09 नीतिमत्पद्धतिः

मूलम्

विक्रमाक्रान्तभुवने समे षाड्गुण्यशालिनि । भजति स्थिरतां लक्ष्मीः कस्मिंश्चित् पुरुषोत्तमे ।। 9.1 ।।

टीका

विक्रमाक्रान्तभुवने पराक्रमव्याप्त लोके समे । अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् । द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीत् अङ्गली वोरगक्षता । इत्याद्युक्त रीत्या शरीरसम्बन्ध स्नेहद्वेषानादरेण गुणवत्यनुग्रहं दुर्गुणे निग्रहं च कुर्वन्ति इत्यर्थः । षाड्गुण्यशालिनि सन्धिविग्रहयानासन द्वैधीभाव समाश्रयाख्य गुणषट्क विशिष्टे आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमश्शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् । इत्युक्त आनृशंस्यादि गुणषट्कयुक्तः इतीवार्थः । पुरुषोत्तमे पुरुषेषु श्रेष्ठि कस्मिंश्चित् राजनि लक्ष्मीः ऐश्वर्यं स्थिरतां भजति । न नश्यति । अर्थान्तरम् । विक्रमाक्रान्तभुवने त्रिभिर्विक्रमैः पदन्यासैः मितलोकत्रये समे । समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः इत्युक्त स्नेहद्वेष विरहरूप साम्य विशिष्टे षाड्गुण्यशालिनि ज्ञान-शक्ति-बलैश्वर्य-तेजोरूप गुणषट्क विशिष्टे पुरुषोत्तमे नारायणे श्रीपतिः पुरुषोत्तम इत्यमरः । कस्मिंश्चित् एकस्मिन्नेव लक्ष्मीः पद्मा स्थिरताम् । नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी इत्युक्तम् अनपायिनं सम्बन्धविशेषं भजते । 9.1 ।

मूलम्

पार्थिवानां पदार्थानां स्वभूत्या चक्रवर्तिनाम् । सूचयत्यचिरात् भेदं छिद्रेण महतान्वयः ।। 9.2 ।।

टीका

पदार्थानां पदं त्राणं चक्रवर्तित्व संरक्षणमेव प्रयोजनं येषां तेषां स्वभूत्या निजैश्वर्येण चक्रवर्तिनां सर्वस्मिन्नपि भूचक्रे वर्तमानानां सर्वमपि भूचक्रं वर्तयतां वृत्तियुक्तं कुर्वताम् इति वार्थः । पार्थिवानां राज्ञां महवता बलवता छिद्रेण स्वजन विरोधेनान्य यः सम्बन्धः अचिरादेव भेदं तृतीयमुपायं कारणत्वेन सूचयति । ऐश्वर्य भ्रंशरूपम् अवस्थान्तरं वा स्वकार्यत्वेन सूचयति । अर्थान्तरम् । चक्रवर्तिनां कुलाल चक्रस्थितानां पार्थिवानां पदार्थानां कुल्यरामिति (मृदामिति) भावः । महता छिद्रेण विशालेन रन्ध्रेण अन्वयः सम्बन्धः अचिरात् स्वभूत्या स्वोत्पत्त्या घटशरावादि आकारापत्त्या प्रयुक्तं मृदन्त वैलक्षण्यं सूचयति । 9.2 ।

मूलम्

सदसन्तौ विचिन्वानः समवर्ती शमप्रदः । अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ।। 9.3 ।।

टीका

सदसन्तौ साध्वसाधू विचिन्वानः अनुग्रहाय निग्रहाय च मार्गमाणः समवर्ती प्रजासु पक्षपातं विना वर्तमानः । शमप्रदः परस्परविरोधं परिहरन् तस्करादि उपद्रवञ्च परिहरन् नित्यं दण्ड्येषु दण्डधरोऽपि यो लोकपालो भवति यो राजा जनरक्षको भवति स दक्षिणः समर्थः विपरीतस्त्वसमर्थः । अर्थान्तरम् । यो लोकपालः स्वर्गं नरकं च प्रापयितुं सदसन्तौ पुण्य-पापकृतौ विचिन्वानः समं वर्तत इति व्युत्पत्त्या समवर्तीसंज्ञः । शमप्रदः इन्द्रिय व्यापारविरतिश्शमः तत्प्रदः मारयन् इत्यर्थः । नित्यं दण्डधरोऽपि दण्डाख्यम् आयुधं दण्ड्येषु पापकृतां पापानुरूपं निग्रहं धारयति इति व्युत्पत्त्या दण्डधरसंज्ञश्च भवति । सदक्षिणः दक्षिणदिग्वर्ती । 9.3 ।

मूलम्

यमेनोपक्रमे जानन् विश्वाधीशं व्यवस्थितम् । सामादिषु च तत्त्वज्ञः सनकस्सिद्धिम् अर्हति ।। 9.4 ।।

टीका

अहिंसा सत्यवचनं ब्रह्मचर्यम् अकल्कता । अस्तेयम् इति पञ्चैते यमाश्चैव व्रतानि च इति । यम शब्दार्थ उक्तः उपक्रमे ऐश्वर्यारम्भ दशायां यमेन अहिंसादिना व्यवस्थितम् एकरूपं पुरुषं विश्वाधीशं विश्वस्य भूमण्डलस्याधीशं प्रभुं जानन् अहिंसादि युक्त एव मण्डलाधिपतिः भविष्यति इति निश्चयवान् इत्यर्थः । सामादिषु साम-दान-भेद-दण्डेषु तत्त्वज्ञः यथार्थज्ञानवांश्च यो भवति सः तादृशः कः सिद्धिं नार्हति । एतादृशः सर्वोऽपि राजा सिद्धिम् इष्टार्थप्राप्तिम् अर्हति एव इत्यर्थः । अर्थान्तरम् । यं सनकं ब्रह्मकुमारम् एनोपक्रमे पापागमे जाते व्यवस्थिम् । परमात्मनि अवस्थितं विश्वाधीशं च विश्वेषाम् अधीशं मानसव्यधानाम् ईशम् अवश्यं च अजानन् महर्षयो ज्ञातवन्तः । सामादिषु ऋग्यजुस्सामाथर्वणेषु तत्त्वज्ञस्स सनकः सिद्धिमर्हत्येव । विः पक्षी परमात्मनोरिति भट्टबाणः । पुंस्याधिर्मानसी व्यधत्यमरः । अर्थान्तरम् । एनोपक्रमे पापागमे विश्वाधीशं प्रपञ्चप्रभुं व्यवस्थितं हंस स्थितिं च यं ब्रह्माणां जानन् सामादि तत्त्वज्ञः पुरुषो भवति स कः स ब्रह्मा सिद्धिं प्राप्यतां नार्हतीति । अर्थान्तरम् । सामादि तत्त्वज्ञः पुरुषः व्यवस्थितं गरुडस्थितं हरिं विश्वाधीशं चराचरपतिं जानन् भवति । एको नैकस्सवः कः किम् इति क संज्ञस्स हरिः सिद्धिम् अनवाप्तावाप्तव्य प्राप्तिं नार्हति । नानवाप्तम् अवाप्तम् इति स्मृतेः । 9.4 ।

