04 दुर्वृत्तपद्धतिः

मूलम्

गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः । सर्वतीर्थोऽवगाहेऽपि नीचवृत्तिर्न शस्यते ।। 4.1 ।।

टीका

नीचवृत्तिः निन्दित कर्मापुरुषः गुणजालप्रकर्षेऽपि दया क्षान्त्यादि गुणसमूहात्मप्रकर्षेऽपि सत्त्वपि जन्मत आरभ्येति शेषः । धीवरत्वेऽपि धिया बुद्ध्या श्रेष्ठत्वेऽपि सर्वतीर्थावगाहेऽपि पुष्करादि पुण्यतीर्थेषु स्नानेऽपि न शस्यते सत्पुरुषैः न स्तूयते । गुणवतो बुद्धिश्रेष्ठस्य कथं निन्दित कर्मत्वमिति चित् धर्मपुत्रादिषु राजसेवादेः वचनादेरिव च उपाधिवशे न क्वचित् सम्भावितत्वात् यद्वा यस्मिन् निन्दित कर्मणि पुरुषः प्रवर्तते तद्विरोधि गुणवत्वं गुणजालप्रकर्षेऽपि इति विवक्षितम् । विषयान्तरे च बुद्धिश्रेष्ठता विवक्षितेति नासम्भवः । यद्वा नीचवृत्तिः इत्यनेन नीचेषु वृत्तिः स्थितिर्यस्य स इति विवक्षितम् । विभीषणादौ च दृष्टमेतत् । तस्य प्रशंसा कुत इति चेत् हितोपदेशकाले सर्वधनापहारपूर्वकं निरस्त्वेनानर्थो दर्शत्वेन सत्पुरुषा सम्मतत्वात् । अर्थान्तं प्रतीयते । गुणस्य हज्वादेर्जालस्य आनायस्य आनायः पुंसि जालं स्यादित्यमरः । जन्मतः न क्रियामात्रेण धिवरत्वेऽपि कैवर्तत्वेऽपि कैवर्ते दाशरथी वरावित्यमरः । सर्वतीर्थावगाहेऽपि नीचवृत्तिः निन्दित कर्मा न शस्यते । अपकृष्टजन सहवासी वा न शस्यते । सत्पुरुषैः नाभिनन्द्यते । गुणतः कर्मान्तरेण च उत्कृष्टस्यापि जाति दुष्टस्यापि निन्दित कर्मप्रवृत्ति दुर्जन सहवासश्च न शस्यत इत इति अर्थः । 4.1 ।

मूलम्

द्वजराजाङ्क संस्थोऽपि सन्मार्गाकारवानपि । विशुद्धिरहीतः कश्चिन्न विन्दत्यकलङ्कताम् ।। 4.2 ।।

