मूलम्
अपङ्किलधियः शुद्धा साधुमानसवृत्तयः । वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ।। 11.1 ।
टीका
अत्राद्यैस्त्रिभिः पदैः शक्तिनिपुणता अभ्यासरूपं श्लोकरचनोपयुक्तं विशेषेण त्रयमुच्यते । गुरूपदिश्यमान अर्थग्रहणधारण विरोधि बुद्धिमान्द्यं पङ्किलत्वं तत्र हितबुद्धय इति स्वाभाविकी शक्तिरुच्यते । लौकिकार्थेषु शास्त्रार्थेषु च भ्रम प्रमादाभावः शुद्धिः । प्राचीन काव्यावलोकन नूतन काव्यनिर्माण अभ्यासरूपायाः मानसवृत्तेः श्लाघनीय प्रबन्धनिर्माण सामर्थ्यं साधुत्वं साध्वीमानसवृत्तिः येषाम् इति विग्रहः । श्रुत्याकर्णयोः जीवातुं जीवकौषधं शृङ्गारादयः शान्त्यन्ताः नवरसाः आस्पद विषयो यस्य तत् नवरसास्पदम् । ध्वनिं शब्दसम्बन्धात् अर्थसम्बन्धात् वा वाच्यार्थात् अतिरिक्तार्थ वृत्तिं वमन्ति उद्गिरन्ति प्रबन्धमुखेन उत्पादयन्ति इत्यर्थः । श्लोकरचनोपयुक्तं विशेषेण त्रयं सङ्ग्रहीतम् आलङ्कारिकैः शक्तिनिपुणता लोकशास्त्रकाव्यादि अवेक्षणात् काव्यज्ञ शिक्षया अभ्यास इति हेतुः । तदुद्भवे इति श्रुतिजीवातुत्व विशेषणात् वाच्यार्थ प्रतीत्यपेक्षया व्यङ्ग्यार्थ प्रतीता काव्यकृतां तात्पर्य अतिशयरूपं प्राधान्यं सूच्यते । रसविषयस्यैव बन्धने श्रुतिजीवातुत्व अविशेषणात् वाच्यार्थ प्रतीति अपेक्षया ध्वनौ काव्यकृतां तात्पर्य अतिशयेन रसविषयत्वम् मूलमिति सूचितम् । अस्तु रसविषयत्वं ध्वनेः ततः कोऽतिशयः । येन तत्र काव्यकृतां वाच्यार्थ अपेक्षया तात्पर्य अतिशय इति शङ्कां निरसितुं शृङ्गारादिपदम् अपहाय रसयती इति रस इति व्युत्पत्त्या सुखहेतुत्वरूप प्रवृत्ति निमित्तकेन रसशब्देन विषयाभिधानम् । तथा च ध्वनेः प्रीतिजनकत्वमेव रसविषयत्व कृतोऽतिशयः । यत् कृतोऽयं ध्वनेः अतिशयः तस्य रसविषयत्वस्य तात्पर्य अतिशय प्रयोजनत्वं युक्तमिति भावः । ननु रसयति इति व्युत्पत्त्या रसस्य सुखहेतुत्वं गम्यते । तत्प्रतीता सुखहेतुत्वं न लक्ष्यते । अतो न तत्र अतिशय इति चेन्न । यथा लोके क्षीरशर्करादीनाम् अनुभवद्वारा प्रीतिजनकत्वम् एवं रसानाम् अपि ध्वनिः द्वारैव प्रीतिजनकत्वम् । ध्वनेः प्रीतिजनकत्व अभावे द्वारकैव न स्यादिति ध्वनेरपि प्रीतिजनकत्वं लभ्यते । अयम् अर्थो ध्वनि पदेन सूच्यते । ननु ध्वनेः प्रीतिजनकत्वं विषयकृतं न स्वाभाविकं शाब्दबोधस्यापि विषयसम्बन्धः सम्भवति । अतो ध्वनिशाब्दबोधयोरपि विषयसाम्यात् विषयसम्बन्ध प्रयुक्तस्य प्रीतिजनकत्वस्यापि सम्भवात् प्रीतिजनकत्व प्रयुक्ते तात्पर्य अतिशये साधारणे ध्वनिशाब्दबोधयोः उभयोरपि कर्तव्य किम् इति ध्वनौ एव क्रियते । न शाब्दबोधे ध्वनिशाब्दबोध साधारणं बुद्ध्यादि पदम् अनुपादाय कुतो ध्वनिपदम् उपात्तं श्रुतिजीवातुत्वे न किम् इति धअवनिरेव विशेष्यते । न शाब्दबोध इति चेन्न अनुभवम् अनुरुद्ध्यैव कार्यकारणभावः कल्पनीयः । तद्विरोधेन