मूलम्

अङ्गयुक्तः कृतार्थश्च (कृतास्त्रश्च) कुर्वन् सम्यक् पुरोविधिम् । विजानन् सिद्धसाध्यादीन् वैरिमन्त्रैः न पीड्यते ।। 9.5 ।।

टीका

अङ्गयुक्तः स्वाम्यमात्यादिभिः सप्तभिः अङ्गैः युक्तः कृतार्थः साधितास्त्रः पुरः नगर्याः विधिं कर्तव्यं विधानं सम्यक् कुर्वन् सिद्ध्यसाध्यादीन् विजानन् असाध्यं त्याज्यं चादि शब्दार्थः । वैरिमन्त्रैः शत्रूणाम् आलोचनाभिः न पीड्यते । अर्थान्तरम् । हृदय शिरश्शिखा कवच नेत्रास्त्ररूपैः षड्भिरङ्गैः नेत्रवर्जितैः पञ्चभिर्वाङ्गैः युक्तः केषां चिन्मन्त्राणां पञ्चाङ्गान्युपदिष्टानि । तेषां चित् षडङ्गानि यथोपदेशं तत्तदङ्गैर्युक्त इत्यर्थः । कृतास्त्रः अस्त्रमन्त्रेण कृत दिग्बन्धन इत्यर्थः । अङ्गान्तर्भावेऽपि अस्त्रस्य पुनरुक्तिः । दिग्बन्धनार्था अनेनैवाफिप्रायेण गरुडपञ्चाशत् प्रथमश्लोकेऽपि अङ्गोक्ता सत्यामप्यस्त्रस्य पुनरुक्तिः । पुरोविधिं जप होम तर्पणाभिषेक विप्रभोजनात्मना पञ्चाङ्गां पुरश्चर्यां सम्यक् यथा शास्त्रं कुर्वन् सिद्धसाध्यादीन् विजानन् सिद्धसाध्य सुसिद्ध वैररूपांश्चतुर्विध मन्त्रान् विजानन् वैरिमन्त्रैः न पीड्यते । वैरिसंज्ञकैः मन्त्रैः न पीड्यति इत्यर्थः । मन्त्रचातुर्विध्यं पाद्मसंहीतायाम् उक्तम् । चतुष्पदं लिखित्वोऽर्व्यां तत्राकारादि निक्षिपेद् यस्मिन् पदे साधकस्य नामाद्यर्ण लिपिस्तथा तत्रैव चे भवेन मन्त्रस्याप्याद्यर्णम् अवस्थितम् । तत्सिद्धं स्याद्द्वितीये तु साध्यं विद्यादनन्तरे पदे तु सिद्धं तुर्ये तु वैपरीत्याय कल्पते । सिद्ध्येत् सिद्धं जपाद्यैस्तु साध्ये साध्यं सुसिद्धके । अधीत मात्रं महते फलाय भवतिर्ध्रुवम् । पदे तु वैणिस्याच्चेल्लपिरध्येत् प्रणाशनम् । आनुगुण्यं परीक्ष्याथ निमित्तानि परीक्ष्य च । साधकस्साधयेन्मन्त्रंदेवस्य कुटिलागतिम् । चतुर्षु मूलमन्त्रेषु नानुगुण्यं परीक्षयत् । तारमष्टाक्षरं चैव द्वादशाक्षरमेव च । विष्णुना यत्र्यापि तथा चत्वारः प्रथमे मता इति विजानन् सिद्धसाध्यादीन् इत्यत्र चातुर्विध्यज्ञानमात्रं स विवक्षितम् । किन्तु तत्कृतं ग्राह्याग्राह्यत्व ज्ञानं तत्फल भेद ज्ञानं केषु चिन्मन्त्रेषु वैरित्वानादरत्व ज्ञानं च उपसर्ग इमम् अर्थं सूचयति । तत्तन्मन्त्राज्ञानि तत्तन्मन्त्रप्रकरणे वेदितव्यानि । यदा अष्टाक्षराङ्गानि तत् प्रकरणे दर्शितानि । पाद्मे तन्त्रे अङ्गानि षट् । द्विषट्कस्य मन्त्रस्यैव विदुर्बुधा इति द्विषट्कशब्दो द्वादशाक्षरवाची द्वादशाक्षर मन्त्रस्यैव अस्यापि मन्त्रस्य ष़डङ्गानि । बुधा विदुः इत्यर्थः । द्वादशाक्षरस्य तु श्रद्धो महान्श्च वीरश्च द्वास्सहस्रश्च ते जपा । उल्कान्ताष्टदि मे शब्दाऋ चतुर्थ्यन्ता कुतान्नदाः इत्यङ्गान्युपदिष्टानि कुतान्त शब्दः स्वाहाकार वचनः । स्वाहाकारो कुतान्तस्यादिति संज्ञाकरणात् । क्रुद्धोल्काय स्वाहा । महोल्काय स्वाहा । वीरोल्काय स्वाहा । द्यूल्काय स्वाहा । सहस्रोल्काय स्वाहा । तेजोल्काय स्वाहा । इति षडङ्गमन्त्राः । बीज शक्त्यङ्गहीना ये मन्त्राः तेस्युः निरर्थकाः । तस्मात् साहं बिजयुक्तं शक्तियुक्तं फलप्रदमिति स्मरणात् अङ्गयुक्तम् इत्युक्तम् । एवं बहुप्रकारान् न्यासान् कृत्वा अन्ते दिग्बन्धनम् अस्त्रमन्त्रेण कर्तव्यं तत् उच्यते । कृतास्त्र इति क्रमदीपिकायां बहून् न्यासानुक्त्वा तदन्ते दिग्बन्धप्रकार उक्तः । प्रणवहृदोरवसाने ओन्नम इत्युच्चार्य तदन्ते सचतुर्थं सुदर्शन अस्त्रपदम् उक्त्वा षडन्तम् अमुना कलयेत् मनुना अस्त्रमुद्रया हरित इति हृदिति नमश्शब्दोच्यते । प्रणव हृदोरवसाने ओन्नम इत्युच्चार्य तदन्ते सचतुर्थं सुदर्शनमुक्त्वा सुदर्शनाय इत्युक्त्वा तथा अस्त्रपदं ष़डन्तमुक्त्वा