05 असेव्यपद्धतिः

मूलम्

कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः । कश्चित् कल्याणगोत्रेऽपि मनुष्यैर्नोपजीव्यते ।। 5.1 ।।

टीका

बहुप्रकारमनुसृतोऽपि प्रातिकूल्यादप्रच्युतः कठिनः कृशमूलः मूलं श्रेयः प्राप्ति साधनं तत्कृशं दुर्बलं यस्य कृशमूलः । दुर्लभो विरोधिबाहुळ्यात् लब्धुमेवाशक्यः दक्षिणेतरः असमर्थः । कश्चित् पुरुषः कल्याणगोत्रोऽपि प्रशस्तान्वयोऽपि मनुष्यैर्नोपजीव्यते । गुणान्तरसत्त्वेऽपि काठिन्यासत्त्वेन सेव्य एवेति भावः । अर्थान्तरं प्रतीयते । कठिनः पर्वतत्वादेव कठिन स्पर्शवान् कृशमूलः महामेरोरग्रात् मूलं कृशमिति पुराणं दुर्लभः विप्रकर्षात् पर्वत कान्ताराद्यन्तरित्याच्च प्राप्तुमेवाशक्यः । दक्षिणेतरस्सर्वेषाम् उत्तरो मेरुरिति हि प्रसिद्धिः । कल्याणगोत्रोऽपि सुवर्ण पर्वतोऽपि कश्चिदुपजीव्यः मनुष्यैरशक्तैः नोपजीव्यते । 5.1 ।

मूलम्

दुष्टपङ्कः प्रतिपदं स्यात् अल्परस संस्थितिः । काले घनरसैर्योगेऽप्यसेव्यो जीवनार्थिभिः ।। 5.2 ।।

टीका

प्रतिपदं मुहुर्मुहुः दुष्टपङ्कः अस्त्रीपङ्कः पुमान् पाप्मेत्यमरः । अल्परस संस्थितिः अल्पद्रव्यसद्भावः । रसो रागे विशेषे द्रवे इति भट्टबाणः । काले कालविशेषे घनरसैर्दृढानुरागैः सुहृद्भिर्योगेप्यजीवानार्थिभिः शरीरयात्रा कामैरसेव्यस्स्यात् । ———- —- । अर्थान्तरम् । प्रतिपदं पदे पदे अनेक प्रदेशेष्वित्यर्थः । दृष्टपङ्कः पङ्को स्त्रीशातकर्दमालित्यमरः । अल्परस संस्थितिः माधुर्यादि सद्भावे अल्पो यस्य स अल्परस संस्थितिः । कालेन रसैर्जलैर्योगोऽपि । मेघपुष्पं घनरसमित्यमरः । जलाशयः जीवनार्थिभिः जलार्थिभिरसेव्यस्स्यात् अतिवृष्टि दशायामिव तदन्यकाले जलाभावादित्यर्थः । 5.2 ।

मूलम्

स्वतस्सत्त्वविहीनानां सत्तयेवापराध्यताम् । कथं कारं प्रतीकारः कल्पकोटिशतैरपि ।। 5.3 ।।

टीका

सच्छब्दः साधुवाचकः स्वतः सत्त्वविहीनानां प्रकृत्या आनुकूल्यरहितानां सत्तयैव सद्भावमात्रेण द्रुह्यताम् । एवकारेण प्रयोजन विशेष शङ्का न द्रोह प्रयोजिकेति सूच्यते । ईदृशीनां पुंसां कल्पकोटिशतैरपि कथं कारं प्रतीकारः कथञ्चिदपीत्यर्थः । द्रोह प्रयोजकाया सत्ताया अपनेतुम् अशक्यत्वादिति भावः । 5.3 ।

मूलम्

अपि सन्तापशमनाः शुद्धाः सुरभिशीतलाः । भजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ।। 5.4 ।।

टीका

चन्दनद्रोः मेवमा अतिशय इवातिशयो येषां ते चन्दनद्रुमाः पुरुषाः । सन्तापशमना अपि चन्दनं यथा देहतापं शमयति तद्वन्मनस्सन्तापं दुःखं शमयन्तो । विशुद्धापि द्रोहरहिता अपि चन्दनस्य दुष्ट द्रव्य सम्पत् राहित्यं शुद्धिः । चन्दनं यथा सुरभि सुगन्धाढ्यं शीतलं तद्वत् सुरभिरपि विश्रुतापि शीतलापि साम्या अपि भुजङ्गसङ्गात् दुर्जनसम्बन्धात् भीषणा जायन्ते । चन्दनद्रुम परत्वे विशेषणानामर्था उक्ता एव भुजङ्गस्सर्पः द्रुमः वृक्षः । 5.4 ।

मूलम्

नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः । गतिः कुटिलतां याति गङ्गायमुनयोरपि ।। 5.5 ।।

