06 महापुरुषपद्धतिः

मूलम्

सतामेव खपुष्पत्वं येषां यत्सदसत्वयोः । न जातु तस्य तत्ताभ्यामिति तेषां स विश्वदृक् ।। 6.1 ।।

टीका

यस्य सूर्यस्य सत्वे असत्वे च येषां सतां विद्यमानानामेव नक्षत्राणां खपुष्पत्वं गगनकुसुमत्वम् असत्कल्पवत् इत्यर्थः । खपुष्पत्वं खेपुष्पवत् चारु तापादकत्वं तेषां नक्षत्राणां ताभ्यां सत्यागत्वाभ्यां तस्य सूर्यस्य जात्यपि तत्
खपुष्पत्वं गगनपुष्पवदसत् कल्पतापि न खे चारु तापादकत्वं च । यद्यपि नक्षत्रासत्वे सूर्यस्य खेपुष्पवच्छोभावहत्वमस्ति तदापि तन्न नक्षत्रासत्वप्रयुक्तमिति विशिष्ट निषेधः । इत्यतो हेतोस्स सूर्यो विश्वदृक् जगच्चक्षुः । कर्मसाक्षी जगच्चक्षुः इत्यमरः । नक्षत्रेषु स्वासत्तया दृक्भूतः दर्शन हेतुभूतः तदितरेषु स्वसत्तया दृक्भूत इति विश्वदृक्त्वम् उपपद्यते । अर्थान्तरम् । यत्सदसत्वयोः यस्य विद्याधिकस्य सत्त्वे असत्वे च सतां विद्यमानानामेव येषां सतां विदुषां खपुष्पत्वं प्रसिद्धता । यत्सत्वे यदसत्वे च खपुष्पत्वं खानाम् इन्द्रियाणां पुष्पवत् प्रीतिकरत्वं तेषां विदुषां ताभ्यां सत्वाभ्यां तस्य विद्याधिकस्य जात्यपि तत् खपुष्पत्वं न । अस्य विद्वत्सत्वेऽप्यप्रसिद्धता न । इन्द्रियाणां चक्षुरादीनां प्रीतिजनकत्वं च अस्य विद्वदसत्वप्रयुक्तन्न । इत्यतो हेतोस्स विश्वदृक् सर्वज्ञः खं सौव्योम्नि जेन्द्रिये । दृक् बुद्धौ दर्शन नेत्रेः त्रिस्याद्दृष्टिरिति त्रिषु । नक्षत्रं यक्षम्भं ज्योतिस्सन्तितारोडुतारकाः । दोषज्ञस्सन् दीर्घदर्शी मनीषीति भट्टबाणश्लोकाः । 6.1 ।

मूलम्

सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः । प्रवृत्तिं च निवृत्तिं च न भिन्द्यात् साधु शब्दवित् ।। 6.2 ।।

टीका

साधु शब्दवित् साधुरयमिति शब्दं लब्धवान् विदिर्लाभ इति धातुः साधूनाम् अनुशासनरूपो शब्दे वर्तमान इति चार्थः । विदसत्तायामिति धातुः । साधूनां निबन्धात्मकं शब्दं विचार्यन्निति वार्थः । विदविचारेणे विदज्ञान इति धातुः । शिष्टानाम् आचार्याणां सन्नियोगेन समीचीनेनाशासनेन स्वसूत्रानुसारेणैव प्रवर्तितव्यं निवर्तितव्यं वेति । एवं रूपेण स्वसूत्रतो गृह्यसूत्रतो ज्ञायमानानां वर्णादीनां ब्राह्मणादि वर्णानां ब्रह्मचर्याद्याश्रमाणाम् अन्येषां च प्रवृत्तिं जातकर्मादिषु प्रवृत्तिं निवृत्तिं च वाचं यच्छत्या नक्षत्रेभ्य इत्यादि प्रोक्तान्निवृत्तिं च न भिन्द्यात् न लोपयेत् । न चान्यथा कुर्यात् । अर्थान्तरम् । साधु शब्दवित् वैय्याकरण सम्मतश्शब्दवित् स्वसूत्रतः स्वविधायक सूत्रेण सन्नियोगो विधानं समीत्येकीभावे एक विधानेनेत्यर्थः । न सर्वस्यापि एकमेव विधेयस्य विधानमिति । यद्यपि तदापि विधेयभेदप्रयुक्तो भेदाभाव इहोपसर्गार्थः । शिष्टानां विहितानां वर्णादीनां प्रवृत्तिं च निवृत्तिं च न पृथक्कुर्यात् । 6.2 ।

