मूलम्
काकानां कोकिलानां च सीमाभेदः कथं भवेत् । यदि विश्वसृजा साक्षान्न कृता कर्णशष्कुली ।। 12.1 ।।
टीका
सदसत् विवेको हि द्विविधः । सुकरो दुष्करश्च तत्र काक-कोकिलादि विवेकः सुकरः । शास्त्रादि विवेको दुष्करश्च ज्ञानेन्द्रियाधीनः । इतरः परीक्षकाधीनः । सुकर विवेकाय करणानि सृष्टानि । शास्त्रार्थ विवेकाय परीक्षकाः सृष्टाः । तथाह याज्ञवल्क्यः तपस्तप्त्वा सृजत् ब्रह्मा ब्राह्मणान् वेद गुप्तया इति । अत्र तदधीते तद्वेद इति सूत्रेण वेदनाध्ययन योण प्रत्ययस्य अनुशिष्टत्वात् ब्राह्मण शब्दे यथाविध्यतीत वेदान् सम्यग्विदित वेदार्थानुपस्थाप्य तेषु वेदगुप्त्यर्थं सृष्टता बोध्यते । तेषामेव शास्त्रार्थ संशय निवर्तकत्वम् । न जातिमात्र ब्राह्मणस्य इति श्रुतिराह । अथ यदिते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणस्सम्मर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामास्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्या तेषु । ये तत्र ब्राह्मणास्सम्मर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामास्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । इति । अत्र ब्राह्मण शब्देन ब्राह्मणत्व जाति विधिवत् वेदाध्ययनं सम्यक् तदर्थ अवगमश्च समुदाय अवयव शक्तिभ्यां बोध्यते । सम्मर्शिनः इत्यनेन मनसा तत्त्वेन अवगत अर्थस्य स्थिरीकृतत्वम् उच्यते । युक्ता इत्यनेन निश्चिते कर्मणि वृत्ते च प्रवृत्तत्वम् उच्यते । आयुक्ता इत्यनेन कर्मणि वृत्ते च सम्बन्धाद्योग उच्यते । सङ्कल्प प्रभृत्या समाप्तेः अनुपरता इत्यर्थः । अलूक्षा इत्यनेन स्व उक्तार्थ स्थापने न्यायविरुद्धे दुरभिनिवेश राहित्यम् उच्यते । धर्मकामा इत्यनेन निश्चिते कर्मणि वृत्ते च ख्याति-लाभ-बूजाभिलाषादि विरोधि वर्गं प्रतिबोध्य प्रवर्तयितुं क्षेमम् । तज्जन्य फले विद्योपकारेव कामनाया औत्कट्यम् उच्यते । कर्म औपासन-अग्निहोत्रादिकं वृत्तम् आत्मगुणः
तदयम् अर्थः । विधिवदधीत वेदानां गुरुमुख श्रुत तदर्थानां न्याय विचार प्राप्त निष्कर्षाणां विध्यर्थे प्रवृत्तानामा समाप्तेः तदजहतां फलाभास विषयाभिलाष प्रतिबन्ध समर्थ सम्यक् फल विषयोत्कट रागप्रवर्तितानां ब्राह्मणानां तथा तानि जानीथा इति वक्तव्येतेषु वर्तेथा इति वचनं क्रियाहीनं हताः तु अज्ञानिनः क्रियाः अपश्यन् अर्थ को दग्धः पश्यन्नपि च पङ्गुकः इति आचारैः शास्त्र सन्देहं निरस्य प्रकारम् उक्त्वा तमेतप्रकारम् उपदिष्ट विषयेऽप्यतिदिशति । अथ अभ्याख्यातेषु इत्यादिना सत्यपि उपदेश