टीका

दिजराजाङ्क संस्थोऽपि द्विजानां ब्राह्मणानां राज्ञा भूभृताम् अङ्के संस्थितोऽपि । अङ्क समीप उत्सङ्गे इति विश्वः । सन्मार्गाकारवानपि मार्गश्च आकारश्च मार्गाकारौ अस्यस्त इति सन्मार्गाकारवान् । प्रशस्ताचारवेषवानपि इत्यर्थः । कश्चित् अविज्ञानः पुरुषः विशुद्धिरहितश्चेत् पितृमात्रादि शोधनं न कृतं चेत् अकलङ्कतां न विन्दति । सत्कर्मसम्बन्धे विद्यासम्बन्धे योनि सम्बन्धे निस्संशय प्रवृत्तिविषयत्वं न भजति । दूरादेव परीक्षित ब्राह्मणं वेदपारगमिति सत्कर्म सुपरीक्षाविधानात् तस्मिन् अभिजन विद्यासमुदेतं समाहितं संस्कार्तारमीप्सेत् इति जन्मवंश परीक्षायाश्च पूर्ववृत्त परीक्षायाश्च विधानात् अभिजन शब्देन जन्मवंश परीक्षोच्यते । विद्या शब्देन विद्यावंश परीक्षा समाहित शब्देन प्राचीन कर्म वृत्त परीक्षा विवक्षिता । अविप्रतिप — धर्मेभ्य इत्यनेन गुरुवरणानन्तरमपि धर्मविप्रतिपत्ता त्यागो विवक्षितः । सर्वमिदं विन्यासम्बन्धमात्रे । धर्मसम्बन्धमात्रे तु ब्राह्मणानाम् आर्त्विज्यमिति ब्राह्मणधर्माः सर्वेऽपि ब्राह्मणजन्म च ब्राह्मणत्व प्रयोजकं ब्रह्मजन्म च परीक्ष्यत्वेन विवक्षितम् । ब्राह्मणानार्षे यान्य द्विजो वृणीते इत्यार्षेयत्व परीक्षा च विहिता । आर्षेयस्य रूपं ब्राह्मणे दर्शितमेष वै ब्राह्मण ऋषिः आर्षेयो यः शुश्रुवान् इति जन्मतः कर्मतश्चापर्युदस्ता । यस्तादृशाचार्यात् धर्मेण लब्ध वेदाध्ययन तदर्थावबोध इत्यर्थः । योनि सम्बन्धेऽपि दशपुरुष विख्यातात् श्रोत्रियाणां महाकुलात् । स्फितादपि न सञ्चारी रोग दोष समन्वितात् । एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । महन्त्यपि समृद्धानि गोजानि धनधान्यतः । स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् । हीनक्रियं निष्पुरुषं निच्छदोरोमशाट् स —— क्षैय्या मया व्यपस्मारीश्वित्र कुष्ठि कुलानि च इत्यादिभिः परीक्षा विहिता । दुर्गुणाभाव परीक्षा तु यत्नतः कर्तव्येत्युक्तम् । मनुना काममामरणात्तिष्ठेत् पितुर्वेश्मनि कन्यका । गुणहीना य दातव्या न कदाप्यविपश्चिते । न ब्राह्मणं परीक्षेतदेवै कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षित प्रयत्नतः इत्यतत्तु दैवकर्मणि न परीक्षा निषेधार्थं किन्तु पितृकर्मणि अयोग्य सम्बन्धे दोषाधिक्यपरम् । यद्यपि दैवेन परीक्षेत तदा पित्र्ये परीक्षेतेत्यर्थः । दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् । तीर्थं तद्धव्यकव्यानां प्रदाने सातिथि स्मृत इति अव्यकर्मण्यपि परीक्षाविधानात् सम्वत्सरेण पतति पतितेन सहाचरन् याजनाध्यापनाद्यौ नान्नतु यास्सशनात् इत्ययोग्य सम्बन्धे पातित्योपदेशाच्च अत वातिथिरपि परीक्षणीय एव सोऽतिथि स्मृत इति परीक्षितस्यातिथित्वस्मरणात् । उत्तमेषु उत्तमं कुर्यात् नीचे नीचं समे सममिति उत्कर्ष तारतम्येन पूजातारतम्य विधानाच्च न ह्यपरीक्षिते तारतम्य ज्ञानं सम्भवति । नवार्यपि प्रयच्छेत्तु बैडाल प्रतिके द्विजे न बके प्रतिके पापेनावेदविधि धर्मविदिति । निन्दितेष्वातिथ्य निषेधाच्च आश्व चण्डालेभ्य इत्यपि जातिदूषितोऽपि दानार्ह इत्युच्यते । कर्मदूषितस्य नानुमन्यते । न पृच्छेत् गोत्र प्रश्न निषेधपरं । विषयान्तर प्रश्ने न वेषभाषादिभिश्च स्वभाव परीक्षायान् न बाधकम् । यद्वा विशुद्धिरहितः कृतपापप्रायश्चित्तरहितः अकळङ्कतां