्द्रः
सत्यं वदामीति दृढीचकार ।
आमुष्मिकादैहिकतोऽपि तस्यां
प्रेमास्ति मे मालवकन्यकायाम् ॥ ३०॥
अत्यन्तसङ्घर्षनिमेषकेषु
निश्शब्दमन्तर्मथितेषु तेषु ।
सप्रश्रयं सोऽप्यवधानपुर्व
मन्तर्गृहं प्राप कविर्नृपस्य ॥ ३१॥
प्रसार्य बाहुद्वयमाह भूपः
सुस्वागतं सौहृदभावरम्यम् ।
अथादरेणोपनिवेशयंस्तं
भङ्ग्या बभाषे कुशलार्द्रवाचः ॥ ३२॥
कवेर्मनोऽनस्ततरङ्गवारा
न्निधिश्च शश्वत् सममस्तशन्तम् ।
इति प्रजानन्नपि लोकरीत्या
पृच्छामि सौख्यं नु महाकवे किम् ॥ ३३॥
उपक्रमे वागियमत्युदारा
प्रस्तावना कस्य तु नाटकस्य ।
न्यूनातिरिक्तेतरमुत्तरं त
स्योक्त्वा कविः स्वासनसन्निविष्टः ॥ ३४॥
यद्यप्यशान्तं हृदयं तथापि
तस्याननं भात्यमलप्रशान्तम् ।
समाप्य नैजालसभाषणं स
राजा पुनः सम्यगभाषतैवम् ॥ ३५॥
इहातिथीभूय भवान् समायात्
ततोऽधिको नाभवदेव कालः ।
तथाप्यभूदात्मपुरी तवेय
मात्मीयमेषाप्यकरोत् कविं त्वाम् ॥ ३६॥
अनेन सन्तुष्टमभून्मनो मे
प्रायोगिकं सत्यमिदं च जाने ।
स्वतन्त्रशीलं हृदयं कवेस्तत्
साम्राज्यमानन्त्यमपारता च ॥ ३७॥
एकान्तता सा क्व कवीषिता क्व
कोलाहलोऽयं ह्यनुभूयमानः ।
नैवेह कान्तिः प्रकृतिप्रियात्म
पुत्राभिकाम्या कृतकेतरा सा ॥ ३८॥
नैवानृषिः काव्यकृदित्यतस्त
स्यावश्यकं तापसवाटमेकम् ।
अतस्त्यजेमां नगरीं व्रजाब्द
वासाय तं रामगिरिं पवित्रम् ॥ ३९॥
इतः प्रयाणाय मनोभिलाषः
प्रयातुमेवात्र नृपेण चोक्तम् ।
कुत्रेति देशोक्तिरियं तु तस्य
विस्मापकं सत्यमहो बभूव ॥ ४०॥
शान्तिप्रदो रामगिरिस्तथापि
कस्तत्र यानं परिनिश्चिनोति ।
नृपो निजेच्छा किमु तस्य कालः
केनाब्द इत्येव विधिर्विधेया ॥ ४१॥
भिषग्विधिस्तिक्तरसेयमत्र
रोगीप्सितं दुग्धमतोऽन्यदेव ।
निष्कासनाङ्य़ा मधुरोक्तिगूढा
राङ्य़ा प्रदत्तेति तु नग्नसत्यम् ॥ ४२॥
पुरी किलैषोज्जयिनी ममैव
गतागतं मेऽत्र तु निश्चिनोति ।
राङ्य़ैव नाहं परिसंवृणोति
सत्यं त्विदं हा मधुवाङ्मयेन ॥ ४३॥
रात्रौ च काञ्चिद् गणिकां ददौ यो
ह्यः स्नेहसम्मानतया स एव ।
तपोवनं हा कवये च मह्य
मन्ते ददाति स्म दयासमेतम् ॥ ४४॥
एवं विचारस्फुटदग्निनाल
ज्वलत्स्फुलिङ्गानि निगृह्य चित्ते ।
अक्षोभ्य एवास्ति कविर्निषण्ण
स्तल्लोचने किं ज्वलितोऽग्निनालः ॥ ४५॥
प्रजाधिपो वक्ति मनोभिरामा
परिस्थिती रामगिरेरतीव ।
दूरे च मेघैरभिवन्दितानि
शृङ्गाणि नीलाचलसानवश्च ॥ ४६॥
आम्रद्रुकुञ्जानि विहङ्गमानां
गानं च सूनोज्ज्वलपल्वलानि ।
सुगन्धवातार्द्रतटाश्च ताल
लयाश्च तासां तरुवल्लरीणाम् ॥ ४७॥ युग्मकम्
अतुल्यवाग्वैभवराजशिल्पि
वर्यस्य तत् सर्गतपोवनं स्यात् ।
सृष्टिर्भवेत् तत्प्रतिभानिटाल
नेत्रोद्भवा निष्प्रतिमा कदाचित् ॥ ४८॥
नृपः पुनश्चाह वरिष्ठसृष्ट्या
तया भवान् प्राप्स्यति वत्सरान्ते ।
भूयस्त्विमामुज्जयिनीं दिनं तत्
सुशोभनं हा प्रतिपालयामः ॥ ४९॥
दयाविशून्यं नयतन्त्रहृद्यं
श्रुत्वा वचो ह्येवमतीव शान्तः ।
प्रतिब्रवीति स्म कविः कृतङ्य़ो
स्म्युदारबुद्ध्यै भवते नितान्तम् ॥ ५०॥
अद्यावधीहातिदयामयस्त्व
मासीश्च निःस्वे मयि काव्यकारे ।
तत् तेऽधमर्णोऽहमशक्त एव
प्रतिब्रवीतुं च कृतङ्य़भावम् ॥ ५१॥
एवं कविश्चात्मविकारवीचि
प्रवाहमावृत्य वचो बभाषे ।
अन्येद्युरेवोषसि गन्तुमद्यै
वामन्त्रयामास महीपतिं सः ॥ ५२॥
उदारमेवाह नृपश्च कर्णी
रथेन चायान्ति तदुद्वहन्तः ।
अन्ये च भृत्या विजनो यतो हि
पन्थाश्च नैकं दिनरात्रमस्ति ॥ ५३॥
कविश्च बद्धाञ्जलिराह मास्तु
पद्भ्यां चरन्नेव सुशीलितोऽस्मि ।
आमन्त्र्य भूयोऽपि न किञ्चिदुक्त्वा
ततस्तिरोऽभूदथ काव्यकारः ॥ ५४॥
गतोऽवतीर्णो दिवसस्त्रिसन्ध्या
दूरात् समायात्यनुरक्तवक्त्रा ।
अंसे वहंस्तारकमेकमेको
धाराधरो गच्छति पङ्गुतुल्यः ॥ ५५॥
उदेति मन्दं वलभौ कपोत
युग्मस्य कण्ठान्मधुरो निनादः ।
उद्यानशाखीविटपेषु नीडं
प्रत्यागतानां पततां सुगीतम् ॥ ५६॥
स्वेन प्रणीतं मुनिकन्यकाया
गीतं वहत्यत्र यतःकुतशित् ।
अनेन सार्धं हृदयं किलैकं
विपञ्चिकीभूय रुदत्यथार्द्रम् ॥ ५७॥
वृथाप्रतीतिस्तु भवेत् सदैकं
प्ररोदनं श्रूयत एव चित्ते ।
अनुप्रयात्येतदहर्निशं तं
मार्गेषु सर्वत्र च काव्यपान्थम् ॥ ५८॥
निशेयमेकापि ततःपरं तु
परैव मे ह्युज्जयिनी पुरीयम् ।
यैषा ददौ मे महितोपहारान्
प्रशस्तिमुद्राश्च मृषापवादान् ॥ ५९॥
प्रतिप्रयच्छाम्यखिलानि तुभ्यं
मा यच्छ मे तं ह्ययि राजधानि ।
