मूलम्
सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः । क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ।। 8.1 ।।
टीका
सुवृत्तस्य शोभनं वृत्तम् आत्मगुणी यस्य तस्य अवदातस्य परिशुद्धस्य कलापूर्णस्य विद्यापूर्णस्य सत्पतेः सत्पुरुषश्रेष्ठस्य क्षणलेशग्रहेऽपि अत्यल्पकालमात्रमपि मदीयत्व परिग्रहे सति अतीर्थस्यापि तीर्थता पावनता स्यात् । वीतहव्यादेः भृग्वादि ग्रहणेन ब्राह्मण्यप्राप्तिः उदाहरणम् । अर्थान्तरम् । सुवृत्तस्य अत्यन्त वर्तुळाकारस्य अवदातस्य शुक्लस्य कलापूर्णस्य षोडशिभिरपि कलाभिः सम्पूर्णस्य सत्पतेः नक्षत्रनाथस्य क्षणलेशग्रहेऽपि अल्पकाल उपरागेऽपि अतीर्थस्यापि केवलं जलस्यापि तीर्थता पुण्यतीर्थता स्यात् । सर्वं हेममयं दानं सर्वे ब्रह्मसमा द्विजाः । सर्वं गङ्गासमं तोयं राहुग्रस्ते निशाकर इति स्मरणात् । 8.1 ।
मूलम्
प्रतिपत्प्राप्तितः प्रागप्यपातार्ह पदाश्रितः । राजा तदितरो वापि नोपरागेण गृह्यते ।। 8.2 ।।
टीका
अपातार्ह पदाश्रितः यस्मिन् पदे स्थितः पातयितुं न शक्यते तत् अपातार्ह पदम् । तादृश स्थानाश्रितः राजा तदितरो वा प्रतिपत् प्राप्तितः प्रागपि विवेकोत्पत्तेः पूर्वमपि बाल्येऽपि उपरागेण उपद्रवेण न गृह्यते न स्पृश्यते । अर्थान्तरम् । पातश्चन्द्रः पातः राहुः केतुर्वा तदनर्हं यत् स्थानं तदपातार्ह पदं तदाश्रितः चन्द्रपाता द्विप्रकृष्ट इत्यर्थः । राजा चन्द्रः तदितरस्सूर्यो वा प्रतिपत् प्राप्तितः प्रागपि प्रथमतः पूर्वमपि नोपरागेण गृह्यते ग्रहणेन न सम्बध्यते । 8.2 ।
मूलम्
विषमो गुणभेदेन विकारान् जनयन् क्रमात् । समये महतां योगादहङ्कारः प्रतीयते ।। 8.3 ।।
टीका
गुणभेदेन सत्त्व-रजस्-तमोगुण सम्बन्धेन क्रमात् विकारान् सात्त्विक राजस तामसान् जनयन् विषमः प्रतिकूलः अहङ्कारः स्वतन्त्रात्मभ्रमः समये प्राचीन पुण्यपरिपाक समये महतां योगात महापुरुष सेवया प्रतीयते । तत्र सत्त्व निर्मलत्वात् प्रकाशकम् अनामयम् इत्यादिना सात्त्विक राजस तामस विकारादर्शिताः सुखाभास साधने ज्ञानाभास साधने वा इष्टसाधनता भ्रमः सात्त्विक विकारः कर्माभास साधने तु राजसः प्रमादामस्य निद्रासु इष्टसाधनता भ्रमः तामस इति चतुर्दशाध्याये व्यक्तम् उक्तम् । अर्थान्तरम् । गुणभेदेन विषमस्त्रिविधः । वैकरिकस्तेजसश्च भूतादिश्चैव तामसः त्रिविधोऽयम् अहङ्कारो महत् तत्त्वात् अजायते इति वचनात् क्रमाद्विकारान् जनयन्ति