निष्पापतां न विन्दति । अस्मिन् पक्षे द्विजराजाङ्क संस्थोऽपि इत्यत्र राजशब्दः श्रेष्ठपरः भूपति समीपस्थितेः पापानिवर्तकत्वात् । यद्वा विना परमात्मना शुद्धि विशुद्धि विः पक्षी परमात्मनोरिति भट्टबाणः । क्षेत्रज्ञस्येश्वर ज्ञानात् विशुद्धिः परमामतेति याज्ञवल्क्यः । कश्चित् क्षेत्रज्ञः अकळङ्कतां न विन्दति । कळङ्कः प्रकृतिसम्बन्धः । यद्वा विशुद्धिः यस्य सः अहितः प्रतिकूलः अकळङ्कतां निष्पापतां न विन्दति । अर्थान्तरं । द्विजराजाङ्कं संस्थोऽपि चन्द्रोत्सङ्ग गतोऽपि सन्मार्गाकारवानपि मृगशब्दात् तस्येदमित्यण् प्रत्यये कृते तद्धितेष्वचामादेरिरि वृद्धा मार्ग इति । सिद्ध्यति मार्गश्चासावाकारश्चेति समासः । हरिणा कारवानपित्यर्थः । विशुद्धिरहितः मालिन्यभावरहितः । कश्चित् कळङ्कः अकळङ्कतां कळङ्कभिन्नतां न विन्दति । यद्वा द्विजराजः पक्षिराजः सर्प अङ्कः ध्वजः चिह्नं तदुपरि स्थितोऽपि सतां नक्षत्राणां मार्गः आकाशं तद्यत् नीलरूपाकारवानपि विगता शुद्धिः एषां ते विशुद्धयः ते रहिता येन स विशुद्धिरहितः अपरिशुद्धान् वर्जयन् इत्यर्थः । अयं चार्थो विवक्षितः वेः पक्षिणः काकादिकस्य शुद्धिः स्नानादिकमेव येषां ते विशुद्धयः । काकादयो हि स्नानं कृत्वा पुनर्जुगुप्सितम् अश्नन्ति । तद्वत् पुनरपि निन्दिताभ्यसने पूर्वकृतं प्रायश्चित्तादिकं व्यर्थी कुर्वन्त इत्यर्थः । ते रहिता येन स इति पूर्ववत् विग्रहः । शोधित पापा अपि ये पुनः पापेषु प्रवर्तन्ते तानपि वर्जयन्तीत्यर्थः । कं ब्राह्मणं करोति कथयति तत्करोति
तद्व्याचष्ट इति णिबिणिजन्तात् परजीति अच् प्रत्यये कृतेक इति रूपं सिद्ध्यति । ब्रह्मणस्स्रष्टुरित्यर्थः ।
एतदर्थाभिप्रायेण नामसहस्रे पठ्यते एकोनैकस्सवः कः किमिति चेत् ज्ञानात्मा प्रेक्षोपलब्धिश्चित् संविदित्यमरः । अकळङ्कतां चिह्नराहित्यं न विन्दति । श्रीवत्स लाञ्छनत्वात् यद्वा द्वजराजाङ्क संस्थोऽपि चन्द्र समीप स्थितोऽपि सन्मार्गाकारवानपि सन्मार्गे आकाशे आकृतिमानपि सतां मुक्तानां मार्गभूताकारवानपि विशुद्धिः विशिष्ट शुद्धिः चेत् चिति संज्ञाने इति धातोरन्तर्भावितण्यर्थात् क्विपिरूपं चिदितिचेतर्यज्ञानोत्पादक इत्यर्थः । कस्सूर्यः अकळङ्कतां निरपवादताम् अहितः सैम्हिकेयात् अहिः सर्पः पञ्चम्यर्थे त सिः न विन्दति । राहुणा परिभूयते इत्यपवादयुक्तो भवतीत्यर्थः । अर्थान्तरं । जरा जानां जरा जनितानाम् अङ्कानां संस्था अवस्थानं द्विजराजाङ्कसंस्था । द्वे जराजाङ्क संस्थे यस्य सः द्विजराजाङ्कसंस्थः । जरा चिह्नानि विविधानि वलीपलतादीनि दृश्यानि बलक्षयादीनि अदृश्यानि । मार्गाकारवानपि मृगसम्बन्धाकारवानपि मृगो यथा शौच सम्पादनां समर्थतया अपरिशुद्धाकृतिः । तद्वत् अपरिशुद्धाकारोऽपि सन् क्षीणपापः पुरुषः साधवः क्षीणपापास्तु सच्छब्दस्साधुवाचक इति विष्णुपुराणे विशुद्धिभिः विगतशुद्धिभिः दुर्जनैरहितः कोवाचित् चेतनः अकळङ्कतां निरपवादतां न विन्दति । अर्थान्तरम् । द्विजराजाङ्कसंस्थोऽपि स्व चिह्नभूते पक्षिराजे हंसे स्थितोऽपि कः ब्रह्मा रजस्तमोविरहरूपया विशुद्ध्या रहितः अकळङ्कतां न विन्दति । वेदापहारादिना असुरैः परिभूयत इति अपवादतां भजते । तथा सन्मार्गकारवानपि अष्टमूर्त्यन्तर्गततया आकाश शरीरश्चित् सर्वज्ञोऽपि विशुद्धिरहिततया अकळङ्कतां न विन्दति । गुरुपातक दैत्यपीडापवादं भजते । 4.2 ।