समर्पितं वक्षसि ते मया यं
स्वीयं यशोमौक्तिकरम्यहारम् ॥ ६०॥
स पल्लवस्तिष्ठति सन्निकर्षे
वक्तव्यतामूढ इवातिमूकः ।
ङ्य़ातं कथञ्चित् किल राजधान्यां
सर्वत्र यद् गूढतया नृपोक्तम् ॥ ६१॥
अन्याश्च सन्त्यत्र कथाः कविर्मा
जानातु याश्चेति तु पल्लवेच्छा ।
कविः स वेश्याकुलसङ्गमोत्को
भवत्यतन्द्रं मधुपानसक्तः ॥ ६२॥
इत्यादिनानाविधदुष्प्रवादाः
ह्यन्तःपुरेषु प्रसरन्ति गूढम् ।
कविर्न जानात्विदमित्यभीप्सन्
स पल्ल्वोऽप्यत्र विषण्णमास्ते ॥ ६३॥ युग्मकम्
अन्ते भवावश्चिरविप्रयुक्तौ
कविः कथञ्चिद् विरराम चोक्त्वा ।
पुनश्च मौनं सुहृदः करौ तौ
सङ्गृह्य वाचं कविरेवमूचे ॥ ६४॥
इतो गमिष्याम्युषसश्च पूर्व
मिति प्रतिङ्य़ा मम दुर्विलङ्घ्या ।
सखे न जानास्यपि कुत्र वा सा
सुविस्तृतायामिह राजधान्याम् ॥ ६५॥
तथापि तां द्रक्ष्यसि हा कदाचित्
तदा सखे तत्करयोरथैतत् ।
दत्वा पुनर्मद्वचनात् प्रिया सा
वाच्या मम स्मारकमेतदेव ॥ ६६॥
आदाय नैजं हृदयं सुरक्तं
पट्टांशुकेनेव समावृतं तत् ।
स्नेहोपहारं कविना प्रदत्तं
समग्रहीत् पल्लवहस्तयुग्मम् ॥ ६७॥
विवृत्य तत् पश्यति पल्लवोऽय
महो सुवर्णाञ्चितशृङ्खलेयम् ।
सैषा तु राङ्य़ा कवये प्रदत्ता
मिश्रीभवत्काञ्चननागतुल्या ॥ ६८॥
यस्यास्ति सर्वस्वमपाहृतं तत्
कवेरतः किं समुपेक्षणीयम् ।
अत्रैव कुत्रापि निजार्धदेहं
त्यक्त्वा कविर्याति ततोऽर्धजीवः ॥ ६९॥
स्वप्नो न कश्चिद्दलितो न चास्ति
याम्येव यान्त्या निशया समेतः ।
नावश्यकस्तन्नृपदत्तदोला
भृत्यावलीबद्धपरिच्छदो मे ॥ ७०॥
अंसे वहन्नक्षरभाण्डमेतत्
पद्भ्यां चरन्नेव सुखं प्रयामि ।
अस्मिन् पुरीघोरवने वसन्ति
धृतस्मिता हिंस्रमृगा मनुष्याः ॥ ७१॥
तत्रापि नित्यव्यतिरिक्तशोभः
कश्चिन्मनस्वी प्रियपल्लवोऽस्ति ।
सगद्गदस्तं कविराह नैव
शक्नोमि चामन्त्रयितुं सखे त्वाम् ॥ ७२॥
गच्छातिसूक्ष्मं तव लक्ष्यदेश
प्राप्तिं दृढीकर्तुमिहैव पश्चात् ।
ङ्य़ातुं च सर्वं सुनिगूढरीत्या
विदग्धचाराक्षिचयश्चकास्ति ॥ ७३॥
लब्धं मया त्वत्परिचर्ययात्म
सौख्यं प्रभो सज्जनसङ्गतेन ।
भाग्यं तदत्रास्तमितं भवत्ये
वातःपरं ॥। क्रन्दति पल्लवोऽसौ॥ ७४॥
अंसे वहन् भाण्डभरं च मन्दं
यदा कविर्गोपुरतोऽवतीर्णः ।
साक्षीभवत्यस्य विनिःश्वसन्ने
वायं ज्वलद्भित्तिशिलाप्रदीपः ॥ ७५॥
इतःपरं त्वं प्रतिगच्छ भूयः
कविर्बभाषेऽनुगतं सखायम् ।
अनुग्रहाश्वासभरात् स चक्रे
साष्टाङ्गपातं कवये प्रणामम् ॥ ७६॥
तत्रैव तिष्ठन्नयमश्रुपूर्ण
नेत्रेण यात्राशुभमाशशंस ।
छाया कला बिन्दुरिति क्रमेण
चान्तर्हितं तं कविमेव मार्गे ॥ ७७॥
निर्वर्ण्य निर्वर्ण्य तथैव तस्थौ
स्नेहाकुलत्वं तदचिन्त्यहेतु ।
नभश्चरः कश्चिदहो ज्वलित्वा
त्वस्तङ्गतः कुत्रचिदन्धकारे ॥ ७८॥
\\
ह्रुले
***********************************************************
.
द्वादशः सर्गः
कश्चित् कान्ताविरहगुरुणा
कश्चित् प्राणे ज्वलति कनकाग्निस्ततः सम्यगुद्य
ज्ज्वालारूपं नयनयुगलं भासुरं भासते तत् ।
कायः कस्मात् स इह भजते कार्श्यकान्तिं वियोगाद्
वर्षाभोग्याज्जनितदुरितात् सर्गतापान्नु तीव्रात् ॥ १॥
आलोक्य त्वामिह सविधगे मय्यथापूर्णनेत्रे
वात्सल्यार्द्रं कथयति भवान् स्नेहरम्यं त्वमेहि ।
सौख्यं किं वा कुशलवचनं मे तथैवाधरोष्ठे
जीर्णप्रायं भवति सुखदुःखातिवर्ती भवान् किम् ॥ २॥
दुःखं वा स्यात् सुखमथ भवेच्छैत्यमत्युग्रतापः
सृष्टिं कर्तुं यदि भवति हा पद्मपीठोपरिस्थः ।
सत्यस्यास्यावरककनकप्रौढपात्रोज्ज्वलाभा
प्रातःसन्ध्या तदनु मधुरा याति सा च त्रिसन्ध्या ॥ ३॥
एकस्याश्चेच्चलनविगतौ सत्यमह्नः प्रभा स्या
दन्यस्याश्चेत्तदिह तमसापूर्णयामा त्रियामा ।
ब्रूते सत्यं हृदयमिह चेत् सावधानश्च कर्णो
मायारङ्कुस्तदिदमखिलं नैव सत्यं यथार्थम् ॥ ४॥
अब्दो ह्येकः समतिगत एवेह तूर्णं किमित्थं
तुष्ट्यात्यन्तं कथयति भवान् मां स्म शान्तान्तरङ्गः ।
वर्षाभोग्यः किमयमधिवासोऽस्ति पप्रच्छ चाहं
तत्त्वं कालावधिरवसिता किं भवानाह शीघ्रम् ॥ ५॥
यद्यप्येवं त्ववसितमहादण्डकालावधेर्मे
बद्धस्यार्द्रं प्रणयि हृदयं बन्धनागारकेऽस्मिन् ।
पौराकीर्णं नगरमथ तत् किं महारण्यमेव
स्वान्तःशान्तिप्रदमिह प्रकृत्यम्बिकोत्सङ्गरङ्गम् ॥ ६॥
नापृच्छं त्वामत इह कुतस्तेऽयमेकान्तवासः
पृथ्व्यामस्यां तव कतिविधाः सन्ति गन्तव्यदेशाः ।
आरण्येऽस्मिन् प्रकृतिरुचिरे जानकीस्नानपुण्यो