मूलम्

मुक्तानुगुणवृत्तानां भजतां पावनीं गतिम् । नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ।। 6.3 ।।

टीका

मुक्तास्त्यक्त प्रकृति सम्बन्धाः तेषाम् अनुगुणम् उचितं वृत्तम् आत्मगुणजातं येषां तेषां पावनीं पवित्रभूतां गतिं रीतिं भजतां तारकाणां विपन्नान्विपदस्तारयतां सितात्मनां निष्कळङ्क ज्ञानानां पुंसां नित्यं विष्णुपदे भगवच्चरणारविन्दे वृत्तिश्चित्त वृत्तिर्भवति । अर्थान्तरम् । मुक्ताः मुक्ताफलानि तदनुगुणं तत्सदृशं यथा भवति तथा वृत्तानां वर्तुळानां पावनीं परिवहानिलायत्तां गतिं सञ्चारं भजतां सितात्मनां शुक्लशरीराणां तारकाणां नक्षत्राणां नित्यं विष्णुपदे आकाशे वृत्तिः स्थितिर्भवति । 6.3 ।

मूलम्

धर्मसेतुनिविष्टानाम् अचलानां गरीयसाम् । दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ।। 6.4 ।।

टीका

धर्मसेतौ धर्ममर्यादायां निविष्टानां स्थितानाम् अचलानां धर्मसेतोरप्रच्युतानां दक्षिणया गुरुदक्षिणया ऋत्विक् दक्षिणया वा उत्तराः श्रेष्ठाः वृत्तिश्शरीरयात्रा येषां तेषां गरीयसां परमगुरुणां दृष्टिः कटाक्षः पापनिवर्तिनी दर्शनादेव साधव इति वचनात् । तत्कर्मिकादृष्टिरपि तथा यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितस्स वनेल्लोके स्वात्माप्येनं विगर्हता इति द्वेधापि प्रशस्तत्वात् । अर्थान्तरम् । धर्मसाधनभूते रामसेतौ स्थितानां गरीयसां पृथुतराणां दक्षिणोत्तर वृत्तीनां दक्षिण दिग्गता किञ्चिदपेक्षया उत्तर दिग्गता वृत्तिः स्थितिर्येषां तेषां अचलानां पर्वतानां दृष्टिः दर्शनं पापनिवर्तिनी सेतुः दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति स्मृतिः । एतत्
पवित्रमतुलं महापातक नाशनम् इति च । 6.4 ।

मूलम्

अनङ्गीकृतकामानाम् अनुमानार्हवर्ष्मणाम् । धृतनिर्मलतीर्थानां भूतिलेपोऽपि भूषणम् ।। 6.5 ।।