मूलम्

अवक्रस्तारकाधीशः परिपूर्ण् प्रियोदयः । प्राचीं दिशमतिक्रमय पतनं प्रतिपद्यते ।। 4.3 ।।

टीका

अवक्रः ऋजुबुद्धिः तारकाणाम् उत्तारकाणां परापन्निवर्तन पराणाम् अधीशः प्रभुः परिपूर्णः सद्गुणः पूर्णः प्रियोदयः सन्तोष विषयाभिवृद्धिकः प्राची दिशं प्राचां सम्बन्धिनीं दिशं गतिं चरितम् अतिक्रम्य उल्लङ्घ्य पतनं कर्मानर्हतां प्रतिपद्यते । अर्थान्तरम् । अवक्रः वक्रतारहितमण्डलः तारकाधीशः नक्षत्रपतिः परिपूर्णः परितः पूर्णः प्रियोदयः इष्टोद्गमः प्राची दिशं ककुभमतिक्रम्य पतनम् उन्नत प्रदेशात् भ्रंशं प्रतिपद्यते । आशोपायगमेषु दिगिति भट्टबाणः । 4.3 ।

मूलम्

पततां हन्त केषाञ्चित् भजते मलिनात्मनाम् । विशुद्धवर्णयोगोऽपि विपरीत निमित्तताम् ।। 4.4 ।।

टीका

तामस स्वभावानां पततां पतनीयं कर्म कुर्वतां केषां चित्पुरुषाणां विशुद्धवर्णयोगोऽपि शुद्धि विशिष्ट ब्राह्मणादि वर्ण सम्बन्धोऽपि विपरीत निमित्तताम् अश्रेयः कारणतां भजते । अर्थान्तरन्तु । मलिनात्मनां कृष्ण शरीराणां केषाञ्चित्पततां पक्षिणां काकानां विशुद्धवर्णयोगोऽपि शुक्लसम्बन्धवर्णोऽपि विपरीत निमित्तताम् अश्रेयस्सूचकतां भजते । पुच्छ नक्षत्र मण्डूकं श्वेतपक्षं च वायसम् । रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेदिति संहिता वचनम् । 4.4 ।

मूलम्

पतनानन्तरं कृच्छ्रात् प्ररूढः शुद्धिमानपि । द्विजः सञ्छाद्यते नित्यमधरेणापि रागिणा ।। 4.5 ।।

टीका

द्विजः त्रैवर्णिकः पतनानन्तरं प्रतिषिद्धाचरणानन्तरं कृच्छ्रात् प्राजापत्यादिकात् शुद्धिमानपि प्ररूढोऽपि प्रसिद्धोऽपि रागिणा दुर्विषय प्रसक्तानुरागेणावरेणापि अकृष्टेनापि सम्बाध्यते । अप्रकाशः क्रियते । अर्थान्तरम् । द्विजः दन्तः पतनानन्तरं कृच्छ्रात् क्लेशात् विलम्बेन प्ररूढोऽपि जातोऽपि शुद्धिमानपि काष्ठादिभिः कृत शोधनोऽपि रागिणा रक्तवर्णेन अधरेणापि दन्तवाससापि सम्बाध्यते अपि धीयते । 4.5 ।

मूलम्

जोषमेकपदे स्थित्वा सन्निकृष्टान् क्षणाद्घसन् । बहिर्दर्शित संशुद्धिः बकव्यापारमर्हति ।। 4.6 ।।

