Source: TW
‘टुडे’-स्मृतिः
संकलयिता- कविराज जगन्नाथ झा शास्त्री
प्रकाशकः
श्री वैद्यनाथ झा शास्त्री
जगन्नाथ स्मारक समित्यध्यक्षः
नेपालराज संस्कृत महाविद्यालय,
मटिहानी पो० मधवारपुर,
जि० दरभंगा
वि० सं० २०१४ माघ शुक्ल पञ्चमी
मूल्य : २५ नये पैसे
००
विस्तारः (द्रष्टुं नोद्यम्)
संकलयिताका चित्र-परिचय
कविराज जगन्नाथ झा शास्त्री
जन्म तिथि : सं० १९९३]
कार्त्तिक ३० शनिवार
[ निधन तिथि: सं० २०१३
भाद्र शुक्ल ८ मंगलवार
संलग्न चित्र प्रस्तुत पद्योंके संकलयिता कविराज जगन्नाथ झा शास्त्री का
1 आपका जन्म
मिथिलाके प्रसिद्ध कुजौली वंशमें
ग्राम शाहपुर, पो० लोहट, जिला दरभंगा में हुआ ।
बालकालमें ही आपकी माता परलोक चल बसीं।
बाद में आपके पिताने जो मटिहानी-स्थ-नेपालराज-संस्कृत महाविद्यालय के प्राचार्य हैं,
वहीं आपका लालन-पालन एवं शिक्षा-दीक्षाका प्रबन्ध किया ।
आपने पन्द्रह वर्षकी उम्र में ही
आयुर्वेदकी शास्त्री परीक्षा पास कर ली ।
श्रीनेपाल सरकारने आपकी प्रखर प्रतिभासे प्रसन्न होकर
आपको १२० रुपयेकी मासिक छात्रवृत्ति देकर
राजकीय आयुर्वेद महाविद्यालय, पटना भेज दिया।
आप वहाँ तृतीय वर्ष के छात्र थे ।
आप इतने प्रत्युत्पन्नमति थे कि
जिस यन्त्रको एकबार निरीक्षण कर लेते थे
उसकी मरम्मत आप आसानीसे कर सकते थे ।
गाने-बजाने एवं चिकित्सा में
आपकी प्रशंसनीय प्रतिभा थी।
आप विनयके मूर्ति
एवं लोकसेवाके अग्रदूत थे ।
परन्तु ऐसे चतुरकी चाह स्वर्ग में भी रहती है।
अतः आप गत १९५६ के सितम्बर महीनेकी ११ तिथिको
लगभग बीस बर्षकी अल्पायुमें ही
सांसारिक लीला समाप्तकर चल बसे ।
आपके द्वारा संकलित
प्रस्तुत पद्योंको
हम प्रकाशित कर रहे हैं।
इससे यदि आर्य-संस्कृतिका
कुछ भी लाभ हुआ
और नव्य शिक्षित बाबुओंका कुछ भी सुधार हुआ,
तो दिवंगत आत्माको अवश्य शान्ति मिलेगी ।
निवेदक :–
अध्यक्ष,
जगन्नाथ स्मारक समिति, मटिहानी ।
दो शब्द
साहपुर निवासी मेधावी युवक जगन्नाथ झा द्वारा संकलित
‘टुडे ‘स्मृति’ को मैंने आद्योपान्त पढ़ा ।
इसमें आधुनिक सभ्यताभिमानी व्यक्तियोंका चरित्र-चित्रण
अत्यन्त रोचक संस्कृत शब्दों में किया गया है।
यह प्रतिभाशाली युवकका हृदयोद्गार -
इनकी आलोचक दृष्टि में स्तुतिमुखद्वारा
उन परिणामों की ओर संकेत करता है,
जो भारत जैसे सुसभ्य देशके लिए अनुकूल नहीं है ।
अतः इन मनोरम पद्योंका प्रकाशन
भारतीय युवकोंके धूमिल जीवन-पथको
आलोकित कर सकेगा ।
साथ ही खेद है कि,
ऐसे भावुक युवकका अकाल कवलित होना-
उदयकालमें ही अस्तके जैसा प्रतीत होता है;
जो सामाजिक क्षतिका द्योतक है । (5)
श्रीकृष्ण मिश्र प्रधानाचार्य
शिवगंगा आयुर्वेद महाविद्यालय
मधुबनी (दरभंगा)
सामान्यधर्मनिरूपणम्
प्रस्तावना
एकदा ‘चेयरा’(=chair) ऽऽसीनं
‘टुडे’ धर्म्म-विदांवरम् ।
महर्षि ‘फैशनाचार्य्यं’
जैण्टलमैनाः समभ्ययुः ॥१॥
सम्यग् हुत-‘सिगारा’स् ते
स-‘बूटा’ ‘हैट’-पाणयः ।
‘गुड मार्निङ्ग’ इति प्रोच्य
स्थित्वाऽपृच्छन् सुसादरम् ॥२॥
भवान् ‘टुडे’ धर्म्मविदां वरिष्ठो
‘न्यू फैशना’-ऽगाध समुद्र-मन्थः ।
‘रिफार्मराणां’ धुरि कीर्त्तनीयो
ऽस्मान् ब्रूहि सर्व्वं कलिधर्म्मतत्त्वम् ॥३॥
‘फैशनाचार्य’ उवाच:—
शृणुताऽवहिताः सौम्या !