संवादे स्वमनस्संवादे सत्यपि अनीदृश पुरुषवचनैः शास्त्रार्थ संशय निरासो न कर्तव्य इति अभिप्रायेण विशेषणानाम् आवृत्तिः । स्वोपदेश संवाद अनादरः कथम् उपदिश्यत इति चेत् योऽन्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि इति । सत्सम्प्रदायबलात् इति ब्रूमः । अनुपदिष्टांशस्य सम्भवमात्रम् उपदिष्टार्थानां बाहुळ्यं च ज्ञापयितुं यथा ते तेषु वर्तेरन् इति प्रक्रमभङ्गेनापि इति बहुवचन निर्देशः । तेन भूयांसोऽर्था गुरुमुखादेव श्रोतव्याः । अल्पीय सेवार्थे उक्तगतिः अनुनर्तव्य इति हृदयम् । ये तत्र ब्राह्मणा इति बहुवचन निर्देशात् बहूनां वृत्तैकरूप्य दर्शनेन एव शास्त्रार्थ संशयो निरसनीय इति गम्यते । वदन्ति चैवं बहुधा श्रोतव्यं बहुधा श्रोतव्यम् इति यथा ते तत्र ब्रूयुः इति वक्तुं शक्ये यथा ते तत्र वर्तेरन् इति वचनं क्रियया एव संशयो निरसितव्यः । न वाक्यमात्रेण इत्यभिप्रायेण सत्यां विप्रलिप्सायां स्वनिश्चय स्व क्रिया विरोधिनोऽपि उपदेशस्य सम्भवात् । गीतास्यपि क्रियाया एव संशय निरासकत्वम् उक्तम् । यद्यदाचरति श्रेष्ठस्तत्तदेवेतर जना इति जैमिनिना अपि अष्टकादिषु वेदमूलकत्वं सदाचारेणैव निर्णितम् । अपि वा कर्तृसामान्यात् इति एवं भूत परीक्षक क्रियया शास्त्रार्थ सन्देहो निरसनीय इति तात्पर्यार्थः साक्षात् अनुक्तोऽपि दृष्टान्तमुखेन सूचितः । दृष्टान्तमात्र उक्त्यापि विवक्षितार्थ प्रतीतेः सर्वानुभव सिद्धत्वात् । वापि कापि स्फुरति गगने तत्परं सूक्ष्मपद्या । सोपानाळीम् अधिगतवती काञ्चनीम् ऐन्द्रनीलो । अग्रे शैता सुकृति सुगमा चन्दनच्छन्नदेशा । तत्रत्यानां सुलभम् अमृतं सन्निधानात् सुधांशः । इत्यादिषु क्वचिल्लोक सिद्धार्थ उक्तः । क्वचित् कवि कल्पित इत्यादि विशेषेऽपि सदृशार्थोक्ति मात्रेण विवक्षितार्थ प्रतीतिः अविशिष्टा । विश्वसृजा कर्णादिकं सृष्ट्वा लोके काक-कोकिलादि विवेकरूप उपकारः क्रियते । इति अयम् अर्थो दृष्टान्तभूतोऽपि साक्षात् अनुक्त एव यदि कर्णशष्कुली न कृता स्यात् काक-कोकिलादेः सीमाभेदः कथं स्यात् इति कर्ण सृष्ट्यभाव व्यापक काक-कोकिलादि विवेक अभावस्य एव उक्तत्वात् तर्क एव हि शाब्दः । तर्काच्च दृष्टान्तार्थ प्रतीतिः । दृष्टान्त प्रतीत्या च विवक्षितार्थ प्रतीतिः । लौकिकार्थ विवेकस्य उपकारकत्वं तज्जनक कर्णादेः तत् सृष्टुः विश्वसृजश्च उपकारकत्वं सर्व सम्प्रतिपन्नम् । तन्नादाकर्णने हर्षस्य सर्वसिद्धत्वात् तद्वदेव शास्त्रार्थ विवेकस्य उपकारत्वं परीक्षकाणां तत्सृष्टुः विश्वसृजश्च उपकारकत्वं च