मूलम्
आभिमुख्यदशामात्रात् आदर्श इव सज्जनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ।। 10.1 ।।
टीका
सज्जनः आभिमुख्यदशामात्रात् रक्तता अनुरागविशेषम् अनपेक्ष्य स्वप्रसादतः स्वभावत एवानुग्रहशीलतया पुरुषमुपकार्यत्वेन परिगृह्णाति । आदर्श इव आदर्शो हि वैमल्यातिशयेन अभिमुख्यदशामात्रेण पुरोवस्थितिमात्रेण शीघ्रं रक्तवर्णस्तु गृह्णाति । स्वान्तः प्रकाशयति तद्वत् । 10.1 ।
मूलम्
अप्यनावर्जिता स्वेन फलभारेण सन्नताः । अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ।। 10.2 ।।
टीका
सन्तानशाखिन इव साधवः साधुसन्तानशाखिनः । अनावर्जिता अप्यननुस्वता अपि स्वयमेव स्वेन फलभारेण अन्यधनत्वशङ्कारहितेन बहुना फलेन सन्नताः सन्तोऽनुकूलाः सन्तः अर्भकैः बालैरपि गृह्यन्ते । इष्टलाभाय प्राप्यन्ते सन्तानशाखिनो हि स्वेन फलभारेण सफलानां गौरवेण स्वयमेव सन्नता भूत्वा अनावर्जिता अपि अनवनामिता अपि अर्भकैरपि अनुन्नतैरपि गृह्यन्ते । आलम्ब्यन्ते तद्वत् । 10.2 ।
मूलम्
निर्मुक्त भवनक्षेत्रा स्युः सदागतिनिर्वृताः । प्राप्ते भयविपर्यासे भोगिनः खलु योगिनः ।। 10.3 ।।
टीका
योगिनः धनबाहुळ्येन दानशक्तियोगिनः । अतिशय सुकृता वा भयविपर्यासे पुरुषप्राप्ते सति भयेन विपर्यासो यस्य स इति भयविपर्यासः । भयं म्लेच्छात् उपद्रवजन्यं विपर्यासः । अन्यथा भावः गृह-क्षेत्र-धन-धान्यादि विनाशरूपः म्लेच्छादि उपहृत द्रव्ये निर्धने पुरुषे प्राप्त इत्यर्थः । निर्मुक्त भवनक्षेत्राः सम्प्राप्त दुर्गतानुग्रहाय परित्यक्त गृहेक्षेत्राः सदागतिनिर्वृताः सताम् आगत्यासन्तुष्टाः भोगिनः स्युः । तदुपयुक्तावशेषेणैव भोगभाजस्युः । यद्वा सम्प्राप्त दुर्गतै स्वदत्त गृहक्षेत्रादिना भयविपर्यासे भयाभावे प्राप्ते सति भोगभाजस्युः तावत् पर्यन्तं निद्राभोजनादि कमपि नाचरन्ति इत्यर्थः । अर्थान्तरम् । भोगिनः सर्पाः निर्मुक्त भवनक्षेत्राः निर्मुक्ताः कञ्चुकरहिताः । तेषां भावो निर्मुक्तभवनम् । तत् क्षेत्रे शरीरे येषां ते सदागतिना मारुतेन निर्वृताः सुखिताः सन्तः भयरूपे चित्तविकारे प्राप्ते योगिनः सन्नध्यास्युः । योगस्सन्नहनोपाय ध्यान सङ्गति युक्तिषु इत्यमरः । 10.3 ।
मूलम्
सर्वेषाम् उत्तराम् आशां धनदो यः परीक्षते । सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ।। 10.4 ।।
टीका