इन्द्रियाणि आकाशादीन्श्च जनयन् अहङ्कारः तृतीय तत्त्वम् । एवमपि विषमत्वं वेदितव्यम् । समये प्राकृत प्रलय समये महता योगात् महत् तत्त्वेन सम्बन्धात् प्रतीयते । 8.3 ।
मूलम्
स्वदृष्टि प्रतिघातोऽपि स्वच्छे क्वचन शोभनः । तत्र ह्यभिमुखः स्वात्मा झटित्येव प्रकाशते ।। 8.4 ।।
टीका
स्वच्छे भ्रमरहिते क्वचित् पुरुषे स्वदृष्टि प्रतिघातोऽपि स्व स्वरूपे निश्चयभङ्गोऽपि शोभन एव हि यस्मात् कारणात् तत्र तस्मिन् भङ्गे सति स्वात्मा झटित्येव अभिमुखः प्रकाशते । आभिमुख्येन आर्जवेन भासते । तत्र त्वस्य तस्मिन् स्वच्छे पुरुषे इति वा अर्थः । अर्थान्तरम् । स्वच्छे क्वचन दर्पणादौ स्वदृष्टि प्रतिघातोऽपि नयनरश्मिगति प्रतिहतिरपि शोभन एव हि यस्मात् तत्र स्वच्छे स्वात्मा स्वदेह अभिमुख आभिमुख्यविशिष्टो भासते । 8.4 ।
मूलम्
शिक्षके हरिताकारो मेरौ नीलतनुर्द्विजः । अपूर्ववर्णवान् भाति सत्यनिष्ठे च कौशिकः ।। 8.5 ।।
टीका
शिक्षके शिक्षक समीपे हरिताकारो द्विजश्शुकः अपूर्ववर्णवान् भाति अकाराद्यक्षरवान् भाति । मेरौ नीलतनुर्द्विजः काकः अपूर्ववर्णवान् पूर्ववर्णात् अन्यवर्णवान् स्वर्णवर्ण इत्यर्थः । सत्यनिष्ठे वसिष्ठे कौशिको विश्वामित्रो पूर्ववर्णवान् ब्राह्मणवर्णवान् वर्णशब्दो वर्णत्वपरः । न विद्यते यस्मात् पूर्वो वर्णस्सो पूर्ववर्णः ब्राह्मणवर्णः । ब्राह्मणवर्णात् हि न पूर्ववर्णोऽस्ति तस्य सर्वपूर्वत्वात् यद्वा सत्यनिष्ठे गौतमे कौशिक इन्द्रः अपूर्ववर्णवान् अवर्णवान् इत्यर्थः । अवर्णमधरः परिवादो वा अवर्णाक्षेप निर्वाद परिवादापवादवत् इत्यमरः । 8.5 ।
मूलम्
कलङ्किनि जडे क्वापि सौरं प्रतिफलन्महः । तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ।। 8.6 ।।
टीका
कलङ्किनि सापवादे कलङ्कोऽङ्कापवादयोः इत्यमरः । जडे अविवेकिनि क्वापि अप्रसिद्धे पुरुषे प्रतिभलत् सङ्क्रान्तं सौरं सूरिर्विद्वान् तदीयं सौरं महस्तेजः ज्ञानातिशयः तमोऽपहत्वं तनुते । तमोगुण विरोधित्वं प्रकृति सम्बन्ध निरासकत्वं वा दिने दिने समृद्धिम् अभिवृद्धिं च तनुते । अर्थान्तरम् । कलङ्किनि लाञ्छनवति जडे जडात्मके क्वापि चन्द्रे प्रतिफलत् सौरं सूरः सूर्यः तदीयं सौरं महस्तेजः तमोऽपहत्वं तनुते तिमिर निवर्तकत्वं तनुते । दिने दिने कलावृद्धिं च पाधोमये शीतकरेऽर्करश्मयो विमूर्च्छिताघ्नन्ति तमस्विनी तमः । निकेतनाभ्यन्तरगं (रङ्ग) तमस्वयं यथा त एवामलदर्पणाश्रिताः इति ज्योतिर्विदः । 8.6 ।
मूलम्
स्वतश्चैतन्यभिन्नस्य विषमच्छिद्रभागिनः । कस्यचित् प्राज्ञमूलास्स्युः पुरुषार्थ प्रवृत्तयः ।। 8.7 ।।
