मूलम्
पुंसः कस्यचिदास्थाने द्विजेन्द्रस्सूरिसेविते । गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ।। 7.1 ।।
टीका
सूरिसेविते विद्यदधिष्ठिते कस्यचित् पुंसः आस्थाने मानभृत् श्रुति स्मृति प्रमाणजातं मनसा दधानः द्विजेन्द्रः ब्राह्मणोत्तमः गुणवत्पक्षपातेऽपि द्विरावर्तनीयमिदं पदं द्वौ चार्थौ वेदितत्वाद्वयोः पक्षयोः गुणवतो धर्मशीलस्य पक्षस्य पातेऽपि ईप्सितत्वात् प्रच्युता सत्यामपि इत्येकोऽर्थः । गुणवति पुरुषे स्वस्य पक्षपाते अभिमाने सत्यपि परोऽर्थः । मध्य एव तिष्ठति मध्यतामेव भजते । न तु स्वजनप्रीत्या वा धार्मिकप्रीत्या वा अनृतं वदति । धर्मपुत्रादीनां द्यूतपराजये तु सत्यापि स्वस्य तेषु स्नेहातिशये सत्यपि धर्मलोपभयानृतोक्ति पराङ्मुखो द्रोण भीष्मादिरुदाहरणम् । द्विजेन्द्रग्रहणं धार्मिकोपलक्षणार्थम् ।अन्योऽप्यर्थः स्फुरति । सूरिसेविते भवत्सोपाने रेवाश्रिते कस्य चिन्महापुरुषस्य परमपुरुषस्य वासुदेवस्य स्थाने मानभृत् पूजिता विशेषाञ्जलिभृत् द्विजेन्द्रः पक्षिराजो गुणवत्पक्षपातेऽपि गुणवन्तौ अतिशयितौ पक्षा यस्य तस्मिन् पाते आकाशगमने शक्येऽपि मध्ये तिष्ठति । भगवत्सेवालोभात् गमनं वर्जयन्तास्ते पतङ्गाविति धातोः न केवलम् अधोगमनम् एवार्थः । किन्तु पक्षिगतिरपि तथा च प्रयोगः यदुक्तं न पतितुं शक्नुयात् न ह्यपक्षः पतितुमर्हति । दिवं गच्छ सुवः पतश्येनो वैवयसाम्पतिष्ठ श्येन एव भूत्वा सुवर्गं लोकं पतति । तेन वयं पतेमब्रध्नस्यविष्टपम् । ताभ्यां पतेमसुकृताम् अोलोकमित्यादयः । 7.1 ।
मूलम्
देशकालविशेषेण विषमत्वं समत्ववत् । निशादिवसयोः दृष्टम् अहोरात्रस्य न क्वचित् ।। 7.2 ।।
टीका
निशादिवसयोः देश विशेषेण च यथा इतरेतरापेक्षं विषमत्वं समत्वं च दृश्यते तद्वत् अहोरात्रस्य क्वचित् कदाचिदपि विषमत्वं समत्वं च न दृष्टम् । अपि तु नित्यं समत्वमेव यद्वा निशादिवसयोः विषमत्वस्य समत्वं साम्यं दृश्यते । तद्वत् अहोरात्रस्य न केनचित् क्वचिदपि विषमत्वस्य साम्यं दृश्यते । विषु वदने निशादिवसयोः साम्यमेव परम दक्षिणायने निशायाः परमा वृद्धिर्दिवसस्य परमक्षयः परमोत्तरायणे तु वैपरीत्यं काल विशेषे विषमत्वस्य साम्यमुक्तम् । देशभेदेनापि विषमत्वं समम् । अक्षच्छाया हि प्रतिदेशं भिन्नाभिनाना लक्ष्यते । तदनुसारात् निशादिवसयोरपि वृद्धिक्षया भिन्ना तच्च वैषम्यं निशादिवसयोः कालभेदात्तुल्यमेव । यद्यपि
अहोरात्राणान्न तुल्यता तथापि निशादिवसयोरिव महद्वैषम्यन्नास्तीति तात्पर्यम् । एवं देशभेदे कालभेदे चक्षुद्राणां स्वभावो भिद्यते । महतस्तु न भिद्यत इति सादृश्यात् प्रस्तुतोऽर्थप्रतिपत्तिः । 7.2 ।
मूलम्
चकोरस्य दरं देवश्चक्रवाकस्य चादरम् । विवस्वान्नाभिसन्धत्ते विश्वमेतत् प्रकाशयन् ।। 7.3 ।।
टीका
यदा जगत्प्रकाश प्रवृत्तस्य रवेः कर्मणा चकोरचक्रवाकयोः भयाभये अविवक्षिते उत्पद्येते तद्वत् जगदुपकार प्रवृत्तस्य महापुरुषस्य कर्मणा कस्यचित् भयमर्थादुत्पद्यते चेन्न तावता महतो दोष इत्यभिप्रायः । 7.3 ।