यः धनदः धनदाता स सर्वेषां याचकानाम् उत्तराम् आशां परीक्षते यावन्तं वाञ्छति तावन्तं दातुं कियति धनस्याशा पर्यवस्यतीति जिज्ञासत इत्यर्थः । ज्ञात्वा ददाति च । स पुरुषस्तु मनुष्यधर्मैव सन् पुण्यजनेश्वर एव कुबेर एव मनुष्यशरीरं परिगृह्य एतद्रूपेण वर्तत इत्यर्थः । अर्थान्तरम् । सर्वेषाम् आशापतीनां मध्ये यः आशापतिः उत्तराम् आशां रक्षितुं परीक्षते । तद्वर्तिनां युक्तमयुक्तं च विचार्यानुग्रहं निग्रहं च करोति । स दिक्पतिः धनदः धनदाता कुबेरश्च मनुष्यधर्मैव सन् पुण्यजनेश्वरश्च राक्षसानाम् अधिपतिश्च उत्तरादिक् खलु मनुष्याणां नैव दिगस्यापि इति मनुष्यधर्मता एषा वै देवमनुष्याणां शान्तादिक् इति श्रुतिः । मनुष्या ह्यल्पशक्तयो राक्षसान् नियन्तुं न शक्नुवन्ति अयं तु बलातिशयान् मनुष्यधर्मापि सन् बलवतो राक्षसान् नियच्छति इत्यर्थः । प्रथम योजनायां पुण्यजनानाम् ईश्वरः उत्कृष्ट इति यावत् मनुष्या साधारण सर्वधर्मवान् इति योजयन्ति । द्वितीय योजनायां मनुष्याणां धर्मः श्मश्रुलत्वादिः यस्य इति कुबेरस्य श्मश्रुलत्वादिकं स्वभावसिद्धम् इति प्रसिद्धेः । 10.4 ।
मूलम्
येषां हिरण्यकशिपु क्षेत्रदानकरः करः । तेषां तिर्यङ्मुखत्वेऽपि पुरुषत्वं न हीयते ।। 10.5 ।।
टीका
येषां करः हिरण्यकशिपु क्षेत्रदानकरः हिरण्यं स्वर्णं कशिपुः तल्पं क्षेत्रं व्रीहि यवाद्युत्पत्ति स्थानं तेषां तिर्यङ्मुखत्वेऽपि कालविशेष वैमुख्ये सत्यपि पुरुषत्वं दानरूपं पुरुषकर्म न हीयते । समयान्तरे दद्यादेव अतस्तं हित्वा नान्यत्र गच्छेत् इति भावः । अर्थान्तरम् । येषां नृसिंहावताराणां हिरण्यकशिपोः असुरस्य क्षेत्रस्य शरीरस्य दानकरः खण्डनकरः तेषां तिर्यङ्मुखत्वेऽपि सिंहमुखत्वेऽपि कण्ठौ दधस्तात् पुरुषत्वं मनुष्यत्वं न हीयते नापैति । पुरुषत्वं नारायणत्वं कदाचित् स्वरूपभेदेऽपि स्व स्वभाव स्यात् अपरित्यागादिति अन्ये । 10.5 ।
मूलम्
मुख्यदानोदक क्लिन्नकरः ख्यातक्षमाधृतिः । लोकपालाश्रितः कश्चित् अनाशावारणः कथम् ।। 10.6 ।।
टीका
मुख्यानां तुलापुरुषादीनां दानां यदुदकं तेन क्लिन्नः करो यस्य सः ह्याते क्षमाधृतीक्षान्तीधैर्यै यस्य सः । लोकपालान् इन्द्रादीन् उपास्यत्वेनाश्रितः कश्चित् पुरुषः अनाशावारणः कथं स्यात् । आशावारणः स्यादेव इष्टार्थ विश्राणनेन आशां वारयेदेत्यर्थः । अर्थान्तरम् । मुख्यदानोदक क्लिन्नकरः मुखे भवं मुख्यं यद्दानोदकं मदजलं तेन क्लिन्नकरः ख्याताक्षमाधृतिः भूमिधारणं यस्य सः लोकपालैः इन्द्रादिभिः वाहनत्वेन आश्रितः कश्चित् गजः कथम् आशावारणात् दिग्गजादितरः स्यात् । दिग्गज एव स्यात् । 10.6 ।