बोधयितुं सदृश प्रतीति उत्पादने तद्विवक्षितार्थ सूचनम् ईदृश उपकारजनने । विश्वसृजः तात्पर्यातिशयः साक्षादिति लोके उत्कटाभिलाष विषयाः साक्षादेव क्रियन्ते । तदा अभिलाष विषयस्तु पुरुषान्तर द्वारेणापि एवं भूत उपकारा सम्पादने विश्वसृजः स्वोपकारान् अङ्गीकारात् वैमनस्वं स्वप्रयोजन हानिश्चेति सूचितम् । ज्ञानेन्द्रिय सृष्टेः चतुर्मुखान्न समष्टिसृष्टि अन्तर्गतत्वात् साक्षात् कृतता । वैकारिकः तेजसश्च भूतादिश्चैव तामसः त्रिविधोऽयम् अहङ्कारो महत् तत्वात् अजायति । तैजसान् इन्द्रियाण्याहुः इति विष्णुपुराणे समष्टिसृष्टि अन्तर्भावः स्मर्यते । काक-कोकिलादि स्वभाव भेद अज्ञानस्य एव कर्णकार्यत्वात् कर्णाभावे ज्ञानाभाव एवापादनीयः । न तु ज्ञेयाभाव इति चेन्न । सीमाभेद शब्देन तज्ज्ञानस्य एव विवक्षितत्वात् । यदि सत्यं ब्रवीम्ये तत्तत् असत्यं भविष्यति इत्यादिवत् यत् ज्ञानं हर्षहेतुः अज्ञानं चेत् असत्कल्पत्वे तदिति द्योतनाय ज्ञेयस्य एव असत्यम् उच्यते । 12.1 ।
मूलम्
छन्दः प्रत्ययशुद्धात्मा पश्यन् यतिगणस्थितिम् । वर्णादि नियतं वृत्तं नियुङ्क्ते गौरवादिवित् ।। 12.2 ।।
टीका
छन्दसां वेदानां प्रत्ययेन अर्थज्ञानेन शुद्धात्मा पाप व्यावृत्त चित्तः यतिगणस्थितिं सन्न्यासिनां मर्यादां जानन् गौरवादिवित् गुरोः शिष्यस्य उपदेश्यस्य उपदेशस्य स्वीकारस्य फलस्य विरोधिनः तन्निरासस्य च स्वभावान् वेत्ति इति । गौरवादिवित् पृष्टरिपुरुषे यतिगणस्थितिं यतिगण समीपेव स्थानं पश्यन् बन्धः प्रत्ययशुद्धात्मा अभिलाष
निश्चयेन उपदेशानर्हत्व शङ्कारहितं वेदाध्ययन परिज्ञानेन च उपदेशानर्हत्व शङ्कारहितः परीक्षकः वर्णादि नियतं वर्णेषु आश्रमेषु स्त्रिषु पुरुषेषु भार्गव आङ्गीरसादि कुल विशेषेषु प्रतिलोमेषु अनुलोमेषु व्यवस्थितं वृत्तम् आचारम् आत्मगुणं च नियुङ्क्ते उपदिशति शिष्येभ्यश्च प्रवक्तव्यम् इति स्मृतेः । छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः इति विश्वः । अर्थान्तरम् । छन्दः प्रत्ययशुद्धात्मा छन्दश्शास्त्र परिचयेन इन्द्रवज्र उपेन्द्रवज्रादि वृत्तेषु तद्धर्मेषु च निस्संशय मनाः यतिगणस्थितिं पश्यन् यतेः पदसन्धेः गणस्य वर्णत्रयात्मकस्य स्थितिं स्वभावं सम्यक् जानन् गौरवादिवित् गौरव लाघवे जानन् वर्णादि नियतं वर्णैः मात्रादिभिर्वा नियतं व्यवस्थितं वृत्तम् इन्द्रवज्र उपेन्द्रवज्रादिकं नियुङ्क्ते रचयति उपदिशति वा । 12.2 ।
मूलम्
सुवर्णमपि दुर्वर्णं युक्त्या दर्शयति क्वचित् । व्यनक्ति शुद्धिं सहसा शुचिरेक स्व तैक्ष्ण्यतः ।। 12.3 ।।