टीका

अनङ्गीकृत कामानां पशुपुत्रादि कामानामभ्युपगच्छताम् । अनुमानार्हवर्ष्मणाम् अनुमाया अनुमितेरनर्हं वर्ष्म विग्रहो येषां तेषाम् अयं भावि शरीरकम् अशरीरत्वात् कामोपहतवत् इत्यनुमितिरकामहतेषु न प्रवर्तत इति भावः । धृतनिर्मल तीर्थानां शमदम भगवद्ध्यानादिकं शोधकं सर्वतीर्थ शब्दार्थः । धृतानि निर्मलानि दुरितासहितानि तीर्था विशोधकानि यैस्तेषां पुंसां जनकादीनां भूतिलेपोऽपि भूषणम् ऐश्वर्यसम्बन्धोऽपि भूषणम् । तीर्थे स्नाति तीर्थमेव समानानां भवति । न ह्यम्मयानि तीर्थानि न देवा मृच्छिलादयः । ते पुनन्त्युरुकालेन दर्शनादेव साधव इति वचनात् । सन्त एव तीर्थं तेषां धारणे संसारपोषणे उपयुक्तवान् भूतेः लेपः भस्मलेपोऽपि भूषणम् । अनङ्गः शरीरशून्यः कृतः कामः मन्मथः यैस्तेषाम् उमायाः पार्वत्याः अनर्हं न भवतीत्यनुमानार्हम् उमायाः योग्यमित्यर्थः । वर्ष्मशरीरं येषां धृतं निर्मल तीर्थं गङ्गारूपं यैस्तेषां रुद्राणां भूतिलेपः भस्मलेपोऽपि भूषणमेव । भगवदाज्ञया गौतमशाप दूषित पुरुष मोहनार्थत्वात् भूषणमिति यावत् । 6.5 ।

मूलम्

अनन्तख्याति सम्पन्नः शुद्धसत्त्वस्सुधीर्बलः । धत्ते बहुमुखं भोगं श्रुतिदृष्टि स्थिराश्रयः ।। 6.6 ।।

टीका

अनन्तख्याति सम्पन्नः अपरिच्छिन्न प्रसिद्दधि समग्रहः । शुद्धसत्त्वः राजसतामसाहारावर्धित शरीरः । अत एव सुधीः यथार्थ बुद्धिः । बलः बलङ्करोति इति यतेन स्पृत्ययः । बलसाध्येषु कर्मबलाविष्कृता श्रुतिदृष्टिः । श्रुतिरेवाप्रतिहत प्रवृत्ति हेतुतया चक्षुः कल्पायस्य सः स्थिरः । आश्रयो यस्य सः । योगक्षेम सिद्ध्यर्थं यमाश्रय केस राजा आश्रयः आश्रित सौहार्देन ऐश्वर्येण चाविश्लेषस्तस्य स्थिरत्वम् एवं भूतः पुरुषः बहुमुखं बहुविध साधन साध्यभोगं सुखानुभवं धत्ते आत्मनः पोष्याणां च पुष्णाति । अर्थान्तरम् । अनन्तख्याति सम्पन्नः हरिशेषावनन्तौ अनन्तयायम् इति प्रसिद्धि सम्पन्नः । अपरिच्छिन्न बोध सम्पन्न इति वार्थः । शुद्धसत्त्वः सज्जनावमानाद्यजनकबलः । अवदाति विग्रह इति वार्थः । सुधीः सर्वानुकूलबुद्धिः श्रुतिरेव श्रवणमेव दृष्टिश्चक्षुर्यस्य स श्रुतिदृष्टिः । स्थिरायाः भूमेराश्रयः बलः बलभद्रः बहुमुखं बदनसहस्रवन्तं भोगं सर्पशरीरं धत्ते धारयति । सुधीबल इति पाठमाश्रित्य समीचीन बुद्धि बल इति प्रथमार्थे द्वितीयार्थे प्रकृष्ट विज्ञान बलैक धावनीत्युक्त रीत्या ज्ञान-बल-रूप-गुण-द्वय विशिष्ट इत्यर्थ इति केचित् । 6.6 ।

मूलम्

अहार्यस्सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् । सत्प्रदक्षिणयोग्यत्वम् उपयाति सदोन्नतः ।। 6.7 ।।