तथा चतुर्थ्यन्तमस्त्राय षडित्युक्त्वेत्यर्थः । ओन्नमस्सुदर्शनाय अस्त्राय षडिति पुष्कलो मन्त्रः । अमुना मनुना अनेन मन्त्रेण अस्त्रमुद्रया च हरितः कलयेत् बध्नीयात् अस्त्रमुद्रालक्षणं पाद्मे अभिहितम् । तर्जन्यङ्गुष्ठ शिरसा स्फोटयेत् चक्रवत् स्मरन् । दिक्षु सर्वासु शेषाभिर्मुष्ठिं बद्ध्वा चतुर्मुख सैषास्त्रमुद्रा विज्ञेया इति क्रमदीपिकायाम् अपि । नारा च मुष्ठ्युद्धृत बाहुयुग्म साङ्गुष्ठ तर्जन्युदितोध्वनिस्तु । विष्वग्विषक्तः कथितास्त्र मुद्रेति । पुरश्चरणस्वरूपं गौतम तन्त्रेऽभिहितम् । जपहोमौ तर्पणं चस्सेको ब्राह्मण तर्पणम् । पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यत इति । जप-होम-तर्पणानां सङ्ख्या नियमः तत्तन्मन्त्र प्रकरणे द्रष्टव्यः । यदा अष्टाक्षरप्रकरणे जपो लक्षाष्टकं प्रोक्तं तदर्धं जलतर्पणम् । तदर्धं जुहुयादग्नौ ततस्सिद्ध्यति मन्त्रराडिति । जपार्धं तर्पणं तर्पणार्धं होम इत्यर्थः । परिभाषाप्रकरणे अन्यथा सङ्ख्योक्ता । द्वादशाष्टाक्षरमपि जपेदक्षरलक्षकम् । तदर्धं जुहुयादग्नौ । होमशीलाः प्रकल्पयेदिति । अस्मिन् पक्षे होमार्ध सङ्ख्यया तर्पणं कार्यम् । समान सङ्ख्यं वा एतदानुगुण्येन तदर्धं जुहुयादग्नौ ततस्सिद्ध्यति मन्त्रराडित्यत्रापि तच्छब्दो व्यवहितामपि जपसङ्ख्यां वदति न तर्पणसङ्ख्याम् । पूर्वश्लोके विरोधात् युगभेदेन सङ्ख्या नियमो भिद्यते । यावदुक्तं कृतयुगे मन्त्राभ्यसनमिष्यते । त्रेतादिषु त्रिषु प्रोक्तम् । द्विगुणं त्रिगुणं क्रमात् । चतुर्गुणं परं वापि ततो मन्त्रफलेप्सया इति वचनात् । सेकोऽभिषेकः स्नानं तत्तन्मन्त्रकरणकम् । यथा अष्टाक्षरं जपतः तन्मन्त्रकरणकं पाद्मे तन्त्रेऽभिहितम् । ततो मध्याह्नसमये स्नानं कुर्यात् यथाविधि न्यासम् अग्रे ष़डङ्गानां कृत्वादाय मृदङ्करे । सर्वे निधाय कृत्वा तां त्रिधा मूलाग्रमध्यतः मूले स्थितां मृदं पूर्वमभिमन्त्र्यार्थ विद्यथा विदिक्षु दिक्षुचोर्ध्वायां अधरायामपि क्षिपेत् । ततो मध्य स्थितां मृत्स्नात् उदके मूलविद्यया निक्षिप्य भागम् अग्रस्थं कराभ्यां करयोः द्वयोः विधाय पङ्कमम्भोभिः दर्शयित्वा च पूषणम् अस्त्रहीनाङ्गविद्याभिः आपादतलमस्तकम् आलिप्य देहम् अखिलम् अवगाह्य च वारिषु देवमावाह्य लक्ष्मीशंदद्यात् अर्घ्यादिकम् । ततः तत्पादकमलाम्बोभिः पाणिभ्यां कुम्भमुद्रया पावनैः शिरसि न्यस्तैरात्मानम् अभिषिच्य च वासुदेवम् अभिध्यायन् अघमर्षणम् आचरेदिति । यद्यपि इदं स्नानं पञ्चकालप्रकरणे अभिहितं न तु पुनश्चरणप्रकरणे तस्मान्न पुनश्चरणार्थता इति तथापि मन्त्रान्तरेषु तत्तन्मन्त्रप्रकरणक स्नानदर्शनादिदं स्वतन्त्रत्वेऽपि अष्टाक्षर पुरश्चरणकाले पुरश्चरणार्थमपि इति गम्यते । अत एव क्रमदीपिकायां द्वादशम् अष्टाक्षरं वा पुरश्चरन्तः तन्मन्त्रकरणकं स्नानमुक्तम् । कुर्वन् स्वात्मीयं कर्मवर्णाश्रमस्थं मन्त्रं जप्त्वा अद्भिस्नानकालेऽभिषिञ्चेत् इति । वर्णाश्रमधर्मार्थम् । यत् स्नानं चोदितं तदेव पुरश्चर्यमाण मन्त्रेण कर्तव्यम् । अनेन नित्य स्नानमन्त्रस्य अघमर्षण सूक्तादेः बाध एव न तु स्नानान्तरम् इत्यर्थः । जप-होम-तर्पण-स्नान-ब्राह्मणभोजनैः पञ्चभिरङ्गैर्युक्तं मन्त्रं प्रतिपाद्यदेवतायाः तेन मन्त्रेण आराधनं पुराणं पुरश्चरणं सम्यक् कुर्वन् इत्यत्र सम्यक्त्वं तादर्ध्येन प्रवृत्त शास्त्रार्थोपसंहारः । तत्र मन्त्रस्वरूप तदर्थज्ञान पुरश्चरण तदिति कर्तव्यता कलाप तत्प्रयोगविशेष तत्फलविशेषाणां गुरुवक्त्रात् अवगमः प्रथमः शास्त्रार्थः । पाद्मे तन्त्रे सर्वे मन्त्रास्सर्वफल गुरुवक्त्राद्यदिश्रुता इति प्रकारान्तरेण अवगमे फलाभावोऽनर्थश्च तत्रैवोक्तः । यदृच्छया श्रुतो