टीका
क्वचित् अज्ञात कुल गोत्रे हीन जाता पुरुषे स्वर्णमपि अनुकूल वर्ण घटितमपि श्लोकं दुर्वर्णं दर्शयति । दुष्टवर्ण घटितत्वेन असूयातिरेकात् दर्शयति सति शुचिः असूयारहितः एकः पुरुषः शुद्धिं दोषाभावं स्वबुद्धि तैक्ष्ण्यतः व्यनक्ति तादृशः पुरुषो दुर्लभः । स तु मुख्य इति सूचनाय एक इति । अर्थान्तरम् । क्वचित् वञ्चके परस्वं दुर्वर्णं दर्शयति । तत्र रजतत्व भ्रमं जनयति इत्यर्थः । अधिक वर्णं हि न वर्णं वदति इति वार्थः । स्वस्य दुर्वर्णं रजतादि वस्त्वन्तर योगेन सुवर्णं दर्शयति । तत्र कनकत्व भ्रान्तिं जनयति सति इति चार्थः । शुचिरेकः अग्निरेव स्व तैक्ष्ण्यतः । दाहातिरेकात् शुद्धिं निज स्वरूपं व्यनक्ति । 12.3 ।
मूलम्
स्वच्छ स्वादु विशुद्धानां स्रोतसां कलशोदधेः । दोषं केऽपि न मृष्यन्ति दुष्टजिह्वेन कल्पितम् ।। 12.4 ।।
टीका
अत्र कविरेव कलशोदधित्वेन रूप्यते । तदीय श्लोकाः स्रोतस्त्यैव रूप्यन्ते । स्वच्छ स्वादु विशुद्धानाम् इति साधारणं विशेषणम् । स्रोतसां स्वच्छत्वं निर्मलत्वं स्वादुत्वं मधुरत्वं विशुद्धत्वं शुक्लवर्णत्वं कवितानां तु स्वच्छत्वम् अति सम्बोधार्थत्वं स्वादुत्वं रसव्यञ्जकत्वं विशुद्धत्वं निर्दोषत्वम् एवं भूतानां स्रोतसां दुष्टजिह्वेन पित्त दूषित रसन इन्द्रियेण कल्पितं भ्रमसिद्धं दोषं तिक्तत्वरूपं केऽपि न मृष्यन्ति न सहन्ते । कवि वाचाम् अपि असूयया दोषोक्ताव्यापारित जिह्वेन कल्पितम् आरोपितम् । दोषं श्रुति कटकत्वादिकं केऽपि न सहन्ते । दोषत्वं हि फल बल कल्प्यम् । फलं च रसस्फूर्ति प्रतिबन्धः । स्वादुत्वेऽनुभूयमाने कथं दोष्य स्यात् इति अनुपपत्त्या तद्वाक्यं नाद्रियन्त इति भावः । 12.4 ।
मूलम्
सहैव भुवने जातं सत्त्वसंस्थापन क्षमम् । गृह्यते किमपि स्वस्थेरन्यत् किमपि जिह्मगैः ।। 12.5 ।।
टीका
भुवने लोके स्वस्थैः प्रकृतिस्थैः पुरुषैः सहैव जातम् अविनाभूतं सत्त्वसंस्थापन क्षमं वाक्यस्य वक्तुश्च समीचीनत्वं प्रतिष्ठापयितुं समर्थं किमपि अभिधानानर्हं मन्दबुद्धि दुर्ग्रहं च व्यङ्ग्यं गृह्यते अनुभूयते । जिह्मगैः वक्रबुद्धिभिः अन्यदुक्त विलक्षणम् अविनाभूत समीचीन प्रतिष्ठापन असमर्थं च किमपि प्रकृतानुपयुक्तम् । श्लोकार्थतया ज्ञायते । यद्वा भुवने ऋजुबुद्धि वक्रबुद्धि सङ्कीर्णे लोके स्वस्थैः ऋजुबुद्धइभिः सहैव जातं श्लोक रचना दशायाम् एव कवेः तात्पर्य विषयी भूतं सत्त्वसंस्थापन क्षमं सन् विद्वान् पण्डितः सन् कविश्चेति भट्टबाणः । सतो भावः सत्त्वं वैदुष्यं वक्तुः बोद्धुश्च पाण़्डित्य व्यञ्जकं यस्मिन् अर्थे प्रतिपादिते । श्लोकार्थः समीचीन इति कविं प्रशंसन्ति । तादृशाम् इत्यर्थः । यस्मिन् विवृते बोद्धारं प्रशंसन्ति श्लोक तात्पर्यं सम्यक् गृहीतम् इति । तादृशम् इति चार्थः । किमपि मन्दबुद्धि दुर्ग्रहं प्रीत्युत्पादन समर्थं च व्यङ्ग्यं गृह्यते वक्रबुद्धिभिः अन्यदुक्त विलक्षणं कवि तात्पर्य