मूलम्
विक्षोभितो बुधैः कश्चित् गम्भीरमधुराशयः । चन्द्ररत्नगवाश्वादि सहितां दिशति श्रियम् ।। 10.7 ।।
टीका
गम्भीरमधुराशयः गम्भीरः इतरैः ज्ञातुम् अशक्यः मधुरः सर्वानुकूलतया प्रीतिजननः आशयः यस्य सः कश्चित् पुरुषः विबुधैः परचित्तवशीकरणप्रकाराभिज्ञैः क्षोभितः सन् सन्तोषरूपं विकारं प्राप्तिः सन् चन्द्ररत्नगवाश्वादि सहितां श्रियं दिशति । चन्द्रं सुवर्णम् । चन्द्रश्शुभ्रांशु कर्पूरकाम्पिल्य स्वर्णवारिषु इति विश्वः । श्रीः ऐश्वर्यं धनादिकं दिशति । ईदृशः पुरुषो दुर्लभ इति सूचनाय कश्चित् इत्युक्तिः । अर्थान्तरम् । गम्भीरः अगाधः मधुरः स्वादुः आशयः प्रदेशो यस्य सः । विबुधैः देवैः क्षोभितः मथितः कश्चित् क्षीराब्धिः एक एव नान्यः तादृशोऽस्ति । चन्द्ररत्नगवाश्वादि सहितां श्रियं दिशति ददाति । आदि पदात् अप्सरः पारिजात अमृतानां ग्रहणम् । उचिते
पात्रविशेष इति शेषः । 10.7 ।
मूलम्
वदान्यश्च कदर्यश्च गृहीतस्थिरलोभतः । स्वानर्थान् सञ्चिनोऽत्यर्थान् परानर्थैः अयोजयन् ।। 10.8 ।।
टीका
कदर्यश्च गृहीतस्थिरलोभतः इदं स्थिरं भूयात् इति छाया परान् अन्यान् अर्थैः अयोजयन् कस्मैचित् कञ्चित् अदर्न स्वजनानाम् अनर्थहेतून् अर्थान् धनानि स़ञ्चिनोति परेभ्योऽर्थे दत्ते स्वार्थनाशः स्यात् इति मत्वा न किञ्चित् ददाति । प्रत्युत स्वजनान् बाधते । स्वार्थलोभाय इति भावः । वदान्यः गृहीत स्थिरलोभतः । गृहीतमिदं स्थिरं मे भूयात् इति इच्छया स्वान् अर्थान् आत्मीय धनानि परान् अर्थैः परोपद्रवैः अयोजयन् परोपद्रवे कृते तत्र अतिकूल्यात् अर्थनाशः स्यादिति बुद्ध्या स्वेनान् अर्थेन परान् अपीडयन्नित्यर्थः । अर्थान् सञ्चिनोति कदर्यश्च । 10.8 ।
मूलम्
अनिश्शोषितदातव्यं वदान्यदिति वादिनम् । नोपसर्पति सव्रीडो व्रीडाकुलवधूरिव ।। 10.9 ।।
टीका
दातव्यम् अपरेप्सितं तेन च तत् प्रश्नो लक्ष्यते । अनिश्शेषितः असमाप्तिः दातव्यः ईप्सित प्रश्नो येन तम् । वदान्यदिति वादिनम् अन्यत् ईप्सितं वदेति वादिनं पुरुषम् अर्थिजनस्सव्रीडो नोपसर्पति । व्रीडया आकुला वधूरिव महत् अस्माकम् ईप्सितं कथम् अयं दास्यति इति आगमनदशायाम् उत्पन्नाया बुद्धेः सर्वम् ईप्सितम् अदत्वा पुनरन्यत् वदेति प्रश्नेन बाधित्वात् लज्जा । 10.9 ।
मूलम्
अपुनर्देहिशब्दार्हम् अप्रत्युपकृतिक्षमम् । अर्थिनं कुरुते कश्चित् पुनरावर्तिवर्जितम् ।। 10.10 ।।
टीका