टीका
चैतन्यं बुद्धिमत्ता स्वतश्चैतन्य भिन्नस्य स्वाभाविक बुद्धि बलशालिनोऽपि विषमच्छिद्रभागिनः । प्रतिकूलं छिद्रं प्राप्तवतः । छिद्रं प्रमादः एवं भूतस्य पुरुषार्थ प्रवृत्तयः । प्राज्ञमूलास्स्युः पण्डितान्तर हेतुकास्युः । यथा रामादेः सुग्रीवादि मूलाः । अर्थान्तरम् । स्वतः निरुपाधिकं चैतन्यम् ज्ञानं यस्य सः स्वतश्चैतन्यः । जीवात्मेत्यर्थः । तद्भिन्नस्य विषमच्छिद्रभागिनः । नवच्छिद्र विशिष्टस्य कस्य चिच्छरीरस्य पुरुषार्थ प्रवृत्तयः । प्राज्ञमूलास्स्युः प्राज्ञः परमात्मा । 8.7 ।
मूलम्
महान्तं पुरुषं प्राप्य कञ्चित् सत्त्वप्रवर्तकम् । प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ।। 8.8 ।।
टीका
महान्तं श्रेष्ठं सत्त्व प्रवर्तकं निर्मल ज्ञान प्रवर्तकम् । सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे । द्रव्ये बलेऽन्तःकरण व्यवसायात्मभावयोः । स्वभावे निर्मल ज्ञाने सत्त्वमस्त्रीषु जन्तुष्विति भट्टबाणः । कञ्चित् पुरुषं प्राप्य प्रतिबुद्धः तत्त्व-हित-पुरुषार्थ तद्विरोधि तदभाव तन्निवर्तक ज्ञानवान् जनः । तेन उपदेष्ट्रा परमं साम्यमश्नुते । अर्थान्तरम् । सत्त्व प्रवर्तकं सात्त्विक शास्त्र प्रवर्तकम् । कं ब्रह्म प्राणो ब्रह्मकं ब्रह्मखं ब्रह्मेति श्रुतिः । महान् प्रभुर्वै पुरुषः सत्यस्तैष प्रवर्तक इति । श्लोकसूचनाय तान्येव पदान्युपात्तानि । महान्तं पुरुषं नारायणम् । वेदाहमेतं पुरुषं महान्तम् इति श्रुतेः । अथातो महापुरुषस्याहरः परिचर्याविधिं व्याख्या स्यामः । महापुरुषं वा महादेवं वा नित्यम् आराधयेत् इति बोधायनसूत्रादिषु प्रयोग बाहुळ्य दर्शनात् प्राप्य उपायेनाभिगम्य प्रतिबुद्धः चिदचिदीश्वर स्वरूप स्वभाववित् । चित् मुहुश्चिन्तया निश्चित निश्च्रयः जनः तेन नारायणेन परमं साम्यम् अश्नुते । निरञ्जनः परमं साम्यमुपैति इति श्रुतिस्सूचिता । 8.8 ।
मूलम्
सूत्रं रत्नसमावेशात् चर्म सत्पद संश्रयात् । तदभेदेन गृह्येत तृणमप्यस्त्रमन्त्रणात् ।। 8.9 ।।
टीका
सूत्रं तन्तुः रत्नसमावेशात् तदभेदेन रत्न निर्विशेषं गृह्येत । कण्ठ कुचादिषु ध्रियेते । सत्पद संश्रयात् सत्पुरुष चरण सम्बन्धात् चर्म पाद रक्षात्मकं पादवदेव शिरसा पूज्येत । तृणमपि अस्त्रमन्त्रणादन्त्रवत् आत्मघात भयात् दूरतः परिह्रियेत । एवं भगवद्भक्ता भगवन्निर्विशेषं पूजनीयाः । भगवदपराधादिव तदपराधादपि भेतव्यम् । महाप्रभु परिग्रहादर्पोऽपि पूज्यः । तद्रोहश्च न कार्य इति सादृश्यात् प्रस्तुतोऽर्थावगमः । 8.9 ।