विषमभूतं वक्तुः बोद्धुश्च पाण्डित्य व्यञ्जने समर्थम् । किमपि प्रकृतानुपयुक्तं सम्यक् अनिरूपितं गृह्यते । अर्थान्तरम् । भुवने समुद्रजले सहैव जातम् उत्पन्नं सत्त्व संस्थापन क्षमं सत्त्वं जीवितं तद्रक्षण समर्थम् अमृतं विषं तु जन्तुमारण समर्थं सत्त्वमस्त्रीतु जन्तुषु इत्यमरः । संस्थापनं मारणम् एवं भूतम् अमृतविषयोः यद्युगळं तत्र स्वस्थैः स्वर्गस्थैः किमपि एकम् अमृतं गृह्यते । अन्यदेकं विष जिह्मगैः सर्पैः गृह्यते । 12.5 ।
मूलम्
कलकण्ठगळा स्वाद्ये कामस्यास्त्रे निजाङ्कुरे । निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते ।। 12.6 ।।
टीका
कलकण्ठ कुल प्रीतिजनन समर्थस्य विश्वविजय साधनतया कामेन परिगृहीतस्य चूताङ्कुरस्य उष्ट्रान् अङ्गीकारो यथा न दोषः परिक्षक श्लाघितस्य प्रबन्धस्य वक्रबुद्ध्यनङ्गीकारोऽपि एवमेव न दोषः । निम्बस्य वृत्तिरिव वृत्तिर्येषां तेषां तिक्तं स्वभावानाम् एव सदोष इति द्योतनाय निम्बवृत्तिभिः इति । 12.6 ।
मूलम्
मन्ये किन्नरमुख्यानां मौनं जगति साम्प्रतम् । मशकः क्वणितं तत्र वीणास्वनविकल्पितम् ।। 12.7 ।।
टीका
एवं सत्कवि दुष्कवि श्लोका साम्येन जानतां मध्ये सत्कवेः नौर्नानमेव युक्तमिति भावः । 12.7 ।
मूलम्
रत्नाभरण योग्यानां राजान्तःपुरयोषिताम् । क्रीडाकङ्कणनिर्माणे काचोऽपि ललितं क्वचित् ।। 12.8 ।।
टीका
यथा राजान्तःपुरयोषितः श्लाघ्य रत्नघटितमेव कङ्कणं मणिबन्धालङ्काराय परिगृह्णन्ति न काच ललितान्वितम् तत्तु क्रीडार्थमेव स्वीकुर्वन्ति । न पुनर्मणिबन्धालङ्करणाय एवमेव बुद्धिमन्तः प्रभवो रसानुभवाय सत्कविनेव परिगृह्णन्ति । परिहासार्थं तु दुष्कवीन् इति भावः । न तावता सत्कविः अयम् इति भ्रमितव्यम् । तेवानजानन्ति इति अन्यार्थमेव परिग्रहात् । 12.8 ।
मूलम्
कटूनामपि सार्थत्वात् कामं भवति सङ्ग्रहः । तथापि वृत्तिर्न तथा रसज्ञानुमति क्षमा ।। 12.9 ।।
टीका