मन्त्रः छन्नेनाथ च्छलेन वा पत्रेक्षितो वा व्यर्थः स्यात् प्रत्युतानर्थदो भवेदिति । गुरोकलाभे मातृका चक्रपूजका पूर्वकं मन्त्रोद्धारोऽभिहितः । पाद्मे तन्त्रे तादृश मन्त्राणां फलविशेष साधनता मात्रं न तु पुनः गुरूपदिष्टमन्त्रवत् सर्वफलसाधनत्वम् इत्यप्युक्तम् । तत्रैव प्रशस्ते निर्जने गुप्ते भूभागे शोधिते समे । हस्तद्वयेन विस्तीर्णं स्थण्डिलं चतुरश्रकम् । दर्पणोदरसङ्काशम् उन्नतं चतुरङ्गुलैः । मृद्भिर्विधाय सुषिरं गोमयेनानुलिप्य च । प्रोक्ष्य चक्रं विधातव्यं षोडशारं परिष्कृतम् । नाभि नेमि समायुक्तं चन्दन क्षोदरेखया । तन्मध्ये छन्दसामादिररभूषु स्वरान् तथा । स्पर्शाक्षरं नाभिमध्ये नेमिमध्ये च यादवः । एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया । अर्घ्याद्यैः सकलैर्भोगैः वर्णात्मानं समर्चयेत् इति । चक्रपूजां विधाय वर्णानां संज्ञाभेदान् देवताभेदान्श्च अभिधाय वर्णानां चक्रनिष्ठानां नामान्यपि च देवताः यो वेत्ति तस्य फलदा मन्त्रिणः चतुराननेति । तत् ज्ञानस्यावश्यकताम् अभिधाय अक्षराणां नक्षत्रराश्यादिकम् उक्त्वा मन्त्रस्य साधकस्य च नरनार्योरिवानुकूल्य प्रातिकूल्य परीक्षा प्रकारम् उक्त्वा स्त्रीपुन्नपुंसकभेदेन मन्त्र त्रैविद्यमाह । स्त्रियन्तु मन्त्रास्स्वाहान्ताः नमोऽन्तास्तु नपुंसकाः शेषाः पुरुषमन्त्रास्युरिति त्रिविधम् ईरितम् इत्युच्छाटने षडन्तामारणाद्यर्थे शस्ता भूताद्युपद्रवे हुङ्कारान्ताः प्रशस्यन्ते नौ षडन्ता स्तुते पुनः । आप्यायने नियुज्यन्ते धर्मकामार्थमुक्तिषु । चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्ता सर्वसिद्धिदा इति चक्रोधृत मन्त्राणां शेषां चित् क्वचिदानुगुण्यम् अभिधाय गुरूपदिष्टानां तु सर्वेषामपि सर्वार्थताम् आह । सर्वे मन्त्राः सर्व फलाः गुरुवक्त्राद्यदिश्रुताः इति अतो वैधर्म्यात् गम्यते । चक्रोद्धार गुरूपदेशाद्वौ पक्षापरस्पर निरपेक्षाविति यदि शब्दोपबन्धाच्च सर्वफलसाधनत्व अतिशयोपदेशात् अयं मुख्यः कल्पः । चक्रोद्धार इति गम्यते । अयं मन्त्रोद्धार प्रकारः तत्तन्मन्त्रप्रकरणे वेदितव्यः । यथा अष्टाक्षरप्रकरणे वर्णचक्रं समालिख्य भूमावर्घ्यादि साधनैः । अभ्यर्च्य च यथा न्यायं ततो वर्णान् समुद्धरेत् ।। उद्गीथम् आदौ विघ्नेशः प्रयोज्यः तदनन्तरम् । ब्रह्मसाधन संयुक्ते मन्दरः तदनन्तरम् ।। आदिदेवाव्रतो भद्रे बाहुः पश्चात् ———तेः । वाहिर्गोपन समर्पितश्वसनो विष्णुशीर्षकः ।। वनमाली ततो योज्यो मधुसूदन संयुतः । प्रणवादि शिरावायुः इति वर्णक्रमो मति इति उद्गीथः प्रणवः । आदौ अकारात् पूर्वं विघ्नेशो नकारः प्रयोज्यः ब्रह्मसाधन संयुक्तो मन्दरः । ओकार संयुक्तो मकार इत्यर्थः । भद्र बाहुः नाकारः । आदिदेवव्रतः अकारव्रतः वह्निरेफः गोपनः आकारः श्वसनो यकारः विष्णुः अकारः वनमाली णकारः मधुसूदनः आकारः प्रणवादि रकारः वायुः यकारः । अनयोः अन्यतर मार्गेण मन्त्रस्वरूपं ज्ञातव्यम् । इदमेकं सम्यक्त्वम् । मन्त्रशब्दार्थो विज्ञातव्यः । मननं सर्व सत्त्वानां त्राणं संसारसागरात् । मननत्राण सम्योगात् मन्त्र इत्युच्यते बुधैः । मन्नित्ययं शब्दः मन्त्रार्थ चिन्तावाची । मननेन सर्वसत्त्वानि त्रायत इति मन्त्रः इत्यर्थः । अथवा गोपनीयत्वात् हेतोर्मन्त्रयतेः अयम् अप्रत्ययान्तः पुल्लिङ्गः । तथा वेदलोकयोः जपतः पुरुषस्य मन्त्रेण रक्षणीयत्वात् कर्तृसाधन अप्रत्ययान्तोऽयं मन्त्रयति धातूत्पन्नो मन्त्रशब्दः अप्रत्ययान्तत्वात् एव लोके वेदे च पुल्लिङ्ग प्रयोग उपपद्यते इत्यर्थः । रक्षाप्रकार उक्तः । मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते । ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधा इति । एवम् अप्रत्ययान्तत्वे चित इत्यन्तोदात्तता स्यात् । व्यत्ययो बहुळमित्याद्युक्तता निर्वाहः । एवं मन्त्रत्वज्ञानमपि सम्यक् पदेन विवक्षितम् । तत्तन्मन्त्रप्रकरणोक्त निरुक्तिपर्यालोचनया मन्त्रार्थो वेदितव्यः । यथा अष्टाक्षरनिरुक्तिः । निरुक्तम् अन्य मन्त्रस्य कथयामि यथा तथम् । आपः क्विबन्तो व्याप्त्यर्थः स्मर्यते कर्तृसाधनः । ओकारो वर्णव्यत्यासात् स्यादकारस्य पद्मजा । मकार वर्णव्यत्यासः पकारस्याप्ययन्त्विदम् । अन्तर्बहिश्च यत्सर्वं व्याप्नोति तदुदीरितम् । आपॢ व्याप्ताविति धातोः कर्तरि क्विप् । आकारपकारयो स्थाने वर्णव्यत्यासात् ओकारमकारौ कृत्वा प्रणवो निष्पाद्यते । अथवा तन्तु सन्तानाव्यतेर्ये इणोमदिष्यते । टेश्चरोपो वकारस्य प्रसारणमतः परम् । पूर्वक्त्वं चोपसर्गस्य स्यादाङ्गश्चाद्गुणः कृतः । यस्मिन्नोतमिदं सर्वं तदेवम् अभिधीयते । वेञ् तन्तु सन्ताने इति धातोर्मट् प्रत्ययः । प्रत्ययस्य टित्वादेव धातोष्टि लोपः । परिशिष्टस्य वकारस्य सम्प्रसारणम् आनन्दपूर्वत्वम् आद्गुण इति गुणः । अवते रक्षणार्थाद्वाम् ———टिलोपे च वर्तते । वकारस्योपधायाश्च द्वयो रूढागमस्मृतः । गुणे च रूपं यत्सर्वं त्रायते तत्परं पदम् । अभिधेयमिति प्रोक्ता निरुक्तिः प्रणवस्य सा । सम्यतेदेव एकैकस्तेषाम् एकं परायणम् । नरोदेवः परस्स्रष्टा सर्गादौपाध सामदः । तस्मात् नाराणि पाथांसि तान्येवायनम् उच्यते । देवस्य हेतोश्चामुष्मान् नारायण समाह्वयः । नारावाय नमावासः पुरुषस्य मधुद्विषः । अण् प्रत्यय प्रकृत्यर्थे ततो वा तत्समाह्वयः । एतादृश निरुक्त्यानुगुण्ये न मन्त्रार्थोऽनुसन्धेयः । मूलमन्त्राधिकारा —-क मन्त्रार्थः । बहुश आचार्यैः विचारितः । एवं मन्त्रान्तरेष्वपि तत्तदर्थोऽनुसन्धेयः । पदमपरं सम्यक् कुर्वन् पुरोविधि —- ऋषिच्छन्दो देवतादिकमपि स्मर्तव्यम् । छन्दो मन्त्राक्षरे यत्तादर्शनादृष्टिरुच्यते । दर्शनं च फलस्याहुः न पुनः दर्शदर्शनात् । देवता मन्त्र फलदा मन्त्रेण प्रतिपादिता । सम्यक् कुर्वन् पुरोविधिम् इत्यत्र सम्यक्त्वं विवक्षितम् । भल्लोदुम्बर बोध्यर्क वटपत्रेषु भोजनम् । वर्जयेत् साधको यत्नात् आलस्यं दीर्घचिन्तनम् । भवादनिद्रा निर्वेद निग्रहानुग्रहान्स्त्यजेत् । पद्माक्षमालां ग्रीवायां लम्बयेत् साधकश्शुचिः । धारयेद्रैमयं चक्रं सर्वविघ्नोपशान्तये । जपकालेऽथवा शङ्खचक्राकृति यथा तथा । शार्ङ्ग ख़ड्ग गदाकार लाञ्छनं लाञ्छयेत् सुधीः । बाह्वोश्च मूर्ध्नि हृत्पार्श्वे धार्यमेव चतुर्मुख । चक्रादि पञ्चाभिज्ञान लक्षिताङ्गं परीक्षितम् । पुरुषं दूरतो दृष्ट्वा भूताद्याभयविह्वलाः । विद्रवन्ति तथा घोराः पाप वीक्षण मात्रतः । विनश्यन्ति तथा पुण्य पुञ्जानि प्रविशन्ति च । प्रणमन्ति तथा देवा देवर्षि प्रवराः तथा । अकृत्यमपि कुर्वाणो भुञ्जानो वा इतस्ततः । पापैर्न लिप्यते देहि चक्राद्यायुध लाञ्छितः । अव्यं कव्यं च दातव्यं तस्मै तद्दानमक्षयम् । अपिधाय शिखाबन्धम् अकृत्वा तिलकं यदा । आधारयन् तथा दर्भान् सूत्रैः अनुपनीतयन् । कुर्वन् कर्माणि न फलं प्राप्नुयात् पुरुषाधमः । नग्नो मुक्त शिखाबन्धः वाससावावकुण्डितः । गच्छन् शयानः प्रलपन् न जपात् फलमश्नुते । जपेत् मौनं समास्थाय सह सम्भाषणादिकम् । प्रतिलोमादिभिः नीचैः न कुर्यात् मन्त्रवित्तमः । व्याहरेदपि कार्यार्थं नित्यं तद्गत मानसः इत्यादिकं समस्तम् इति कर्तव्यता जातं सम्यक् पदेन विवक्षितम् । सर्वेषां काय शुद्ध्यर्थम् आदौ चान्द्रायणं स्मृतम् । पादोदकं पञ्चगव्यं ब्रह्मकूर्च जलं तथा । पीत्वा कायविशुद्ध्यर्थं पुरश्चरणम् आचरेत् इति चान्द्रायणादिपूर्वकत्वं च सम्यक् पदेन विवक्षितम् । 9.5 ।