न किञ्चित् कल्प्यते । रसध्वनेः एव प्रीतिजनकत्वं न शाब्दबोधस्य इत्यनुभवेन व्यवस्थायां कृतायां विषयसम्बन्धे प्रीतिजनकत्व अवच्छेदके साधारणेऽपि प्रीत्यनुत्पत्ति रसवाच्यतारूप दोषेण प्रतिबन्धात् एव । शाब्दस्थले न तु विषय अवगतिरूप कारणाभावात् इति अङ्गीकृतम् आलङ्कारिकैः । अतो निर्दोषया रसप्रीत्या प्रीतिः उत्पद्यते । न स दोषया इति सूचनाय ध्वनिपद उपादानं तेन परिहर्तव्यानां दोषाणां स्वरूपान् अवगमे परिहार असम्भवात् ज्ञातव्यता सूचिता । निर्दोषायारसप्रतीतेः श्रुतिजीवातुं श्लोक श्रवण फलभूत प्रीत्युत्पादकत्वम् एव वदन्ति च काव्यानां प्रीतिफलकत्वम् । काव्यं यशसेऽर्थकृते व्यवहारविदेशि वेतर क्षतये । सद्यः परनिवृतयेकान्तासम्मिततया उपदेशयुजे इति श्रुतिजीवातु शब्देन प्रीतिजनकत्व अभिधानं फलान्तराणाम् अपि प्रदर्शनार्थं शान्तिरसान् अङ्गीकारो भ्रममूलः । शान्तिध्वनेरपि प्रीत्युत्पादकत्वा विशेषात् । रसान्तरेषु अन्तर्भाव सम्भवात् चेति सूचनाय रसानां नवत्व विशेषणम् । व्यक्तम् उक्तं सङ्कर्लसूर्योदये । भट्टबाणप्रभृतिभिः अङ्गीकृतोऽयन्नवमः रसः । अर्थान्तरम् । अपङ्किलेषु सरस्सुधीः निवास बुद्धिः येषां ते शुद्धाः अवदाताः साधुमानसे समीचीने मानसाख्ये सरसिवृत्तिः स्थितिः येषां ते । हंसा इति विशेष्यम् । श्रुतिजीवातुं कर्णयोः अनुकूलं नवरसास्पदं नूतन प्रीतिजनकम् । नवं स्वानान्तरेभ्यो विलक्षणम् इत्यर्थः ध्वनिं वमन्ति । 11.1 ।
मूलम्
महापुरुषलब्धात्मा सर्गादि प्रथितोदयः । वश्यावदातया वाचा सेव्यते चतुराननः ।। 11.2 ।।
टीका
महापुरुषात् गुरोः लब्धात्मा लब्धबोधः सर्गादिभिः प्रथितः उदयः काव्यनाटकालङ्काराणां यस्मात् सः रघुवंशप्रभृतीनाम् एकदेशाः सर्गाः युधिष्ठिर विजयादि नामाश्वासाः एकस्व प्रबन्धस्व पद्धतयः नाटकानामङ्काः । अलङ्काराणां परिच्छेदाः । एते सर्गादयः अयं चार्थो न विवक्षितः । ऋगादिभिः विद्यास्थानैः प्रथितं जन्म ऋगादि प्रथितोदयः । तेन सहितः सर्गादि प्रथितोदयः इति । चतुराननः चतुरं व्यक्तवर्णोच्चारण समर्थं मुखं यस्य सः । एवं भूतः पुरुषः वश्यावदातया वाचा सेव्यते । विधेयया निर्दोष