‘टुडे’ धर्मान् कलिप्रियान् ।
“ऎवॊल्यूशन थ्यूर्या” ये
नित्यं ‘गिर्गिट’(=chameleon)--रूपिणः ॥४॥
सृष्टिक्रमः
जलेषु ‘हर्कतो’ जज्ञे
मत्स्या ‘हर्कत’-सम्भवाः ।
त एव जाता मण्डूका
अथ ते पक्षिणोऽभवन् ॥५॥
पक्षिभ्यः पशवो जातास्
तेऽपि वानरतां गताः ।
घृष्टपुच्छा वानरास्ते
नरा लोकेऽस्मदादयः ॥६॥
धर्माचार्याः
‘लूथरो’ ‘डार्विनश्’ चैव
‘वेनो’(=??) ‘रायश्च’ ‘कापड़ी’ ।
‘गौड़ः’ ‘शारद’ एते हि
कलि-धर्म्म-प्रवर्त्तकाः ॥७॥
विस्तारः (द्रष्टुं नोद्यम्)
१ - कुर्सी । २ - अाधुनिक । ३-भद्रपुरुष । ४-सुधारक । ५- मानव- विकास सिद्धान्त ।
( २ )
धर्मलक्षणम्
‘लेडी’ ‘फ्रैण्ड्स” ‘समाचाराः’
‘स्वस्य च प्रियम् आत्मनः’ ।
एतच्चतुर्विधं प्राहुः
‘टुडे’ धर्मस्य लक्षणम् ॥८॥
प्रामाण्याप्रामाण्ये
‘मन्थली’ ‘वीकली’ ‘डेली’
पत्रैर् युरोप-निःसृतैः ।
यत्किञ्चिल् लिख्यते तद्वै
स्वतः प्रामाण्यमर्हति ॥६॥
वेदशास्त्रपुराणेषु
‘ओल्ड फैशन’ मानवैः ।
यद् उक्तं तन्न संसेव्यं
‘टुडे’ धर्म्मविरोधि तत् ॥१०॥
वर्णविचारः
विप्र-क्षत्रिय-विट्-शूद्रा
वर्णा ये ‘पोप(=??)’-कल्पिताः ।
‘अनेचरत्वाद्" ‘डर्टि’त्वाद्
अप्रत्यक्षाद् वृथैव ते ॥११॥
श्वेतश्यामौ तु वर्णौ द्वौ
‘नेचुरल्’ परिकीर्त्तितौ ।
‘यूरोपे’ लभ्यते ‘श्वेतः’
‘इण्डियादिषु" ‘श्यामकः ’ ॥१२॥
तयोर्धर्मान् प्रवक्ष्यामि
यथाशास्त्रं निबोध तान् ।
गौरवर्णधर्माः
श्वेतश्च जायमानो हि
पृथिव्यामधिजायते ।
उत्पत्तिरेव श्वेतस्य
मूर्त्तिर्धर्मस्य शाश्वती ॥१३॥
‘ह्विस्की" च ‘मीट’ डांसानि
‘नो विकेंसी’ च ‘साइनः’
आज्ञादानं परेभ्यश् च
षट्कर्म्मा ‘गौर’ उच्यते ॥१४॥
यक्षरक्षः-पिशाचान्तं
मद्यं मांसं सुरासवम् ।
गौराङ्गानां न दोषाय
वह्नेः सर्वभुजो यथा ॥ १५ ॥
विस्तारः (द्रष्टुं नोद्यम्)
१ - मित्रगण । २ - मासिक । ३ - साप्ताहिक । ४- दैनिक । ५- अप्रा- कृतिक ( नेचर-Nature )। ६ – गंदा । ७- प्राकृतिक । ८- भारत में । ६- एक प्रकारकी शराब । १०-मांस । ११ - नाच । १२-जगह खाली नहीं है । १३-चिह्न |
( ३ )
कृष्णवर्णधर्माः
‘गौरो’च्छिष्टं ‘पलेटेषु’
भोजनं, ‘प्लीज’ ‘येस् सरः’ ।
गौरानुकरणायासः
‘श्याम’ कर्म स्वभावजम् ॥१६॥
सर्वेषामेव दानानां
‘थैंक यू’ दानं विशिष्यते ।