दाराः शीताः सलिलझरिका नैकपक्षिप्रभेदाः ॥ ७॥
शश्वत्पुष्पाण्यवकिरदरण्योत्थसत्केसराणां
पर्णस्पन्दा मधुकरततिः कीचकानां च दण्डाः ।
सम्भूयैते धरणितलदेवालयेऽस्मिन् प्रकुर्वत्
सङ्गीते त्वं किमु सुखनिमग्नोऽभवो जीवनाख्ये ॥ ८॥
निद्रालोले मयि च धरणौ नित्यमस्यां शयाने
वात्सल्यार्द्रं ललितमधुरं त्वत्यगाधात् कुतश्चित् ।
जानाम्येतत् सरति हृदयस्पन्दनं मे सिरासु
नान्यः केषामहमिह भवामीति वाचं ब्रवीषि ॥ ९॥
अत्रात्यन्तं प्रियहृदयया मातृदेव्या समेतः
सोदर्यैर्हा खगमृगलतापादपैश्चापि साकम् ।
ङ्य़ात्वा स्नेहप्रसृतवचनैः सम्यगन्योन्यमेवं
वासं चक्रे सकुतुकमिहैवैकगेहे यथा स्यात् ॥ १०॥
दीर्घं संवत्सरमिह भवान् नीतवान् स्वच्छसौख्या
दित्थं ङ्य़ात्वा मम तु नितरामस्ति सान्त्वस्तथापि ।
त्यक्तुं सद्यः प्रभवति भवानुज्जयिन्याः स्मृतिं किं
नैतत् साध्यं त्विह जनुषि मे चेति किं त्वं ब्रवीषि ॥ ११॥
किन्त्वन्वेष्टुं प्रतिवच इवात्यन्तमूकः कुतश्चि
द्दूरे दृष्ट्वा सविधमुपविश्योचिषे वाचमेवम् ।
अन्तर्बाष्पाणि च मम समुह्याम्बुवाहः पुरीं तां
गन्तुं हन्त प्रचलति सदा कश्चिदार्द्रान्तरात्मा ॥ १२॥
हृद्रक्तेनालिखितमिह यन्मेघसन्देशकाव्यं
तस्य स्निग्धप्रणयरुचिरामब्रवीस्त्वं कथां माम् ।
कश्चिद् यक्षोऽभवदिह भवानुज्जयिन्याऽऽलकात्वं
प्राप्ता चासौ नृपतिरधिकारोग्रमत्तः कुबेरः ॥ १३॥
निर्लीनात्मा बहुतरमभूदात्मतुल्यप्रियाया
मित्थं चक्रे कठिनमपराधं किलायं च यक्षः ।
एकान्तायां गिरितटभुवि प्राप चात्रोग्रदण्डं
वर्षाभोग्यप्रविततवियोगेन वासाय सोऽयम् ॥ १४॥
यक्षः कान्ताविरहदहने तत्र जाज्ज्वल्यमाने
देहे चैवं मनसि च कृशे तप्यमाने युवायम् ।
आषाढस्य प्रथमदिवसे मेचकं मेघमेकं
क्रीडामग्नं गजमिव नभोमण्डलस्थं ददर्श ॥ १५॥
अञ्जल्यासौ कुटजकुसुमान् वर्षयित्वा च तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ।
किञ्चिद् वक्तुं भवति निकटे यस्य नैकोऽपि सोऽयं
मेघायास्मै स्वयमथ गिरा चाब्रवीदात्मवृत्तम् ॥ १६॥
अल्पो वायुर्जलमतिमनोहारि विद्युच्च धूमो
प्येषां योगात् समुदितशरीरोऽयमास्ते क्व मेघः ।
सन्देशार्थः क्व च पटुनिबोद्धव्यचैतन्ययुक्तः
कामार्तानां न खलु स विभेदार्थचिन्ताविवेकः ॥ १७॥
कोऽपूर्वोऽसौ हृदयरुचिरो यक्षसङ्कल्प एवे
त्याविश्चिन्ते मम तु नयने पश्यसीवाभिलाषम् ।
काव्यं तत् त्वं प्रथममिह मे निर्धनायालपस्ये
वैतस्मै हा न खलु विभवे सार्वभौमोत्तमाय ॥ १८॥
नद्यः पुर्यो गिरिशिखरकाश्चारुमालानि सम्यक्
सद्यः सीरोत्कषणसुरभीण्यम्बुकच्छा मृगाणाम् ।
स्वाद्योद्भिन्नप्रथममुकुलारम्भरम्भाश्च मार्गा
श्चक्राङ्गानां बिसकिसलयच्छेदपाथेयभाजाम् ॥ १९॥
वाटीव्रातः ककुभसुरभिः पक्वजम्बूफलैरा
श्यामारण्यान्यटविकवधूभुक्तिरम्यान्तराणि ।
क्रीडाकुञ्जान्युदयनकथाकोविदग्रामवृद्धा
लापैरुच्चैर्मुखरितजनाकीर्णकेन्द्रस्थलानि ॥ २०॥
उच्चारावैर्गृहबलिभुजां ग्रामचैत्यानि दृश्या
न्यल्पासारैः कुसुमितकदम्बद्रुवाटानि शान्ते ।
सन्ध्याकाले शिवबलिसमारब्धभेरीनिनादः
प्राकारश्चाप्यमृतकिरणोत्तंसदेवालयस्य ॥ २१॥
गेहोत्कण्ठाकुलितमनसं त्वां विधत्ते यदेतत्
सर्वं दृश्यं मम नयनयोरग्रतो मालवीयम् ।
भ्राम्यत्यस्योपरि च सकलस्यात्तवृष्टिः स को वा
कामाकारो भवति मुदिरश्चित्तमार्द्रं कवेर्वा ॥ २२॥ विशेषकम्
जानाम्यर्थं तव तु वचसो यन्न शक्नोमि हातुं
जन्मन्यस्मिन् हृदयनिहितामुज्जयिन्याः स्मृतिं मे ।
वक्रः पन्था भवतु भवतः स्वल्पमप्युज्जयिन्याः
सौधोत्सङ्गप्रणयविमुखो मा च भूरित्यवादीः ॥ २३॥
मेघाय त्वं तदनु नगरी सा च सौन्दर्ययुक्तं
स्वर्गस्यैकं शकलमिति चाप्याह शिप्रानदीस्थम् ।
पद्मोद्गन्धं पटु मदकलं चारवं सारसानां
हृद्योदारं स्मरसि मृदुलं सम्यगम्लानरम्यम् ॥ २४॥
जीवत्येषा विरहविधुरा प्रेयसी तेऽलकायां
छायात्वेनाकलितवपुषीह त्वया ह्युज्जयिन्याः ।
तत्रागारं धनपतिगृहस्योत्तरेणास्ति यस्मिन्
चेतोहारी सुरधनुरिव प्रेक्ष्यते तोरणौघः ॥ २५॥
यस्योद्याने विलसति तया वर्द्धिता कान्तयैका
मन्दारश्रीः किसलयसुमोपात्तभारावनम्रा ।
आराद्धुं यामिव कुरवका माधवी सीधुगन्धा
रक्ताशोकोऽपि च सविनयस्तत्र राजन्ति चारात् ॥ २६॥
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृश्यौ
गेहान्ते सा भवति विरहार्ता हि चालेख्यमाने ।
यस्याश्चित्रे सपदि भजते वेपथुः किं करौ ते