शब्दरूपया सरस्वत्या स्वयमेव अभिगम्यते । यस्मिन् काले यस्य शब्द स स्फूर्तिः कवेः अनुकूला तत्काले तस्य स्फुरणं वश्यत्वम् अल्प यत्नेन झटिति स्फुरणमेव सेवनम् । अर्थान्तरम् । महापुरुष लब्धात्मा नारायणाल्लब्ध शरीरः सर्गादि प्रथितोदयः सृष्ट्यादौ प्रसिद्धजन्मा । ऋगादि प्रथितोदय इति च । पदच्छेदः ऋगादिषु हिरण्यगर्भः समवर्तताग्र इत्यादि प्रसिद्धजन्मा स चतुर्मुखः विधेयया अवलक्षवर्णया सरस्वत्या आराध्यत इति अर्थान्तरम् । महापुरुषेषु व्यासादिषु लब्धात्मा प्राप्त स्वरूपः महापुरुषे श्रीमन्नारायणे लब्धात्मा निविष्ट मनाः तात्पर्यवान् इत्यर्थः । ऋगादि प्रथितोदयः ऋग्यजुस्सामाथर्व रूपेषु वेदेषु प्रख्यात प्रादुर्भावः चतुराननः चत्वारि ऋग्यजुस्सामाथर्व रूपाण्यावनानि यस्य सः । अर्थप्रतिपादकत्वात् मुखत्वोक्तिः । वश्यावदातया वाचा सेव्यते । विधेये न निर्दोषेण वागिन्द्रियेण अभ्यस्यते । 11.2 ।
मूलम्
विशुद्ध ललिताकारा गुणालङ्कारशालिनी । सरसा भारती यस्यः सत्येकः प्रतिष्ठितः ।। 11.3 ।।
टीका
विशुद्धः निर्दोषः ललितः सुबोधः आकारः स्वरूपं यस्याः सा गुणालङ्कारशालिनी । ओजः प्रसाद माधुर्याख्याः त्रयो गुणाः उपमादयोलङ्काराः । तद्वती सरसा शृङ्गारादि रसयुक्ता काव्यात्मिका भारती शब्दरूपा यस्य पुरुषस्य स एकः सति शोभने प्रतिष्ठितः निश्चलस्थितिकः । अर्थान्तरम् । विशुद्ध ललिताकारा अदृष्ट रम्याकृतिः पति चित्तानुवर्तनं गुणः अलङ्काराः हार नूपुरादयः । तद्वती सरसा साभिलाषा भारती यस्य दयिता स एकः सत्ये सत्यलोके प्रतिष्ठितः । अर्थान्तरम् । यस्य विशुद्ध ललिताकारा निर्मल सुन्दर आकार गुणालङ्कारशालिनी परानुकूला स्वभाव विशेषाः । गुणाः गुणः सत्त्वादि सङ्ख्यादि वीर्यादि हरितादिषु इति विश्वः । भारती नटी सरसा स स्नेहा स एको नटः सति शोभने प्रतिष्ठितः । 11.3 ।
मूलम्
कुतश्चिदचलस्थानात् प्रयान्ती सागरान्तिकम् । दृश्यादृश्य तनुर्भाति श्रुत्यभीष्टा सरस्वती ।। 11.4 ।।
टीका
अचलस्थानात् स्थानं स्थितिः मर्यादा कविमर्यादाताम् अनतिक्रममाण कुतश्चित् कवेः सागरान्तिकं प्रयान्ती समुद्रपर्यन्तं भुवं प्राप्नुवन्ती श्रुत्यभाष्टा कर्णानुकूला सरस्वती काव्यरूपा शब्द संहतिः । दृश्यादृश्य तनुर्भाति अनिपुणैः अदृश्या निपुणैः दृश्या तात्पर्यरूपा तनुर्यस्या तादृशी भाति । अर्थान्तरम् । कुतश्चित् पर्वतस्थानात् सागरान्तिकं प्रयान्ती श्रुत्यभीष्टा वेदाधिगता इष्टगताविति धातुः । सरस्वती नदी दृश्यादृश्य तनुर्भाति पञ्चसु प्रत्यक्षा सरस्वती इति हि प्रसिद्धिः । 11.4 ।