इति श्री फैशनाचार्य्यं
कृतायां ‘टुडे’-स्मृतौ सामान्यधर्मनिरूपणं नाम प्रथमोऽध्यायः ॥
दिनचर्या
अथ दिनचर्या
प्रातःस्मरणम्
करारविन्देन ‘सिगार’-वृन्दं
मुखारविन्दे विनिवेशयन्तम् ।
‘स्पृङ्ग्दार’(=??) सच्-‘चेयर’-केशयानं(=??-)
‘गौरं’ महः ‘सर्विस’-दं नमामि ॥१८॥
प्रभातकृत्यम्
प्रातर् उत्थाय मञ्चस्थो
‘लाला’-क्लिन्न-मुखः पुमान् ।
‘टी’-‘काफी’-‘बिस्कुटं’‘केकं’
सेवयेन् नित्यमेव हि ॥ १६ ॥
पुनः शयीत उषसि
आयुर्-आरोग्य-काम्यया ।
‘आफिसः’ ‘टाइमो’ यावन् न
भवेत् तावद् एव हि ॥२०॥
मलमूत्रत्यागविधिः
यथाकालं समुत्थाय
कराभ्यां चक्षुषी मृजन् ।
‘उत्तिष्ठन्’ मूत्रविट्-त्यागं
कुर्य्यात् ‘पिटक-कूबरे’(=chamber pot??) ॥२१॥
विस्तारः (द्रष्टुं नोद्यम्)
१ - कृपया । २- जी, महाशय । ३-धन्यवाद आपको । ४- नौकरी । ५ – चाय । ६ - कहवा ( एक प्रकारका पेय ) । ७-रोटी ।
( 8 )
शुद्धि प्रकारः
द्वित्रैश्च ‘कर्ग्गजैः’ पश्चात्
गुदं संशोधयेद् बुधः ।
न करेण स्पृशेन् नीरं
यदीच्छेच् छुभम् आत्मनः ॥२२॥
नित्यकर्म
‘बूटे’ ‘सलीपरे” ‘शूजे’
‘पैपे’(=flip-flop slipper) ‘चपकले’(=चप्पल??) तथा ।
‘फुल सलीपर’ ‘गुर्गाव्यां’(=??)
नित्यं कुर्य्यात् सुपालिशम् ॥२३॥
क्षौरे मतद्वयम्
‘सेफ्टी रेजर’ यन्त्रेण
श्मश्रु कृन्तेत् सकूर्चकम् ।
नासा-रन्ध्रा-प्रदेशे वा
रक्षयेन् मक्षिका-समम् ॥२४॥
स्नानविधिः
साप्ताहिकं शीतकाले
ग्रीष्मकाले यथारुचि ।
नग्नः ‘टीन-टबे’ कुर्य्यात्
स्नानं ‘सोप’-समन्वितम् ॥२५॥
दन्तधावनम्
आश्वैर् आश्वतरैर् वालैर्
गार्दभैर् निर्म्मितेन वा ।
येन घर्षयेद् दन्तान्
मूलतः शोधनेच्छया ॥२६॥
‘जैण्टिलमैन’ कवचम्
ततो ‘जैस्टिलमैनेन’
कवचेनाऽऽवृतो भवेत् ।
येन गुप्तोऽन्यथा-सिद्धः
पञ्चमोऽपि महीयते ॥२७॥
पादौ ‘बूट’ धरः पातु
गुल्फौ ‘जुर्राव’-जूड़ितः(=??-) ।
नितम्बौ जानुनी जंघे
पातु मे ‘पतलून’-धृक् ॥ २८॥
विस्तारः (द्रष्टुं नोद्यम्)
१- जूता । २- एक प्रकार का जूता । ३-चट्टी । ४- साबुन । ५ ब्रश ।
( 2 )
कटि ‘पेटं’ ‘पेटिका’(=??-) च
‘सेफ्टी-लेदर’ गुह्यकम् ।
‘तस्मेतग’ ततः स्कन्धौ,
हृन् मे ‘वैस्टेण्ड-वाच्’ तथा ॥२९॥
‘टाई’ ‘बो’ ‘कालर’ ग्रीवां
‘दस्ताने’(=glove) पान्तु चाङ्गुलीः।