वर्षत्यस्मान्नयनयुगलात् किं सुतप्ताश्रुधारा ॥ २७॥
कार्श्यं गात्रे भवति कृशता मध्यदेशेऽपि चास्ते
श्रोणीभारादलसगमना दृश्यते निम्ननाभिः ।
नम्राङ्गी या चकितहरिणीचञ्चलप्रेक्षणा सा
धातुः सृष्टिष्विह युवतिवृन्देषु चाद्यैव नूनम् ॥ २८॥
चित्ते भित्तौ विरहविधुरस्यात्मनाथस्य रूपं
चित्रीकर्तुं कृशतरमतीवेयमुद्योगिनी स्यात् ।
पृच्छन्ती स्यात् स्मृतिमधुगिरा पञ्जरस्थां शुकीं त्वं
भर्तारं मे स्मरसि करुणार्द्रं च त्वल्लालनोत्कम् ॥ २९॥
उत्सङ्गस्थां मलिनवसनायां च तस्यां विपञ्ची
मुद्गायन्त्यां मधुरमथ तद्बाष्पपातात् समार्द्राम् ।
मृद्विं तन्त्रीं पुनरिह मुहुः सारयन्त्यां च रागं
विस्मृत्यार्ते मनसि निहितं खिन्नखिन्ना भवेत् सा ॥ ३०॥
तालं कृत्वा दशशतदलान्तेष्वथायाति यो वा
शीतो वायुः स इव भवतो भावना नृत्यतीह ।
उज्जैनीस्था विमलहृदया मालवग्रामकन्या
यासावत्र प्रणयविधुरा यक्षपत्नी बभूव ॥ ३१॥
तस्या भर्ता स्वयमपि तथा स्नेहकारुण्यपूर्णो
मेघो यस्या निकटभुवि च प्रोषितस्तत्र गत्वा ।
भक्तिश्रद्धाभरितहृदयः श्रावयत्यादरात् तं
सन्देशार्थं पवनतनयो मैथिलीं तामिव प्राक् ॥ ३२॥
भर्तुर्मित्रं प्रियमविधवेऽहं समावेदये ते
तत्सन्देशं श्रवणमधुरं विद्धि मां वारिदं यः ।
मन्द्रस्निग्धध्वनिभिरुदितैर्दूरदेशं गतेषु
प्रेयस्यालिङ्गनकुतुकितां वर्धयत्यध्वगेषु ॥ ३३॥
विश्वस्तोऽहं मनसि सदयं धार्यतां त्वां विचिन्त्यै
वास्ते प्रेयान् दुरितरहितो रामगिर्याश्रमेषु ।
इत्यर्धोक्ते पठनविरतो मेघदूतस्य सद्यो
भूयो भूयो रणरणिकया वर्धते गद्गदः किम् ॥ ३४॥
शुभ्रज्योत्स्नापुलकितनिशीथे गवाक्षस्य पश्चात्
क्षान्तिं त्यक्त्वा पुनरिह सदाशावहं रूपमेकम् ।
तत्रोद्दीप्तं नयनयुगलं जालकस्यावकाशाद्
वीतालम्बं करतलयुगं लम्बमानं मनोङ्य़म् ॥ ३५॥
स्वस्मिन् वक्त्रे करतलयुगं तत्तु विन्यस्य लब्धः
स्वर्गानन्दः पुनरपि तदा स्मर्यते सर्वमेतत् ।
काव्ये चास्मिन् कथितमितरत् प्रत्यभिङ्य़ानवाक्यं
यत्तन्नुनं रुचिरकवितौचित्यसङ्कल्पजन्यम् ॥ ३६॥ युग्मकम्
पूर्णं कृत्वा विरमति भवान् तच्च सन्देशकाव्यं
स्वीयं रक्तं मुहुरिह कणैरल्पकैः प्रोक्षतीव ।
सन्देशं त्वं विरहविधुरां तां द्रुतं श्रावयित्वा
प्रत्यागन्तुं मुदिरममुनैवाध्वना याचते च ॥ ३७॥
मा भूदित्थं तव च विरहः कान्तया विद्युतापी
त्येवं तस्मै वदसि महदाशंसितं स्वोपकर्त्रे ।
काव्यालापो विरमति तदा मारुतः सन्निकृष्ट
श्चक्रे वृष्टिं बकुलकुसुमैस्तत्र सम्यक् समन्तात् ॥ ३८॥
सान्निध्यं मे किमु न भवता स्मर्यते दूरतस्ते
सञ्चारोत्कं भवति नयनं विस्तृताकाशसीम्नि ।
तामेकान्ते विरहविधुरां मद्बहिःप्राणभूतां
सन्देशं मे कथयितुमये मेघ किं प्राभवस्त्वम् ॥ ३९॥
सा मे कान्ता किमपि वचनं त्वन्मुखेनाब्रवीत् किं
जीवन्ती वा कथमथ भवान् वक्तुमेतत् समस्तम् ।
आगन्ता किं त्वरितमथवा नैव चायास्यसि त्वं
दृश्यन्ते ते वदनकमले नैकभावान्तराणि ॥ ४०॥
कारुण्यार्द्रां प्र्कृतिमतुलां काननीयामिमां त्वां
पश्यस्येकं प्रतिनवमिवाश्चर्यभूतं मनोङ्य़म् ।
आरादासीत्तव तु परिचर्योत्सुकेयं च वृक्ष
च्छायाभूता किसलयमयी चामरा सूर्यतापे ॥ ४१॥
निद्रां कर्तुं परिसृततृणापूर्णशय्या प्रबोध
प्रोद्युक्तोऽयं विहगनिवहो निर्मलो निर्झरौघः ।
माधुर्यार्द्रं फलमिति मनोहारि वैविध्यपूर्णं
तत्सान्निध्यं सुविदितमभूत् किन्नु ते सर्वदापि ॥ ४२॥
वृक्षच्छाया विरहदुरितस्याब्ददीर्घस्य मूका
साक्षिण्येषा भवति भवतः सर्गदुःखस्य चापि ।
मूले चैतद्विपिनबकुलस्योपविष्टः खलु त्वं
यात्राक्लेशाद् बहुषु दिनरात्रेषु भूयः पुरा किम् ॥ ४३॥
यद्यप्येषा धरणिरखिला गेह एव स्वकीयो
विस्तीर्णस्ते तदपि चिरकर्मोत्थबन्धेन चेयम् ।
वृक्षच्छाया कथमपि विहातुं न शक्या भवेत् किं
तिष्ठस्येवं धृतवपुरिहाहत्य दुःखं नितान्तम् ॥ ४४॥
गच्छावोथेत्यवददवनम्य स्वयं भाण्डभारं
धृत्वा स्वांसे सपदि च भवान् चित्तदार्ढ्येन साकम् ।
पृच्छाम्येवं गमनमिह नावुज्जयिन्युन्मुखं किं
क्षिप्रं चैवागतमथ तथेत्युत्तरं त्वन्मुखाब्जात् ॥ ४५॥
नैवैतन्मे गमनमिह तत्रत्यसम्राट्समक्षं
नैवादातुं बहुमतिमिमां काव्यसृष्टिं समर्प्य ।
अन्यत् किं वा फलमिति मया नैव पृष्टं त्वया नै
वोक्तं चापीत्यनुपदमितः प्रस्थितुं प्रारभेथाम् ॥ ४६॥
\\
ह्रुले
*************************************************************
.