मूलम्
प्रभूतोदितमुक्ताभिः भूयते सूक्तिशुक्तिभिः । सदृशां कर्णपूराय तादृशोऽपि लभेदतः ।। 11.5 ।।
टीका
प्रभूतोदित मुक्ताभिः बहुळ भाषित रहितादिभिः सूक्तिशुक्तिभिः शुक्ति सदृशीभिः सूक्तिभिः शुक्तिपक्षे प्रभूतोदित मुक्ताभिः पृथुळोत्पन्न मौक्तिकाभिः सदृशां विदुषां कर्णपूराय श्रोत्रपूरणाय फलभेदतः विद्वत् कर्णपूरणोचितात् फलविशेषात् ध्वनिरूपात् भूयते । पृथुळोत्पन्न मौक्तिकाभिः शुक्तिभिरपि सदृशां तरुणीनां कर्णपूरणाय कर्णालङ्करणाय तादृशः फलभेदतः तदुचित मुक्ताफल विशेषात् साधनात् भूयते । शुक्तयः मुक्ताफलानि उत्पाद्य तरुणी कर्णालङ्काररूपं प्रयोजनं लभन्त इत्यर्थः । 11.5 ।
मूलम्
प्रतीपमवमृष्टापि स्वाफिमुख्यं न मुञ्चति । काळिकेव सतां सूक्तिः तादृश श्रुतिनन्दिनी ।। 11.6 ।।
टीका
सतां विदुषां सूक्तिः प्रतीपमवमृष्टापि वक्रतात्पर्य वैपरीत्येन चिन्तितापि तादृश श्रुतिनन्दिनी सती योजयिता यथा वा बुद्धिरेव मन्येऽपि ये वक्रबुद्धयः तादृशानां कर्णानन्द जननी सती स्वस्य योजयितुः आभिमुख्यम् आनुगुण्यं न त्यजति । कालिकेव काळिका इति वर्णपङ्क्तिर्हि प्रतीपमवमृष्टापि उक्तापि तादृश श्रुतिनन्दिनी सती तादृश्याश्रुत्या श्रवणेन शक्त्या वा नन्दयन्ती सती स्वाभिमुख्यं न मुञ्चति । स्वार्थ प्रतीतौ आनुगुण्यं न त्यजति । सूक्तिपक्षेऽपि स्वाभिमुख्यं शोभनम् आभिमुख्यम् आनुगुण्यं न मुञ्चति । इक्षूरसं न मुञ्चति इतिवत् न प्रकाशयति इत्यर्थः । 11.6 ।
मूलम्
अपार्थेतरयुक्तानां व्याससङ्ग्रह सम्पदाम् । अपि गोपालगीतानां निवेशो निगमादिषु ।। 11.7 ।।
टीका
गोपालैः गीतानाम् अपि अपकृष्टजातिभिः निबद्धानाम् अपि अपार्थ इतरयुक्तानाम् अपार्थाः व्यर्थाः इतरे प्रयोजनवन्तः शब्दाः तद्युक्तानां व्याससङ्ग्रह सम्पदाम् अत्यन्त विस्ताराणाम् अत्यन्त सङ्ग्रहाणाम् अपि निगमादिषु निवेशो भवति । निगमो व्याख्यानम् । आदि पद ग्राह्याः स्वतन्त्र प्रबन्धाः आविचिकित्साया ब्रह्मन्निगन्तव्यं निगमां चैव वैदिकाम् इत्यादि प्रयोगात् । अर्थान्तरम् । अपार्थेतरयुक्तानां पार्थात् अन्यस्मिन् उपदिष्टानां गोपालेन भगवता गीतानां व्यासस्य महर्षेः सङ्ग्रहः । स एव सम्पत् येषां तेषां श्लोकानाम् अभिधेयानां वा निगमादिषु निवेशो भवति । श्रुति-स्मृति-इतिहास-पुराणेषु निवेशः मध्यपाठः भवति । अत्र श्लोके शठकोपादि प्रणीतं प्रबन्धानाम् अपि अभिधेयता प्रतीयते । 11.7 ।
मूलम्