मूलम्

कामाधिकरणग्राह्य मूलादि बलशालिनः । अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ।। 9.6 ।।

टीका

अशनाच्छादनादि भोग्यवस्तुजातं कामः । तेन अधिकानि समृद्धानि रणग्राह्यानी शौर्यातिशयात् युद्धाय सङ्ग्राह्याणि यानि मूलादीनि षड्विधानि बलानि तद्वतो नरेन्द्रस्य राज्ञश्शक्तय इत्यत आह । प्रभुशक्तिः मन्त्रशक्तय अहीनेऽपि हानिरहितेऽपि प्रत्यर्थिनि सिद्धिहेतवः जयहेतवः । अर्थदान बहुमानादिभिः यदा सेना सन्तुष्यति तदानीमेव युद्धं कर्तव्यम् इति अत्राह मनुः । यदा मन्येत भावेन हृष्ट पुष्टं स्वकं बलम् । परस्य विपरीतं च तदायायात् रिपुं प्रतीति प्रायेण शत्रोः उपद्रव दशायामेव युद्धं कर्तव्यम् । स्वस्य बलाधिक्ये प्रकृतिस्थेनापि सहयोद्धव्यमित्याह मनुः । अन्येष्वपि च कालेषु यदा पश्येद्ध्रुवं जयम् तदा यायाद्विगृह्यैवन्यसने चोत्थिते पिरोपिरि । युद्धकाले बल स्वभावशुद्धि शौर्यातिशयं परीक्षेत इत्याह मनुः । संशोध्य त्रिविधं मार्गम् । षड्विधं च बलं स्वकम् । साम्परायिक कल्पेन यायादरिपुरं प्रतीति । अर्थान्तरमपि । कामानाम् औषधमणिमन्त्राणां धान्याधिकरणानि आरण्याकार मान्त्रिक रूपाणि तेभ्यो ग्राह्यम् । यन्मूलादि रूपं बलं तद्वतो नरेन्द्रस्य अहितुण्डिकस्य शक्तयः सामर्थ्यानि अहीनेऽपि सर्वश्रेष्ठेऽपि सिद्धिहेतवः । गृहदंश क्रिया प्रतिबन्धगति प्रतिबन्ध विषनिर्घातादीनि सिद्धिः । विषहरौषधि विशेष मूल मूलफलार्थः । आदि पदेन मणिमन्त्रयोः सङ्ग्रहः । ओषधि मूल मणिमन्त्राणां विषनाशकतया रक्षाहेतुत्वात् बलत्वोपचारः । अर्थान्तरमपि । कामः फलकामना अधिकरण देवयजनभूमिः । ग्राह्यं यज्ञार्थतया सम्पाद्य व्रीह्याज्य पशु सोमलता दक्षिणा द्रव्यादिकं मूलमदन्तीति मूलादि बलानि तद्वतो । अहीनेऽपि चिरकाल साध्यतया विघ्नबहुळे क्रतुविशेषेऽपि सिद्धिहेतवः निर्विघ्न समाप्ति कारणानि एवं वा कामाधिकरण ग्राह्यश्चासौ मूलादि बलशाली चेति विग्रहः । कामाधिकरणानि कामाधिकारः य एवं विद्वान् त्रिरात्रेण यजते सुवर्गमेव लोकमेतीत्यादि विधयः तद्ग्राह्यः तत्प्रवर्तनीयः । अन्यत् पूर्ववत् महर्षि सहायं विना कथमिव नरेन्द्रेण तत् कर्तुं क्षमते यत्सुरेन्द्रा अपि प्रतिबध्नाति इत्यभिप्रायेण नरेन्द्र शब्दो मूलादि शब्दश्च प्रयुक्तः अर्थान्तरम् । काम्यन्त इति कामाः । कल्याणगुणाः तेषाम् अधिकरणं कामाधिकरणं ग्राह्यं ज्ञेयं मूलानि कारणानि तेषामादि आदिमूलं प्रथमकारणम् इत्यर्थः । उक्त प्रकारेण कामाधिकरण शब्देन ग्राह्य शब्देन मूलादि शब्देन च परमात्मा अभिधीयते । स एव बलम् इष्टसाधनं तद्वतो नरेन्द्रस्य पुरुषश्रेष्ठस्य शक्तयः । ज्ञान भक्ति वैराग्यादि रूपाः अहीनेन अपकृष्टे पुरुषार्थे मोक्षलक्षणेऽपि सिद्धिहेतवः प्राप्तिहेतवः यश्च कामः रागः तेन
कामक्रोधादिकम् उपलक्ष्यते । आधिर्मनः पीडाकरणम् इन्द्रियजातं ग्राह्यं विषयजातम् एतानि मूलानि ययोस्सुखदुःखयोः ते कामाधिकरणग्राह्यमूले सुखदुःखे पुण्यपापे वाते अदयति अनुभावयति नाशयति इती वा कामाधिकरण मूलादि शब्देन परमात्मोच्यते । अन्यत् पूर्ववत् । 9.6 ।

मूलम्

प्रद्युम्नो ह्यनिरुद्धात्मानि स्वनाम्ना मानसोदयः । वीरः कश्चिद्विजानीते स्त्रीप्रायम् अखिलं जगत् ।। 9.7 ।।

