वैराग्यपञ्चकम्

विश्वास-प्रस्तुतिः

क्षोणी-कोण-शतांश-पालन-कला-दुर्वार-गर्वानल-
क्षुभ्यत्-क्षुद्र-नरेन्द्र-चाटु-रचना-धन्यान् न +++(बहु)+++ मन्यामहे ।
देवं सेवितुम् एव निश्चिनुमहे योऽसौ दयालुः पुरा
धाना-मुष्टि-मुचे कुचेल-मुनये दत्ते स्म वित्तेशताम् ॥

P.R.Ramachander

The pride of those kings who rule bits of this earth grows like the wildfire,
And there are people, who praise them and think they are blessed,
But we think that service to God who is merciful will give us all our wants,
For did not sage Kuchela meet the Lord, with fistful of pounded rice and become wealthy.

मूलम्

क्षोणीकोणशतांशपालनकलादुर्वारगर्वानलक्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान् न मन्यामहे ।
देवं सेवितुमेव निश्चिनुमहे योऽसौ दयाळुः पुरा धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥

विश्वास-प्रस्तुतिः

शिलं+++(=पतितधान्यम्)+++ किम् अनलं भवेद् - अनलम् औदरं बाधितुं
पयः प्रसृति+++(=अर्धाञ्जलि)+++-पूरकं - किमु न धारकं सारसम् ।
अ-यत्न-मल-मल्लकं पथि पटच्-चरं+++(←पटत्+चरं)+++ कच्चरं
भजन्ति विबुधा मुधा - ह्य् अहह कुक्षि-तः कु-क्षितः+++(=राजानः)+++ ॥

P.R.Ramachander

Even learned scholars pray the kings for filling their stomach,
Is not the spilled grain after a harvest sufficient for their needs?
Is not a palm full of water sufficient to quench one’s thirst?
Is not the effortlessly collected cloth sufficient for a loin cloth?

मूलम्

शिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।
अयत्नमलमल्लकं पथि पटच्चरं कच्चरं
भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥

विश्वास-प्रस्तुतिः

ज्वलतु जल-धि–क्रोड-क्रीडत्–कृपीट+++(=समिध्)+++-भव-प्रभा-
प्रतिभट-पटु–ज्वाला-माला–ऽऽकुलो जठरानलः ।
तृणम् अपि वयं,, सायं सम्फुल्ल-मल्लि-मतल्लिका-
परिमल-मुचा वाचा याचामहे न महीश्वरान् ॥

P.R.Ramachander

Even if the fire in my stomach burns intensely, And equals the raging fire in the mid of ocean, I will not ask even for a speck of dust from the king, For my speech having the fragrance of jasmine flowers Which open in the evening are reserved for our great Lord.

मूलम्

ज्वलतु जलधिक्रोडक्रीडत्कृपीटभवप्रभाप्रतिभटपटुज्वालामालाकुलो जठरानलः ।
तृणमपि वयं सायं सम्फुल्लमल्लिमतल्लिकापरिमळमुचा वाचा याचामहे न महीश्वरान् ॥

विश्वास-प्रस्तुतिः

दुरीश्वर-द्वार–बहिर्-वितर्दिका–
दुरासिकायै+++(←आस्)+++ रचितो ऽयम् अञ्जलिः ।
यद्-अञ्जनाभं निरपायम् अस्ति मे
धनञ्-जय-स्यन्दन-भूषणं धनम् ॥+++(4)+++

P.R.Ramachander

When I have the decorative black coloured wealth,
Who sat in front of Arjuna in the battlefield,
Why should I sit in the periphery of the gate of kings,
And beg them for perishable wealth with hands held in salutation?

मूलम्

दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायै रचितोऽयमञ्जलिः ।
यदञ्जनाभं निरपायमस्ति मे धनञ्जयस्यन्दनभूषणं धनम् ॥

विश्वास-प्रस्तुतिः

शरीर-पतनावधि प्रभु-निषेवणापादनात्
अब्-इन्धन–धनञ्-जय-प्रशमदं धनं दन्धनम्+++(=कुधनम्??)+++ ।
धनञ्-जय–विवर्धनं धनम् उदूढ-गोवर्धनं
सुसाधनम् अबाधनं सुमनसां समाराधनम् ॥

P.R.Ramachander

Wealth got by serving the rich till ones body falls to the ground,
Is that wealth which will quell one’s hunger but is sorrow causing,
On the other hand that wealth which made Arjuna great,
That wealth which made it possible to lift Govardhana and that which fills ones,
Mind with joy is the real good wealth,which one should posses.

मूलम्

शरीरपतनावधि प्रभुनिषेवणापादनात्
अबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् ।
धनञ्जयविवर्धनं धनमुदूढगोवर्धनं
सुसाधनमबाधनं सुमनसां समाराधनम् ॥

विश्वास-प्रस्तुतिः

नास्ति पित्रार्जितं किञ्चिन् न मया किञ्चिद् आर्जितम् ।
अस्ति मे हस्तिशैलाग्रे
वस्तु पैतामहं धनम् ॥

P.R.Ramachander

I do not have any inherited wealth,
Nor have I earned any wealth,
But Brahma, the grandfather,
Has given to me as wealth, my Lord,
Who lives on the top of the Hasthi mountain

मूलम्

नास्ति पित्राऽऽर्जितं किञ्चित् न मया किञ्चिदार्जितम् ।
अस्ति मे हस्तिशैलाग्रे वस्तु पैतामहं धनम् ॥