त्रयोदशः सर्गः
पुनरप्युज्जयिनीं प्रति
छायाप्रदं प्रणमते बकुलं स संस्प
र्श्यामन्त्रणोत्सुक इवादरपूर्णमारात् ।
वातेरितानि कतिचित् कुसुमानि हस्ते
नादाय जिघ्रति च तन्मृदुगन्धपूरम् ॥ १॥
निक्षिप्य तान्यपि ततो बृहति स्वभाण्डे
सोपानतोऽवतरसि प्रथमात् त्वमस्मात् ।
पश्चादहं च पथि ते प्रतिमूर्तिकल्पो
निःशब्दसाक्षिसदृशश्च चरामि मन्दम् ॥ २॥
प्रातःप्रभृत्यधिकदूरमथा प्रदोषं
गत्वा च पार्श्वतरुमूलतलेषु चान्तः ।
विश्रम्य पावनपुरातनचैत्यकेषु
व्याधोपजीवितकुटीषु वनान्तरेषु ॥ ३॥
जीर्णेषु सत्रनिवहेषु च रात्रिकाले
निद्रामुखेन शयनीयसुखं च लब्ध्वा ।
आरण्यपक्षिततिकीर्तनमालया स
मुत्थाय चाल्पपथिभक्ष्यरुचा चराव ॥ ४॥ युग्मकम्
मार्गे च तत्र पथिकान्तरपादमुद्रा
दृष्टा भवन्ति परिवर्तत एव शब्दः ।
आवां विशालगहनस्थलिकामतिक्र
म्यारादहो जनपदान्तमनुप्रविष्टौ ॥ ५॥
एकाहदूरमित एव भवेदवाप्तौ
स्यावाद्य एव हि तदुज्जयिनीं प्रदोषे ।
ज्योत्स्ना भविष्यति निशामुखपूर्वयाम
एवेति किञ्चन विचिन्त्य भवानवोचत् ॥ ६॥
ङ्य़ातुं न केनचिदिहाधृतविप्रभिक्षु
वेषो भवानगमदग्रत एव वेगात् ।
साध्वन्तरोचितवपुष्यहमप्यथावां
प्राप्तौ पुरीपरिसरे नवगोपुराग्रे ॥ ७॥
विघ्नं न कश्चन चकार पथि क्वचिन्नौ
को वात्र वारयति भूसुरभिक्षुवर्गम् ।
आवां सुखेन चरतः स्म च शुक्लपक्ष
चन्द्राद्ययामकिरणेषु सुदुर्बलेषु ॥ ८॥
अस्याङ्कणस्थसकलस्थलबिन्दवोऽपि
ह्युद्दीपयन्ति विविधस्मरणानि भूयः ।
अद्यात्र सूक्ष्मविकसत्कुसुमस्य गन्धे
नानीयते गतमहानुभवस्मृतिश्च ॥ ९॥
एवं नवीनजननान्तरसन्निभेऽस्मिन्
मार्गे कविश्चरति सौहृदसुप्रबुद्धः ।
वातायनं सकलमेव समावृतं य
स्यास्ते स सौधमवलोक्य तमुच्छ्वसन् किम् ॥ १०॥
अन्विष्यते यदिह सद्म तवेक्षितेन
तज्ङ्य़ानमस्ति न हि मे तदिहानुयामि ।
वैदग्ध्यतो विरहितः परदर्शनेभ्यो
मार्गेऽन्तरा क्वचिदथात्मसुगुप्तिमाप्तः ॥ ११॥
त्यक्त्वा पुनस्त्वजिरवीथिमिहान्तराल
पथ्यन्तरेण वसतेः पुरतः स्थितोऽसि ।
नान्तः प्रविश्य सहसा क्षणमात्रमत्र
तिष्ठन्नथान्तरिकमेव निरीक्षसे त्वम् ॥ १२॥
अन्तः प्रकाशयति कश्चन दीपकोऽसौ
मन्दं समाह्वयसि देहलिकागतस्त्वम् ।
स्पृष्ट्वा कवाटमथ पल्लव इत्यनेन
नाम्ना ह्यतीवमृदुपल्लवसुस्वरेण ॥ १३॥
आङ्य़ानुसारमिह ते स्थितवानहं तु
छायान्तरं किमपि संश्रित एव पश्चात् ।
मन्त्रस्य पल्लव इति प्रथितस्य तस्य
जापेन किं स्वयमितो विवृतं कवाटम् ॥ १४॥
नैव स्वयं विवृतमत्र विवृत्य गेह
द्वारं स पल्लव इहैव समागतोऽस्ति ।
यद्यप्यहं प्रथममेव निशामयामि
सोऽयं चिरन्तनसुहृत्सदृशो ममास्ते ॥ १५॥
सोऽयं भवन्तमिह न प्रथमं विवेद
सत्यं भवांश्च परिवर्तित एव नूनम् ।
काषायवस्त्रमपसार्य जवेन भैक्षं
साक्षात्स्वरूपमथ दर्शितवानसि त्वम् ॥ १६॥
पश्यन् मुहुर्मुहुरपीह भवन्तमेव
स्थित्वाञ्जसाद्भुतविकस्वरलोचनोऽसौ ।
उच्चैरथोच्चरितवान् प्रियकालिदास
शब्दं तु भूतपरिबाधितवत् सहर्षम् ॥ १७॥
विन्यस्य मन्त्रयति किन्न्वधरेऽङ्गुलिं स
मा मेति नागममिहाद्य तु कलिदासः ।
किंत्वस्मि ते प्रियपुरातनमित्रमेव
मा मा ब्रवीतु मम नाम पुरः परेषाम् ॥ १८॥
केशादिपादमिह सातिशयं निरीक्ष्य
त्वामाह गद्गदगिरा स तु पल्लवाख्यः ।
अर्धीभवत्तव शरीरमिदं च वर्षे
णैकेन सोढमतिदुःखभरं व्यनक्ति ॥ १९॥
नैव
;
त्वहं परमतुष्टिमवापमेव
चैकान्तवाससमये किल रामशैले ।
प्रत्यागतं च भवता यदिदं त्वकस्मा
दत्यर्थमस्य नयने गिरि चाशु मोदात् ॥ २०॥
नाहं परैरिह च दृश्य इति ब्रुवन्ने
वान्तःप्रविश्य भवनस्य भवांश्च तस्थौ ।
पानोपचारमकरोदथ दीर्घयात्रा
प्रत्यागतद्विककृते कवये च मे च ॥ २१॥
सत्कारमप्यनतिदीर्घसुभाषणं च
सर्वं चकार निभृतं विगतारवं च ।
प्रत्यागतिं तु महितोज्जयिनी किमर्थं
जानाति मे पुनरियं तव चोद्यमेतत् ॥ २२॥
भावत्कनिर्गमनतः परमत्र नास्त्ये
काहो यदा न कथितं तव नाम राङ्य़ा ।
आस्थानगायकवराश्च विपञ्चिकायां
गायन्ति कर्णमधुरं तव काव्यजातम् ॥ २३॥
जानाति यद्यवनिपस्तव चागतिं प्र
त्युद्यात्यसंशयमिहान्यनृपं यथा त्वम् ।
शेषं समस्तमपि तेऽस्तु यथाहितं चे
त्युक्त्वा विनिःश्वसति हा प्रियपल्लवोऽसौ ॥ २४॥
अक्षोभ्य एव सकलं तु भवान् निशम्य
तिष्ठत्यहं तदवलोक्य च विस्मितोऽस्मि ।
सङ्गृह्य पल्लवकरं विवृताखिलात्म
भावं ददौ स्वहृदयं च भवानिवास्मै ॥ २५॥
शान्तश्च दीनहृदयश्च भवान् स्वकीय
शिष्टाभिलाषमथ तं वदतीह मन्दम् ।
साक्षी तु केवलमिहास्य विदूरकोणे
तिष्ठन्नहं च मृदुरस्तमयंश्च दीपः ॥ २६॥
स्नेहालुरत्र मयि हा प्रियपल्लवस्त्व
मेवेति वच्मि कमिदं च सखे त्वदन्यम् ।
नैवाग्रहोऽस्ति वसितुं च ममोज्जयिन्या
मेवं न मे बहुमतिं समवाप्तुमिच्छा ॥ २७॥
अस्मिंस्तु जन्मनि ममास्त्यभिलाष एक
स्तत्पूरणाय तव देहि सहायहस्तम् ।
जीवोऽपरोऽस्ति मम सा कथमप्यतस्तां