मूलम्
प्रतिग्राहति जीमूते प्रत्यर्पयति वा स्वयम् । अपूरणमपाम्पत्युः पूरणं च न लक्ष्यते ।। 7.4 ।।
टीका
यथा जलधे न जले गृह्यमाणे विसृज्यमाने च न कश्चित् समुद्रे विशेषस्तथापहारार्थदानयोः महतां नान्यत वदनादि विशेष इति भावः । 7.4 ।
मूलम्
छिद्रं जनयतां तीक्ष्णैः अच्छिद्रं बिभ्रतामपि । त्रासहीनाः सुमणयस्वभावात् उपकुर्वते ।। 7.5 ।।
टीका
सुमणय श्रेष्ठ पुरुषैः सुतीक्ष्णैः कर्मभिः छिद्रं परोपद्रव स्थानं जनयतामपि अच्छिद्रं यथा भवति तथा नैरन्तर्येणेत्यर्थः । बिभ्रतामपि द्वारं बिभ्रतामपि । योगक्षेमं कुर्वतामपि स्वभावात् तुल्यमेवोपकुर्वते । न कुतश्चित् बिभ्यति । अर्थान्तरम् । तीक्ष्णैः सूच्यादिभिः छिद्रं द्वारं जनयतामपि द्वारं विना बिभ्रतामपि त्रासदोषरहिताः सुमणयः प्रकृत्या शोभनं जनयति । 7.5 ।
मूलम्
अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि । सम इत्येव भाव्योऽपि नम इत्यभिभाव्यते ।। 7.6 ।।
टीका
अनुज्झितसुहृद्भावः पुरुषस्सुहृदां दुर्हृदामपि अविशेषेणायं सम् इत्येव भाव्योऽपि सः मे इति च पदच्छेदः । सममानुकूल इत्येव भाव्योऽपि चिन्तनीयोऽपि दुर्हृद्भिः पुरुषैः नम इति नमस्कारपूर्वकम् अभिभाव्यते । अनुज्झितसुहृद्भावः दूरतः परित्यज्यते । अभिभवोवमानं न मे इति पदच्छेदः । मम नानुकूल्य इत्यभिभाव्यते । 7.6 ।
मूलम्
मरुद्भिः पीड्यमानोऽपि सन्त्यक्तोऽपि दिवानिशम् । विषयस्नेहरहितो रत्नदीपः प्रकाशते ।। 7.7 ।।
टीका
विषयस्नेहरहितः शब्दादि विषयासक्ति रहितः रत्नवत् दीप्यत इति । रत्नदीपः पुरुषः मरुद्भिः दैवतैः पीड्यमानोऽपि दिवानिशं रात्रावहन्निवसन्त्यक्तोऽपि अनपेक्षितोऽपि प्रकाशत एव । यथा प्रसिद्ध दीपः वातपीडादशायां स्वकालमनारोपितत्वे च विषय स्नेहराहित्ये च प्रकाशते न तथा श्रेष्ठपुरुषः विषयस्त्र्यादिरान्द्रियोः आस्वादे गोचरे दीपभाजने चावलम्बन इति भट्टबाणः । अर्थान्तरम् । रत्नमेव दीपः सविषयस्नेहरहितोऽपि स्नेहस्तैलं मरुद्भिः पीड्यमानोऽपि वातैराहस्यमानोऽपि । दिवा निशं सन्त्यक्तोऽपि उचितस्थानेषु अधृतोऽपि प्रकाशत एव । अत्राफि प्रसिद्ध दीप वैलक्षण्यं विवक्षितम् । 7.7 ।
मूलम्
जनयत्यनिले दावं शमयत्यपि तोयदे । अभिन्नैः स्थीयते पुण्यैः आशमारण्यपादपैः ।। 7.8 ।।
टीका
यथा पुण्यैः आश्रमारण्यपादपैः जनयत्यनिले च दावं शमयति तोयदे वा अभिन्नैः विशेषरहितैः अवस्थीयते तथा महापुरुषैः बन्धके तन्निवर्तके च द्वेषरहितैः तुल्यमेव स्थियते इिति सादृश्यात् प्रस्तुतार्थ व्यक्ति । 7.8 ।
मूलम्
अहार्येण कदाप्यन्यैः असंहार्येण कैरपि । तितिक्षाकवचेनैकस्सर्वं जयति संवृतः ।। 7.9 ।।
टीका
एकः पुरुषः न सर्वोऽपि कदापि अन्यैः अहार्येण अपहर्तुम् अशक्येन कैरपि असंहार्येण नाशयितुम् तितिक्षाकवचेनैक संवृतस्सन् सर्वं जयति । अस्य कवचस्य सामर्थ्यमेतत् यदेकस्सर्वं जयति इति । तितिक्षायाः सर्व जन साधनत्वं व्यास आह । यः परेषान्नरो नित्यमतिवादांस्तितिक्षते । देवयानि विजानीहि तेन सर्वमिदं जितम् इति । 7.9 ।