टीका

असत् दुर्जनः एकपदे एकस्यैव पदं जनान्तर रहितम् एकपदं तस्मिन् रहसि जोषं तूष्णीं निश्शब्दमित्यर्थः । तूष्णीम् अर्थे सुखे जोषमिति भट्टबाणः । स्थित्वा निकृष्टान् दुर्बलान् क्षणात् झटिति घसन् हिंसन् निन्दित पदार्थान् भक्षयन् इति चार्थः । एवमन्तः पापबाहुळ्येऽपि बहिर्दर्शित संशुद्धि जन समक्षं दर्शित दुरिताभावः पुरुषः बकव्यापारमर्हति । स क इति व्यवहारम् उक्तमर्हति । व्यवहार उक्तिर्लपितमित्यमरः । पाषण्डिनोऽपि कर्मस्थान् बैडालव्रतिकान् शठन् हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् । न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । न बकव्रतिके पापेनावेदविधि धर्मवित् इत्यादिषु बकवृत्ति शब्देन निर्देशात् बकस्वरूपं दर्शितम्मनुना । अधोदृष्टिः नैकृतिकऋ स्वार्थ साधन तत्परः । शठोमिथ्यादि नीतश्च बकवृत्तिचरो द्विज इति । बको यथा मत्स्यदर्शनाय अधोदृष्टिर्भवति तद्वत् दुर्जनेऽपि अधोदृष्टिर्भवति । बाध्यदर्शनार्थम् अधश्शब्देन दुर्लभतो लक्ष्यते । निकृतिः निन्दित कर्म । कुसृतिः निकृतिः शठ्यमित्यमरः । निकृत्वा जयतीति नैकृतिकः बको यथा विश्वासोत्पादनेन मत्स्यान् बाधते तथैव दुर्जनोऽपि इति भावः । बको यथा धर्ममनादृत्य स्वार्थ साधन तत्परः तद्वत् अयमपि बकवत् शठः दृढविप्रियकृत् चिकीर्षित विप्रयोगोपनमनेनोच्यते । नैकृतिक पदेन तु विश्वासोत्पादनमिति भेदः स्यान्नैकृति कोनैकृतिकः शठः कापटिकोऽनृजुरिति पर्यायत्वेऽपि न दोषः । अत्र तदर्थान् विवक्षणात् मिथ्याविनीतः असत्य प्रशममलिनयः शिक्षा विचार प्रशान्तिष्विति भट्टबाणः । विनीतश्शब्दो भावार्थकः प्रशमस्यापत्यत्वं बाध्य लाभे सति परित्यागः । एवं गुण क्रिया साम्यात् बकव्यापारार्हता । अर्थान्तरम् । एकपदे एकस्मिन्नेव स्थाने जोषं निर्व्यापारम् अचेतनवत् स्थित्वा अचेतन बुद्ध्युत्पादनेन सन्निकृष्टान् सविधगतान् क्षणात् अविलम्बेन घसन् भक्षयन् अन्तर्मलमूत्ररक्तमांसादिषु कृष्ण रक्तादि वर्णान्तरवत्वेऽपि बहिर्बाह्यावयवेषु दर्शित संशुद्धिः वर्णान्तर विरहं दर्शयन् । यद्वा अन्तर्जिघांसासत्वेऽपि बहिर्दर्शित हिंसादि विरहः बक इति व्यापारम् अर्हति । अर्थान्तरम् । सन्निकृष्टान् दुर्बल मीनान् घसन् प्रबल मीनः बहिर्दर्शित संशुद्धिः दर्शितावदातभागः बकस्य वेः पक्षिणः आहारं भक्षणक्रियामर्हति । अर्थान्तरम् । सन्निकृष्टान् सतः प्रशस्तान् दधिक्षीरादीन् निकृष्टानप्रशस्तान् पुरुष पशुमद्यमांसादीन् घसन् बहिर्दर्शित संशुद्धिः । संशुद्धिरिति निश्शेषीकरण अस्थिचर्मादेरनुपादे यस्यापनयनं चोद्यते । एवं भूतः कश्चित् असुरो बक शब्देन व्यापारमर्हति । अर्थान्तरम् । बहिर्दर्शित संशुद्धिः बाह्यावयवेषु अन्तश्च गुरूपदिष्ट संशुद्धिः । पञ्चा – भोजनं कुर्यात् । अस्नाताशी मलं भुङ्क्ते । भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत् इत्यादि उपदिष्ट शुद्धिं कृत्वा एकपदे स्थित्वा एकस्मिन्नेवावस्थाने निवृत्तगतिको भूत्वाष्ठागति निवृत्ताविति धातुः । भोजनकाले गमनप्रतिषेधात् देशैकत्व नियमाच्च । असन्निकृष्टान् कन्निकृष्टान् इति च द्वेधा पदच्छेदः । सद्भिः निन्दिताः सन्निकृष्टाः अतादृशा असन्निकृष्टाः सन्निकृष्टा यदृच्छयोपनताः न सन्निपतितन् धर्म्यमुपभोगं यदृच्छयेतुक्त लक्षणान् पदार्थान् क्षणात् झटिति सन्तोषादिति चार्थः । असन्तोष विलम्बयोः निषेधात् घसन् अर्दघनु अदन् इति धात्वन्तरम् । पुनरपि भोजन स्थानात् बहिर्दूरादेव दर्शित संशुद्धिः । हस्तपादमुखशुद्धिं कृत्वा स्नात्वा भुक्त्वा क्षुते सुप्ते इति स्मृत्याद्विराचम्य पश्चादेव भीमसेनः बकासुरेण सह व्यापारमर्हतीति अप्रस्तुतार्थ प्रतीतिः । 4.6 ।