दृष्ट्वा कृतार्थहृदयस्त्वचिरेण यामि ॥ २८॥
अन्तःपुरे नृपवधूरमणीयरत्न
हर्म्येऽथवा विविधशिल्पविचित्रकुड्ये ।
शालासु वा नटनगेहगतासु गम्भी
रोदारसुन्दरकृतासु महानटीनाम् ॥ २९॥
देवालयेषु च समर्पितदेवदासी
गेहेषु वा धरणिदेवसमृद्धिमत्सु ।
अन्यत्र वा भवति सा किमियं ममाशा
द्रष्टुं च तां सकृदतः प्रतियामि शीघ्रम् ॥ ३०॥ युग्मकम्
वक्तव्यमेव किमिदं कथमत्र वक्तुं
शक्यं यदेतदनभिङ्य़तयास्तबोधः ।
नेत्रे त्वकारणभयं त्विव वर्तमानं
वाग्भिर्निगूहितमिवाशु गुहान्तरे च ॥ ३१॥
एवंविधा भवति पल्लवभावरूप
साधारणस्थितिरयं च विषादमूकः ।
हस्तेन हस्तमपि ते परिगृह्य दक्षि
णाशागतेन तु पथा नयति क्रमेण ॥ ३२॥
अस्ताचलोन्मुखगतोऽस्ति च शीतभानु
रासन्नमृत्युरिव हा क्षयकासरोगी ।
भूमौ शनैः पतति यो गगनप्रकाश
स्तस्यैव चास्फुटमनातपवद् भवावः ॥ ३३॥
गच्छत्यसौ च भवता सह पल्लवोऽपि
गेहाङ्कणस्य कुहचित् किल पार्श्वभागे ।
तिष्ठत्यसाविह सुमाञ्चितकायमान
कल्पं पुरोऽस्ति नवनीतशिलाकुटीरम् ॥ ३४॥
आन्दोलिका भवति काचन मण्डपेऽस्मिन्
मन्दारजातिशतभीरुसितस्रगाढ्या ।
सम्यग्विभूषितवती पुरतश्च यस्या
मन्दं ज्वलत्किरणकोऽस्ति शिलाप्रदीपः ॥ ३५॥
सञ्जल्पितुं किमपि न प्रभवंस्तथैव
तस्थौ तदा परवशः खलु पल्लवोऽसौ ।
एतन्निगूढतरकारणकार्यभावं
ङ्य़ातुं न शक्त इति हा स्थितवान् भवांश्च ॥ ३६॥
ग्रामे पुरा प्रकृतिमोहनमालवाख्ये
या डोलिका गगनसीम्नि तिरोहिता सा ।
तस्याः पटावरणतः कमपि प्रगाढ
मन्वेषयत्ससलिलं नयनद्वयं च ॥ ३७॥
भूयोऽपि हा स्मृतिपथे सहसा समाया
त्याहात्र मित्रमपि हृन्निहितस्वहस्तः ।
आन्दोलिकेयमिह हा भवतः प्रियायाः
स्थानेऽवशिष्यति च तत्स्मृतिमावहन्ती ॥ ३८॥ युग्मकम्
याता क्व सा वद सखे प्रियवल्लभायाः
स्थाने कथं भवति हा खलु डोलिकेयम् ।
एवं जवाद् भवति पृच्छति पल्लवोऽपि
किं वच्मि हेत्यतुलसम्भ्रममानसोऽभूत् ॥ ३९॥
गाढं पुनः स तु कवेः सुकरं गृहीत्वा
तस्थौ विमूकमथ मन्दमुवाच चैवम् ।
वक्ष्याम्यहं सकलमेव दुरन्तवृत्तं
त्वद्यानतःपरमिहोज्जयिनीपुरीस्थम् ॥ ४०॥
\\
ह्रुले
***********************************************************
.
चतुर्दशः सर्गः
आन्दोलिकायाः कथा
उच्चस्थः पूर्णचन्द्रोऽस्तमयतेऽसमये यथा ।
तथा तस्मिन् कविश्रेष्ठे निष्क्रामति कुतश्चन ॥ १॥
खिन्नाश्चाराधकास्तस्य चान्विष्यति परस्परम् ।
कुत्रागच्छत् किमर्थं वा कथं वेति कदेति वा ॥ २॥
किमासीदात्ममित्रं स कविर्नश्चक्रवर्तिनः ।
किमासीत् सत्कविः सोऽयमुज्जयिन्याः सुभूषणम् ॥ ३॥
अप्रतीक्षितमेतत्तु तिरोधानं किमर्थकम् ।
इत्यचिन्ति परं तस्य सुमनोभिः सुहृत्तमैः ॥ ४॥ युग्मकम्
वार्ता यथेच्छं निर्माय व्यापयन्ति दिवानिशम् ।
प्रतिकारत्वरादग्धाः कविकीर्त्यभिलाषुकाः ॥ ५॥
प्रणयोऽभूच्चक्रवर्तिसहोदर्यां कवेः किल ।
बहूनविनयान्यन्यान्यपि चक्रे कविः किल ॥ ६॥
ङ्य़ात्वैतत् सकलं राजा क्रुद्धोऽभूदित्यनन्तरम् ।
आङ्य़ां चकारोज्जयिनीं त्यक्त्वा गन्तुमिति क्षणात् ॥ ७॥
इत्थं निराकृतो लज्जानम्रशीर्षः कुतश्चन ।
निश्चक्राम कविस्त्वेवं व्याप्नुवन् बहुधा कथाः ॥ ८॥
सत्कृत्याराधितवतीं राजकीयामुदारताम् ।
धिक् चक्रे किं कवीन्द्रोऽयं निर्दयत्वेन केवलम् ॥ ९॥
स्वच्छन्दाय विहाराय स्वातन्त्र्यं यो मुदा ददौ ।
विश्वासं तं वञ्चितवान् कविः किं स नराधमः ॥ १०॥
श्रुतं सर्वं सत्यमिति विचिन्त्याहुश्च केचन ।
शुश्रूषवोऽभवन् केचित् सत्यं निर्मलमश्रुतम् ॥ ११॥
कवेरभावे राजा तु मौनमेव भजन् स्वयम् ।
खिन्नवद् भवति स्मैवं बहवो दिवसा गताः ॥ १२॥
ऋतुमङ्गलसंशुद्धं प्रथमं कुसुमं वहन् ।
द्वारं गतोऽभूद् भूयोऽपि वसन्तर्तुर्यथापुरम् ॥ १३॥
बालातपः सुवर्णाभो हृद्यालापः पिकस्य च ।
शतवर्णलयोल्लासः प्रमदोद्यानतल्लजे ॥ १४॥
मधुवाचां सुन्दरीणां रागनैवेद्यमेव च ।
अथैवं हृदयं भूपो विषादात् प्रविमुक्तये ॥ १५॥
ऋतूत्सवमदोन्मादलहरीं पुनरिच्छति ।
व्रणितोऽपि मुहुर्वंशो गायत्येवानिलागमे ॥ १६॥ युग्मकम्
भूयोऽपि जागरूकाभून्नाट्यगेहोपशालिका ।
नाट्याचार्याः समायान्ति विदग्धनटसंयुताः ॥ १७॥
अस्मिन् वर्षे विक्रमोर्वशीयमेव प्रयोजयेत् ।
इत्याशा विक्रमादित्यमानसेऽङ्कुरिता किल ॥ १८॥
पुरा मालविका याऽऽभूत् तथा चापि शकुन्तला ।
सैव कन्या प्रयोगेऽस्मिन्नुर्वश्यपि भविष्यति ॥ १९॥
कुमारिकायास्तस्यास्तदुर्वशीवेषदर्शनम् ।
सर्वेषामभिलाषोऽस्ति राङ्य़ः किल विशेषतः ॥ २०॥
सूत्रधाराङ्गुलीक्लिप्तचलनानुसृतं तथा ।
चञ्चा चलति तद्वत् सा चलत्येवैकयन्त्रवत् ॥ २१॥
अभ्यासानन्तरं तस्याश्चिन्तयन्त्याः पुरोभुवि ।
आयाति स्म ससन्तोषं चक्रवर्ती कदाचन ॥ २२॥
नाजानात्तं नृपं सा स्वामभिनन्दितुमागतम् ।
प्रत्युज्जगाम तं नैव भक्त्यादरपुरस्सरम् ॥ २३॥
न दुर्वासा नृपस्तस्मान्न शशाप रुषा च ताम् ।