श्रुति कटूनामपि पदानां कतिपय श्लोकेषु रौद्र रस पोषण रूप प्रयोजनवत्त्वात् सङ्ग्रह क्षमं भवति । रौद्र रस व्यञ्जक श्लोकेषु सङ्ग्रहे सत्यपि रसज्ञानुमति क्षमा तादृशी वृत्तिर्न भवति । तथा तादृशी शृङ्गार रसं पुष्णन्ति रसज्ञानुमति क्षमा । रसिक रसन सम्मता रसज्ञा रसना जिह्व इत्यमरः । उच्चारण क्लेशाभावेन जिह्वाया अनुमता । अङ्गीकारे समर्था मृद्वीवृत्तिः कटु पदादानेन भवति । अर्थान्तरम् । कटूनामपि क्रूराणामपि सार्थत्वात् प्रतिपक्ष निरास कर्मणि विनियोग रूप प्रयोजन सद्भावात् कामं सङ्ग्रहो भवति । तथापि रसज्ञानुमति क्षमा तथा वृत्तिर्न भवति । पुरुषस्य परानुकूल्ये सति परेषां स्वस्य च प्रीतिः भवति । तद्वन्तो रसज्ञाः । तेषाम् अनुमति उत्पादने समर्था तथा परदुःख उत्पादन रहिता वृत्तिः शरीरयात्रा न भवति । अर्थान्तरम् । कटूनामपि शुण्ठी मरीचि पिप्पलीनामपि कटुत्रय सम्भूतानमपि सार्थत्वात् अजीर्णदोष जलदोष वातदोष निरासादि रूप प्रयोजनवत्वात् कामं सङ्ग्रहो भवति । तथापि रसज्ञानुमति क्षमा जिह्वाङ्गीकार समर्था तथा क्षीर शर्करादिवत् जिह्वा सम्बन्धाकाल एवानुकूलावृत्तिः स्वभावो न भवति । 12.9 ।
मूलम्
नादं मङ्गळ ताळानां नागरी नटनोचितम् । कृषि क्षमेषु ग्रामेषु न मूर्छयति गीतवित् ।। 12.10 ।।
टीका
पुरुषः नागरी नटनोचितं नगरस्थानां नर्तकीनां यत् नर्तनं बहु नटाभिनन्दितं तदुचितं मङ्गळ ताळानां नादं कृषिमात्र क्षमेषु जलप्रायेषु न मूर्छयति न वर्धयति । एवं विदुषामपि स्व प्रबन्धः प्रचुरसरः शरीर यात्रामात्र विश्रान्तेषु ऐहिक पारत्र हिताहितानभिज्ञेषु जलेषु न वर्तव्य इति भावः । 12.10 ।
मूलम्
विधिमन्तरेण विहगान कुतः पयसोरशिक्ष्यत विवेकविधिः । कति वा दिनान वद पर्यचिनोत् कलशीसुतः कबलयन् जलधिम् ।। 12.11 ।।
टीका
कृत सुकृतानां पुरुषाणां प्राग्भवीय सुकृत अतिरेकात् एव लोकक्रियासु चातुर्यं जायते । न अत्र गुरवोऽपेक्षिताः । नापि अभ्यास इति भावः । 12.11 ।
मूलम्
भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः । एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ।। 12.12 ।।
टीका
बहुष्वपि विद्यास्थानेषु संशय निवर्तन असमर्थः ज्ञानं न श्रेयसे भवति । एकस्मिन्नपि विद्यास्थाने संशय निवर्तन समर्थमेव ज्ञानं श्रेयसी भवति इति तात्पर्यार्थः । कश्चित् पुरुषः कलङ्किताः एवं वातधावेति संशयितार्थाः भूयसीः कलाः विद्याः प्राप्यापि गुरुमुघात् अधित्यापि शनैः अपचीयते । परीक्षक सकाशं गत्वा सन्दिग्धार्थ निर्णयस्य असम्पादनात् अपरिचयत् च सङ्कुचित ज्ञानो भवति । विशुद्धया परीक्षक वाक्य श्रवणेन निरस्त सन्देहया एकयापि कलया पौनःपुन्येन परिचितया योऽपि कोऽपि अत्यन्ता प्रसिद्धो गिरिवाचि ईशतां सामर्थ्यं भजते । अत्र मनुः बुद्धि वृद्धि कराण्याशु धान्यानि