मूलम्

द्विजस्य सितपक्षस्य कवेरपि निगद्यते । नाहंस इति साजात्यं गतिशब्दतवृत्तिभिः ।। 4.7 ।।

टीका

द्विजस्याण्डरूपेण पक्षिरूपेण च द्वेधा जन्मभागः । सितपक्षस्य शुक्ल रुतः । कवेर्जलपक्षिणः । द्विजस्य मातुस्सावित्र्याश्च द्विजातस्य । सितपक्षस्य भिन्न परिग्रहस्य षोन्तकर्मणीति सर्वत्र ममतां त्यक्तवन्तः इत्यर्थः । कवेः विदुषः सङ्ख्यावान् पश्चितः कविरित्यमरः । नाहंस इति वाक्यजन्य प्रतीति विषयत्व कृतं साजात्यं
गतिशब्दित वृत्तिभिः निरस्यते । नाहंस इति वाक्यस्य हंसान्नान्यत्वेन हंस प्रतिपादकतयाः केवल जीवत्वाभावेन भगवदात्मकत्वेन च भगवत्प्रतिपादकता इदं साम्यं गमनेन कूजितेन अभ्यवहारेण च हंसस्य गतिराकाशे शब्दितञ्च नार्थ प्रतिपादकं वृत्तिश्च —— सादकभक्षणरूपा कवेस्तु गतिः भूमौ शब्दितञ्चार्थबोधकं वृत्तिश्च यज्ञशिष्टाशनरूपा गतिरवगतिः वृत्ति व्यापारः पक्षिणोऽवगतिः दृष्टमात्र विषया कवेस्तु तत्वहितपुरुषार्थ विषया शब्दितञ्च हंसस्य नादात्मकं निष्फलं कवेस्तु वेदाभ्यासादि रूपं निःश्रेयस साधनं वृत्तिः पक्षितोचिताविदुषस्तु देवता अनादिरूपः व्यापारः श्रेयस्साधनमिति भेदः । यत्किञ्चित् धर्मकृतं विद्वत्साम्यं तिर्यक् साधारणं विद्या कृतस्तु तदितरस्य –दिति भावः । 4.7 ।

मूलम्

अव्यवस्थित वृत्तानाम् अभिन्न श्रुतिचक्षुषाम् । अधर्मार्जित भोगानाम् आशीरप्यहितोचिता ।। 4.8 ।।

टीका

वृत्तमात्मगुणः दुर्जनस्य किञ्चित् कदाचित् यदा क्षान्त्यादि लेशो दृश्यते न सर्व विषया । सर्व कालव्यापि चेति अव्यवस्थित वृत्तत्वं धर्माप्रवर्तकया पाप प्रवर्तकतया च श्रुति चक्षुषोस्तुल्यत्वमेव न कश्चिद्विशेष इत्यभिन्न श्रुति चक्षुष्त्वम् । एते स्वैरोपपादकमुत्तर विशेषं —– अधर्मार्जित भोगत्वम् एवं भूतानाम् आशासनमप्यहितोचितं शत्रुयोग्यं बाधक विषयमेवेत्यर्थः । अर्थान्तरम् । अव्यवस्थितानाम् अवयश्शैलमेषाकान् इत्यमरः । वृत्तानां सर्प शरीरं वृत्ताकारं भवति । न च तुरश्रत्रिकोणादि रूपम् अभिन्न श्रुति चक्षुषां कर्णलोचनयोः ऐक्यवताम् अधर्मार्जित भोगानां पाप सम्पादित वपुषाम् आशीर्दंष्ट्रा अहितोचिता सर्पजात्यनुगुणा । 4.8 ।

मूलम्

दुष्टैरारोपितः कश्चित् अनर्थक्रिययान्वितः । असत्कारेण गृह्येत विशुद्धाकारवेदिभिः ।। 4.9 ।।