टीका

हर्तुम् अशक्यः अहार्यः दृढाध्यवसायः सर्वेषु मित्रशत्रूदासेनेषु त्रिष्वपि पक्षपातरहितः । सर्वमध्यस्थः काञ्चनकामपि विलक्षणानित्यर्थः । द्युतिं तेजस्विताम् उद्वहन् सदा उन्नतः श्रेष्ठ पुरुषः सत्प्रदक्षिण योग्यत्वम् । सत्कर्तृक प्रदक्षिण गमनौचित्यम् उपयाति । अर्थान्तरम् । सर्वमध्यस्थः परितो वर्तमानानां भारतादि वर्षाणां मध्ये वर्तमानः काञ्चनद्युतिं स्वर्ण दिप्तिम् उद्वहन् सदोन्नतः नित्यमुच्छ्रितः अहार्यः पर्वतः । सत्प्रदक्षिण योग्यत्वं नक्षत्रप्रदक्षिण गमन योग्यत्वमुपयाति । 6.7 ।

मूलम्

पुण्यगन्धास्सुमनसः प्रबुद्धास्समयागमे । शिरसा परिगृह्यन्ते सादरं त्रिदशैरपि ।। 6.8 ।।

टीका

पुण्यगन्धाः पुण्यकीर्तयः । एवं पुण्यस्य कर्मणो दूरात् गन्धो वातीति । गन्ध शब्दस्य कीर्त्यर्थकत्वात् समयागमे धर्मज्ञ समये शास्त्रेषु च प्रबुद्धाः प्रकृष्ट बोधाः सुमनसः विद्वांसः । त्रिदशैरपि बालदशैरपि कुमारदशैरपि युवदशैरपि सादरं शिरसा परिगृह्यन्ते नमस्क्रियन्ते । अर्थान्तरम् । पुण्यगन्धाः सुरभयः समयागमे प्रातर्मध्यन्दिने सायं रात्रावा विकासोचित समय प्राप्तौ सत्यां विकस्वरास्सुमनसः पुष्पाणि त्रिदशैर्देवैरपि शिरसा सादरं गृह्यन्ते ध्रीयन्ते । 6.8 ।

मूलम्

अनुकर्तुम् अपह्नोतुम् अतिवर्तितुम् ऐक्षितुम् । अशक्ये तेजसाम्पत्त्यौ मित्रता सुमतिक्षमा ।। 6.9 ।।

टीका

तादृश तेजोविरहात् अनुकरणाशक्तिः सर्वजन परसिद्धत्वात् । अपह्नवाशक्तिः अतिवृत्तिरतिलङ्घनम् अनुकरणाशक्तस्याति लङ्घनाशक्तिः कैमुतिक न्यायसिद्धां महापुरुष कर्मणां दुर्गम देश व्यापित्वादीक्षणाशक्तिः । एवं भूते तेजसाम्पत्त्यौ मित्रतैवानुमिति क्षमा । अङ्गीकारार्हा तेजश्शब्देन तेजस्विन उच्यन्ते । अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजेत्यादिषु । तथा दर्शनात् । नक्षत्रेष्टक उपदधात्येतानि वैदिनोज्योतींषि । पुरस्ताद्वा एतज्ज्योतिरुदेति । तस्मात् पुरस्ताच्च्योतिरुपास्महे । सूर्यो ज्योतिः ज्योतिस्सूर्यस्स्वाहा । अग्नि ज्योतिरवरुन्धे वायुज्योतिरवरुन्धे सूर्यो ज्योतिरवरुन्धे इत्यादिषु ज्योतिश्शब्दवत् तेजस्विनां प्रभावशालिनां पत्त्या श्रेष्ठे मैत्री परमङ्गीकर्तुं क्षमा । नानुकरणं नापह्नवः नातिलङ्घनं नारास्यक वीक्षणं वा शक्यते । कर्तुमीदृशमेव सीतावचनम् । विदितस्सहि धर्मज्ञश्शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसीति । सूर्यपरमर्थान्तरं स्फुटमेव । मित्रता मित्रे पदवाच्यता । 6.9 ।

मूलम्

अहितुण्डिकवृत्तीनाम् अशेषाः भोगिनः पदम् । न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ।। 6.10 ।।