मूलम्
अमृतस्यन्दिनं कञ्चित् कृष्णमेघं द्विजस्स्मरन् । उदन्यया न वेशन्तम् उदन्वन्तं च वीक्षते ।। 7.10 ।।
टीका
उदन्यया पीडितः कश्चिद्द्विजः ब्राह्मणोत्तमः उदन्या ग्रहणम् अशनाया पिपासे शोकमोहाजरां मृत्यु मत्येतीत्युपनिषदुक्तोर्मिषन् कोपलक्षणार्थम् अमृतस्यन्दिनम् अपवर्गप्रदं कृष्णमेघं मेघसदृशं कृष्ण प्रत्यनीक निवृत्तिहेतुं स्मरन् तात्कालिक निवृत्तावप्यल्प जलत्वात् अल्पशक्तिकं वेशन्तं जलबाहुळ्यात् प्रकृष्ट शक्तिकम् उदन्वन्तं न वीक्षते । वेशन्तोदन्यत् ग्रहणमपि तात्कालिकोपद्रव निवर्तकस्य राजादेरल्पशक्तेः प्रकृष्ट शक्तीनां देवतानां चोपलक्षणम् । अर्थान्तरम् । अमृतस्यन्दिनं पानीय वर्षिणं कृष्णमेघं नीलवलाहकं स्मरन् द्विजश्चातकः उदन्यया पीडितोऽपि वेशन्तम् उदन्वन्तं च वैरस्याविशेषान् न वीक्षते । अर्थान्तरम् । अमृतस्यन्दिनं कृष्णमेघं कृष्णवदानवश्यं मेघं स्मरन् द्विजः उदङ्क उदन्या पीडितोऽपि वेशन्तमुदन्वन्तं च न वीक्षते । 7.10 ।
मूलम्
विदधातु धाम तमसा कृतेन किं यदि वा न वेत्ति न विधिर्न वा वयम् । प्रथमोपकारि चरमं यतस्ततः प्रतियोगिनो भवति तस्य सार्थता ।। 7.11 ।।
टीका
विधिः धाम विदधातु तेजस्सृजतु । अर्थप्रकाशकतया तत्सृष्टिरुचितेति भावः । कृतेन तमसा किं प्रयोजनं न किञ्चिदपि अतस्ततस्सृष्टिः अनुचितेति भावः । यदि वा तत्सृष्टेरप्यस्ति प्रयोजनमिति शेषः । तस्माद्विधिः न वेत्तीति न किन्तु वेत्यैव । तर्हि वयं न विद्म इति चेत् तदपि न वा वयं न विद्मः । किन्तु विद्म एव किं तदिति चेदुच्यते । यतः चरमं तमः प्रथमोपकारी प्रथमस्य तेजसः उपकारि झायाकृतमुपकारं तीव्रातपतप्त एव जानातीति न्यायादिति भावः । ततस्तस्य प्रतियोगिनः तमसस्सार्थता साफल्यं भवति । अतिसङ्कटेऽपि अविकृतचित्त महापुरुष माहात्म्य ज्ञापनेन क्षुद्रसृष्टिः फलवतीति भावः । 7.11 ।
मूलम्
विभवेष्वपि दोषगन्धहीनः प्रलयेवावस्थितिम् अक्षयां दधानः । विषमेष्वपि भावयन् समत्वं पुरुषः कोऽपि हृदि स्थितः प्रजानाम् ।। 7.12 ।।
टीका
विभवेष्वपि ऐश्वर्येष्वपि दोषगन्धरहितः दर्पादिरहितः प्रलये़ऽपि स्थितिमक्षयां दधानः देरपातप्रसक्तावप्यविनाशिनीं मर्यादा दधानः विषमेष्वपि समत्वं भावयन् प्रतिकूलेष्वप्यनुकूलसमत्वं कुर्वन् कोऽपि पुरुषः प्रजानां हृदि स्थितो भवति । अर्थान्तरम् । विभवेष्वपि विविधोत्पत्तिष्वपि दोषगन्धहीनः प्रलये़ऽपि प्राकृत प्रलयेऽपि अक्षयां स्थितिं दधानः विग्रह विशिष्ट वेषेण स्थितिं दधानः विषमेष्वपि देव-तिर्यक्-मनुष्यादि भेदभिन्नेष्वपि समत्वम् । समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय इत्युक्त रागद्वेषरहित रूपेण साम्यं भावयन् कोऽपि सर्वविलक्षणः पुरुषः परमात्मा प्रजानां हृदि स्थितः दीपवद्यस्थितो हृदीति स्मृतिः । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः इति श्रुतिः । 7.12 ।