टीका

निसर्ग परिशुद्धयोरपि प्रकृत्या परिशुद्धयोरपि द्वयोस्सुहृदोर्गतिस्स्वभावः नीचपुरुषानुसरणात् कुटिलतां याति गङ्गा यमुनयोरपीति दृष्टान्तः । गङ्गायमुनयोर्यथा निम्नानुसरणात्प्रवाहः कौटिल्यं याति तद्वदिति । 5.5 ।

मूलम्

मित्रे भवति वैमुख्यं मैत्री दोषाकरेण च । अपि तीर्थप्रसूतानां कैरवाणां रजोभृताम् ।। 5.6 ।।

टीका

तीर्थप्रसूतानामपि परिशुद्धमातृपितृजातानामपि रजोभृतां राजसानां पुंसां कैरवाणां च पुष्करादि पुण्यतीर्थजातत्वं परागवत्वं च पदद्वयोक्तं कैरवविशेषणे मित्रे सुहृदि सूर्ये च वैमुख्यं विरुद्धदिङ्मुखत्वम् । दर्शनविरोधी भवति । चन्द्रेण सख्यञ्च भवति । इन्दुः कुमुदबान्धव इति प्रसिद्धेः । 5.6 ।

मूलम्

अपि निर्मुक्तभोगेन स्वान्तस्थ विषयेक्षया । असद्भावाय जायेत जिह्मगेन सहासिका ।। 5.7 ।।

टीका

स्वान्तस्थ विषयेक्षया स्वान्तस्थः स्वहृद्गतो यो विषयो युवत्यादिस्तद्दर्शनेन विषयस्त्र्यादि राष्ट्रयोः आस्पदे गोचरे दीपे भाजनेचावलम्बने इति भट्टबाणः । स्वान्तं हृङ्मानस्सम्मन इत्यमरः । निर्मुक्तभोगेन परित्यक्त सुखानुभवेन जिह्मगेन वक्रगतिना दुर्जनेन सहासिकापि असद्भावाय निन्दितत्वाय जायते । अर्थान्तरम् । स्वान्तस्थ विषयेक्षया स्वस्य निर्मोकस्यान्तर्गतास्पद दर्शनेन अत्र आस्पदं वपुरेकमेव । निर्मोक व्यतिरेकेणास्पदत्वात् निर्मोकत्यागेऽपि नास्पद हानिरिति मत्वेत्यर्थः । निर्मुक्तभोगेन निर्मुक्तो मुक्तकञ्चुके इत्यमरः । भोगस्सर्प शरीरम् । भोगो वैश्याभृताराज्ये साख्येर्थे पालनेरता । विहारे व्यवहारे च फणिनां फणदेहयोरिति भट्टबाणः । मुक्तकञ्चुक वपुषेत्यर्थः । जिह्मगेन सर्पेण जिह्मगः पवनाशन इत्यमरः । सहासिकापि असद्भावाय सद्भावस्सत्ता तद्विरहाय जायतेत्यर्थः । 5.7 ।

मूलम्

मण्डूकराविणं सर्पं गोमुखं च मृगादनम् । असुहृत्त्वेन मन्येत मानयन्तं च वैरिणम् ।। 5.8 ।।

टीका

मण्डूक वक्रातीति मण्डूकरावी । तं सर्पम् असून् हरतीत्यसुहृत् तस्य भावोऽसुहृत्वम् । गोः मुखमिव मुखं यस्य सः गोमुखम् । तादृशं मृगादनं व्याघ्रं तरक्षुस्तु मृगादन इत्यमरः । तमपि प्राण हारित्वेन मन्येत नानयन्तं बहुमतिं कर्यन्तं वैरिणञ्चासुहृत्वेन मन्येत । सुहृन्मित्रम् अमित्रम् असुहृत् । 5.8 ।

मूलम्

घोरस्त्यक्तमिथोवैरास्सौकर्यवदुपद्रवे । दण्डेनापि न भज्येरन् पापमण्डलिमण्डलः ।। 5.9 ।।

टीका

घोराः दारुणाः त्यक्तमिथोवैराः परित्यक्तन्योन्य द्वेषाः पापा एव मण्डलिनः श्वानः तेषां मण्डलाः समूहाः सौकर्यवदुपद्रवे सुकरस्य भावः सौकर्यमानुकूल्यमित्यर्थः । सूकरस्य भावः सौकर्यम् । वराहत्वं तद्वन्तः सुकरास्साधव एव वराहत्वेन रूप्यन्ते तेषाम् उपद्रवे प्रवृत्ताः सन्तो दण्डेनापि न भज्येरन् । राजदण्ड एव दण्डत्वेन रूप्यते । वैमुख्यं न भजन्ति । मण्डलीश्वारविश्शक्रो मार्जारो भुजगो नृप इति भट्टबाणः । मण्डलञ्चक्रुबाहुळकमित्येतत् बाहुळ्याभिप्रायम् अत एव भट्टबाणः । मण्डलं त्रिषु बिम्बस्यात् बृन्दे द्वाशराजक इत्यतस्तल्लिङ्गः निर्देश उपपद्यते । 5.9 ।