जलाशयस्य घोषेण जातलौल्यस्य भूयसा । कविशब्दं तिरोधाय कश्चिदर्थो न साध्यते ।। 11.8 ।।
टीका
जलाशयस्य असमर्थ अभिप्रायस्य । अभिप्रायः छन्द आशय इत्यमरः । एतेन वाक्यार्थान् यथा तथं न वर्णयन्ति इति बुद्ध्या विदुषां वाक्यार्थवर्णनं निवार्यमया समीचीनोऽर्थो वक्तव्य इति । ज़डस्य निश्चयोऽत्राशयः । जातलौल्यस्य लौल्यं तृष्णा लोलाचल स तृष्णयोः इत्यमरः । वाक्यार्थ विवक्षितम् । भूयसा घोषेण कविशब्दं तिरोधाय कवीनां विदुषां वचनं निवार्य कश्चिदर्थो न साध्यते । केवलं भूयान् घोषः कृतः विदुषां वचनं निवारितम् । अर्थान्तरम् । जातलौल्यस्य सञ्जात चाञ्चल्यस्य जलाशयस्य रसः जलाशयो जलाधारा इत्यमरः । भूयसा तरङ्गजनितेन घोषेण कविशब्दं जलपक्षीस्वनं तिरोधाय कश्चिदर्थो न साध्यते । न किञ्चित् प्रयोजनं प्राप्यते । 11.8 ।
मूलम्
सदा नवोक्तिमहितः प्रतिरुन्धन् प्रतीपगान् । प्रथितः काव्यनाम्नापि कविरेकः प्रकाश्यते ।। 11.9 ।।
टीका
सदा नवोक्तिमहितः नूतन प्रबन्ध निर्माणेन महितः प्रतीपगान् प्रातिकूलान् प्रतिरुन्धन् युक्तिभिः निरस्यन् प्रथितः प्रसिद्धः एकः कविः भूयः सुकविषु कश्चिदेव काव्य नाम्नापि प्रकाश्यते । यथा युधिष्ठिर विजयकारो रामाभि उदयकार इति । अर्थान्तरम् । ना नवोक्त्या महितः प्रतीपगान् प्रतिरुन्धन् प्रति शुक्रदोषम् अनादृत्य गच्छतः प्रतिरुन्धन् साधमानः प्रसिद्धः एकः कविश्शुक्रः काव्य इति संज्ञयापि प्रकाश्यते । 11.9 ।
मूलम्
पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया । विचित्र सृष्ट्यापि हरन् व्याप्तः कश्चिन्महाकविः ।। 11.10 ।।
टीका
पूर्वकल्पप्रकारेण पूर्वेषां कवीनां कल्पस्य कल्पनायाः यः प्रकारः तेन प्रकारेण पुरुषार्थप्रवृत्तया दृष्ट पुरुषाणामाय सन्तोषरूप प्रयोजनाय प्रवृत्तया विचित्र सृष्ट्या विहरन् आश्चर्य रसावहया अलङ्कृतया काव्य कल्पनया सन्तुष्यन् कश्चिदेव महाकविः व्याप्तः यशसा बहुदेशव्यापी भवति । अर्थान्तरम् । पूर्वकल्पप्रकारेण अतीत कल्पे येन प्रकारेण सृष्टिः कृता तेनैव प्रकारेण वर्तमान कल्पेऽपि पुरुषार्थ प्रवृत्तया जीवात्मनाम् अर्थाय प्रयोजनाय प्रवृत्तया पुरुषो नारायणः तदर्थाय प्रवृत्तयेति वा तदात्मानं स्वयम् अकुरुत इति आत्मनेपदेन सृष्टे भगवदर्थत्व अवगमात् । अप्रमेयो नियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव इति महाभारत वचनात् च विचित्र सृष्ट्या विहरन् मोदमानः कश्चिदेको महाकविः महत् कं यस्य सः महाकः महाकश्चासौ विश्चेति विग्रहः । विः पक्षी परमात्मनोः इति भट्टबाणः । वेर्गरुडस्याप्तः मित्रम् । 11.10 ।