टीका

प्रकृष्टं द्युम्नं द्रविणं यस्य सः प्रद्युम्नः । हिरण्यं द्रविणं द्युम्नं अर्थरैर्विभवा अपि इत्यमरः । अनिरुद्धः अप्रतिरहतः आत्माधृतिर्यत्तश्च यस्य सः अनिरुद्धात्मा । आत्मा देह मनो ब्रह्म स्वभाव श्रुति बुद्धिषु प्रयत्ने चापीति विश्वः । स्थिर स्वभाव इति चार्थः । स्वनाम्ना ज्ञातेन मानसोदयः परेषां मानसे उदयः प्रादुर्भावः यस्य सः मानसोदयः । स्वनाम्ना स्मारित इत्यर्थः । धीरः शूरः बलाधिकः कश्चिदिति दुर्लभता सूच्यते । अखिलजगत् स्त्रीप्रायं विजानीते निर्मितत्वेन स्त्रीवत् स्ववशं जानीते । अर्जुन हनुमदाद्यभिप्रायेण इदमुच्यते । न धैर्य शौर्यातिशये न नामस्मरणमात्रेण त्रस्तलोकः पुरुषो दुर्लभः इत्यर्थः । अर्थान्तरम् । स्वनाम्ना प्रद्युम्नः प्रद्युम्न शब्दरूपेण स्वनाम्ना प्रसिद्ध इत्यर्थः । लोक व्युत्पत्तेः विचित्रत्वात् स्वनाम्ना मानसोदयः । मानसोदय शब्दरूपेण स्वनाम्ना प्रसिद्ध इत्यर्थः । अनिरुद्धात्मा अनिरुद्धसंज्ञः पुत्रः पुत्रत्वादेव आत्मशब्दवाच्यो यस्य सः । आत्मा वै पुत्रनामासि इति श्रुतिः । वीरः जेतुम् अशक्यः कश्चित् एक एव मन्मथः अखिलं जगत् स्त्रीप्रायं विजानीते कुरुत इत्यर्थः । स्त्री बहुळं करोतीत्यर्थः । गाढाभिलाषा स्वदत्तेन सर्वोऽपि लोकः स्त्रीबाहुळ्यं सम्पादयति इत्यर्थः । अर्थान्तरम् । प्रद्युम्नसंज्ञः व्यूहावतारवान् अनिरुद्धशरीरकः स्वयमेव भवति इति व्युत्पन्नेन स्वभूप्रभृति शब्देन स्वनाम्ना मानसोदयत्वेन ख्यापितः । मानसेन स्वसङ्कल्पेनैव उदयः प्रादुर्भावो यस्येति मानसोदयत्वं स्व सङ्कल्पायत्त शरीरकत्वं विं पक्षिणं गरुडम् ईरयति प्रेरयति इति । वीरः कः नित्यसुखः एकोनैकस्स वः कः किम् इति नामसहस्रे चिज्ज्ञानरूपः अखिलं जगत् स्त्रीप्रायं विजानीते स्त्रीवत् स्ववश्यं जानीते । पुरुषशब्द निर्वचने यमर्थ स्मर्यते स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । स्त्रीप्रायम् इतरत् सर्वं जगत् स्थावरजङ्गमम् इति । स्वनाम्ना सङ्कीर्तितेन मानसे उदयः सम्यक् परिस्फुरणं यस्य स इति वा अर्थः । 9.7 ।

मूलम्

तमिस्राचारिणां रोद्धा विजिताक्षो मरुत्प्रियः । कपिकृतैरपि स्थाने भाति वेलातिलङ्घिभिः ।। 9.8 ।।

टीका

तमिस्रम् अन्धकारः । तमिस्रं तिमिरं तम इत्यमरः । तेन च भ्रमो लक्ष्यते । यथार्थ ज्ञानोत्पत्ति प्रतिबन्धकत्व साम्यात् तमिस्रम् आचरन्ति इति तमिस्राचारिणः व्यामोहकारणः । तेषां रोद्धा निवर्तकः तत्कृतं धर्माधर्म भ्रमं निरस्यन्नित्यर्थः । विजिताक्षो जितेन्द्रियः । अग्निहोत्रादि अनुष्ठानेन मरुतां देवानां प्रियः पुरुषः चन्द्र विश्वामित्रादिः । वेलातिलङ्घिभिः अतिमात्रैः कपिकृत्यैः चपरकृत्यैरपि बृहस्पतिदार वसिष्ठ धेन्वपहरणादिभिः अपि भात्वेव स्थाने युक्तम् । निमित्तस्य गुरुदार हरणस्य निन्दितत्वेऽपि तत्कृतस्य सर्वदेवता विरोधाचरणस्य इतरा साध्यत्वात् । भासहेतुत्वम् एवं मुनिधेनु हरणस्य निन्दितत्वेऽपि त्रिशङ्कु स्वर्गारोपणादेः इतरासाध्यत्वात् । अर्थान्तरम् । तमिस्राचारिणां रोद्धा निशाचराणां हन्ता । तमिस्रा तामसी रात्रिः इत्यमरः । विजिताक्षः अक्षकुमारजेता मरुत्प्रियः वायोरिष्टः हनुमान् वेलातिलङ्घिभि अतिक्रान्त समुद्रतीरैः कपिकृत्यैरपि उत्प्लवनैरपि भाति । 9.8 ।

मूलम्

प्रयुक्तं मन्त्रिभिः काले भक्तिभेद पुरस्कृतम् । अपि ज्वलनवक्त्राणां साम संवननं परम् ।। 9.9 ।।

टीका

काले मन्त्रिभिः प्रयुक्तं प्रातिकूल्याभिवृद्धेः प्रागेवामात्यैः कृतं भक्तिभेदेन पुरस्कृतं पूजितं साम समीचीन वचनं ज्वलनवक्त्राणाम् अपि क्रोधातिशयेन ज्वलनसदृश मुखानाम् अपि परं संवननं श्रेष्ठं वशीकरणसाधनं वशीक्रिया संवननं इत्यमरः । अर्थान्तरम् । काले बहिष्पवमानादि प्रयोगकाले मन्त्रिभिः सामगैः ऋग्यजुस्सामानि मन्त्राः तद्विदः मन्त्रिणः अहेर्बुध्न्य मन्त्रं मे गोपाय यमृषयस्त्रेविदाविदुः । ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सताम् इति श्रुतेः प्रयुक्तं गीतं भक्तिभेदेन हि काराख्येन भक्ति विशेषेण पुरस्कृतं पूर्वभागे कृतं हिङ्कारस्य सामानवयवत्वेऽपि सप्तभक्तं सामोपासीतेति श्रुत्या स्तोत्रां गत्वेन च भक्ति शब्दः प्रस्तावस्य सामावयवत्वेऽपि साम पुरस्कारकत्वं न सम्भवति । उद्गीथाद्येशदेश पुरस्कारकत्वात् ज्वलनवक्त्राणाम् अपि अग्निमुखानां देवानामपि सामगीति विशेषः परं संवननम् इति । यद्वा भक्तिभेदैः प्रस्तावोद्गीथ प्रतिहारोपद्रव निधनाख्यैः विभाग विशेषैः पूजितमिति । 9.9 ।