टीका

संवर्ताग्नेः प्रलयकालाग्नेः सारथ्ये साह्यकर्मणि यन्मुखमारुतः येषां शेषव्यतिरिक्त सर्पाणां मुख मारुत श्वासानि लोनस्थाता न स्थास्यति । लृटि रूपमिदम् । अशेषाः शेषव्यतिरिक्ताः भोगिनः सर्पाः त एव अहितुण्डिकवृत्तीनां व्याळग्राही व्यापाराणां ग्रहण बन्धनोत्फणीकरणादीनां पदं विषयः । पुनः शेषोऽपि यथा तया बाध्य साजात्यमात्रेण लोकोत्तरबलं बाध्यकं मत्वा बाधमान स्वयमेव ध्वस्तो भवतीति सादृश्याप्रस्तुतार्थ व्यक्तिः । 6.10 ।

मूलम्

गरुत्मति सुपक्षतां गिरिधुरन्धरे धीरताम् उदन्वति गभीरताम् अमृतदीधितौ सौम्यताम् । विवस्वति च दीप्ततां विधिरुपादधानश्चिराः अनर्घगुणचित्रितं किमपि चित्रमासूत्रयत् ।। 6.11 ।।

टीका

गरुत्मति सुपक्षतां शोभनः पक्षो गरुद्यस्य स्वभावस्सुपक्षता गरुत्मत्येषोऽर्थः । सत्पुरुषे तु सुपक्षता अनुकूल मित्रता । उदन्वत्यर्थे प्रहृष्टश्च तमसा यत्र तुष्यतीत्युक्त गुणे तात्पर्यः । अनन्तरोक्त गुणाभ्यां समुद्र इव साम्भीर्ये धैर्येण हिमवानिलेति वचस्सूचितम् । समनन्तरगुणेन सोमवत्प्रियदर्शन इत्युक्ति स्मारिता । विवस्वति न दीप्तितामित्यनेन गुणैर्विरुरुचे रामो दीप्तसूर्य इवांशुभिरित्येतत् स्मारितम् । एषु विद्यमानान् एतान् गुणान् उपादधानो विधिः भाग्यमेवानर्घगुणचित्रितम् । कल्याणैः गुणैः अद्भुतीकृतम् । किमप्यनिर्वचनीयम् । सर्वचेतन रक्षकं चित्रम् असूत्रयत् । सूचितं कृतवान् एवं भूताः पुरुषाः ईदृश गुणवत्तया करचरणादि मत्तयैव न सहसा ज्ञातुं शक्यन्ते किन्तु कार्यविशेषैरनुमील्यन्त इत्यभिप्रायेण सूत्रयतेः प्रयोगः । 6.11 ।

मूलम्

प्रशस्तिं विन्दन्ति प्रशमसुखदिव्यामृतरस प्रलीनोदन्यानां परिषदि न सम्पत्तिसरितः । अमित्रोपक्षे पक्षणविगळदात्मीयपृतना दृढामर्दत्रस्य द्रमिड भटजङ्घा जवभृतः ।। 6.12 ।।

टीका

उत्कर्षमपकर्षम् अन्यद्वारि किञ्चिदमित्र गतमज्ञातं ज्ञापयितुम् अमित्र शब्दोच्चारणम् अमित्रोपक्षेपः उच्यमान वाक्यस्य विधेयांशमश्रुत्वा तत्क्षणा एव गळन्त्यास्वानुकूल पृतनायाः दृढामर्देन बलवतागति प्रतिबन्धक सम्मर्देन त्रस्यतां द्रमिड भटौनां जङ्घा जवसदृशं जवं बिभ्रतीति तादृश जवभृतः । अत्यन्ता स्थिरा इत्यर्थः । सम्पत्तय एव सरितः प्रशमसुखदिव्यामृतरसेन प्रलीना उदन्वापिपास एषां तेषां सतां परिषदि प्रशस्थिं न विन्दन्ति । यच्च कर्म सुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षय सुखस्यैते नाहर्तष्षोडशी कला । इति सद्भिः निन्दितत्वादिति भावः । 6.12 ।