मणिबन्धं ‘रिष्ट-वाचः’
करोरो(=??) ‘बटन’-‘स्टडे’(=press button) ॥३०॥
मुखं मे ‘पौडरः’ पातु
नेत्रे ‘न्यूफेम ऐनकः’
काकपुच्छोऽवताद् भालं
मूर्धानं ‘हैट’ रक्षतु ॥३१॥
कायं ‘कोटकमीजो’ मे
सर्व्वतः पातु ‘ओवरः’
नासामलं ‘रुमालञ्च’
घ्राणम् ‘ओटो-लवेण्डरौ’ (गन्धौ) ।।३२।।
इति श्री फैशनाचार्य-कृतायां ‘टुडे’-स्मृतौ दिनचर्यानिरूपणं नाम द्वितीयोऽध्यायः ।
भक्ष्याभक्ष्यनिर्णयः
यद् उत्थापयितुं शक्यं
क्षेप्तुं निर्गलितुं तथा ।
तत्सर्व्वं ‘नेचुरल्’-भक्ष्यम्
अभक्ष्यं त्वितरन् मतम् ॥३३॥
‘टेबुलं’ पुरतो धृत्वा
‘चेयर’-स्थ-गुदः पुमान् ।
‘सूटिडो’ ‘बूटिडो’ ऽश्नीयात्
‘छुरिका कण्टका’ ऽन्वितः ॥३४॥
‘बराण्डीं’ ‘बिस्सकीं’ ‘पेगं’
मध्ये मध्ये पिबेन् मुहुः ।
कुक्कुटाण्डञ्च फलवद्
ग्राह्यं सर्व्वेषु कर्म्मसु ॥३५॥
इतरे आचाराः ।
न शिखां धारयेत् प्राज्ञः
‘टेनिसे’ हास्य-कारिणीम् ।
न सूत्रं बिभृयात् स्नाने
सोप-मर्दन-रोधकम् ॥३६॥
“पपी पपी” समुच्चार्य
प्रेम्णा ‘सीटी’-समन्वितः ।
करेण चुटकीं दत्वा
रक्षेत् कुक्कुर-शावकम् ॥३७॥
विस्तारः (द्रष्टुं नोद्यम्)
१- एक प्रकारका पहनावा । २ - कमीजका दबानेवाला बटन । ३ - टोप । ४ - श्रोवरकोट । ५- सेट । ६, ७- एक प्रकारकी शराब । ८- कुत्तेका प्रिय संबोधन ।
( ६ )
न वदेद् भारतीं भाषां
प्राणैः कण्ठगतैरपि ।
हस्तिना ताड्यमानोऽपि
न गच्छेद् ‘देवमन्दिरम्’ ॥३८॥
नव्यशिक्षित-समाचाराः
अधीत्य डार्विन-थ्योरीं
पठित्वा हाक्सले(=Huxley)-मतम् ।
अहो ! श्रमस्य वैयर्थ्यं
आत्मापि कलितो न हि ॥ ३९ ॥
चातुर्य्यं चाकरीमात्रे
कौशलं ‘बूटपालिशे’
भाले लिखति चैतावत्
शिक्षा पाश्चात्य-चालिता ॥ ४० ॥
बी॰ए॰-पर्यन्त-शिक्षायां
सहस्राणान् तु विंशतिः ।
व्ययी-भवति चित्तन्तु
केवलं दासवृत्तये ॥ ४१ ॥
यदि वार्धुषिकाद् एतत्
धनम् आदाय पठ्यते ।
अष्टाणक्यैव वृद्धिः स्यात्
प्रतिमासं शतं शतम् ॥ ४२ ॥
एम॰ए॰-पर्यन्तम् उत्तीर्ण
इतिहासे प्रतिष्ठितः ।
छात्रो वक्तुं न शक्रोति
भीष्मः कस्य सुतोऽभवत् ॥ ४३ ॥
आङ्गलानान् तु को राजा
कियद् वारं व्यमूत्रयत् ।
इति सर्व्वं विजानाति
न जानाति स्वकं गृहम् ॥ ४४ ॥
इति फैशनाचार्यकृताया ‘टुडे’ स्मृतौ तृतीयोऽध्यायः ।