टीका

दुष्टैः प्रतिकूलैः प्रौढवदम् आरोपितः समर्थस्त्वमसीति वाक्येन सामर्थ्यं भ्रमं गमित इत्यर्थः । अनर्थ क्रिययान्वितः निष्फल व्यापारेण सहितः कश्चित् जडः । विशुद्धाकारवेदिभिः अनारोपित स्वभाव वेदिभिः । सत्त्वपुरुषैरसत्कारेण सत्कारो बहुमतिः तद्विरोधी असत्कारः अवमतिरित्यर्थः । गृह्येत अवमत्याज्ञायेतेत्यर्थः । अर्थान्तरम् । दुष्टैर्दोषवद्भिः आरोपित शुक्त्यादौ भ्रमविषयीकृतः । अनर्थक्रिययान्वितः अर्थः रजतादि साध्यं प्रयोजनं तत्सम्पादन समर्था क्रिया अर्थक्रिया पितृप्रीति सम्पादक निमन्त्रित ब्राह्मण परिवेषणादिकम् अतादृशी क्रिया अनर्थक्रिया तदन्वितः । कश्चिद्रजतादि विशुद्धकारवेदिभिः आकारोधर्मः तस्य विशुद्धिः अनारोपितत्वम् अनारोपित शुक्तित्वादि धर्मवेदिभिः पुरुषैः । असत्कारेण असतः क्रिया असत्कारः । शुक्त्यादावसतो रजतस्य —–या रजतार्थिनः शुक्त्यादेर्निवृत्तिरेव तत्प्रयोजको गृह्येत । भ्रान्तारोपित साम्य भ्रमेण जडः कर्मसु न नियोज्यः । किन्तु वास्तविक स्वभावं सम्यक् परीक्ष्य तदनुरोधादुपेक्ष्य इति भावः । 4.9 ।

मूलम्

तमस्वभावमलिनं वृत्त्या लोकोज्झिताश्रयम् । दण्ड्यं मित्रेण राज्ञा च दृष्टदोषान्वयं विदुः ।। 4.10 ।।

टीका

तमोगुण सम्बन्धिना स्वभावेन दुर्वासनया मलिनं भ्रान्तम् इत्यर्थः । वृत्त्या शरीरयात्रया निमित्तभूतया लोकोज्झितानां सर्वलोक परित्यक्तानां चौर्यानृतवदनादीनाम् आश्रयभूतः । दृष्टदोषान्वयं दृढतर प्रमाणसिद्ध दोषसम्बन्धं पुरुषं मित्रेण सुहृदा राज्ञा नृपेण च दण़्ड्यं विदुः दोष श्रवणमात्रेण न दण्डयेत् । किन्तु दोषं सम्यक् विचार्य पश्चात् दण्डयेदिति भावः । अर्थान्तरम् । स्वभाव मलिनं स्वभावत एव मलिनं अप्रकाशं वृत्त्या स्थित्या आधेयतया आलोकोज्झित प्रकाशः परित्यक्तः आश्रयो यस्य तत् मित्रेण सूर्येण राज्ञा चन्द्रेण च दण्ड्यन्नाश्यं दृष्टदोषान्वयं चाक्षुषज्ञान विषयीभूत रात्रिसम्बन्धः रात्रौ दृष्टमित्यर्थः । एवं भूतं यद्वस्तुतः तमो विदुः । 4.10 ।

मूलम्

जातिमात्रशरणा बहिष्कृताः केचिदादृतजघन्यवृत्तयः । रोषणा विपरिधाविनो मुधा ह्रेपयन्ति जनमुज्झितह्रियः ।। 4.11 ।।

टीका

जातिमात्रशरणाः ब्राह्मणत्वादि जातिमात्रम् अर्थप्राप्तौ शरणम् उपायो येषां ते जातिमात्रशरणाः । आदृत जघन्य वृत्तयः निन्दित व्यापारेषु प्रीतिं कुर्वन्तः । अत एव सद्भिः बहिष्कृताः । रोषणाः कोपनाः । मुधा निष्फलमेव । विपरिधाविनः विविधं परितो धावन्तः । उज्झितह्रियः त्यक्त लज्जाः । केचित् जनं ह्रेपयन्ति जघन्यवृत्तय इत्यनेन जघनभव व्यापारेषु आदरं कुर्वन्त इत्युच्यते । परस्यापि लज्जावहो यो व्यापारः तेनापि स्वयम् अलज्जमानाः अति दूरतः परिहार्या इति भावः । 4.11 ।

मूलम्

आसोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेह विशेषतो वितनुते वंशो भुजङ्गभ्रमम् । दक्षाभोगिषु केषुचिद्विषमिता दृष्टिन्निहन्तुं क्षणात् तानप्याशु विनाशयेत् क्षणरुचिः काचित् क्षणस्भूर्जिता ।। 4.12 ।।