मूलम्
एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् । न तत् तिसृभिः अष्टाभिः सहस्रेणापि कस्यचित् ।। 8.10 ।।
टीका
गुरोरवाप्तया एकयैव दृष्ट्या विद्यारूपया यल्लभेत द्वाभ्यां गुरोर्दृष्टिभ्यां वा प्रसादादवेक्षितो यत्फलं लभेत तत्फलं गुरुव्यतिरिक्तस्य यस्य कस्यचित् तिसृभिः दृष्टिभिरवलोकनैः अष्टाभिर्वा सहस्रेण वा न लभेत । आचार्य स्तुते गतिं वक्ता आचार्यादेव विदिता साधिष्ठं प्रापत् इति गार्हपत्यादिभिः अग्निभिः गुरूपदेशादेव अयमर्थो नान्याद्युपदेशात् इत्युक्तत्वात् । अर्थान्तरम् । परमगुरोः एकया मुख्यया दक्षिण वामयोः अन्यतरया वा द्वाभ्यां वा भगवतो दृष्टिभ्यां यत्फलं सात्त्विक मोक्षार्थ चिन्तकत्वरूपं लभेत तत् तिसृभिः रुद्र दृष्टिभिः अष्टाभिः ब्रह्मदृष्टिभिः सहस्रेणेन्द्र दृष्टिभिः वा न लभेत । जायमानं हि पुरुषं यं पश्येत् मधुसूदन इत्यर्थः सूचितः । 8.10 ।
मूलम्
रथ्यातोयं त्रिदशसरिता राजनीतिस्सुकीर्त्या काव्यालापः त्रियुगकथया कायवान् आत्मबुद्ध्या । दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन प्रज्ञाहीनः परहितविदा सङ्गतः शुद्धमेति ।। 8.11 ।।
टीका
रथ्यातोयं त्रिदश सरिता सङ्गतं शुद्धमेति । राजनीतिः सुकीर्त्या सङ्गता शुद्धिमेति । काव्यालापः त्रियुगकथया सङ्गतः शुद्धिमेति । कायवान् देही आत्मबुद्ध्या आत्मज्ञानेन देहातिरिक्त आत्मज्ञानेन च सङ्गतः शुद्धिमेति । दारप्रीतिः प्रजननधिया सङ्गता शुद्धिमेति । जन्तुहिंसा मखेन सङ्गता शुद्धिमेति । प्रज्ञाहीनः परहितविदा आचार्येण सङ्गतः शुद्धिमेति । रथ्यातोयादीनाम् उक्त सङ्गत्यभावे विपरीत सङ्गता च न शुद्धिः । प्रज्ञाहीनः परहितविदेति प्रस्तुतोऽर्थः । सर्वमन्यद्दृष्टान्तार्थः । 8.11 ।
मूलम्
विभुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभुवां स्वतन्त्रोऽसौ दूतः स्वयमजनि सूतश्च जगताम् । प्रतिज्ञां स्वामौज्झत् स्वपदतटिनीसूनुसमरे महद्योगात् प्रायो वहति महिमानं तदधिकम् ।। 8.12 ।।
टीका
विभुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभुवां
स्वतन्त्रोऽसौ दूतः स्वयमजनि सूतश्च जगताम् ।
महान्तो हि स्वयम् अपकृष्टपदे निविश्य स्वाश्रितान् उत्कृष्टपदे निवेशयन्ति । स्वकार्यं परित्यज्य आश्रितकार्यं साधयन्ति । आश्रिते प्रसक्तम् उपद्रवं स्वयम् अङ्गीकृत्य तन्निरुपद्रवं कुर्वन्ति । अतः ते संश्रयितव्या इत्यत्र त्रिभिः पादैः त्रयोः दृष्टान्ता उक्ताः । 8.12 ।