कश्चित् पुरुषः अर्थिनं याचकम् अपुनर्देहिशब्दार्हं बहुळ धनप्रदानेन कृतार्थतया लिप्साविरहात् देहि इति शब्दं प्रयोक्तुम् अनर्हम् । अप्रत्युपकृतिक्षमम् अनुरूपस्य उपकारस्य असम्भवात् प्रत्युपकार असमर्थं पुनरावृत्ति वर्जितम् । धनबाहुळ्येन योगक्षेमशैथिल्य शङ्काविरहात् कालान्तरेऽपि पुनरागम प्रसक्तिरहितं कुरुते । एतादृश पुरुषस्य दौर्लभ्यं सूचयति कश्चिदिति । अर्थान्तरम् । कश्चित् एक एव नारायणः अर्थिनं त्वमेवोपाय भूतो मे भव इति प्रार्थनाकृतम् अपुनर्देहिशब्दार्हं पुनरपि देहीजात इति शब्दस्य अनर्हं प्रत्युपकारसमर्थं पुनरावर्ति वर्जितं च कुरुते । इमम्ना नवमावर्तन्नावर्तन्त इति श्रुतेः । 10.10 ।
मूलम्
त्वचं मांसं जीवं यदपि ददुरस्थीनि पृथिवीं श्रियं रत्नाधीशं त्रिदशतरुम् ऐरावतम् अपि । तदेतत् प्रत्येकं मिलितमपि नालं तुलयितुं मनस्कारोपेत स्थिरमधुरकल्योक्ति कणिकाम् ।। 10.11 ।।
टीका
कश्चित् दाता त्वचं दत्तवान् कश्चित् मांसमिति सर्वमिदं पुराणेषु प्रसिद्धम् । त्वदादीन् ददुरिति यत् तदेतत् सर्वम् उपकारजातं प्रत्येकं मिलितमपि सत् मनस्कारोपेत स्थिरमधुरकल्योक्ति कणिकामपि तुलयितुं नालम् । मनस्कारोपेतत्वम् उक्तेः आदरातिशयवत्वं स्थिरत्वं कालान्तरेषु अनन्यथा भूतत्वं मधुरत्वं प्रीतिहेतुत्वं कल्यत्वं समर्थत्वं यथार्थत्वं प्रयोक्तिः सर्वेभ्यो दानेभ्योऽपि विशिष्टेति भावः । 10.11 ।
मूलम्
अनिर्घातं धाराधरम् अमथनियन्निधिमपाम् अकाठिन्यं चिन्तामणिम् अजडभूतं सुरतरुम् । अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं परार्थैक स्वार्थान् अकृत पुरुषान् आदिपुरुषः ।। 10.12 ।।
टीका
प्रभुः सर्वसमर्थः आदिपुरुषः श्रीमन्नारायणः निर्घातादीन् दोषान् निसृत्य धाराधरादीन् अभित्त्वा अखण्डयित्वा उपादायकाले कञ्चन उपादान कारणत्वेन परिगृह्य परार्थैक स्वार्थान् पुरुषान् अकृत परप्रयोजनात् अन्यत् एषां स्वप्रयोजनान् न विद्यते । परप्रयोजनं स्वप्रयोजनम् एव ते परार्थैक स्वार्थाः गुणातिशय साम्यात् उपादानकारणम् उत्प्रेक्षते । तत्र तत्र धाराधरस्य निर्घातो दोषः अपां निधेः मथनीयत्वं दोषः चिन्तामणेः काठिन्यं सुरतरोर्जडत्वं सुरभेः पशुवृत्तित्वम् आहारव्यवहारयोः नियमाभावः । महापुरुषेषु एतेषाम् अनुपलम्भात् उपादान कारणेभ्यो निर्हरणम् उत्प्रेक्षते । आदि पुरुषै च एतादृश पुरुषस्रष्ठ्यत्वरूपम् उपकर्तृत्वम् उच्यमानम् आदिपुरुषस्य परमकारुणिकतां व्यनक्ति । 10.12 ।