मूलम्

अनाकलित मानुष्याः क्षमासंस्पर्शवर्जिताः । प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ।। 5.10 ।।

टीका

अनाकलित मानुष्याः मनुष्याणां समूहो मानुष्यम् अगणित मनुष्यसमूहाः । क्षमा संस्पर्शवर्जिताः क्षान्ति
सम्बन्धरहिताः । पूर्वदेव विरोधिनः पूर्वेषाम् आचार्याणां देवानां च अनभिमतकारिणः पुरुषाः । प्रतिबुद्धैर्विवेकिभिः न सेव्यन्ते शरीर यात्रार्थं नोपसृप्यन्ते । अर्थान्तरम् । अनाकलित मानुष्याः अनादृत मनुष्यभावाः क्षमासंस्पर्शवर्जिताः भूसम्बन्धरहिताः पूर्वदेव विरोधिनः असुरशत्रवः देवाः प्रतिबुद्धैर्मुमुक्षुभिः न सेव्यन्ते प्रतिबुद्धो न सेवन्ते यस्मात् परिमित फलमिति वचनात् । 5.10 ।

मूलम्

अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः खलपरिषदङ्के सुजनता । परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतस्सिद्धां शुद्धिं त्यजति विपरीतञ्च फलति ।। 5.11 ।।

टीका

अमित्रे शत्रौ विश्वासः हितत्व निश्चयः । स्वतस्सिद्धां स्वभाविकीं त्यजति प्रातिकूल्य शङ्काविरहश्शुद्धिः सा च विश्वासस्य स्वभाविकी न तु किञ्चित् उपाधिमुपेक्षते । शत्रौ विश्वासतोऽपि विपरीत व्यापार दर्शनात् प्रातिकूल्य शङ्का विरहोपैतीत्यर्थः । न तावन्मात्रं सविश्वासो विपरीतञ्च फलति । विश्वासवति शत्रोरुपद्रवस्य सुकरत्वात् विश्वासे शुद्धि विपरीत फलजनकत्व व्यपदेशः । श्वपचकरके सौमिकरसेऽपि स्वतस्सिद्धां शुद्धिं त्यजति विपरीतञ्च फलति । शुद्धिः पापक्षयहेतुता विपरीत फलजननं पापजननं कपाले नरशिरः कपाले गङ्गाम्भश्चैवमेव । स्वतस्सिद्धां शुद्धिं त्यजति विपरीतञ्च फलति । खलपरिषदङ्के सुजनताप्येवम् । शत्रौ विश्वासवदेव । अङ्कस्समीपं परिक्षीणाचारे श्रुतमप्येवं कपाले गङ्गाम्भोवदेव । श्रुतं शास्त्रार्थज्ञानं पापक्षयहेतुत्वं विहाय पापजनकत्वं भजते । ज्ञानाग्निस्सर्व कर्माणि भस्मसात्कुरुतेतथेति । पापक्षयहेतुतामतिपूर्वं हते तस्मिन् निष्कृतिर्नोपलभ्यत इति पापहेतुता । अनुपनीते निगमश्च स्वतस्सिद्धां शुद्धिं त्यजति । विपरीतञ्च फलति । स्वाध्यायोदेव पवित्रं वा इति पापक्षयहेतुता । उपनीय गुरुश्शिष्यं महाव्याहृति पूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत्युपनीतस्यैवाध्यापन विधानात् उपनयनं विद्यार्थस्य श्रुतितस्संस्कार इति अध्ययनार्थतया उपनयन विधानात् तदतिक्रमे गुरुशिष्ययोरुभयोरपि दोष स्मरणात् । अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति तयोरन्यतरः प्रैति । विद्वेषं वा अधिगच्छतीति । पापहेतुता अमित्रे विश्वास इति प्रस्तुतार्थः । दृष्टान्तार्थम् इतरोपादानम् । 5.11 ।

मूलम्

तरतु विवित्सयाब्धिमधिरोहतु शैलतटीं धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् । तदिदमरुन्तुदं यदुत बह्ववधाय भिया धनमदमेदुर क्षिति भृदङ्गण चङ्क्रमणम् ।। 5.12 ।।

टीका

भिया बह्ववधाय अत्यन्तम् अवहितस्य क्षिति भृदङ्गण चङ्क्रमणम् यदस्ति तदिदमेहति दुष्करार्थ साधनात् अब्धितरणादेः उपायादप्यरुन्तुदं मर्मस्पृक् अतो धनमदमत्ता धनिकान् असेव्या इति भावः । 5.12 ।