मूलम्

विधौ लब्धधृतिः शक्या विनतानन्दनो द्विजः । नियम्यमानैः स्थानेषु भुजङ्गैरपि भूष्यते ।। 9.10 ।।

टीका

नीत्या जैमिनि मुनि प्रणीता न्यायकलापेन विधौ शास्त्रार्थे लब्धधृतिः निर्भयः क्रियमाणे कर्मणि अन्यथावशङ्का हि दुरितोत्पत्ति शङ्काजननद्वार भीतिम् उत्पादयति । न्याय जनितो निर्णयस्तां शङ्कां वारयति । विनतानन्दनः आनतानाम्य द्विजां दक्षिणाभिः आनन्दोत्पादकः । द्विजै त्रैवर्णिकः स्थानेषु नियम्यमानैः भुजङ्गैरपि भूष्यते । संज्ञापनविशसनादिषु नियुज्यमानैः कुपितैरपि स्तूयते । अर्थान्तरम् । नीत्या इष्टदेश प्रापणेन तदर्थम् इत्यर्थः । विधौ विष्णालब्धधृतिः प्राप्तधारणः विनतानन्दः द्विजः वैनतेयः पक्षि स्थानेषु शिरः कर्ण भुज वक्षः कटि पादेषु नियम्यमानैः बध्यमानैः भुजङ्गैः सर्पैरपि भूष्यति अलङ्क्रियते । 9.10 ।

मूलम्

नीतिः सती त्वयि परं परपुष्टधातुः पुत्रिकृतोऽसि बलपुष्ट कुलैर्यतस्त्वम् । दूरी कृतश्च पुरुषैः तत एव काले कर्णे यदेष तव पञ्चममुच्चकार ।। 9.11 ।।

टीका

व्यवहारासमर्थस्य कोकिलस्य शैशवे शरीर रक्षार्थ काक कुलान्तर्भावोपेक्षितः । साध्यनिष्पत्त्युत्तरकालं विजातीय सहवासस्य दुःखावहत्वेन सजातीय सहवासस्य हृद्यत्वेन काककुल बहिर्भावोपेक्षितः । एतरुभयं काकैरेव घटयतो विधेः साजात्य वैजात्य बुद्ध्युत्पादनरूप सामर्थ्य प्रशंसया परैरेव स्वार्थं घटयतः । पुरुष विशेषस्य सामर्थ्य प्रशंसा व्यनक्ति । हे परपुष्ट कोकिल यतो नीतेस्त्वं बलपुष्टकुलैः काककुलैः पुत्रीकृतोऽसि एष विधिः तव कर्णे यदा पञ्चममुच्चकार उद्गीर्णवान् विभक्तवान् ततः काले तस्मिन् काले परुषैस्तेरेव यतो नीतेः दूरीकृतश्चासि । त्वयि धातुस्सानीतिः साजात्य वैजात्य बुद्ध्युत्पादनरूपा परं सती अत्यन्तं श्लाघ्या । 9.11 ।

मूलम्

विबुधमहिते मेरावैरावणः करटी मुहुः कषयतु कटं कण्डूलं स्वं क्षरन् मदकर्दमम् । भजतु च तटक्रीडां पीडाभिसन्धिरसौ दृढं न तु मलिनता नापि क्षोभः क्षमाभृति सम्भृतः ।। 9.12 ।।

टीका

अल्पशक्तिभिः महाशक्तौ स्वगत दोषारोपणे कृतेऽपि तटस्थानां तत्र दुष्टता भ्रमः । पीडाकरणेऽपि न काचित् क्षतिः अतः क्षुद्रैः पीड्यमानानाम् अपि महतां क्षमैव युक्तेत्ययमर्थो दृष्टान्तेन स्फुटी क्रियते । ऐरावणः करटी विबुधमहिते मेरा कण्डूलं स्वं करटं मुहुः कषतु । काके भगण्डौ करटौवित्यमरः । तावता क्षमाभृति न तु
मलिनता सम्भृता अत्यल्प प्रदेश मालिन्येऽपि सुमहति पर्वते मलिनोऽयं पर्वत इति बुध्यनुपादात् । यत्रापि मालिन्यं तत्रापि न एतत् मालिन्यं गिरे स्वाभाविकं किन्तु करट कषण सङ्क्रान्तमिति विशिष्य बुध्यनुमानैः विबुधैः निर्मलत्वेन महीतत्वात् च असावैरावणः पीडाभिसन्धिस्सन् दृढं तटक्रीडां भजतु च । गिरेः पीडाभवत्विति अभिसन्धीर्यस्य सः पीडाभिसन्धिः । तावता क्षमाभृति क्षोभोऽपि न सम्भृतः । चलनमात्रमपि न कृतम् । तस्मात् अल्पशक्तीनाम् अतिमात्रशक्तिषु निष्फलत्वात् विरोधाचरणमयुक्तं तदिदमुच्यते । न विरोधो बलवता क्षमो रावण तेन ते इति यावत् । व्रणं क्षणेऽपि न किञ्चिदपि मालिन्यमिति सूचनाय कण्डूल शब्दः कण्डूल शब्देन कण्डूति निवर्तकत्वेन क्षणं क्रियत इत्युच्यते । क्रीडाभिसन्धि शब्देन पर्वत दुःखोत्पादनार्थं तटक्रीडा क्रियत इत्युच्यते । तेन नान्तरीयकं साक्षादुद्देश्यमपि द्रोहाचरणं बलवत्सु निष्फलमेवेति प्रतीयते । 9.12 ।