च हितान च । ब्राह्मे मुहूर्ते उत्थाय धर्मार्थावनुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च इति । प्रबोध समनन्तरं बुद्धेः प्रासादाधिक्यात् सन्दिग्धांशे विचारिते निर्णयो भवति इति तात्पर्यम् । आपस्तम्बश्च आविचिकित्साया ब्रह्मनिगन्तव्यम् इति हारीत इति अभियुक्ता अपि । शास्त्रं सुनिश्चित धियामपि चिन्तनीयम् आराधितोऽपि नृपतिः परिचिन्तनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युवता च कुतो वशित्वम् इति । अर्थान्तरम् । कश्चित् चन्द्रः कलङ्किताः भूयसी कळाः प्राप्योऽपि पौर्णमास्यन्ते षोडश कळाः कळङ्कयुक्ताः प्राप्यापि न तथैव अवतिष्ठते । उत्तरक्षण प्रभृति शनैः अपचीयते । कलाक्षयं प्राप्नोति । योऽपि कोऽपि पूर्वम् अज्ञानोऽपि रुद्रः विशुद्धया अवदातया एकया चन्द्रकलयापि गिरीशतां भजते । किरीशोऽयम् इति ज्ञान विषयतां भजते इति । 12.12 ।
मूलम्
सैषा सुभाषितानां माला महनीयवर्णवृत्तगुणा । भावुकसङ्ख्यारूढा प्रियपद्धतिभूषिता जयति ।। 12.13 ।।
टीका
महनीय वर्ण वृत्त गुणा महनीयाः पूजनीयाः वर्णवृत्त गुणाः यस्याः सा । वर्णश्शुक्लादिः वृत्तं वर्तुळाकारः गुणाः पृथुत्वकान्तिमत्यादिः भावुकाः प्रबुद्धाः तेषां सङ्ख्या प्रशंसा ज्ञानं तथा रूढा प्राप्ता प्रियपद्धति भूषिता प्रियस्य सन्तोषस्य पद्धतिः सरणिः प्रियपद्धतिः प्रिय प- च प्रियपद्धति । भूषा तथा कृता प्रियपद्धति भूषिता । सुभाषितानां प्रशस्तानां मणीनाम् इति शेषः । माला जयति । अर्थान्तरम् । महनीय वर्ण वृत्त गुणाः यस्याः सा वर्णाः अकारादयः वृत्तानि पठ्यादीनि गुणाः ओजः प्रसाद माधुर्याख्याः भावुकसङ्ख्याः । चतुश्चत्वारिंशदुत्तर शताधिकां सङ्ख्यां प्राप्ताः प्रियपद्धति भूषिताः द्वादशभिः पद्धतिभिः अलङ्कृता सुभाषितानाम् अनुकूल वचनानां
माला जयति । अर्थान्तरम् । सुभाषितानां मधुरोक्तीनां माला मालावत् शिरसा श्लाघयिता महनीय वर्ण वृत्त गुणा । वर्णो देहवर्णः । वृत्तं शीलम् । कर्मगुणा सामर्थ्यादिः भावुक सङ्ख्यारूढा एतावन्तः काला इति । तद्गणन अन्तर्गता प्रियपद्धति भूषिता पदोहतिः पद्धतिः । प्रियस्य पद्धतिः प्रियपद्धतिः । नायक सञ्चारः तस्य भुवि उषिता प्रियपद्धति भूषिता । नायक सञ्चारग्रहे नियमित स्थितिः इत्यर्थः । सैषा स्त्री जयति । 12.13 ।
मूलम्
कवि कथक सिंह कथितं कठोर ललितं सुभाषितं तदितम् । सदसद्विवेक मुखतस्सम्मुखयति सर्वलोक हितम् ।। 12.14 ।।
टीका
कविकथकसिंहकथितं कठोरललितं सुभाषितं तदितम् ।
सदसद्विवेकमुखतस्सम्मुखयति सर्वलोकहितम् ॥ 12.14 ॥