मूलम्
मतिमन्थजवेन लब्धवर्णा प्रतिपन्ना विबुधैरनन्यभक्तैः । सुकवेरनघाशयस्य सूक्तिः स्वदते दुग्धपयोनिधेस्सुधेव ।। 11.11 ।।
टीका
मतिमन्थजवेन लब्धवर्णा मतेः बुद्धेः मन्थजवेन मथनक्रियाया वेगेन प्राप्त पदजाता उचित पदानां गवेषणम् अत्र मथनक्रिया इत्युच्यते । परितः परिवर्तन रूपत्वात् अनन्यभक्तैः विबुधैः प्रतिपन्ना दुष्कवि वचनेषु निरादरैः विवेचकैः आलोचिता । अनघाशयस्य निर्दोष अभिप्रायस्य सुकवेः सूक्किः दुग्धपयोनिधेः सुधेव स्वदते । मधुरा भवति । कवेः शोभनत्वं कविलक्षण लक्षितत्वम् अनघाशयस्य निर्दोषगर्भप्रदेशस्य यद्वा आशयः आधारः जलाशयो जलाधार इत्यादि प्रयोग दर्शनात् निष्पापानाम् आधारस्य इत्यर्थः । दुग्धपयोनिधेः सुधापि मन्थजवेन लब्धवर्णा
मथनक्रियावेगेन प्राप्त रूपान्तरा प्राप्त विस्तारा इति वा । विशकलितानां सुधावयवानां पुञ्जीभावोऽत्र विस्तारः वर्णक्रिया विस्तार गुण वचनेषु इति धातुः । अनन्यभक्तैः विबुधैः देवैः प्रतिपन्ना अन्येषां मनुष्यादीनां भुक्तम् अन्नं तत्र निरादरैः विबुधैः देवैः परिगृहीता च । 11.11 ।
मूलम्
मनु व्यास प्राचेतस परिषदर्हा क्वचिदियं सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने । निरुन्ध्युः को विन्ध्याचल विकट सन्ध्या नटजटा परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ।। 11.12 ।।
टीका
मनु व्यास प्राचेतसानां परिषद उचिता सुधा सिक्ता रसव्याप्तिः सुधासेकत्वेन अध्यवसीयते । वश्य नीलोत्पल द्वन्द्वा निस्सरन्ति शिताः शराः इतिवत् । इयं प्रबन्ध रचना रूपा सूक्तिः क्वचित् जने अप्रसिद्धे यत्र क्वापि जने स्वयमेव उदयम् अन्विच्छति । महापुरुष सभानिवास शीलाया मम सुप्राकृते वासोऽनुचित इत्येतत् अनादृत्य प्रसादभूम्ना क्वचित् वस्तुम् इच्छति । तत्र प्रसाद अतिशयस्य स्वातन्त्र्यं सहकारी इत्येतत् दृष्टान्त मुखेन दर्शयति निरुन्ध्युः इति । विन्ध्याचलवत् विकटा अत्युन्नत अतिनिम्नतया विषमाः सन्ध्या नटस्य या जटाः तासु परिभ्रान्ता तादृशस्य सञ्चार स्थानान्तरस्य अलाभात् एवं भूता गङ्गा पङ्गोरुपरि यदि निपतति के निरुन्ध्युः । न कश्चिदपि इत्यर्थः । शिव शिरसि पतितुम् उचिताया मम क्षुद्रपुरुषस्य शिरसि पातो नोचित इत्येतदनु——— स्वयमेव प्रसादभूम्ना यदि कुत्रचित् न पतति न कश्चित् प्रतिबन्धुं शक्तः । एवं सरस्वत्या स्वयम् उदयमपि न कश्चित् प्रतिबन्धुं शक्त इति भावः । 11.12 ।