क्षमावानिव तत्रैव तस्थावस्वस्थमानसः ॥ २४॥
आचार्ये स्मारयत्यश्रु धारयन्ती निरन्तरम् ।
न किञ्चनापि कमपि वक्तुं शक्ता स्थितैव सा ॥ २५॥
स्मृत्वा कं वा तया तस्थौ स्थायि किं नयने भयम् ।
रङ्गे हित्वा स्मितसुमं तन्मुखे किं न राजते ॥ २६॥
तथापि साक्षाज्जीवत्येवोर्वशीत्वेन रङ्गके ।
अन्यत् सर्वं तदा नूनं विस्मरत्यवनीपतिः ॥ २७॥
चरितं नृपतेः शत्रुविजयस्यैव केवलम् ।
विजितास्तेन शकवत्पराक्रमपरायणः ॥ २८॥
तस्य वाकाटका राष्ट्रकूटाश्च सुहृदः परम् ।
दक्षिणे दिशि सख्यं तद् दुर्गमेव सुनिर्मितम् ॥ २९॥
ध्वजं स्थापितवान् तस्य दुर्गस्योपरि विक्रमः ।
सुतां प्रभावतीं दत्वा वाकाटकमहीपतेः ॥ ३०॥
असौ विधिवशाद् राङ्य़ी त्वकाले विधवाभवत् ।
तथापि पुत्रस्य कृते राज्यभारमुवाह सा ॥ ३१॥
नैसर्गिकी सुखासक्तिः सुते यद्यप्यवर्धत ।
तथापि राज्यं दुःखार्ता तस्मिन्नेव निचिक्षिपे ॥ ३२॥
विक्रमार्कोऽप्युत्सवस्य प्रददौ च निमन्त्रणम् ।
सर्वेभ्यो मित्रराजेभ्यः स्वदौहित्रनृपाय च ॥ ३३॥
ततः समागतस्तत्र मुदा चैत्रमहामहः ।
रङ्गप्रदीपाः सर्वत्र प्रज्वलन्त्यधिकाधिकम् ॥ ३४॥
विक्रमार्कः समायाति मित्रराजवरैः सह ।
तथा प्रवरसेनोऽप्यायाति दौहित्रभूपतिः ॥ ३५॥
अतिवात्सल्यपूर्वं स पितामहनृपालकः ।
करं गृहीत्वा दौहित्रमुपवेशयति क्षणात् ॥ ३६॥
तद्दृश्यदर्शने हर्षबाष्पधाराकुलाभवत् ।
प्रभावती च नैपथ्यमभूत् सङ्गीततुन्दिलम् ॥ ३७॥
उन्नीयते यवनिका रङ्गभूमिरनावृता ।
प्रेक्षकाक्षीव हृदयं समुत्फुल्लं च वर्तते ॥ ३८॥
पुरूरवा हेमकूटात् प्रत्यागच्छति सत्वरम् ।
तत्सुवर्णरथान्मन्दमवरोहत्यथोर्वशी ॥ ३९॥
तदारभ्यान्तिमं रङ्गं यावदत्र प्रशोभते ।
उर्वशीवेषधारिण्याः प्रयोगकृतहस्तता ॥ ४०॥
तस्यां मुग्धमना भूत्वा दौहित्रयुवभूमिपः ।
पितामहस्य सान्निध्येऽप्यानन्दविवशोऽभवत् ॥ ४१॥
पञ्चाङ्केष्वथ पूर्णेषु मङ्गलोद्गीतपूर्वकम् ।
नाटकान्ते यवनिका संवृणोति च वेदिकाम् ॥ ४२॥
तद्दिनेऽप्यभिनेतारः सर्वे साञ्जलयो द्रुतम् ।
नृपोत्तमस्य सविधमागच्छति यथापुरम् ॥ ४३॥
न पश्यन्ती मुखं कस्याप्यानतास्या कृताञ्जलिः ।
आगम्य या गता तत्र नैव तस्थौ कलामपि ॥ ४४॥
को वा निःसङ्गभावोऽस्या मुखेऽस्तीति ससंभ्रमम् ।
श्रद्दधानोऽभवत् किं स गूढं विक्रमभूमिपः ॥ ४५॥
निर्ममे नयतन्त्रे सुशिक्षणं च ततोऽधिकम् ।
मातुश्चातन्द्रवात्सल्यमपि यं समनीयत ॥ ४६॥
सत्पथेन युवा सोऽपि नृपः प्रवरसेनकः ।
दिवानिशं पश्यति हा हृदि तां देवसुन्दरीम् ॥ ४७॥
मातैव शरणं सैव वात्सल्यं सान्त्वनं तथा ।
तस्मात् पुत्रः साभिलाषं मातुरग्रे न्यवेदयत् ॥ ४८॥
प्रभावत्या यथा नैजपुत्रः प्रवरसेनकः ।
तथा सापि पितुः प्रीतिभाजनं समभूत् सदा ॥ ४९॥
तस्मादादरपूर्वं सा जगाम पितृसन्निधौ ।
प्रियपुत्रस्याभिलाषं निवेदयितुमञ्जसा ॥ ५०॥
निःशब्दं सर्वमेवासौ शुश्रावावहिताशयः ।
शान्तश्च किन्तु न प्रत्युवाच चिन्ताकुलो नृपः ॥ ५१॥
पुत्र्या यदुक्तं तत् तस्य प्रत्यभादहितं किमु ।
न किमङ्गीकरोत्येष सुतायास्तं मनोरथम् ॥ ५२॥
यदा तत् कन्यकारत्नं स्वीयं कर्तुमकाम्यत ।
तदारभ्य नृपस्याभूद् भूयो भूयोऽशुभोत्करः ॥ ५३॥
विश्वप्रकाशकं रत्नमपरं लज्जया विना ।
नृपेण यत् परित्यक्तं तस्यापीयं हि कारणम् ॥ ५४॥
तथापि तस्या निःसङ्गभावोऽयं किं नृपं प्रति ।
तामेव चिन्तयित्वा किं तपत्यन्तः पुनः पुनः ॥ ५५॥
क्रन्दत्यहो किं सारङ्गी कापि नाट्यगृहान्तरे ।
कश्चित् सन्तप्तहृदयस्पन्दः किं नूपुरारवः ॥ ५६॥
विस्मर्तुं तन्मालवीयलावण्यं शक्यते कथम् ।
एवं दुःखाग्निरेकोऽस्मिन् हृदये जाज्वलीति किम् ॥ ५७॥
किं कर्ममूढो राजासौ मन्त्रिभिर्मन्त्रयत्यलम् ।
पित्रर्थं निजतारुण्यं परितत्याज किं पुरुः ॥ ५८॥
वव्रे नित्यब्रह्मचर्यं भीष्मः किन्नु पितुः कृते ।
साहसं तत् सुतार्थं तु त्यागो धर्मो न संशयः ॥ ५९॥ युग्मकम्
वात्सल्यस्निग्धमाधुर्यमाप्नोति नृपहृत्तटम् ।
पुत्र्याः कृते पुनः पुत्रीपुत्रस्य च कृते शनैः ॥ ६०॥
नव्यप्रभातवेलायां चन्द्ररश्मिव्रजो यथा ।
लीयते हृदयामोदशीतलः स मनोरथः ॥ ६१॥
आमन्त्रणार्थं तिष्ठन्तीं पुत्रयुक्तां प्रभावतीम् ।
वात्सल्यार्द्रो नृपो वक्ति यथेच्छं वां भवत्विति ॥ ६२॥
ऋतूत्सवः समाप्तस्ते गताश्चातिथयः समे ।
वाकाटकमहीपालो न गत्वात्रावशिष्यते ॥ ६३॥
अन्येद्युः सप्त चान्दोलाः स्थिता राजगृहाङ्कणे ।
अग्रे प्रवरसेनस्य प्रभावत्यास्ततः परम् ॥ ६४॥
ततः पञ्चसु डोलासु नीताः पञ्च कुमारिकाः ।
आनीयते सा प्रथमं सखीभिः परिवारिता ॥ ६५॥ युग्मकम्
पूर्वेद्युर्नाट्यशालायामुर्वशीवेषधारिणी ।
रराज या सैव चात्र पूर्वमानीयते शनैः ॥ ६६॥
विभूषणविहीनैव शालीना चारुता हि सा ।
तस्याः सख्यश्चतस्रोऽन्तःपुरस्थास्तदनन्तरम् ॥ ६७॥
नेत्रमार्द्रं विक्रमस्य भवत्यस्याः समीक्षणे ।