टीका

यद्वशेन यस्य दृष्टेर्वशेन आयत्ततया भूतानि प्राणिनः सुगतिं शोभनां गतिम् आलोकावधि सर्वलोक क्षयरूप महाप्रलय पर्यन्तं विन्दन्ति महापुरुष कटाक्षेण ब्रह्म प्रलय पर्यन्तं शोभना ऊर्ध्वगतिः तैस्तैः अवाप्ता प्राप्स्यते चेति पुराणेषु प्रसिद्धोऽयम् अर्थः । यथा सप्तर्षिणा कटाक्षेण ध्रुवेण गतिर्लब्धा यद्वा भूतशब्देन रुद्रानुचरपरः । रुद्रानुचरैर्यथा रुद्र कटाक्षात् रुद्रानुचरत्व रूपा सुगतिर्लब्धा असौ दृष्टि स्नेह विशेषतो वंशे अभुजङ्गभ्रमं वितनुते । अवितनुत इति पदच्छेदः अभिरक्षिते पूजते चेति वंश विशेषणम् एवं भूते वंशे भुजङ्गभ्रमाभावं दुर्वृत्त सञ्चाराभावं करोतीत्यर्थः । महापुरुष कटाक्ष विषये वंशे उत्पद्यन्ते न बाधन्ते चेत्यर्थः । केषुचित् भोगिषु भोगसुखानुभव तद्वत्सु महादृष्टिर्विषमिता प्रतिकूला चेत् तेषाम् अदृष्टिः सौम्य दृष्टिन्निहन्तुं दक्षा दृष्टि स्यादसौम्ये -ष्णीत्य — प्रतिकूलां हतवती सादृष्टिः क्षण रुचिश्चेत् हिंसाभिलाषिणी चेत् क्षणस्फूर्जिता सति क्षणमात्रं स्फूर्जितं वज्र निर्घोष सदृशो यस्या निर्घोषस्तादृशी सतीतान् भोगिनोऽपि विनाशयेत् प्रतिकूलदृष्टिमात्रं रुद्र दृष्ट्या मदनविनाशः कपिल दृष्ट्या सागरपुत्र विनाश इत्यादिकम् उदाहरणम् । एवं मदन सागरात्मजवत् अन्योऽपि दुर्वृत्तः क्रुद्ध महापुरुष दृष्ट्या विनश्येत् अतो दुर्वृत्तता दूर परिहर्येति भावः । अस्फूर्जा वज्र निर्घोष इति धातुः । क्षणस्त्ववसरे मध्यकाल भेदाल्पकालयोः । हिंसा व्यापार वैकल्य परतन्त्र्यत्वपर्वसु । उत्सवे क्रोश आनन्दे गव्यूतिर्द्वय गर्हयोरिति भट्टबाणः । दृष्टं निहन्तुं क्षणादिति पाठे दृष्टं पुरुषार्थं स्त्रक् चन्दन वनितादिकमित्यर्थः । अर्थान्तरम् । यद्वशेन भूतानि आलोकावधि सुगतिं विन्दन्ति नेत्राधीनतया जन्तवः प्रकाशपर्यन्तः समीचीनं गमनं विन्दन्ति । आलोकः प्रकाशस्तस्य अवधिरेवावधिः यस्मिन् कर्मणि तद्यथा भवति तथा गमनस्य समीचीनत्वम् अस्खलितत्वम् आर्जवञ्च असौ दृष्टिः स्नेह विशेषतः मण़्डूकवसा रूप स्निग्ध द्रव्य विशेषात् वंशे वेणौ भुजङ्गभ्रमं सर्पारोपं वितनुते । मण्डूकवसाक्त नयनस्य वंशोङ्ग भ्रमो भवतीति प्रसिद्धिः । सा दृष्टिः केषुचिद्भोगिषु सर्पेषु विषमिता प्राप्ता क्षणादेव दृष्टिं ज्ञानं निहन्तुं लोपयितुं दृष्टमिति पाठे दृष्टं पुरुषादिकं निहन्तुं दक्षा समर्था तान् सर्वानपि आशुक्षण स्फूर्जिता क्षणरुचिः विद्युद्विनाशयेत् । काचिदित्यनेन तीव्रतर प्रकाशैव सर्व हनन समर्थान सर्वापीति गम्यते । दृष्टि विषसर्पवत् अतिशयित शक्तिरपि दुर्वृत्तः केनचित् परिहार्येत्युभावप्यर्थौ प्रकृतोपयुक्तौ । 4.12 ।