आत्मन्येव विलीयन्ते सन्तप्ताश्रूणि किं तदा ॥ ६८॥
गौरवं न परित्यज्य तिष्ठत्यत्र महीपतिः ।
असौ मालवकन्या तु न पश्यति परिस्थितान् ॥ ६९॥
शुभ्रवस्त्रं स्वल्पमात्रमलङ्कारास्तथापि सा ।
सम्पश्यमाना सर्वैरप्यप्सरा इव राजते ॥ ७०॥
कालाख्यनेत्रपक्ष्माग्रे सान्द्रीभूता विलम्बिनी ।
विलोलतरला बाष्पबिन्दुवत् सा विराजते ॥ ७१॥
शिबिकावाहकानां सुमन्द्रगम्भीरसंरवैः ।
सप्त चान्दोलिकाः शीघ्रं पुरोगच्छति पङ्क्तिशः ॥ ७२॥
एषा चोज्जयिनीगाढकामिता मुक्तिकापरा ।
अतिगच्छति हा कुत्र तद्वासः स्यादितःपरम् ॥ ७३॥
न शक्यं शुक्तिकामेव प्रतिगन्तुमितःपरम् ।
वारान्निधावेव भूयः पतनं चापि दुर्घटम् ॥ ७४॥
स्वायत्तीकृतवान् यस्तां मुक्तां सोऽप्यचिरादहो ।
अन्यस्मै प्रददात्येतद्दुरन्तं नावसीयते ॥ ७५॥
रक्षार्थं पुरतः सन्ति हयारूढाश्च सैनिकाः ।
पश्चात्त्वश्वाकृष्टदीर्घवाहनानां परम्परा ॥ ७६॥
वाहनानि सुपूर्णानि भाण्डैर्भारभृतैस्तथा ।
सप्ताहयात्राभुक्त्यर्थमिष्टपाथेयसञ्चयैः ॥ ७७॥
चतुर्नरभृतः कर्णीरथः सञ्चरति द्रुतम् ।
अष्टपादो जन्तुरिव दीर्घरम्यपथे भुवि ॥ ७८॥
क्रमेण चावरुह्यन्ते सप्त चान्दोलिकाः पथि ।
तमोयामेषु चायासश्रान्त्यै सङ्केतसीमसु ॥ ७९॥
सप्ताहयात्रासन्ध्यासु प्रतिसङ्केतमन्दिरम् ।
डोलावरूढान् सकलान् प्रत्युद्गन्तुं यथाविधि ॥ ८०॥
विश्रामगेहेष्वानेतुं दातुं चेष्टसुभक्षणम् ।
भयभक्तियुतास्तस्थुर्नृपसेवकसंहतिः ॥ ८१॥
दिनदीर्घा च यात्राथ विश्रान्तिभजनं निशि ।
अतःपरं त्वहोरात्रमेकमेवावशिष्यते ॥ ८२॥
रेवायाश्चापरे पारे वाकाटकमहीपतेः ।
प्रियं जनपदं भक्त्यादरात् प्रत्युद्गमिष्यति ॥ ८३॥
एवं षष्ठी समायाता सन्ध्या तत्र यथापुरम् ।
सङ्केते विरतिं प्राप्ता सप्त चान्दोलिकागतिः ॥ ८४॥
डोलावरूढान् मनुजान् भक्त्यादरपुरःसरम् ।
प्रत्युद्गन्तुं समायाता नृपालपरिसेवकाः ॥ ८५॥
विक्रमार्कमहीपस्य प्रियपुत्री प्रभावती ।
तस्याः पुत्रश्च विश्रान्तिगेहमुद्दिश्य जग्मतुः ॥ ८६॥
पश्चाद्भवाया डोलायाः पटानावरणे समैः ।
दृश्यते मीलिताक्षी सा शयानैव च कन्यका ॥ ८७॥
सख्यस्तामाह्वयन्त्युच्चैः स्वरैरथ ससंभ्रमम् ।
निद्राणेव सुखं सा तु दृश्यते शयनासने ॥ ८८॥
किमित्यन्विष्यन्ति सर्वे सोद्वेगं तदनन्तरम् ।
जानन्ति सत्यमेकं तद् विस्मयस्तब्धमानसाः ॥ ८९॥
निराहारा भवन्त्यासीद् दिनसप्तकमत्र सा ।
सखीभिः प्रेरितायां तु निःशब्दैरासने स्थिता ॥ ९०॥
मृत्युश्याममरालेन दष्टं यद् बिससूत्रकम् ।
तत्सन्निभेन हस्तेन विन्यस्तं च निजोरसि ॥ ९१॥
दुकूलं दृश्यते यस्मिन् राजमुद्रोज्ज्वलाङ्किता ।
सुवर्णशृङ्खला रम्यनवरत्नविराजिता ॥ ९२॥ युग्मकम्
दत्वान्त्यचुम्बनं फाले क्षौमेनावृत्य विग्रहम् ।
राजमातापि सन्तप्ता तस्यास्तस्मिन् जडे तदा ॥ ९३॥
अश्रूण्यन्त्योदकत्वेन पातयामास सन्ततम् ।
मालवस्याङ्क एवान्त्यतल्पं मालविकावृतम् ॥ ९४॥ युग्मकम्
आन्दोलषट्कं नृवहं मालवात् पुरतोऽगमत् ।
नृशून्यया डोलिकया त्वैकया चापरे जनाः ॥ ९५॥
दुःखभारेण सन्तप्ताः प्रतिजग्मुर्महापुरीम् ।
स्मर्तुं स्मृत्वाशु मार्ष्टुं च डोलैवेहावशिष्यते ॥ ९६॥ युग्मकम्
नवनीतशिलामण्डपेऽस्मिन् डोलां निचिक्षिपे ।
यत्र राङ्य़ा प्रज्ज्वलिता चैका सौवर्णवर्तिका ॥ ९७॥
अद्यापि नैव निर्वाणा वर्तते किमियं पुरः ।
भग्नस्य तस्य प्रणयदीपस्य प्राणनालिका ॥ ९८॥ युग्मकम्
विरामचिह्नमेतस्याः कथायाः पल्लवोऽकरोत् ।
दुःखबाष्पेण न द्रष्टुमनयोस्तु परस्परम् ॥ ९९॥
शक्यते किन्त्वात्मतापमुभौ जानीत एव किम् ।
तस्मात् किं पल्लवः सम्यगाश्लिष्यति सुहृत्कविम् ॥ १००॥ युग्मकम्
अथ तत्स्वर्णडोलायाः पुरतस्तत्र मीलतः ।
दीपस्य पुरतः स्वीयं दूतकाव्यं समार्पयत् ॥ १०१॥
तच्च काव्यं कवेः स्नेहदुःखानामक्षरात्मकम् ।
रूपमेवास्य हृदयमेव तच्छान्तसुन्दरम् ॥ १०२॥
आन्दोलिकान्तर्दृष्ट्वासौ पश्यन् किञ्चिदिव स्थितः ।
अश्राव्यवेगं वातेनाव्यक्तमाक्रन्दनं यथा ॥ १०३॥
अप्रत्यक्षो बभूवासौ कविः शून्ये तमस्यहो ।
कालोऽपि पूर्णनैश्चल्यं प्रापेवैकनिमेषके ॥ १०४॥ युग्मकम्
निखिलं शब्दजातं यत् तदस्तङ्गमितं किमु ।
अप्रत्यक्षोऽभवत् कालबोधोऽपीति प्रतीयते ॥ १०५॥
सर्वं स्वप्नोऽभवत् किन्नु किं वा स्वप्नस्य सत्यता ।
स्वप्न इत्युच्यते सत्यस्यैव मायामुखं किमु ॥ १०६॥
असंख्यानां दुरूहाणां समस्यानां च पूर्तये ।
काले तपति यो दृश्यप्रपञ्चाद् भौतिकादतः ॥ १०७॥
निश्चक्राम कविः सोऽयं सञ्चरत्यधुनापि किम् ।
हृद्यसूक्ष्मध्वनीन् कुर्वन् मर्त्यचित्तेषु सन्ततम् ॥ १०८॥ युग्मकम्
ममावबोधोज्ज्वलभूर्जपत्रे
व्यालेखितां तेन च सत्यगाथाम् ।
गायामि काले पथि सोत्सुकान् नः
कुर्वन्तु जन्मान्तरसौहृदानि ॥ १०९॥
***************************************************
]